SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अध्य. १० उत्तराध्ययनसूत्रम् ॥१३॥ | न प्रमादं विधास्यन्ति, ततः सम्प्रति अधुना सत्यपि मयीति भावः। नैयायिके निश्चितमुक्त्याख्यलाभप्रयोजने पथि मार्गे केवलानुत्पत्तिसंशयेन समयमपि गौतम ! मा प्रमादीरित्थञ्च व्याख्या सूत्रस्य सूचकत्वादिति सूत्रार्थः ।। ३१ ॥ तथा मूलम्-अवसोहिआ कंटगापहं, उइण्णोसि पहं महालयं । गच्छसि मग्गं विसोहिआ, समयं गोयम मा पमायए ॥३२॥ व्याख्या-अवशोध्य परिहत्य कण्टगापहं ति' आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बुब्बूलकण्टकाद्याः, भावतश्चरकादिद| र्शनानि, इह च भावकण्टकैरेवाधिकारः, तैराकुलः पन्था कण्टकपथस्तं, ततश्च अवतीर्णोऽसि अनुप्रविष्टोऽसि पन्थानं सम्यग्दर्शनादिकं भावमार्ग 'महालयं ति' महान्तं, कश्चिदवतीर्णोऽपि मार्ग न गच्छेदत आह-'गच्छसि' यासि मार्ग, न पुनः स्थित एवासि, सम्यग्द र्शनादेरुत्सर्पणेन मार्गगमनप्रवृत्तत्वाद्भवत: । किं कृत्वा ? विशोध्य निश्चित्य मार्गमेवेति प्रक्रमः, तदेवं प्रवृत्तः सन् समयमपि | गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३२ ॥ उक्ता मार्गप्रतिपत्तिस्तत्प्रत्तिपत्तौ च कस्याप्यनुतापोऽपि स्यादिति तं निराकर्तुमाह मूलम्-अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिआ। पच्छा पच्छाणुतावए,समयं गोयम मा पमायए॥३३॥ व्याख्या-'अबलो' देहसामर्थ्यहीनो यथेत्यौपम्ये भारवाहकः, 'मा' निषेधे 'मग्गे त्ति' मार्गे 'विसमे त्ति' विषमं, अवगाह्य प्रविश्य, त्यक्ताङ्गीकृतभारः सन्निति गम्यं, पश्चात् तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकरोऽभूदिति शेषः। अयं भावः-यथा | कश्चिदुःस्थो देशान्तरं गतो बहुभिरुपायैः स्वर्णादिकमुपायं स्वगृहमागच्छन्नतिभीरुतया वस्त्वन्तरान्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य UTR-2 ॥१३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy