SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ अष्टादशम उत्तराध्ययनसूत्रम् ॥२८७॥ ध्ययनम् (१८) शान्तिनाथचरित्रम् १९७-२०९ अस्मिन्नपि त्वया साधो ! वर्त्तितव्यं स्वपुत्रवत् ॥ तमित्युक्त्वाऽचलस्वामि-समीपे सोऽग्रहीव्रतम् ॥१९७॥ प्रणम्याथ बलर्षि श्री-विजयाऽमिततेजसौ ॥ अन्येऽपि च प्रमुदिताः, स्थानं निजं निजं ययुः ॥१९८॥ श्राद्धधर्मं पालयन्तौ, द्यौतयन्तौ च शासनम् ॥ कालं खेचरमा शौ, तौ प्राज्यमतिनिन्यतुः ॥१९९॥ अथाऽन्यदा श्रीविजयो-ऽमिततेजाश्च सङ्गतौ ॥ गतौ मेरुमवन्देता-मनश्वरजिनेश्वरान् ॥२००॥ तत्र चानमंतां स्वर्ण-शिलास्थौ चारणौ मुनी ॥ ध्यानस्थौ विपुलमति-महामत्याह्वयौ मुदा ॥ २०१ ॥ तयोश्च देशनां सर्व-भावानित्यत्वशंसिनीम् ॥ श्रुत्वा तौ कियदायुनौं, शेषमस्तीत्यपृच्छताम् ॥२०२॥ तावाख्यतां शेषमायुः षड्विंशतिरहानि वाम् ॥ ततस्तौ धर्मकृत्योत्कौ, स्वं स्वं धाम समेयतुः ॥१०३॥ अष्टाहिकोत्सवं कृत्वा, तत्र चाहतवेश्मसु ॥ दानं दत्वा च दीनादेः, पुत्रौ विन्यस्य राज्ययोः ॥२०४॥ प्रव्रज्य चाभिनन्दन-जगन्नंदनसन्निधौ ॥ तौ पादपोपगमनानशनं चक्रतुर्मुदा ॥२०५॥ [ युग्मम् ] स्वतो महर्द्धिकं तातं, तदा श्रीविजयोऽस्मरत् ॥ भूयासं पितृतुल्योऽहं, निदानमिति पाकरोत् ॥२०८॥ विपद्यऽमिततेजाः श्री-विजयश्च बभूवतुः ॥ गीर्वाणी प्राणतस्वर्गे, विंशत्यर्णवजीवितौ ॥२०७॥ ___इतश्च जंबुद्वीपप्राग्-विदेहावनिमण्डने ॥ विजये रमणीयावे, शुभाख्याऽभूत् पुरी शुभा ॥२०८॥ तत्राऽऽसीद्गुणरत्नाढ्यो, राजा स्तिमितसागरः ॥ वसुंधरानुद्धरावे, पल्यौ तस्य च बन्धुरे ॥२०९॥ प्रच्युत्य प्राणतस्वर्गा-ज्जीवोऽ UTR-2 ॥२८७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy