________________
उत्तराध्ययनसूत्रम् ॥२३६॥
अष्टादशम
ध्ययनम् गा.८-१०
व्याख्या - अथ राजा तत्र मुनिदर्शने जाते सति सम्भ्रान्तो भीतो यथाऽनगारो मनाक् स्तोकेनैवाऽहतो न मारितः तदासन्नमृगहननादिति भावः, मया 'तुः' पूर्ती, मन्दपुण्येन रसगृद्धेन 'घण्णुणत्ति' घातुकेन हननशीलेन ॥ ७ ॥ मूलम् - आसं विसज्जइत्ता णं, अणगारस्स सो निवो । विणएणं वंदए पाए, भगवं एत्थ मे खमे ॥८॥
व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः विनयेन वन्दते पादौ, वक्ति च यथा भगवन् ! अत्र मृगवधे मे ममापराधमिति शेषः, क्षमस्व ॥ ८ ॥ मूलम्-अह मोणेण सो भयवं, अणगारो झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयद्दुओ ॥९॥
व्याख्या - अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं न प्रतिमंत्रयति न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, ततो हेतो राजा भयद्तो भयत्रस्तोऽभूत्, यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ॥९॥ | प्रोचे च यथा - मूलम्-संजओ अहमस्सीति, भयवं वाहराहि मे । कुद्धो तेएण अणगारे, दहिज्ज नरकोडिओ ॥१०॥
व्याख्या - संजयनामा राजाहमस्मि न तु नीच इति भावः, इत्येतस्माद्धेतोहे भगवन् ! व्याहर सम्भाषय 'मे' इति मां, किमेवं भवान् भयद्रुत इत्याह - क्रुद्धस्तेजसाऽनगारो दहेनरकोटीरास्तां शतं सहसं चेत्यतो भयगृतोऽहमिति सूत्रचतुष्कार्थः ॥ १० ॥ इत्थं तेनोक्ते मुनिराह -
UTR-2
॥२३६॥