________________
उत्तराध्य
यनसूत्रम्
।। १२८ ।।
व्याख्या- अवहेठितानि अधोनमितानि 'पिट्ठत्ति' पृष्ठं यावत्सन्ति शोभनानि उत्तमाङ्गानि शिरांसि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः मध्यमपदलोपी समासस्तान्, प्रसारिता बाहवो येषां ते तथा कर्माण्यग्नौ समित्क्षेपादीनि तद्विषया चेष्टा कर्मचेष्टा, न विद्यते कर्मचेष्टा येषां ते तथा ततः कर्मधारये प्रसारितबाह्वकर्मचेष्टास्तान्, 'निब्भेरिय ति' प्रसारितान्यक्षीणि नयनानि येषां ते तथा तान्, रुधिरं वमतः, 'उड्डूंमुहेत्ति' उर्ध्वमुखान् निर्गतजिह्वानेत्रान् ॥ २९ ॥ ते पासिआ इति' तान् दृष्ट्वा 'खंडिअत्ति' खण्डिकान् छात्रान् काष्ठभूतान् अत्यन्तनिश्चेष्टतया काष्ठकल्पान् विमना विचित्तो विषण्णः कथममी सज्जा भविष्य|न्तीति विषादं प्राप्तः, अथेति दर्शनानन्तरं ब्राह्मणः स इति रुद्रदेवाख्यः ऋषिं प्रसादयति सभार्याको भार्यायुक्तः कथमित्याहहीलां चावज्ञां, निंदां च दोषोद्भावनरूपां, क्षमध्वं भदन्तेति सूत्रार्थः ॥ ३० ॥ पुनः प्रसादनामेवाह -
मूलम् - बालेहिं मूढेहिं अयाणएहिं, जं हीलीआ तस्स खमाह भंते ! ।
महप्पसाया इसिणो हवंति, न हु मुणी कोवरा हवंति ॥ ३१ ॥ व्याख्या - बालैः शिशुभिर्मूढै कषायोदयाद्विचित्ततां गतैरत एवाज्ञैर्हिताहितविवेकविकलैर्यत् हीलिताः 'तस्स त्ति' सूत्रत्वात् तत् क्षमध्वं भदन्त ! न ह्यमी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पार्हा एव । यदुक्तं- "आत्मद्रुहममर्यादं मूढमुज्झितसत्पथम् ॥ सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १ ॥ " किञ्च महाप्रसादा ऋषयो भवन्ति, न हु त्ति' न पुनर्मुनयः | कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह -
UTR-2
अध्य. १२
॥१२८॥