________________
अध्य. १४
उत्तराध्ययनसूत्रम् । १९५ ॥
भोगान् किन्तु लाभमलाभं, सुखं चस्य भिन्नक्रमाद् दुःखं च 'संविक्खमाणो त्ति' समतया ईक्षमाणः, लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन्निति भावः, चरिष्यामि मौनं मुनिभावं, ततो मुक्त्यर्थमेव मे दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२॥ यशा प्राह
मूलम्- मा हु तुमं सोअरिआण संभरे, जुण्णो व्व हंसो पडिसोअगामी।
भुंजाहि भोगाई मए समाणं, दुक्खं ख भिक्खायरिआ विहारो ॥३३॥ व्याख्या-मा निषेधे, हुर्वाक्यालङ्कारे, त्वं सौदर्याणां भ्रातृणामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च 'संभरे त्ति' स्मार्षीः 'जुण्णोव्व हंसो त्ति' जीर्णो हंस इव प्रतिश्रोतोगामी सन्, अयं भाव:- यथासौ नदीस्रोतसि प्रतिकूलगमनमतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा त्वमपि व्रतभारं वोढुमक्षमः स्वजनान् भोगांश्च स्मरिष्यसि, ततो भुंक्ष्व भोगान् मया समानं | सार्द्ध । 'दुक्खं खुत्ति' दुःखमेव भिक्षाचर्या भिक्षाटनं, विहारो ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतच्छिरोलोचादीनामिति सूत्रार्थः ॥३३॥ भृगुः प्राह-- मूलम् - जहा य भोइ ! तणुअंभुअंगमो, निम्मोअणि हेच्च पलेड मत्तो।
एमए जाया पयहंति भोए, तेऽहं कहं नाणुगमिस्समिक्को ॥३४॥ व्याख्या - यथा चः पूर्ती 'भोइत्ति' हे भवति ! तनुजां देहोद्भवां भुजङ्गमो निर्मोचनी कञ्चलिकां हित्वा पर्येति समन्ताद्गच्छति मुक्तो निरपेक्षः, 'एमएत्ति' एवमेतौ जातौ प्रजहीतस्त्यजतो भोगान् तौ जातौ अहं कथं नाऽनुगमिष्यामि ? प्रव्रज्याग्रहणेनानुसरिष्यामि ? एकोऽद्वितीयः, किं ? ममासहायस्य गृहवासेनेति भावः ॥३४॥ तथा -
UTR-2
॥१९५॥