________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०७॥
पस्वी, न च कुतूहलं अभुक्तभोगत्वे स्त्र्यादिविषयं, उपलक्षणत्वाद्भुक्तभोगत्वे स्मृति चोपैति स भिक्षुरिति सूत्रार्थः ॥ ६॥अथ पिण्डविशुद्धिद्वारेण भिक्षुत्वमाह -- मूलम् - छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खणदंडवत्थुविज्जं ।
अंगविआरं सरस्स विजयं, जो विज्जाहिं न जीवई स भिक्खू॥ ७॥ व्याख्या - छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता, एवं सर्वत्र । “देवेसु उत्तमो लाहो, माणुसेसु अ मज्झिमो ॥ आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे ॥१॥" इत्यादि छिन्नं । 'सरं ति' स्वरस्वरूपाभिधानं "सज्जं रखइ मयूरो" इत्यादिकं । "सज्जेण लहइ वित्ति, कयं च न विणस्सइ ।। गावो पुत्ता य मित्ता य, नारीणं होति वल्लहो ॥१॥" इत्यादिकं च । तथा भूमौ भवं भौमं भूकम्पादिलक्षणं, "शब्देन महता भूमि -र्यदा रसति कम्पते ॥ सेनापतिरमात्यश्च , राजा राष्ट्रं च पीड्यते ॥ १॥" इत्यादि । अन्तरिक्षमाकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा -"कपिलं सस्य घाताय, माञ्जिष्ठं हरणं गवाम् ॥अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ॥१॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् ॥ सौम्यादिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥२॥" इत्यादि । स्वप्नं स्वप्नगतशुभाशुभकथनं, यथा "गायने रोदनं विद्या-नर्त्तने वधबन्धनम् ॥ हसने शोचनं
UTR-2
॥२०७॥