SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ अध्य. १२ उत्तराध्ययनसूत्रम् ॥ १२७॥ व्याख्या - आशीविष आशीविषलब्धिमान् - शापानुग्रहसमर्थः, कुत इत्याह-यतोसौ उग्रतपा महर्षि?व्रतो घोरपराक्रमश्च ततश्च 'अगणिंव त्ति' अग्निं वह्नि वाशब्द इवार्थो भिन्नक्रमश्च, ततः प्रस्कन्दथेव आक्रामथेव, केव ? 'पयंगसेण त्ति' इवशब्दस्य गम्यत्वात् पतङ्गसेनेव शलभश्रेणिरिव, यथा हि सा तमाक्रामन्ती सद्यो नाशमश्नुते तथा यूयमपीति भावः, ये यूयं | भिक्षुकं भक्तकाले भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचार: यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि 'वहेहत्ति' विध्यथ, ताडयथेति सूत्रार्थः ॥ २७ ॥ इत्थं तन्माहात्म्यमावेद्य कृत्योपदेशमाह मूलम्- सीसेणं एअं सरणं उवेह, समागया सव्वजणेण तुब्भे। जइ इच्छह जीविअं वा धणं वा, लोअंपि एसो कुविओ डहेज्जा ॥ २८ ॥ व्याख्या-शीर्षेण मूर्जा एतं मुनि शरणं त्राणमुपेताभ्युपगच्छत, शिरोनमनपूर्वं त्वमेव नः शरणमिति प्रतिपद्यध्वमिति | भावः । समागताः मिलिताः सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो लोकमपि जगदप्येष कुपितो दहेदिति सूत्रार्थः ॥ २८ ॥ अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोत्तदाहमूलम्-अवहेडिअपिट्ठसउत्तमंगे, पसारिआबाहुअकम्मचिढे । निब्भेरितच्छे रुहिरं वमंते, ऊर्द्धमुहे निग्गयजीहनेत्ते ॥२९॥ मूलम् - ते पासिआ खंडिअ कट्ठभूए, विमणो विसण्णो अह माहणो सो । इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते ! ॥ ३० ॥ UTR-2 ॥१२७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy