Page #1
--------------------------------------------------------------------------
________________
EARREARREARRIERBERACRPORON
SSESARPAN
SYA
सिद्धान्तचन्द्रिका
COM
( वाणीप्रणीतव्याकरणसूत्रवृत्तिः )
>
Conjee
SMASPEO
संशोधिता।
क्षेमराज-श्रीकृष्णदासः
ZAVA
U
REARREARG
AYARAMANAND
मुंबईस्थः।
MRO
AANA
शके १८५६. संवत् १९९१.
COLLYETHERMA
REPREPARATI
Page #2
--------------------------------------------------------------------------
________________
मुद्रक और प्रकाशकखेमराज श्रीकृष्णदास,
अध्यक्ष- "श्रीवेङ्कटेश्वर " स्टीम् - प्रेस, बम्बई.
पुनर्मुद्रणादि सर्वाधिकार “श्रीवङ्कटेश्वर " यन्त्रालयाध्यक्षाधीन है । UP
Page #3
--------------------------------------------------------------------------
________________
11 T: 11
सिद्धान्तचन्द्रिका पूर्वार्द्रस्थमुख्यविषयविभागः ।
विषयाः ।
१ मङ्गलाचरणम्
२ संज्ञाप्रकरणम्
३ परिभाषाप्रकरणम्
४ स्वर संधिः
५ प्रकृतिभावः
६ हससंधिः
७ विसर्गसंधिः ८ स्वरान्त पुंल्लिङ्गाः
९ स्वशन्तस्त्रीलिङ्गाः १० स्वरान्तनपुंसकलिङ्गाः ११ हसान्त पुंलिङ्गाः
१२ हसान्तस्त्रीलिङ्गाः १३ हसान्तनपुंसकलिङ्गाः
१४ युष्मदस्मत्प्रक्रिया
१५ अव्ययानि
१६ स्त्रीप्रत्ययाः
१७ विभक्त्यर्थाः
१८ समासप्रकरणम्
१९ तद्धितप्रकरणम्
२० द्विरुक्तप्रकरणम्
GIZIJ
पृष्ठाङ्काः ।
४
१५
१७
३०
३४
४७
५४
१००
११३
१२१
१५०
१५३
१५८
१७२
१८४
२०७
२३९
२९४
३४९
Page #4
--------------------------------------------------------------------------
________________
प्रास्ताविक किचित-- नाङ्गीकृतव्याकरणौषधानामपाटवं वाचि सुगूढमास्ते ।
कस्मिश्चिदुक्ते तु पदे कथंचित्स्वैरं वपुः स्विद्यति वेपते च ॥ १॥ - जयति जगज्जालेऽस्मिन् आ गीर्वाणेभ्य उत चा जगदुत्पत्तेः प्राक्तना श्रीमज्जयिनी गाँवा. गवाणी । तत्सिद्धी चाद्यपर्यन्तं महान्त्यनन्तानि व्याकरणान्यकाषुर्महर्षयो वैयाकरणाः । व्याकरणं नाम व्याक्रियन्ते सिद्धि प्राप्यन्ते प्रकृतिप्रत्ययादिभिः शब्दा येन शाखेण तन : नत्र प्रसिद्धा व्याकरणशासकर्तार:
इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः।
पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः॥ एतेप्वष्टासु व्याकरणकर्तृपूपवर्षशिप्येप्वेकतमः पाणिनिषिः शिवप्रसादाल्लब्धाक्षरसमा. म्नायोऽष्टाध्यायीसूत्रपाठादिभिर्व्याकरणं प्रणिनाय । तदेव कात्यायनन पूरित भुजंगमभूपतिना महर्षिणा पतञ्जलिना व्याख्यातं च । अत एवेदं त्रिमुनिव्याकरणं लोके प्रचार्यते । नचा. रमाकमिदानी प्रमाणम् । उक्तं च- इति लौकिकवाक्येषु व्यभिचारोऽतिपुष्कलः । विशेषः पाणिनेरिष्टः
