________________
उत्तराध्य
यनसूत्रम् ॥ १२ ॥
भोगाः स्त्रियोऽक्षिषु ॥ गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥१॥" इत्यादिकं । स्वप्नं च स्वप्नस्य शुभाशुभसूचकं शास्त्रं, "अलङ्कृतानां द्रव्याणां वाजिवारणयोस्तथा ॥ वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः ॥ १ ॥" तथा " मुत्रं वा कुरुते स्वप्ने, पुरीषञ्चापि लोहितम् ॥ प्रतिबुद्ध्येत यः सोऽर्थ नाशं प्राप्नोति निश्चितम् ॥ १॥" इत्यादिकं । अङ्गविद्यां च शिरः प्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां, "सिरफुरणे किर रज्जं, पिअमेलो होइ बाहुफुरणम्मि ॥ अच्छिफुरणंमि अ पिअं, अहरे पिअसंगमो होइ ॥ १ ॥ " इत्यादिकां । प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा । चकारः सर्वत्र वाशब्दार्थ:, ये प्रयुञ्जते व्यापारयन्ति, पुनर्ये इति ग्रहणं लक्षणादिभिः पृथक् सम्बन्धसूचनार्थं, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं विना तद्व्यापारणे एवमुच्यते, अन्यथा करवीरलताभ्रमकतपस्विनोऽपि तथात्वापत्तेः, एवं आचार्यैराख्यातं कथितमिति सूत्रार्थः ॥१३॥ तेषां फलमाह-
मूलम् - इह जीविअं अनिअमेत्ता, पब्भट्ठा समाहिजोएहिं ।
ते कामभोगरसगिद्धा, उववज्जंति आसुरे काए ॥ १४॥
व्याख्या - इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियंत्र्य प्रभ्रष्टाः प्रच्युताः समाधिश्चिस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्ताः कामभोगेषु पूर्वोक्तेषु रसेषु मधुरादिषु च गृद्धा लोलुपाः कामभोगरसगृद्धाः भोगान्तर्गतत्वेऽपि रसानां पृथग्ग्रहणमतिगृद्धहेतुत्वख्यापकं, उपपद्यन्ते जायन्ते आसुरे असुरसम्ब
UTR-2
अध्य. ८
॥१२॥