________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥३८॥
त्तत्र वाजिपदानुगम् ॥१४१॥ गजारूढस्ततो राजा, पुर्यां गत्वा तमार्पयत् ॥ महिष्याः पुष्पमालाया-श्चक्रे जन्मोत्सवं तथा ॥१४२॥ पुण्यवांस्ते सुतो भद्रे !, ससुखं तत्र वर्धते ॥ सन्निधिः सन्निधिस्थायी, पुण्यं हि प्राणिनां भवे ॥१४३॥ एवं मुनौ वदत्येव, मणिस्तम्भविभूषितं ॥ किङ्किणीजालमुखरं, रुचिन्यञ्चितभास्करम् ॥१४४॥ शोभितं तोरणैर-मुखपत्रलतोपमैः ॥ लम्बमानोडुमालाभ-मुक्तादामविराजितम् ॥१४५॥ उत्तुङ्गशिखरं तूर्य - ध्वानापूर्णदिगन्तरम् ॥ रम्यं विमानं तत्रैक- मन्तरिक्षादवातरत् ॥१४६॥ | [त्रिभिर्विशेषकम् ] तस्माच्च निरगादेकः, सुरो भासुरभूषणः ॥ अमरीनिकरप्रोक्त-जयशब्दो महामहाः ॥ १४६॥ स त्रिः प्रदक्षिणी
कृत्य, मदनामादितोऽनमत् ॥ मुनि तु पश्चादानम्य, यथास्थानमुपाविशत् ॥१४८॥ निरीक्ष्यानुचितं तच्च, दूनचेता मणिप्रभः ॥ इत्युवाचामरं वाचा, न्यायपादपकुल्यया ॥१४९॥ सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः ॥ त एव चेत्ता लुम्पन्ति, तदान्येषां किमुच्यते ? ॥ १५०॥ कलितं सकलैः साधु -गुणैर्दोषैर्विनाकृतम् ॥ मुक्त्वा मुनिममुं देव !, किं त्वया प्राग् नताङ्गना ॥१५१॥ सुरोऽब्रवीदिदं सत्यं, शृणु किन्त्विह कारणम् ॥ आसीत्सुदर्शनपुरे, राजा मणिरथाभिधः ॥१५२॥ तेन स्वभ्रातृजायार्थ, युगबाहुर्निजोऽनुजः ॥ शिरोधावसिना जघ्ने, वसन्ते विपिने स्थितः ॥१५३।। स च कण्ठगतप्राणो-ऽनया मदनरेखया । नियमितः प्रापितश्च, जैनधर्म विपन्नवान् ॥१५४॥दशार्णवायुर्देवोऽभू-द्ब्रह्मलोके हरिप्रभः॥स चाहं पुण्यनैपुण्या- मेनां द्रष्टुमिहागमम् ॥१५५॥ यच्च सम्यक्त्वमूलं श्री जिनधर्ममियं सुधीः ॥ प्राग्भवे प्रापयन्मां त-द्धर्माचार्यो ह्यसौ मम ॥१५६॥ यदुक्तं-"जो जेण सुद्धधम्ममि ठाविओ संजएण गिहिणा वा ॥ सो चेव तस्स जायइ धम्मगुरू धम्मदाणाओ" ॥१५७॥ अत एव मया पूर्वं, नतासौ धर्मसेवधिः ॥ निशम्येति मनस्येवं, चिन्तयामास खेचरः ॥१५८॥ अहो ! श्रीजैनधर्मस्य, प्रभावो भुवनाद्भुतः ॥ सौख्यं ददाति निःसंख्यं, क्षणमात्रं
UTR-2
॥३८॥