________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१८५॥
व्याख्या - अशाश्वतमनित्यं दृष्ट्वा इमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानं, बहवः अन्तराया रोगादयो यत्र तद्बह्वन्तरायं, न च नैव दीर्घमायुर्जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात्, यत एवं तस्माद्गृहे न रति लभावहे, अत एवामत्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति सूत्रार्थः ।।७॥ एवं ताभ्यामुक्तेमूलम्- अह तायओ तत्थ मुणीण तेसिं, तवस्स वाघायकर वयासि।
इमं वयं वेदविदो वयंति जहा न होई असुआण लोगो ॥८॥ व्याख्या - अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिभावयोस्तयोः कुमारयोः तपस उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासि त्ति' अवादीद् , तदेव दर्शयति ! इमां वाचं वेदविदो वदन्ति, यथा न भवति असुतानामपुत्राणां लोकः परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च वेदवच:"अनपत्यस्य लोका न सन्तीति" । अन्यैरप्युक्तं - "पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः ॥ अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥१॥" इति ॥ ८ ॥ यत एवं तस्मात् - मूलम् - अहिज्ज वेए परिविस्स विप्पे, पत्ते परिट्रप्प गिहंसि जाया।
भुच्चाण भोए सह इत्थिआहि, आरणगा होह मणी पसत्था ॥९॥ व्याख्या - अधीत्य वेदान्, परिवेष्य भोजयित्वा विप्रान्, पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा 'ण' इति | वाक्यालङ्कारे, भोगान् सह स्त्रीभिः, आरण्यको अरण्यवासितापसव्रतधारिणौ 'होह त्ति' भवतं युवां मुनी प्रशस्ताविति सूत्रद्वयार्थः ॥९॥ इत्थं तेनोक्ते कुमारौ यदकार्टा तदाह--
UTR-2
॥१८५॥