________________
उत्तराध्य
अध्य. १०
यनसूत्रम्
॥१४॥
कतिचिद्दिनानि समुत्पाट्य क्वचिदुपलादिसड्कुले पथि अहो अहमनेन भारेणाक्रान्त इति तमुत्सृज्य गृहमागतोऽत्यन्तनिर्धनतयानुतप्यते, किं मया निर्भाग्येन त्यक्तमिति । एवं त्वमपि प्रमादेन त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३३ ॥ अथाल्पं तीणं बहु च तरणीयमित्यभिप्रायेणोत्साहभङ्गो मा भूदित्याह
मूलम्-तिण्णो हु सि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ।
अभितुर पारंगमित्तए, समयं गोयम मा पमायए ॥३४॥ व्याख्या- 'तिण्णो हु सि त्ति' तीर्ण एवासि, अर्णवमिवार्णवं संसार, महान्तं गुरुं, किमिति प्रश्ने, पुनरिति वाक्योपन्यासे, | ततः किं पुनस्तिष्ठसि ? तीरमागतः प्राप्तः । भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोऽपि त्वया तीर्णप्राय एवेति कथं तीरं | प्राप्तोऽपि औदासीन्यं भजसे ? नैवेदं तवोचितमिति भावः । किन्तु अभितुरत्ति' आभिमुख्येन त्वरस्व शीघ्रो भव, पारं परतीरं, भावतो मुक्तिपदं 'गमित्तए त्ति' गन्तुं । ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः ॥३४॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः
मूलम्-अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि ।
खेमं च सिवं अणुत्तरं, समयं गोयम मा पमायए ॥३५॥ व्याख्या -न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणि उत्तरोत्तरशुभाध्यवसायरूपां क्षपकश्रेणिं 'ऊसिअत्ति' उच्छ्रित्य उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम! त्वं 'सिद्धि' सिद्धिसंज्ञं लोकं 'गच्छसि त्ति' विभक्तिव्यत्ययाद्गमिष्यसि, कीदृशं ? सिद्धिलोकमित्याह- क्षेमं परचक्रादिभयहीनं, चः समुच्चये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्ट, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३५ ॥ अथ निगमयन्नुपदेशसर्वस्वमाह
UTR-2
॥१४॥