________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥१७॥
॥ अथ नवमाध्ययनम् ॥
॥ अर्हम् ॥ उक्तमष्टमाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने निर्लोभत्वमुक्तं, निर्लोभश्चेहापि शक्रादिपूज्य: स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य प्रस्तावनार्थं नमिचरितं तावदिहावश्यं वाच्यम् । यथाचायं प्रत्येकबुद्धस्तथान्येऽपि करकण्ड्वादयस्त्रयः प्रत्येकबुद्धास्तत्समकालस्वर्गच्यवनदीक्षोपादानकेवलज्ञानमहानन्दपदभाजो बभूवु-र्यद्वक्ष्यति, “करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो ॥ नमी राया विदेहेसु, गंधारेसु अ नग्गइ ॥१॥त्ति" ततः प्रसङ्गात्तच्चरितान्यपीहोच्यन्ते । तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः॥ करकण्डुमहीजाने-श्चरितं वच्मि . तद्यथा ॥१॥ अत्रैव भरते चम्पा-नगाँ गुरुविक्रमः ॥ भूपोऽभूद्गुणरत्नाना-मुदधिर्दधिवाहनः ॥ २ ॥ पुत्री चेटकभूभर्तुः, शीलादिगुणसेवधिः।। राज्ञी तस्याभवत्पद्मावती पद्मा हरेरिव ॥३॥ भुञ्जाना भूभुजा साकं, भोगाभोगान् यथासुखम् ॥ बभूव सा क्रमादन्त-वनी पत्नी महीपतेः ॥४॥ कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता ॥ विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ॥ ५ ॥ इत्यभूदोहदस्तस्याः, काले गर्भानुभावतः॥ तस्यापूर्णे च स कायँ, कृष्णपक्षेन्दुवद्दधौ॥६॥ (युग्मम् ) ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम्॥ जगौ तं दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ॥७॥ ततो भूपस्तया साक-मारुह्य जयकुञ्जरम् ॥ स्वयं तदुपरि छत्रं, दधत्पूर्णेन्दुसुन्दरम् ॥ ८ ॥ सानन्दं पौरपौरीभिः प्रेक्ष्यमाणो बलान्वितः ॥ प्रावृटकालप्रवेशेन, रम्यमाराममासदत् ॥९॥ (युग्मम्) तदा च नव्यपाथोद
UTR-2
॥१७॥