________________
अध्य. १०
उत्तराध्ययनसूत्रम् ।। ९२ ॥
व्याख्या--त्यक्त्वा परिहत्य धनं चतुष्पदादि, चशब्दो भिन्नक्रमस्ततो भार्यां च त्यक्त्वा, प्रवजितः प्रतिपन्नो हि IX| यस्मात् 'सि त्ति' सूत्रत्वादकार लोपे असि वर्त्तसे 'अनगारिता' मुनित्वं, अतो मा वान्तं उद्गीर्णं पुनरपि भूयोऽपि 'आविए त्ति' आपिबेः । किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ।। २९ ।। कथं वान्तापानं न स्यादित्याह--
मूलम्-- अवउज्झिअमित्तबंधवं, विउलं चेव धणोहसंचयं ।
मा तं बिइअंगवेसए, समयं गोयम मा पमायए ॥३०॥ व्याख्या--अपोह्य मुक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवं, विपुलं विस्तीर्णं, चः समुच्चये, एवः पूर्ती, धनस्य कनकादिद्रव्यस्य ओघः समूहः, तस्य सञ्चयः कोशो धनौघसञ्चयस्तं,मा तत् मित्रादिकं द्वितीयं पुनः स्वीकारार्थमिति शेष: गवेषय अन्वेषय । श्रामण्याश्रयणे हि तत्त्यक्तमिति वान्तोपमं, भूयोऽपि तद्गवेषणे च वान्तापानमेव स्यादित्यभिप्रायः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३० ॥ इत्थं ममत्वोच्छेदार्थमुक्त्वा दर्शनशुद्ध्यर्थमाह--
मूलम्--नहु जिणे अज्ज दीसई, बहुमए दीसई मग्गदेसिए।
संपइ नेआउए पहे, समयं गोयम मा पमायए ॥३१॥ व्याख्या-नहु नैव 'जिनोऽर्हन्' अद्यास्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि 'बहुमएत्ति' बहुमतः पन्थाः' स च द्रव्यतो नगरादिमार्गो भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृह्यते, ततश्च मुक्तिमार्गो दृश्यते । कीदृशः? इत्याह-'मग्गदेसिए त्ति' मार्यमाणत्वान्मार्गो मोक्षस्तस्य 'देसिए त्ति' सूत्रत्वाद्देशकः-प्रापको मार्गदेशकः। अयं भाव:- यद्यप्यधुनाहन्नास्ति परं तदुपदिष्टो मार्गस्तु दृश्यते । न चेदृशोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसो भाविनोऽपि भव्या
UTR-2
॥१२॥