SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ अध्य. १० उत्तराध्ययनसूत्रम् ॥८९॥ मूलम्-- अहीणपंचंदिअत्तंपि से लहे, उत्तमधम्मसुई हु दुलहा । कुतित्थिनिसेवए जणे, समयं गोयम मा पमायए ॥१८॥ व्याख्या--कथमप्यहीनपञ्चेन्द्रियत्वमपि स जन्तुर्लभेत, तथाप्युत्तमधर्मश्रुतिस्तत्त्वश्रवणात्मिका, हुरवधारणे भिन्नक्रमश्च, ततो दुर्लभैव । किमिति ? यतः कुतीर्थिनिषेवकः शाक्यादिपाखण्डिपर्युपासको जनो लोकः, कुतीथिनो हि लाभाद्यर्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च-"सत्कारयशोलाभा-थिभिश्च मूडैरिहान्यतीर्थकरैः ॥ अवसादितं जगदिदं, प्रियाण्यपथ्यान्युपदिशद्भिः ॥१॥" इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः ? ततः समयमित्यादि प्राग्वत् ॥ १८ ॥ | मूलम्-- लद्धणवि उत्तमं सुईं, सद्दहणा पुणरवि दुल्लहा। मिच्छत्तनिसेवए जणे, समयं गोअम मा पमायए ॥१९॥ व्याख्या-- लब्ध्वापि उत्तमां श्रुतिं जिनप्रणीतधर्मश्रवणरूपां, श्रद्धानं' तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाह- मिथ्यात्वमतत्त्वे तत्त्वमिति प्रत्ययः तन्निषेवते यः स मिथ्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाच्च प्रायस्तत्रैव प्रवृ|त्तेरतः समयमित्यादि प्राग्वत् ॥१९॥ मूलम्-- धम्मपि हु सद्दहंतया, दुल्लहया काएण फासया । इह कामगुणेसु मुच्छिआ, समयं गोअम मा पमायए ॥२०॥ व्याख्या--धर्मं प्रस्तावात्सर्वज्ञोक्तं, 'अपिर्भिन्नक्रमः, 'हुर्वाक्यालङ्कारे, ततः "सद्दहतयत्ति" श्रद्दधतोऽपि कर्तुमभिलषतोऽपि * दुर्लभकाः कायेन अङ्गेन स्पर्शकाः कर्तारः, हेतुमाह-इह जगति कामगुणेषु शब्दादिषु मूर्च्छिता गृद्धा जन्तव इति शेषः, प्रायेण UTR-2 ॥८९॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy