________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥२०॥
ध्वजप्रान्त-चञ्चलैश्वर्यशर्मणि ॥ चलेष्टजनसङ्गेऽस्मिन्, भवे सौख्यं न किञ्चन ॥ ४६ ॥ जन्मरोगजराशोक-मृत्युदौःस्थ्याधुपद्रवैः ॥ व्याकुलेऽत्र भवे दुःख-मेव प्रायो भवेद्विशाम् ॥ ४७॥ यच्चेह स्यात्सुखं किञ्चि-द्विषयाधुपभोगजम् ॥ दुःखानुषङ्गात्तदपि, दुःख एव निमज्जति ॥ ४८ ॥ यत एव च संसारो, दुःखानामेकमास्पदम् ॥ प्रपद्यन्ते मोक्षमार्ग-मत एव विवेकिनः" ॥ ४९ ॥ इति तद्देशनां श्रुत्वा, विरक्ता साददे व्रतम् ॥ पृष्टाप्याचष्ट नो गर्भ, चारित्राऽदानशङ्कया ॥ ५० ॥ गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ ॥ सत्यमूचे ततस्तास्तां, साध्वी गुप्तमरक्षयन् ॥५१॥ गर्भकाले च सम्पूर्णे, शय्यातरगृहस्थिता ॥ असूत सुतरत्नं सा, मणि रोहणभूरिव ॥ ५२ ॥ ततो गृहीत्वा तं बालं, गत्वा प्रेतवनेऽमुचत् ॥ तत्तातनाममुद्राएं, रत्नकम्बलवेष्टितम् ॥५३॥ द्रष्टुं तद्ग्राहकं साथ, तञ्च त्रातुमुपद्रवात् ॥ प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमामृतार्द्रया ॥ ५४ ॥ तत्रायातस्तदा प्रेत-वनेशोऽपत्यवर्जितः ॥ जगृहे तं निजगृहे, नीत्वा पल्यै च दत्तवान् ॥ ५५ ॥ तस्यावकर्णक इति, सानन्दः सोऽभिधां व्यधात् ॥ आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् ॥ ५६ ॥ व गर्भ इति साध्वीभिः, पृष्टा चेत्यवदन्मृषा ॥ मृतः सुतो मया जातः, स च त्यक्तः क्वचित्ततः ॥ ५७ ॥ साध्व्योऽपि सरलाः सर्वा-स्तत्तथा प्रतिपेदिरे ॥ बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ।।५८ ॥ वत्सं गौरिव तं बालं, ध्यायती सा तु संयता ॥ जगाम प्रत्यहं प्रेतवनपालस्य धामनि ॥५९ ॥ तत्पल्ल्या च समं प्रेम, चक्रे सम्भाषणादिभिः ॥ अलालयच्च तं बाल-महो ! मोहोऽतिदुर्जयः ।।६० ॥अवाप यच्च भिक्षायां, शोभनं मोदकादिकम् । तद्बालायार्पयत्सोऽपि, तस्यां रागं दधौ ततः ॥६१ ॥ जन्मतस्तस्य देहे च, रूक्षकण्डूरभूभृशम् ।। स च वृद्धिङ्गतो बालैः, समं क्रीडन्नदोऽवदत् ।। ६२॥ अहं वो नृपतिस्तस्माद्यूयं दत्त करं मम ॥ बालाः प्रोचुः करस्थाने, ब्रूहि किं ते प्रदीयते ? ॥६३ ॥ स प्रोचे चण्डकण्डूको, मां कण्डुयध्वमुच्चकैः ॥ करे
UTR-2
॥२०॥