________________
उत्तराध्ययनसूत्रम् ॥ ८८ ॥
मूलम् -- एवं भवसंसारे, संसरइ सुभासुभेहिं कम्मेहिं । जीवो पमायबहुलो, समयं गोयम मा पमायए १५ व्याख्या-- 'एवमुक्तन्यायेन भवास्तिर्यगादिजन्मान्येव संसारो भवसंसारस्तस्मिन्, 'संसरति' पर्यटति, शुभाशुभैः कर्मभिः पृथ्वीकायादिभवहेतुभिः, जीवः प्रमादबहुलोऽतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ॥ १५ ॥ इत्थं नृत्वदौर्लभ्यमुक्तमथ तदवाप्तावपि उत्तरोत्तरगुणा दुर्लभा एवेति सूत्रपञ्चकेनाह-
मू०-लद्धूणवि माणुसत्तणं, आरिअत्तं पुणरवि दुल्लहं । बहवे दसुआ मिलक्खुआ, समयं गोयम मा पमायए १६
व्याख्या -- लब्ध्वापि कथञ्चिन्मानुषत्वं, आर्यत्वं मगधाद्यार्यदेशोत्पत्तिरूपं 'पुनरपि' भूयोऽपि दुर्लभं । कुत एवमित्याह यतो बहवो 'दस्यवः' देशप्रत्यन्तवासिनश्चौराः 'मिलक्खुअत्ति' म्लेच्छा अव्यक्तवाचो यदुक्तं आर्यैर्नावधार्यते, ते च शकयवनादिदेशोद्भवाः । येषु धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिज्ञानविकलेषु पशुप्रायेष्ववाप्यापि मानुष्यं जन्तुर्न कञ्चिदप्यर्थं साधयतीति । अतः समयमपीत्यादि प्राग्वत् ॥ १६ ॥
मूलम्-लद्धूणवि आरिअत्तणं, अहीणपंचिदिअया हु दुल्लहा । विगलिंदिअया हु दीसइ, समयं गोयम मा पमाय ॥१७॥
व्याख्या -- इत्थमतिदुर्लभमप्यार्यत्वं लब्ध्वा अहीनपञ्चेन्द्रियता हुः अवधारणे भिन्नक्रमश्च ततो दुर्लभैव, कुतः ? इत्याह-विकलानि रोगादिभिरुपहतानीन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, हुरितिनिपातो निपातानामनेकार्थत्वाद्बाहुल्यवाचकस्ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते इति अहीनपञ्चेन्द्रियता दुर्लभैवेति । समयमित्यादि प्राग्वत् ॥ १७ ॥
"
UTR-2
अध्य. १०
॥८८॥