SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३१॥ अष्टादशमध्ययनम् (१८) अरनाथचरित्रम् ७-२० क्रमाच्च नन्दनं नन्द्या-वर्ताक्षं काञ्चनद्युतिम् ॥ असूत सा महादेवी, महासेनमिवाद्रिजा ॥७॥ सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे ॥ चक्रे जन्माऽभिषेकश्चा-ऽखिलैरिन्द्रैः सुराचले ८॥ स्वप्ने रत्नारकं माता-ऽपश्यदित्यस्य पार्थिवः ॥ अर इत्यभिधां चक्रे, कृत्वा जन्ममहोत्सवम् ॥९॥ क्रमाच्च कलयन् वृद्धि, त्रिंशच्चापोच्चभूघनः ॥ पित्राज्ञयाऽङ्गजा राज्ञां, पर्यणैषीत्स यौवने ॥१०॥ अन्येद्युः पितुरादेशात्, दधौ राज्यधुरं जिनः ॥ जातचक्रादिरत्नश्चाऽखिलं भरतमन्वशात् ॥११॥ चक्रिश्रियं चाऽनासक्तो-ऽभुङ्क्त योगीव भोजनम् ॥ लोकांतिकैर्बोधितश्चा-ऽन्यदाऽदाद्दानमाब्दिकम् ॥१२॥ राज्यं नियोज्य पुत्रे च, शिबिकासंस्थितो विभुः ॥ ययौ सहस्राम्रवणं, सुरासुरनरैर्वृतः ॥१३॥ सह राजसहस्रेण, प्रावाजीत्तत्र तीर्थकृत् ॥ तदा मनःपर्ययाआँ, तुर्यज्ञानमवाप च ॥१४॥ इभारातिरिवाभीतः, पृथिव्यां विहरन् विभुः ॥ भूयोऽप्यागात्सहस्राम्र-वणं संवत्सरैस्त्रिभिः ॥१५॥ तदा चाभ्युदिते भर्तुः, केवलज्ञानभास्करे ॥ समे समेत्य समव-सरणं वासवा व्यधुः ॥१६॥ वाण्या योजनगामिन्या, सर्वभाषानुयातया ॥ पूर्वसिंहासने तत्रा-ऽऽसित्वा धर्म जगौ जिनः ॥१७॥ तं चाकर्ण्य जिनाभ्यणे, नैके पर्यव्रजन् जनाः ॥ त्रयस्त्रिंशद्गणधराः, स्वामिना तेषु चक्रिरे ॥१८॥ श्रमणानां प्रभोः पंचा-शत्सहस्राणि जज्ञिरे ॥ श्रमणीनां पुनः षष्टि-सहस्राणि महात्मनाम् ॥१९॥ लक्षं चतुरशीत्या च, सहस्त्रैर्युक्तमास्तिकाः ॥ द्वासप्ततिसहस्रागं, लक्षत्रयमुपासिकाः UTR-2 ॥३११॥ १ कार्तिकेयम् । २ सिंहः । ३ सर्वे । ४ त्रयस्त्रिंशद्गणधरान्, तेषु चास्थापयत् प्रभुः ॥ इति 'घ' पुस्तके ।।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy