SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥१६६ ॥ नवशनिबद्धानीत्यर्थः, त्वया राजन्! विचिन्तितानि, तद्धेतुभूतार्तध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते । तेषां कर्मणां फलं चासौ विपाकश्च शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोगं विरहमुपागतौ प्राप्तौ । अयं भावः - यत्तदा त्वया मन्निषिद्धेनापि निदानं कृतं, तस्य फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥ ८ ॥ एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाहमूलम् - सच्चसोअप्पगडा, कम्मा मए पुरा कडा । ते अज्ज परिभुंजामो, किं नु चित्तोवि से तहा ॥९॥ व्याख्या- सत्यं मृषाभाषात्यागरूपं, शौचं च निर्मायमनुष्ठानं, ताभ्यां प्रकटानि ख्यातानि सत्यशौचप्रकटानि कर्माणि प्रक्रमाच्छुभानुष्ठानानि मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षणञ्चैतत् 'परिभुञ्जामोत्ति' परिभुजे तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के, चित्रोऽपि चित्रनामापि? कोऽर्थो ? भवानपि 'से' इति तानि तथा परिभुंक्ते ? अपि तु न परिभुङ्क्ते, भिक्षुकत्वाद्भवतः । तथा च किं तव तानि मया सहोपार्जितानि शुभकमाििण विफलानि जातानीत्याशय इति सूत्रार्थः ॥९॥ इत्थं चक्रिणोक्ते स्वस्वरूपं मुनिराह-- मूलम् - सव्वं सुचिण्णं सफलं नराणं , कडाण कम्माण न मुक्खु अस्थि । अत्थेहि कामेहि अ उत्तमेहिं, आया ममं पुण्णफलोववेए ॥१०॥ व्याख्या- सर्वं सुचीर्णं शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः कृतेभ्योऽर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्ति, ददति हि तानि निजं फलमवश्यमिति भावः । प्राकृतत्वा UTR-2 ॥१६६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy