SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३१५॥ अष्टादशमध्ययनम् (१८) महापाचक्रिकथा ३७-४९ निशि ॥ भ्रमन् स्वैरमरण्यान्त-स्तापसाश्रममासदत् ॥३७॥ वल्लभाभ्यागतैस्तत्र, तापसैः कृतसत्कृतिः ॥ सुखं प्रववृते स्थातुं, महापद्मः स्वसद्मवत् ॥३८॥ इतश्चाजनि चम्पायां, भूजानिर्जनमेजयः ॥ स च कालेन राज्ञाऽऽजौ, पराभूतः पलायत ! ॥३९॥ ततः पुरे भज्यमाने, नेशुर्लोका दिशोदिशम् ॥ अन्तःपुरमहेलाश्चा-ऽन्तरा त्रातारमातुराः ! ॥४०॥ तदा चम्पापतेः पत्नी नष्टा नागवती द्रुतम् ॥ स्वपुत्र्या मदनावल्या, सममागात्तमाश्रमम् ॥४१॥ तदा च पद्ममदना-वल्योरन्योन्यदर्शनात् ॥ क्षणादाविरभूद्रागो, मन्दाक्षं मन्दतां नयन् ! ॥४२॥ तद्विज्ञाय जगौ नाग-वतीति मदनावलीम् ॥ पुरुषे यत्रतत्राऽपि, सुते ! किमनुरज्यसे ? ॥४३॥ भाविनी चक्रिणो मुख्य-पत्नीत्वमिति भाषितम् ॥ ज्ञानिनो विस्मृतं किं ते ? यद्भवस्येवमुत्सुका ! ॥४४॥ मिथोरक्ताविमौ कार्की, विप्लवं मेति चिन्तयन् ॥ स्थानं यथेष्टं याहीति, पद्मं कुलपति गौ ॥४५॥ तदाकर्ण्य ततः पद्मो, निर्ययौ विमना मनाक् ॥ अभीष्टानां वियोगो हि, महतामपि दुःसहः ! ॥४६॥ नूनमेषा ममैव स्त्री, भाविनी भाविचक्रिणः ॥ तत्साधयित्वा भरतं, परिणेष्याम्यमूं कदा ? ॥४७॥ विधाप्याहतचैत्यैश्च, मण्डितामखिलामिलाम् ॥ पूरयष्येि कदा मातू, रथयात्रामनोरथम् ? ॥४८॥ इत्थं मनोरथरथा-ऽधिरूढो भूपभूस्ततः ॥ श्रीसिन्धुनन्दनपुरो-पवनं प्राप पर्यटन् ॥४९॥ [ त्रिभिर्विशेषकम् ] UTR-2 ॥३१५॥ १ लज्जाम् । २ उपद्रवम् ।।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy