________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥२१५ ॥
आह-नैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता उपभोक्ता भवति, तदित्यनन्तरोक्तं कथं ? कुतो हेतोरिति चेदेवं यदि मन्यसे आचार्य आह - अत्रोच्यते, निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य 'बंभयारिस्स त्ति' अपेगम्यत्वाद्ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये शङ्का वा इहान्येषामिति गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी ? उत नेति शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का स्त्र्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ! ॥१॥" इत्यादि रागातुरखचः परिभावयतो मिथ्यात्वोद| यात्कदाचित् तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवतीत्येवं संशय उत्पद्यते । कांक्षा वा स्त्र्यादिवाञ्छारूपा "प्रियाद -
र्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ॥ निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ? ॥१॥ इत्यादिवादिदर्शनाभिलाषरूपा वा । विचिकित्सा किमेतावतः कष्टानुष्ठानस्य फलं भावि न वा ! तद्वरमेतदासेवनमेवास्तु! इत्येवंरूपा समुत्पद्येत । भेदं वा विनाशं चारित्रस्येति शेषः, लभेत । उन्मादं वा कामग्रहात्मकं प्राप्नुयात् , योषिद्विषयाभिलाषविशेषात्मनो विप्लवसम्भवात् । दीर्घकालिकं वा दीर्घकालभावि रोगश्च दाहज्वरादिः, आतङ्कश्चाशुघाती शूलादिः रोगातंकं भवेत् , सम्भवति हि रमणीयरमणीरमणाभिलाषातिरेकादरोचकित्वं, ततश्च दाहज्वरादीति । केवलिप्रज्ञप्ताद्वा धर्मात् श्रुतचारित्ररूपात्समस्ताद्धृश्येत् , कस्यचित् क्लिष्टकर्मोदयाद्धर्मभ्रंशस्यापि सम्भवात्, | यत एवं तस्मादित्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ॥४॥१॥ उक्तं समाधिस्थानं प्रथम, द्वितीयमाहमूलम्-णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरियाह-निग्गंथस्स खल इत्थीणं
UTR-2
॥२१५॥