SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अध्य.८ उत्तराध्ययनसूत्रम् ॥१०॥ तयेदित्याह, 'सेत्ति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, वायी अवश्यं प्राणित्राता, समितत्वेऽपि को गुणः ? इत्याह, ततः समितात् ‘से इति' अथ पापकं अशुभं कर्म निर्याति निर्गच्छति, उदकमिव स्थलादत्युन्नतदृढभूप्रदेशादिति सूत्रार्थः ॥१॥ यदुक्तं प्राणान्नातिपातयेदिति तदेव स्पष्टयति -- मूलम्- जगनिस्सिएहिं भूएहि, तसनामेहिं थावरेहिं च । नो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ॥१०॥ व्याख्या- जगन्निश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, त्रसनामसु त्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु पृथिव्यादिषु, चः समुच्चये, नो नैव तेषु आरभेत कुर्याद्दण्डं वधात्मकं 'मणसा वयसा कायसा चेवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चेवत्ति' समुच्चये, इदमिह तात्पर्य -"सव्वेवि दुक्खभिरू, सव्वेवि सुहाभिलासिणो सत्ता । सव्वेवि जीवणपिआ, सव्वे मरणाओ बीहंति ॥१॥" इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः ॥१०॥ उक्ता मूलगुणा, अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाह - ___मूलम्- सुद्धेसणाओ नच्चा णं , तत्थ ठविज्ज भिक्खू अप्पाणं। जायाए घासमेसिज्जा, रसगिद्धे न सिआ भिक्खाए ॥११॥ व्याख्या-शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं, किमुक्तं भवति ? अनेषणीयत्यागेन शुद्धमेव गृहीयात्तदपि किमर्थम् ? इत्याह - "जायाएत्ति"यात्रायै संयमनिर्वाहार्थम् ‘घासंति' ग्रासमेषयेद्गवेषयेत् । UTR-2 ॥१०॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy