________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९६ ॥
मूलम्-छिदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय।
धोरेज्जसीला तवसा उदारा, धीरा हु भिक्खायरिअंचरंति ॥३५॥ व्याख्या- छित्वा जालमबलमिव दुर्बलमिव बलियोऽपीति शेषः, रोहिता रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, यथेति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् प्रहाय त्यक्त्वा धुरि वहन्ति धौरेयास्तेषामिव शीलमुत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, तपसाऽनशनादिनोदाराः प्रधानाः, धीराः सात्त्विकाः 'हु रिति' यस्माद्भिक्षाचर्या व्रतं चरन्त्यतोऽहमपीत्थं व्रतमेव ग्रहीष्यामीति सूत्रद्वयार्थः॥ ३५ ॥ इत्थं प्रतिबोधिता ब्राह्मण्याह -- मूलम् - नभे व कोंचा समइक्कमंता, तताणि जालाणि दलित्त हंसा।
पलिंति पुत्ता य पई अमज्झं, तेऽहं कहं नाणुगमिस्समिक्का ॥३६॥ व्याख्या -- नभसीव क्रोञ्चाः समतिक्रामन्तस्तान् तानुद्देशानुल्लङ्घयन्तः, ततानि दीर्घाणि जालानि बन्धनानि दलित्वा र भित्त्वा 'हंस त्ति' चस्य गम्यत्वात् हंसाश्च 'पलिंति त्ति' परियन्ति समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च मझं ति' मम सम्ब
न्धिनो ये ततजालोपमं विषयाभिष्वङ्गं हित्वा नभ:कल्पे निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति तानहं कथं नानुगमिष्याम्येका सतीति सूत्रार्थः ॥३६॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदभूत्तद्वादशभिः सूत्रैराह ---
UTR-2
॥१९६॥