________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१५९॥
रणशमिनावशोकवृक्षाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां वयममृतकल्पाम् ।। ३१०॥ अथ पप्रच्छाग्निशिखः, को ह्यनयोः कन्ययो: प्रियो भावी? ॥ तौ ज्ञानिनाववदतां, सोदरममुयोर्हनिष्यति यः ॥३११॥ वचनेन तेन तातो, म्लानिमगाद्दुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्या- त्तदैवमवदाव निजतातम् ॥३१२॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैवं-विधेन पर्याप्तमस्माकम् ॥ ३१३ ॥ प्रावर्तावहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् ॥ स त्वन्यदक्षताटन्, पुष्पवतीं पुष्पचूलसुताम् ॥३१४॥ तद्रूपापहृतमना-स्ततः स द्रुतमपाहरज्जडधी:! ॥ तत्तेजोऽसहमानो, विद्या साधयितुमगमच्च ॥ ३१५॥ यदभूत्ततः परं त-यूयं स्वयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशम् ॥३१६॥ शोकं च व्यपनिन्ये -ऽस्माकं धर्मानुगैर्मधुरवाक्यैः । शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ ॥३१७॥ स्मरतं युवां गुरुगिरा- मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते , ज्ञानिवचो ग्रावरेखेव ॥ ३१८॥ तत्स्वीकृतमावाभ्यां , राभस्यवशेन सा तु सितकेतुम् ॥ प्राचीलत्ततस्त्वं, हित्वा वामन्यतो गतवान् ॥ ३१९॥ नागास्त्वं तत्र यदा, त्वामन्वेष्टुं ततो वनानी ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२०॥ तदनु दनुजमनुजामर-जेता नेता क्व नौ समेतासौ ? ॥ इति | पृष्टाया विद्या- देव्या वचनादिहैवावाम् ॥३२१॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ- कृत्य | कृतार्थय जनुरिदं नौ ॥३२२॥ गान्धर्वविवाहेनो- दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां, निमेषमिव तां निशां व्यनयत् ॥३२३॥ स्थातव्यं पुष्पवती - पार्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः स्यादित्युक्त्वा च ते व्यसृजत् * - वचनात् इह ऐव आवामितिच्छेदः ।
UTR-2
॥१५९॥