SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३१२॥ अष्टादशमध्ययनम् अरनाथचरित्रम् २१-२४ गाथा ४९ ॥२०॥ अनुग्रहीतुं भविनो, भूमौ विहरतोऽर्हतः ॥ सङ्घश्चतुर्विध इति, जज्ञे गुणमणीनिधिः ॥२१॥ समभागं कुमारत्वा-दिके स्थानचतुष्टये ॥ आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ॥२२॥ निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते ॥ सह साधुसहस्रेणा-ऽनशनं विदधेऽधिपः ॥२३॥ एकेन मासेन स सार्वसार्व-भौमो महानन्दपदं ततोऽगात् ॥ निर्वाणकाले च समेत्य तस्य, सवितेने महिमा सुरेशैः ॥ २४ ॥ इति श्रीअरनाथकथा ॥ ४०॥ मूलम्-- चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । चइत्ता उत्तमे भोए, महापउमो तवं चरे ॥४१॥ व्याख्या-- सुगमं । तच्चरितं त्वेवम्-- अत्रैव भरतक्षेत्रे, श्रीहास्तिनपुरेऽभवत् ॥ इक्ष्वाकुवंशकासार-पद्मं पद्मोत्तरो नृपः ॥१॥ तस्य ज्वालाभिधा राज्ञी, बभूव परमार्हता ॥ तस्याश्चैकः सुतो विष्णुः, सिंहस्वप्नेन सूचितः ॥२॥ पद्मासद्ममहापद्म-नामान्यश्च सुतोऽजनि ॥ तस्याश्चतुर्दशस्वप्न-सूचितो निचितो गुणैः ॥३॥ कलाकलापं सकलं, कलाचार्यादधीत्य तौ ॥ द्वितीयमद्वितीयश्रीवयस्यं प्रापतुर्वयः ॥४॥ तत्र पद्मं जिगीषुत्वा-द्यौवराज्ये न्यधात्पिता ॥ विप्रेषु प्राज्ञवाजैत्रः, क्षत्रियेषु हि शस्यते ॥५॥ इतश्चोज्जयिनीपुस्, श्रीवासीन्महीपतिः ॥ मन्त्री तु तस्य नमुचि-वितण्डापण्डितोऽभवत् ॥६॥ तस्यां नगर्यामन्येद्यु-विहरन् समवासरत् ॥ मुनिसुव्रतनाथस्य, शिष्यः सुव्रतसूरिराट् ॥७॥ तं नन्तुं व्रजतो वीक्ष्य, पौरान् सौधोपरिस्थितः ॥ अमी जनाः क्व यान्तीति, नमुचिं पृष्टवान्नृपः ॥८॥ देवाद्योपवने केऽपि, श्रमणाः सन्त्युपागताः ॥ महापद्मचक्रिकथा १-८ UTR-2 ॥३१२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy