________________
अध्य. १७
उत्तराध्ययनसूत्रम् ॥ २३०॥
द्यमानेन्द्रियमनोनिग्रहः, असंविभागी कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, 'अचिअत्तेत्ति' गुर्वादिष्वपि अप्रीतिमान् ॥ ११ ॥ मूलम् - विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणेत्ति वुच्चइ ॥ १२ ॥
व्याख्या - विवादं वाक्कलह, चः पूरणे, उदीरयति उपशान्तमपि मर्मभाषणादिना वर्द्धयति, अधर्मो निर्धर्मः, आप्तां सद्बोधरूपतया इहपरलोकयोहितां प्रज्ञामात्मनोऽन्येषाञ्च सुबुद्धिं कुतर्कव्याकुलीकरणेन हन्ति यः स आप्तप्रज्ञाहा, व्युद्ग्रहे दण्डादिघातजनिते विरोधे, कलहे वाचिके विरोधे, रक्तः सक्तः ॥ १२ ॥ मूलम् - अथिरासणे कुक्कुइए, जत्थतत्थ निसीअइ । आसणंमि अणाउत्ते, पावसमणेत्ति वुच्चइ ॥ १३ ॥
व्याख्या - अस्थिरासनः, कुक्कुचो हास्यविकथादिचापल्यवान्, यत्र तत्र संसक्तसरजस्कादावपीत्यर्थः, निषीदति पीठादौ, अत एवाऽऽसनेऽनायुक्तोऽनुपयुक्तः ॥ १३ ॥ मूलम् - ससरक्खपाओ सुअइ, सिज्जं न पडिलेहइ । संथारए अणाउत्ते, पावसमणेत्ति वुच्चइ ॥ १४ ॥
__ व्याख्या - सरजस्कपादः स्वपिति, कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, शय्यां वसतिं न प्रतिलेखयति न प्रमार्जयति, संस्तारके कम्बलादौ सुप्त इति शेषः, अनायुक्तः 'कुकुडिपायपसारण' इत्याद्यागमार्थानुपयुक्तः ॥१४॥ अथ तपोविषयं पापश्रमणमाह -
UTR-2
॥२३०॥