________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ २०१॥
एवं ततो भविष्यामो यथेमे पुरोहितादयः, अयं भाव:- यथामीभिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षाम: इति ॥ ४५ ॥ नन्वस्थिरा अपि कामाः, सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याह - मूलम् - सामिसं कुललं दिस्स, बज्झमाणं निरामिसं। आमिसं सव्वमुज्झित्ता, विहरिस्सामो निरामिसा ॥ ४६॥
व्याख्या - सामिषं पिशितरूपामिषयुक्तं कुललं गृधं शकुनिकां वा दृष्ट्वा बाध्यमानं पीड्यमानं विहगान्तरैरिति गम्यते , निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, आमिषं धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा विहरिष्याम्यप्रतिबद्धविहारेण निरामिषा निःसङ्गा ॥ ४६॥ उक्तानुवादेनोपदेष्टुमाह - मूलम् - गिद्धोवमे उ नच्चा णं, कामे संसारवड्डणे । उरगो सुवण्णपासे वा, संकमाणो तणुं चरे ॥ ४७ ॥
व्याख्या - गृध्रोपमान् सामिषगृध्रसमान्, तुः पूर्ती, ज्ञात्वा, णं वाक्यालंकारे, कामयन्ते शब्दादीन् वाञ्छन्तीति कामा विषयाभिलाषिणस्तान् संसारवर्द्धनान्, 'उरगो सुवण्णपासेवत्ति' उरग इव सुपर्णपार्श्वे गरुडाभ्यणे शङ्कमानो भयत्रस्तस्तनु स्तोकं यतनयेत्यर्थः चरेः क्रियासु प्रवर्तेथाः, यथा गरुडोपमैविषयैर्न बाध्यसे तथा यतस्वेति भावः ॥ ४७ ॥ ततश्च - मूलम् - नागोव्व बंधणं छित्ता, अप्पणो वसई वए । एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ॥ ४८ ॥
व्याख्या - नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भाव:- यथा हस्ती बन्धनवरत्रां छित्त्वात्मनो वसति विन्ध्याटवीं व्रजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिमाश्रयं मुक्तिं व्रजेः, अनेन दीक्षायाः
UTR-2
॥२०१॥