SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२५॥ अष्टादशमध्ययनम् (१८) सगरचक्रि कथा ३४-४८ इत्ययोध्यामुपागत्य, सामन्ताद्या व्यचिन्तयन् ॥३४॥ दग्धा स्वामिसुताः सर्वे-ऽप्यागता वयमक्षताः ॥ लज्जाकरमिदं राज्ञो-ऽग्रे कथं कथयिष्यते? ॥३५॥ प्रविशामस्ततो वह्नि-मनन्यगतिका वयम् ॥ तानिति ध्यायतोऽभ्येत्य, विप्रः कोपीत्यभाषत ॥३६॥ कर्मणा शुभमन्यद्वा, नाङ्गिनां किं भवे भवेत् ? ॥ तैव्याकुला भवत मा, वक्ष्याम्येतदहं प्रभोः ॥३७॥ इत्युदित्वा द्विजः कश्चि-दनाथं शवमुद्वहन् ॥ गत्वा राजकुलद्वारे, व्यलापीदुच्चकैर्मुहुः ॥३८॥ तत् श्रुत्वा चक्रिणाऽऽहूय, पृष्टः किं रोदिषीति सः? ॥ प्रोचे ममैक एवासौ, सूनुर्दष्टो, महाहिना ॥३९॥ प्राप्तो निश्चेष्टतां देव!, तदेनं जीवयाऽधुना ॥ जाङ्गुलीकमथादिक्ष-त्तत्र कर्मणि भूधवः ॥४०॥ ज्ञातभूपापत्यमृत्यु-रित्यूचे सोऽपि कोऽपि हि ॥ मृतो न स्याद्यत्र तस्मा-द्भस्माऽऽनयत मन्दिरात् ॥४१॥ यथाऽहं जीवयाम्येन-मिति तेनोदितो नृपः ॥ तद्भस्मामार्गयद्धृत्यैः, पुर्यां सर्वेषु वेश्मसु ॥४२॥ तेऽप्यागत्यावदन्नाथ !, सकला वीक्षिता पुरी ॥ परं पुरा यत्र मृतो, न कश्चिन्नास्ति तद्गृहम् ॥४३॥ राजाऽप्यूचेऽस्माकमपि, भूयांसः पूर्वजाः मृताः॥ सर्वसाधारणे मृत्यौ, तत्कि कोविद! खिद्यसे ? ॥ ४४ ॥ किं शोचसि ? मृतं पुत्रं, किञ्चिदात्महितं कुरु ॥ सिंहेनेव मृगो यावन्मृत्युना त्वं न गृह्यसे! ॥४५॥ भूदेवोऽथावदद्देव, जानाम्येतदहं परम् ॥ अद्यैव जायते पुत्र-मन्तरा मे कुलक्षयः ॥ ४६ ॥ तबलाक्रान्तविक्रान्त-दीनानाथैकनाथ ! हे ॥ कथञ्चिज्जीवयित्वाऽमुं, पुत्रभिक्षा प्रदेहि मे ॥ ४७ ॥ भूयोऽभ्यधान्मंत्रतंत्र-शस्त्रादीनामगोचरे ॥ अदृष्टविद्विषि विधौ, कः पराक्रमते? कृतिन्! ॥४८॥ तन्मुञ्च शोकं UTR-2 ॥२५१॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy