SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अध्य. १४ उत्तराध्ययनसूत्रम् ॥ २००॥ समूह, यो हि सविवेको रागादिरहितश्च स्यात् स दावाग्निना दह्यमानानन्यसत्त्वान् दृष्ट्वा स्वरक्षणोपायपर एव स्यान्न | तु मोदते, यस्तु मूर्खा रागादिमांश्च स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः ॥ ४३ ॥ ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह -- मूलम् - भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो । आमोदमाणा गच्छंति, दिया कामकमा इव ॥ ४४ ॥ व्याख्या - भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽप्रतिबद्धविहारिण इत्यर्थः, आमोदमानाः प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इव ? भिन्नक्रमस्य इवशब्दस्येह योगात् द्विजा इव पक्षिण इव कामक्रमाः स्वेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोऽप्यभिष्वङ्गाभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति भावः ॥ ४४ ॥ पुनरर्थादिषु रागं निराकर्तुमाह - मूलम् - इमे अ बद्धा फंदंति, मम हत्थज्जमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥ व्याख्या - इमे प्रत्यक्षाः शब्दादयो विषयाश्चोऽप्यर्थे भिन्नक्रमश्च, ततो बद्धा अपि नियंत्रिता अपि बहूपायै रक्षिता अपीत्यर्थः, स्पन्दन्ते इव स्पन्दन्ते अस्थितिधर्मतया कम्पन्ते, ये कीदृशा इत्याह -मम उपलक्षणत्वात्तव च हस्तं हे | आर्य ! आगताः स्ववशा इत्यर्थः, 'वयं च' वयं पुनः सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः ! यतः UTR-2 ॥२००॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy