________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १६० ॥
॥३२४॥ ओमित्युक्त्वा गतयो- स्तयोस्तिरोऽभूदगृहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं, ततो ययावाश्रमे नृपभूः ॥३२५॥ तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥३२६।। तेन च किं रत्नवती- कान्तस्त्वमसीति सादरं पृष्टः ? ॥ ओमित्यवदन्नृपभू- स्ततः स मुदितः पुनः प्रोचे ॥३२७॥ सा रुदती ह्यो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता ॥ किंचिदवोचत याव-त्तावद् ज्ञाता स्वदौहित्री ॥ ३२८।। गत्वा च पितृव्याया-ऽज्ञपयं तस्यास्ततः स मुदितस्ताम् ॥ स्वगृहेऽनयद्भवन्तं, त्वविन्दतान्वेषयन्नपि नो ॥३२९॥ अद्यापि शुभमभूद्य- मिलितस्त्वमिति ब्रुवन्नृपसुतं सः । निन्ये धनावहगृहे, तं दृष्ट्वा सोऽपि बहु मुमुदे ॥३३०।। सोत्सवमथ रत्नवती, व्यवाहयन्नृपभुवा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वरधनोरुपाक्रस्त नृपतिसुतः ॥३३१॥ लुब्धत्वावेशवशा- द्विजेषु कुर्वत्सु भोजनमतृप्त्या । तत्रागत्यावादी- द्वरधनुरिति विप्रवेषधरः ॥३३२॥ यदि मे दत्तादनमिह, साक्षाद्वरधनोर्भवति नूनम् ॥ तच्चाकर्ण्य कुमार- स्ससम्भ्रममगाबहिर्गेहात् ॥३३३॥ तं च प्रविलोक्य दृढं, परिरभ्यानन्दबाष्पजलपुरैः ॥ स्नपयन्निव गेहान्तर्नीत्वा पप्रच्छ तद्वार्ताम् ॥३३४॥ सोऽवादीत्त्वयि सुप्ते, दुमान्तरस्थेन तस्करेण तदा ॥ इषुणा हतोऽहमपतं, भुव्यन्तरधां च गहनान्तः ॥३३५॥ तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं तरुगणान्तः॥ अन्तर्हितश्चरन्नह- मापं ग्रामं तमतिकृच्छ्रात् ॥३३६॥ ग्रामपतेस्त्वद्वार्ता, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्ट्या, सुस्वजमिवेहितार्थकरम् ॥३३७॥ अथ भूपसुतोऽवादी-द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भ्यां, दस्युभ्यामिव कियत्कालम्! ॥३३८॥ प्रादुर्भवनोपाय, चिन्तयतोरिति तयोरथान्येयुः ॥ रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥३३९॥ द्विरदस्तदा च
UTR-2
॥१६०॥