सामान्यमनुधार्यते ॥ सामान्यमनुग्रहाति तत्राचार्यपरम्परा ॥ अत एव पाणिनीयव्याकरणे बहवो ग्रन्था अद्य समुल्लसन्ति । तस्य सामान्येन वाचनमाप शतवर्षमानेनायुप्येण न भवेदितीदं ज्ञात्वा श्रीमदनुभूतिस्वरूपाचायैरेतदुक्तव्याकरणसरणिसारभूतं सरस्वतीप्रसादतो लब्धं सप्तशतसूत्रात्मकं सारस्वतं नाम व्याकरणं वृत्त्यादिभिः विशदार्थ के विधाय लोकेप्वध्ययनाध्यापनेषु प्रचालितम् । तम्यापीदानीतनजनमनीषाकुचनाल्लघुभाप्याधाकरानकुर्वन्महान्तः पाणिनीये महाभाष्यवत् । तत्र व्याकरणे यथा भट्टोजिदीक्षितप्रणीता वैयाकरणसिद्धान्तकौमुदी तथैवात्र वाणीप्रणीतव्याकरणे तत्कुलतिलक श्रीरामाश्रमाचार्यकृता वैयाकरणसिद्धान्तचन्द्रिकाऽऽर्यावर्ते वरीवति । यथा च तत्र सरलतया व्याख्यानं ज्ञानेन्द्रसरस्वतीकृत तत्त्वबोधिनी तथैवात्र सुखानन्दकृतं सुबोधिनी । एतयैवें साकै पूर्वमस्माभिः शिलाक्षः पुनः सीसकाक्षरैश्वाङ्किता सिद्धान्तचन्द्रिका लोकाश्रयपात्रीभूता संजाता । अतोऽन्यापि च काचिदध्ययनाध्यापनतत्त्वज्ञानकारिका टीका मुद्रणीयति विचारयतामस्माकं तत्त्वदीपिकापुस्तक काशीस्थं लेखनसंस्कारण मुद्राशिलासंस्कारितमतीवाशुद्धं लब्धम् । तत एव महतायासेन शुद्धीकृत्य मिद्धान्तचन्द्रिकाधस्तासुबोधिन्या साकं च तत्र तत्र मुद्रिता तत्त्वदीपिका। अस्याः प्रणेता पण्डितो लोकप्रसिद्धो लोकेशकरःषडागमनिपुण इति तद्वयाख्यातो ज्ञायत एव । अन्वर्थनाम्नी सुगमा सुबोधिनी प्रसिद्धपूर्वैव । तत्प्रणेता सदानन्दः सदानन्दः पण्डितोऽपि । एताय पुस्तकस्येत्थं मुद्रणक्रमादनेका आवृत्तयो जाताः ।
तथैवाधुनाचास्यामावृत्तावपि तट्टीकाद्वयोपेतयं सिद्धान्तचन्द्रिका शास्त्रिद्वारा भूरिश्रमण संशोध्य मुद्रिता सती विराजते । पूर्वमस्या एकयाऽपि सुबोधिन्या साकमङ्किताया: सिद्धान्तचन्द्रिकाया यन्मल्यं तदेव मूल्यं टीकाद्वयांपेतायाः सुपुष्टस्वच्छ पत्रेवड़िताया इति प्रार्थयाम: पण्डितानामाश्रयायेत्यलं पल्लवितनेत्यशेषमतिमङ्गलम् ।।
विदजनक्रपाभिलाषी क्षेमराज-श्रीकृष्णदासः " श्रीवेङ्कटेश्वर " मुद्रणालयाध्यक्षः-मुम्बईस्थः।
Page #5
--------------------------------------------------------------------------
________________
श्रीः। सिद्धान्तचन्द्रिकापूर्वार्द्धस्थसूत्रादीनामकारादिवर्णक्रमः।
-
पृष्ठांकाः। सूत्रादि.
पृष्ठांकाः। सूत्रादि. ४ अ इ उ ऋ लु समानाः | २९६ अत इअनृषेः २६२ अन्याथें २७ अ इ ए
३३४ अतिथेद्यः ३३० अन्येभ्योऽपि ३२३ अइकौ च मत्वर्थे ५० अत्रोऽत्युः
२३७ अन्योक्ते प्रथमा २६६ अकतद्धिताभ्यां कोप- ११३ अतोऽम्
२५३ अन् स्वरे धस्य न
| २४३ अतोऽमनतः २९४ अपत्येऽण् । ३५४ अकृच्छ्रे प्रियसुखयो- | १४४ अत्वसोः सौ २९० अपथं तत्पुरुषे क्लीबम् द्वित्वम् ६१ अद्भि
३०१ अपोनपादपानपात:२२ अक्षादेरूहिन्यादावग्व
| २२२ अधिपूर्वाणां शीस्था- रपोनप्तृअपान्नतृ क्तव्यः
ऽऽसामाधारः कर्म आदेशौ । ३०२ अमेरिदृद्धी १२८ अन टौसोः १५७ अप्ययोरान्नित्यम् २५६ अग्न्यादेः सोमादीनां | १२१ अनडुहश्व
२२२ अभिनिपूर्वस्य विशेः सस्य षः
१९१ अनन्त्यवयोवाचिनो- | ३४ अप्लुतवदितौ ३०७ अग्रादिपश्चादन्ताड्डिमः ऽदन्ताखियामी २४८ अमादौ तत्पुरुषः २०१ अङ्गगात्रकण्ठपुच्छाच्च । २३१ अनादराधिक्ये क्रिया- | १०२ अम्बार्थानां द्विस्वराणां १७१ अचाक्षुषज्ञानार्थधातु- लक्षणे षष्ठीसप्तम्यौ । धौ हस्वः भिर्योंगे चन २८२ अनीबन्तस्य स्त्रीप्रत्द.
५८ अमशसोरस्य १४१ अचेीर्घश्च
यान्तस्येबन्तस्यैकस्व- ११अरेदो नामिनो गुणः ११८ अञ्चास्थनां शसादी रस्य वा हस्वस्तारादौ । ३२९ अर्णसो लोपश्च १८४ अजादेश्च
| ३५१ अनुक्रमे द्योत्ये द्वे २९०अर्धर्चादयः क्लीबपुंसोः ३२२ अजाविभ्यां थ्यः २९० अनो नलोपो द्विगो- १९४ अर्थक्षत्रियोपाध्याये२८५ अजिरादेर्न
भ्यो वा स्वार्थे १४१ अञ्चेः पुसि पश्चसु १२ अन्त्यास्वरादिष्टिः १३१ अर्वणवसावनः
१२ अन्त्यात्पूर्व उपधा ३१८ अऽपि ३१७ अणीनयोयुष्मदस्मदो- १९० अन्नन्ताद्वहुव्रीहेर्न ३१२ अलाबूतिलोमाथुष्माकास्माको ३०३ अन्यस्य दक्
भङ्गाभ्योरजसि ७१ अतः
। ११५ अन्यादेधैर्लोपो न २८० अलुक् क्वचित्
नम्
Page #6
--------------------------------------------------------------------------
________________
(२)
सिद्धान्तचन्द्रिकापूर्वार्द्धस्थ
पृष्ठांकाः। सूत्रादि. | पृष्ठांकाः। सूत्रादि. | पृष्ठांकाः। सूत्रादि. ७८ अल्लोपः स्वरेऽम्वयु- | १५३ अह्नः
१३३ आ सौ __ताच्छसादौ ३१५ आख्याताव्ययसा. ७१ अवकुप्वन्तरेऽपि देष्टेः प्रागकः १३२ इतोऽत्पञ्चसु २४५ अवधारणार्थे यावति च । ४२ आङ्माभ्यां नित्यम् | २०५ इतो मनुष्यजातेरीप
७ अवर्जा नामिनः १९३ आचार्यादणत्वम् ३४ इतौ वा उब् २९ अवर्णाहते परे तृतीया- ७९ आतो धातोर्लोपः | २८४ इत्येऽनभ्यासस्य समासे
५० आदबे लोपश ३३० इदम इश् वतावस्य यः २९ अवर्णान्तादुपसर्गा- १२३ आदिजबानां झभान्त- | १२९ इदमेतदोरन्वादेशे
हकारादौ धातावार स्य झभाश्च स्ध्वोः । द्वितीयाटौरस्वेनद्वा ३१३ अवात्कुटारकटी | २९४ आदिस्वरस्य ठिणति
| १२७ इदमोऽयम् पुंसि ५४ अविभक्ति नाम
वृद्धिः
१०५ इदुद्भयाम् ३०४ अवेर्दुग्धे सोढदूर:- | २८६ आदेश्च द्वन्द्वे
३१३ इनपिटकाःप्रत्यया मेरीसाः . ८ आद्यन्ताभ्याम्
नेश्चिकचिचिकादेशाः . १८३ अव्ययाद्विभक्तेलुक | २१८ आधारे सप्तमी
१३४ इनां शो सौ २४२ अव्ययीभावात् । १०० आपः
२१ इन्द्राक्षयोः परतो गो२२५ अशिष्टव्यवहारे दाणः १८४ आवतः त्रियाम
रङ् नित्यम् प्रयोगे चतुर्थ्यर्थे तृतीया | २९० आबन्तोत्तरपदाद् द्वि
१९२ इन्द्रादेरानीप २८९ अश्ववडवयोर्द्वन्द्वः पूर्व
गोर्वेप
१५१ इयं स्त्रियाम् वल्लिङ्गः १८६ आबृचि
| १७ इयं स्वरे १८७ अष्टका श्राद्ध २०९ आमन्त्रणे च ..
२८३ इष्टकेषीकामालानां ३३१ आमयस्य दीर्घश्व : १३६ अष्टनो डौ
चिततूलभारिषु ह्रस्वः १५९ आमो... ३५२ असमासवद्भावे पूर्व
| ३१४ इष्टादिभ्य इनिरनेने१०१ आम् डे: पदस्थाया विभक्तेः ।
। त्यर्थे ९९ आऽम्शसि सिरादेशो वाच्यः . १६१ आऽम्भी
२५६ ईदग्नेः सोमवरुणयोः २८३ अस्तोश्च
| २३१ आयुक्तकुशलाभ्यां ८९ ईदूदन्तस्ययुस्थानभि३२२ अस्त्यर्थे मतुः. .योगे षष्ठीसप्तम्यौ नस्य वाख्यस्योप३३१ अस्मायामेधास्रग्भ्यो तात्पर्ये
सर्जनत्वेऽपि स्वीकार्य विनिः ११ आरे औ वृद्धिः
वक्तव्यम् १९८ अस्वाङ्गपूर्वपदाद्वा.
३३२ आलाटौ कुत्सितभा- ३२६ ईमसश्च ५१ अहन्
| ११३ ईमौ
पिणि
Page #7
--------------------------------------------------------------------------
________________
पृष्ठाङ्काः।
सूत्रादि.
३३७
ghsa
३३९ ईलोपो ज्याशब्दादी
यसः
३३२ ईषदसमाप्तौ कल्पदेश्यदेशीयाः
२७ उ ओ
२०५ उत ऊः
३९ उद: स्थास्तम्भो: सलोपः
९७ उद्गातृनप्तृष्टत्वष्टृक्षहोतृपोतृप्रशास्तॄणां च
१९० उपधालोपिनो बहुव्रीहेर्वे
२०१ उपमानात्पक्षपुच्छाभ्याम् ३५० उपर्यध्यधसः सामीये द्वि २८५ उपसर्गस्य घन्य मनुष्ये वा दीर्घः
१७२ उपसर्गस्वरविभक्ति
प्रतिरूपकाश्च
३१४ उपाधिभ्यामासन्नारूढयोस्त्यकः
२२३ उपान्वध्याङ्पूर्वस्य
वसः
२३४ उभयप्राप्ती कृति कर्तरि
षष्ठी न २३६ उभयप्राप्तौ कृत्ये षष्ठी न ७ उभये स्वराः १२६ ऊरसे
२० उ वम्
सूत्रादीनामकारादिवर्णक्रमः ।
पृष्ठाङ्काः । सूत्रादि.
१४८ उशनसाम् १४८ उशनसो धौ नान्तता
अदन्तता वा वाच्या
५२ उषसो बु
२८४ उष्णभद्रयोः करणे २९१ उपज्ञोपक्रमान्तस्तत्पु· रुपः की बम्
२२६ उपपदविभक्तेः कारक
विभक्तिर्बलीयसी
३२१ ऊधसो नङ् १९१ ऊधोऽन्तस्य बहुव्रीहे - र्नङ् स्त्रियाम
२६४ ऊप्रत्ययान्तस्य न
२०६ ऊरूत्तरपदादौपम्ये ३२७ ऊर्णाहं शुभंभ्यो युः २७९ ऊर्ध्वाद्वा ज्ञु:
३२८ ऊषशुषिमुष्कमधुख
मुख कुञ्जनखपांशुपाण्डुभ्यो रः
२७ ऋ. अर्
२९६ ऋ उरणि
६ ऋलवर्णौ च ८४ ऋडे
२८६ ऋतां द्वन्द्वे
२२८ ऋतेआदियोगे पञ्चमी ८४ ऋतो ङ ङः १४२ ऋतो दीघों न
२९ ऋदादी नामधातौ वा ३१९ ऋ र इमनि
२० ऋ. रम्
२८ ल अल्
पृष्ठाङ्काः ।
२९ लदादी
वाssल्
(३)
• सूत्रादि.
नामधातौ
२० लऌ लम्
२० ए अय्
२८ ए ऐ ऐ
६ ए ऐ ओ औ संध्यक्षराणि
८०. ए ओ जसि
११५ एकतरस्य तु
५८ एकत्वद्वित्वबहुत्वेषु ३१७ एकत्वे तवकममकौ २५८
३४५ एकस्य सकृदादेशश्च ३४२ एकादशादेर्डट् ३४५ एकादा किन्नसहाये
३४४ एकाद्धयमुग् वा १६१ ए टाडयो: ३३० एतत्किमिदयत्तद्भयः
परिमाणे वतुः १६९ एतेऽनन्वादेशे वा
२६ एत्येधत्यो
२३. एदोतोऽतः
२६ एदोदादी धातौ
२६ एदोदादौ नामधातौ वा
१५० एरी बहुत्वे
२७ एवेऽनवधारणे
६३ ए स्भि- बहुत्वे २.१ ऐ आयु २०३ ऐ च मन्वादेः ८३ ऐ सख्युः २० ओ अव
Page #8
--------------------------------------------------------------------------
________________
(४)
सिद्धान्तचन्द्रिकापूर्वार्द्धस्थ
-
-
वा
पृष्ठाङ्काः। सूत्रााद. | पृष्ठांकाः। सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. २५ ओ औ औ १८६ काप्यतः
तत्रापि चतुर्थी २५ ओत्वोष्ठयोः सगासे | ४०४ कारकात क्रियायुक्ते ३४५ क्रियाया आवृत्ती
२८३ कारे सत्यागदस्य मुम् कृत्वस् ३२ ओदन्तो धौ वेतो
९ कार्यायेत्
२१९ क्रियालक्षणं भावस्तत्रा३२ ओदन्तो निपातश्व
२२१ कालाध्वनोनैरन्तये | पि सप्तमी
३३३ कासूगोणीभ्यां ष्टरः | ३५२ क्रियासमाभिहारे द्वे ९९ ओरौ
३३० किमः किर्वतोर्वस्य यः | १९९ क्रीतान्तात्करणादेः ६४ ओसि .
३४० किमोऽव्ययादाख्या१०० औ
| ३२६ क्रुच्चा हस्वत्वं च
ताच तरतम्योराम्बव- २२७ क्रुधदुहेासूयार्थानाम् २१ औ आव
द्रव्यप्रकर्षे
३१४ क्लिन्नस्य चिलापल्३१ ओ निपातः २६५ कुक्कुटयादीनामण्डा
चुलो लः प्रत्ययोऽस्य ३३१ औन्नत्ये दन्तादुरः दिषु
चक्षुषी इत्यर्थे ८० ओ यू ४५ कुक्टुग्वर्जितस्य विभ
२५० कांचषष्ठी न समस्यते २२४ कंचित्प्रकार प्राप्तस्य
तोन लक्षणे १० कुचुटुतुपु वर्गाः
२१ कचित्स्वरवद्यकारः | ३३३ कुटीशमीशुण्डाभ्यो रो
३४५ क्वचिदनव्ययपूर्वपदो३२८ कच्छा ह्रस्वत्वं च
हुस्वत्वे
ऽप्यव्ययीभावः २०१ कबरमणिविषशरभ्यः
३३३ कुत्वा डुपः | २५१ कचिदमाद्यन्तस्य परपरात्पुच्छानित्यम् ३३४ कुत्सायां पाशः
त्वम् २१४ कर्तरि करणे च तृतीया ४६ कुप्वोः क * पौ वा ३०२ कचिद् द्वयोः २३३ कर्तृकार्ययोरक्तादौ ३२५ कुमुदनडवेतसेभ्योवतुः ३१० कचिद्यलोपः
२३६ कृत्यानां कर्तरि वा १८७ कचिद्वा ३०९ कर्मण उकळ
षष्ठी
२०५ कचिद्वा ३१४ कर्मणष्ठो घटत इत्यर्थे
| २०३ कृदिकारादक्त्यर्थात् २४६ कचिद्वा
३२९ कृष्यादीनां वलेदीर्घः | २५१ कचिद्वा ३१८ कर्मण्यपि ३०९ केनेयेकाः
२५२ कचिद्वा २७४ कर्मधारयस्तुल्यार्थे । | ३२९ केशादिभ्यो वः
२६१ क्वचिंता २७५ कर्मधारये पूर्व पुंवत् | २३२ क्तस्येन्नन्तस्य कर्मणि | १९६ कचिन्न ३०८ कर्मन्दकृशाश्वादिनिः | १९९ क्तान्तादल्पत्वे
२५६ कचिन्न ३५२ कर्मव्यतिहारे सर्वादे | १८३ क्त्वाद्यन्तं च २५९ क्वचिन्न
द्वित्वं समासवच्च बहु. | २३३ क्यब्लोपे कर्मण्या- | २६१ क्वचिन्न लम
धारे च पचमी । ६५ क्विलात्पः सः कृतस्य १४७ कलोपे कुखमसिद्धम्. | २२क्रयार्थ प्रसारित क्रय्यम् | २१ क्षय्यं जय्यं शक्यार्थे २९८ कल्याण्यादोरतङ् च । २१५ क्रियया यमाप्नोति । १८६ क्षिपकादीनां न
कृति षष्ठी
Page #9
--------------------------------------------------------------------------
________________
सूत्रादीनामकारादिवर्णक्रमः।
(५)
पृष्ठाङ्काः सूत्रादि. | पृटीकाः।' सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. ४८ खपपरे शसे विसर्गस्य ७२ डि स्मिन् १९७ जानपदादिभ्योऽर्थविलोपो वा ६२ डे अक्
शेषे ईप २०३ खरुसंयोगोपधान्न ८२ डेरौ हित
३२७ ज्योत्स्नादिभ्योऽश ३२१ खलगोरथेभ्य इनित्र- ९७ डो.
१९ झवे जबाः कट्याः ४१ झ्नो ह्रस्वाद्विः स्वरे
३३ बपादुनो वो वा स्वरे ४२ खसे चपा झसानाम् | ३११ चञ्चुचणी वित्ते
१९ बपाधवला द्विर्वाच्याः ९४ खीतीभ्यां कृतयादेशा- || ३०० चटकादेरैरण
३५ अमे बमा वा भ्यां ङसिङसोरकार- १२६ चतुराम् शो च
४५ टनात्सस्य वा धुट् स्य उ:
३४२ चतुरो येयो चस्य च | २४७ टाडकाः ४२ ख्याधातौ वा
लोपः
३४ चपा अबे जबा: १९६ गवययमुकयमनुष्य.
११९ टादावुक्तपुंस्कं पुंवद्वा । मत्स्यानामनिषेधः ३६ चपाच्छः शः
९८ टादौ स्वरे क्रोष्टुशब्द२८४ गिलगिले च
स्य तृवद्वा | १७० चादिभिश्च २८४ गिलेऽगिलस्य
८१ टा नाऽस्त्रियाम् १७२ चादिनिपातः . २३४ गुणकर्मणि वा
६१ टेन २५४ चार्थे द्वन्द्वः ३४ गुरोरनतोऽनन्त्यस्यापि | ३०७ चिरपरुत्परांरिभ्यस्त्नः |
३८ टोरन्त्यात् वा पर्यायेण प्लुतः
१०१ टौसोरेः | १३८ चाः कुः
| ८७ डतेः ३३८ गुर्वादरिष्ठेमेयःसु गरा ४१ छः
... | १९० डाब् वा .. दिष्टयोपश्च ३०८ छगलिनो पेयिनः
८३ डिति टेः २६७ गोः १०३ छशषराजादेः षः
१४५ इणः ३३५ गोः पुरीषे २९२ छायान्तश्च पूर्वपदार्थ
३०३ णितो वा २९९ गोधादेरारणेरणौ
२९७ ण्यायनणेयण्णाया गर्ग२० गोरम्वा पदान्ते स्वरे | १३० जनाज्ञः २३ गोर्वा २२९ जनिकर्तुः प्रकृतिः ।
नडात्रिस्त्रीपितृवस्रादेः ३१२ गोष्ठादयः स्थानादिषु ७६ जरायाः स्वरादौ जरम् - पशुनामभ्यः
वा वक्तव्यः
२७ तः पर्वमरुद्भयाम् १३५ घसंयोगे णत्वं न ३४७ जराया जरस्
९४तकारस्थानजादवपर्यादपि १६३ उसिभ्यसोः श्तुः ११३ जशशसोः शिः ३२४ तडिदादिभ्यश्च ६३ ङसिरत्
१३५ जशशसोलक | १८३ तहव्ययम् ८२ ङस्य ६९ जसी
१३ तपरः ६४ उस् स्य १९८ जातान्तान्न
३४६ तकडयटी संख्याया १०१ डितां यत् । २६७ जातिवाचिनः स्त्रीप्र- अवयवे ९० ङितामट्
त्ययान्तस्य न | २६४ तरतमचरट्कल्पदेश्य८१ किति
१९५ जातेरयोपधातू देशीयरूपपाशादौ पुंवत्
Page #10
--------------------------------------------------------------------------
________________
(६)
पृष्ठाङ्काः । सूत्रादि
२८२ तरतमरूपकल्पचेल. ब्रुवगोत्रमतहतेषु ईबन्तस्यानेकस्वरस्य ह्रस्वो भाषितपुंस्कस्य
३३६ तरतमेयस्विष्टाः प्रकर्षे
१६३ तव मम ङसा
५७ तस्मात् २३३ तादर्थ्ये चतुर्थी १८७ तारका ज्योतिषि १४२ तिरश्चादयः ३०४ तिलान्निष्फलात्पिञ्ज
सिद्धान्तचन्द्रिका पूर्वार्द्धस्थ
सूत्रादि.
पेजी १९७ विष्यपुष्ययोनक्षत्राणि यलोपः ७६ तस्य ङित्वा सर्व
वद्रूपम् ३३० तुन्दिबलिवटेर्भः १६२ तुभ्यं मह्यं ङया २३३ तुमो प्रयुक्तस्य कर्माणि २२५ तुल्यार्थयोगे ७५ तृतीयासमासे तृतीयासमासार्थवाक्येऽपि च न ३९ तोर्लि लः ३१५ त्तनौ
८६ त्यदादेष्टेरः स्यादौ ३०८ पुजतुनोः षण् विकारे १०६ त्रिचतुरोः स्त्रियां तिसृ
चतुसृवत् १९२ त्रिचतुर्भ्यां हायनस्य
णत्वम् -८७ त्रेरयडू
३४१ स्तृ च
३४३ त्रेत्रयस्
२६५ त्वतलोगुणवचनस्य
पृष्ठाङ्काः ।
१६० त्वमदेकत्वे १५८ त्वमहं सना १६८ त्वामाSमा
१३३ थो नुट्
३१५ दक्षिणापश्चात्पुरस
स्त्यण्
१२८ दस्य मः १२३ दादेर्घः
२१५ दानपात्रे चतुर्थी
२८७ दिक्संख्ये संज्ञायाम् १०३ दिक्समासे बहुत्री हो सर्वादेव सर्वकार्यम्
२२४ दिवः करणम् १२५ दिव औ
१३८ दिशाम
४२ दीर्घाच
२३६ दूरनिकटार्थयोगे षष्ठीपञ्च
२३६ दूरनिकटार्थेभ्यो नामार्थमात्रेभ्यो द्वितीया तृतीया पञ्चमी सप्तमी ३३ दूरादाह्वाने टेः प्लुतः २३० दूरान्तिकयोर्योगे षष्ठयपि २५६ देवताद्वन्द्वे पूर्वपदस्या
कारः
३३३ देवतान्तात्तादयें यः ३०१ देवतेदमर्थे ३०६ देवस्वराजजनपराणां कुक ईये
३१७ देवात्तः
१४६ दोषाम्
३२९ द्युद्रुभ्यां म:
पृष्ठाङ्काः ।
सूत्रादि,
२३६ द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी
१२५
३५४ द्वन्द्वं रहस्यमर्यादाव
चनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्ति
२८८ द्वन्द्वतत्पुरुषयोः परपस्यैव लिङ्गम् २५५ द्वन्द्वऽल्पस्वरप्रधानेकाकारान्तानां पूर्वनिपातः ७५ द्वन्द्वे सर्वादीनां न सर्वकार्य
२५५ द्वन्द्वे स्वराद्यदन्तस्य पूर्वनिपात: ३४१ द्वयोर्बहूनां चैकस्य निर्धारणे किमादिभ्यो तरड़ती
३३६ द्वारादीनां च २८८ द्विगुप्राप्तापन्ना पूर्वप्रादिसमासे न ३४५ द्वित्रिचतुर्भ्यः सुः ३४४ द्वित्रिभ्यामेधाधमुनौ वा ३१२ द्वित्वे गोयुगः ३५० द्विरुक्त बहुव्रीहित् १४४ द्विरुक्तानां जक्षादीनां
एकशब्दो
च शतुर्नुम् न शौवा २३५ द्विषः शव
३४२ द्र्ष्टनोरात्वं संख्या
यामुत्तरपद
२६२ धर्मादन्
२२७ धारेरुत्तमर्णे
Page #11
--------------------------------------------------------------------------
________________
पृष्ठाङ्काः
F
१२२ धाघम् *१०१ धिरी:
सूत्रादि.
सूत्रादीनामकार। दिवर्णक्रमः ।
पृष्ठाङ्काः । सूत्रादि.
३८ नषि
३३५ न सन्धिय्वोर्युट् च २८५ नहिवृतिवृषिव्यधि
२८३ धर्भव्यायाम्
९६ धेरर् ८० धौ
१३३ धौ नपुंसकानां नस्य लोपो वा
९० धौ ह्रस्वः ३९ न सक् छते
११२ नकारान्तसंख्यायाः स्वसृतिसृचतसृनना
न्दृदुहितृयातृमातृभ्यश्व नेवापौ
२०१ न क्रोडादिव दुस्वरात् २०२ नखमुखात्संज्ञायाम् २५३ नमि
२६२ ननदुःसुभ्य: प्रजामेधयो
-३२५ नडशादाड़ डुलः ३२६ नाडीनामीये कुक १०६ न तिसृचतस्रोर्नामि दीर्घः
१९० नदादेः
४५ न पदान्ते
११६ नपुंसकस्य ह्रस्वः ११७ नपुंसकात्स्य मोलुक्
४० न प्रशानः
२२५ नमआदियोगे चतुर्थी ३८ नवतिनगर्न ३३४ नवस्य नू आदेशस्त्न
तननाः प्रत्ययाः स्वार्थे
३७ न शात् १४५ नशेः
४३ श्वापदान्ते झसे
रुचिसहित
१५० नहो धः
१६९ नादौ
२२३ नामुक्त्यर्थस्य ६५ नामि
११७ नामिनः स्वरे ५२ नामिनो रः ३० नामी
२७६ नानश्च कृता समास:७९ नाम्नो नो लोपशधौ २५३ ना
३१३ नासिकाया नते संज्ञायां टीटनाटभ्रटा अवात्
२०० नासिकोदरौष्ठजङ्घा • दन्तकर्णशृङ्गाद्वा २३७ निमित्तपर्यायप्रयोगे
सर्वादेः सर्वा विभक्तयोऽसर्वादेस्तृतीयादयः
२३२ निमित्तात्कर्मयोगे सप्तमी
९३ नियः
२५४ निरनुबन्धकस्य तु नानी
२३० निर्धारणे षष्ठीसप्तम्यौ ६४ नुडाम:
११४ नुमयमः ९७ व नाम दीर्घः
२०७ नृनंरयोर्वृद्धिश्व ३१३ HTM
पृष्ठाङ्काः
११४ नोपधायाः
१४० नो लोपः
२७३ नो. वा
१८८ त्रण ईप
१५७
पूर्वस्य शौ दर्घिः
११६ सम्महतोऽघौ दर्घिः शौच
४५ पकारे परे नृनकारस्य
न्स वा
२०६ पङ्ग ३११ पक्षात्तिर्मूले
(७)
सूत्रादि.
९६ पञ्च ३४२ पञ्चादे
८६ पतिः समासे हरिवत्
२०४ पत्न्यादयः
१३३ पथां टेः
४२
३२ पदान्तानां समानानामृतिऌति च वा ह्रस्वः
२०३ पद्धत्यादिभ्यो वा २५२ परिमाणवता सहसम
स्यतेऽमाद्यन्तस्य परनिपातश्च तत्पुरुषे ३४९ परेर्वर्जने वा द्वित्वम् ३२० पर्खा डण् १९८ पाणिगृहीती भार्या
याम् ३०५ पाण्डुकम्बलादिनिः २९९ पाण्ड
२५२ पात्रसमितादयो
निपात्या:
७८ पाददन्तनासिकाभासहृदयनिशाअसृगयूष
Page #12
--------------------------------------------------------------------------
________________
सिद्धान्तचन्द्रिकापूर्वार्द्धस्थ
पृष्ठाकाः। सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. पृष्ठाङ्काः। सूत्रादि.
यकृच्छकृदुदकआस्य- ! २२९ प्रतिः प्रतिनिधिप्रति- | २६० बहुब्राही विशेषणसमांसपृतनासानूनाम् . दानयोः
सम्यन्तक्तान्तसर्वादि३३४ पादार्घाभ्यां च
७५ प्रथमचरमतयडयड- संख्यानां पूर्वनिपातः १८८ पादो वा ईप्
ल्पार्धकतिपयनेमानां | १५४ बहूजों नुम्प्रतिषेधः १९४ पालकान्तान
जसी वा
३३९ बहोरिष्ठेर्थिः ३०८ पाराशर्यशिलालिभ्यां । १० प्रत्ययादर्शनं लुक् । ३३९ बहोर्भूश्च भिक्षुनटसूत्रयोनिनिः । ३५ प्रत्यये बमे जबस्या- ३१९ बहोलोपो भू च बहोः
३४५ बह्वल्पार्थात्कारका
पि नित्यम् ३०४ पितुभ्रातरि व्यः ३४० प्रमाणे दनवयसटू
च्छस् २९९ पितृवत्रादेरेयणि
मात्रट:
२९७ बाहादेश्व टिलोपः ३५१ पीडायां द्योत्यायां द्वे | २८ । २८ प्रवत्सतरकम्बलवस.
६१ भ्यः नार्णदशभ्य ऋणे
| ३१३ भवने क्षेत्र शाकटशास्तो बहुव्रीहिवञ्च
३३४ प्रशंसायां रूपः ३११ पील्वादिकर्णादिभ्यः
किनौ
| २३५ भविष्यत्यकस्य भविकुणजाही पाकमूलयोः ९ प्रसक्तार्दनं लोपः
प्यदाधमार्थस्येनश्च १९४ पुंयोगे च २३१ प्रसितोत्सुकाभ्यां योगे |
योगे षष्ठी न २६३ पुंवद्वा
तृतीयासप्तम्यौ
३१६ भागरूपनामभ्यो धेयः ४२ पुसोऽवपरे खपे संयो. २६ प्रस्यैष्यषयोन
३१९ भावेऽपि गान्तस्य लोपोन १८२ प्राग्धातोः
३१८ भावे तत्वयणः १४८ पुसोऽसुङ्
३३५. प्राचुर्यविकारप्राधा- १५२ भि दपाम् २९० पुण्यसुदिनाभ्यामह्नः
न्यादिषु मयट् १२९ भिस् भिम् क्लीबता १७९ प्रादिरुपसर्गः
| ३३४ भूतपूर्वे चरदू २८७ पुत्रे च
५१ भोस: ३३४ पुराणे प्रान्नश्च ३०२ प्रावृष एण्यः
२१० भोस भगोस् अघोस् ३४० पुरुषहस्तिभ्यामण च | २२५ फलप्राप्ती कालाध्वनो
भवद्भगवदघवतां वा १४१ पूजार्थाञ्चतेन _रत्यन्तसंयोगे तृतीया
निपात्या धौ २६४ पूरणार्थप्रत्ययान्ते
| ३२६ फलबर्हाभ्यामिनः । | १६२ भ्यस् शूभ्यम् प्रियादौ च न ३२६ बलादूलः २८४ भ्राष्ट्राग्न्योरिन्धे ७२ पूर्वादीनां नवानांजस- | ३३२ बहुवा उक्तार्थे स च । २८५ मत्वर्थे बहुस्वरस्य ङसिङीनामीस्मा- प्रागेव
२९६ मत्स्यस्य यलोपः स्मिनो वा २६० बहुव्रीहिरन्या ३०७ मध्यान्मः २४१ पूर्वेऽव्ययेऽव्ययीभावः । १९८ बहुव्रीहेजांतिपूर्वास २०४ मनोरै औ वा ३३२ प्रकारे जातीयः
क्तान्तात्
३०९ मनोर्जातावपत्ये ज्य२२४ प्रकृत्यादिभ्यश्च | २६९ बहुव्रीहौ धनुषोऽनङ् |
षणी
Page #13
--------------------------------------------------------------------------
________________
पृष्ठाङ्काः । सूत्रादि. १९० मन्नन्तान्ने
३२६ मलादिनः
३२५ महिषाडूमतुः
३०४ मातुर्भ्रातार डुलः १९३ मातुलोपाध्यायाभ्यां
वा
३०४ मातृपितृभ्यां पितरि
मातरि च डामहष्
१४९ मादू ३२३ मान्तोपधाद्वत्विनौ
१३ मुखनासिकावचनोऽनुनासिक:
३०६ मुखपार्श्वतसोलॉप ईये ३१७ मृदस्तिक:
४२ मोऽनुस्वारः
१२७ मो नो धातोः ४४ मो राजि समः क्वौ २६५ यङ्मानिनोः पुंवत् १०२ यटोsa २२९ यतश्चाध्वकालयोनि
र्माणं तत्र पञ्चमी ३३० यत्तदेतदामा तौ
२४४ यथाऽसादृश्ये
३५४ यथास्वे यथायथम् ४३ यमा यपेऽस्य
१९३ यवनालियाम् ४४ यवलमनपरे हकारे
मस्य यवलमना वा
२८ वलाद्यो द्व
३२३ यवादर्न १९३ यवाद्दोष
सूत्रादीनामकारादिवर्णक्रमः ।
सूत्रादि.
पृष्ठाङ्काः । १८९ यस्य लोप:
१३८ युजेः पञ्चसु नुम् न समासे इति च
२६७ युटि सति पुंवत्
३३९ युवापयोः कन् वा १५९ युवावौ द्विवचने १६७ युष्मदस्मदोः षष्ठी
चतुर्थीद्वितीयाभिस्ते मे वान वस्नसो २०७ यूनस्तिः
१६० यूयं वयं जसा
२२४ येनाङ्गविकार:
११७ वृणां नपुंसके ध
३२ वृणामसवर्णे स्वरे
समासे पदान्ते वा
ह्रस्वः ३० वे द्वित्वे
९१ वोर्धातोरिव स्वरे
२२ वोर्लोपश् वा पदान्ते
१३० वो ह ९२ खौवा
५२ रः
१२६ रः संख्याया: ३२९ रजः कृप्यासुतिपरिष
यो वलः १९ रहाद्यपो द्विः
२९२ राजपर्यायपूर्वो रक्ष:
पिशाचादिपूर्वश्च स भान्तः क्की म् २८३ रात्राह्नाहान्ताः पुंस्येव
।
( ९ )
सूत्रादि.
पृष्ठाङ्काः । २८४ रात्रेः कृति वा
५२ र लोपो दीर्घश्च २२६ रुच्यर्थधातुयोगे प्रीयमाणे
५२ रेफकृतिकस्य खपे
वा रेफः
९९
स्भ
४९ रोsरात्रि
३२४ लक्ष्म्या अच्च
२०३ लिंगार्थे प्रथमा
८८ लुकि न तन्निमित्तम्
३०० लुग्बहुत्वे कचित् २८३ लोकस्य पुणे ३२४ लोमपामपिच्छादिभ्यः शनेला:
८८ लोम्नोऽपत्येषु बहुष्व
कारः
३१९ लोहितादे डिमन भावे
वा
३१७ वत्तुल्ये
३४१ वत्वन्तात्स्वार्थे द्वयस
माटो
३३३ वत्सोक्षाश्वर्षभेभ्य
स्तनुत्वे १२७ वमयोश्च
१९२ वयोवाचिनो हायनस्थेप्
१९ वय वर्येण तवर्ण: २२९ वर्जनेऽपपरिभ्यां
पञ्चमी १८७ वर्णका तान्तवे -
Page #14
--------------------------------------------------------------------------
________________
• (१०)
सिद्धान्तचन्द्रिकापूर्वार्द्धस्थ
१२३ वसां रसे
पृष्ठाङ्काः। सूत्रादि. | पृष्ठांकाः। सूत्रादि. | पृष्ठाङ्काः सूत्रादि. १० वर्णविरोधो लोपशू ३१२ विनयभ्यां नानाजी | २३७ वोपसर्गस्य १८७ वर्तका शकुनौ प्राचाम् | न सह। २९५ वोऽव्यस्वरे २३४ वर्तमानाधारार्थक्तस्य । २२८ विनापृथगनाना वा २०२ वोर्गुणात् योगे षष्ठी | २२० विनासहनमसूतेनिर्धा- | २८२ त्रितः परस्य वा
रणस्वाम्यादिभिश्च
| १३१ बितो नुम् १४७ वसोर्व उः ३४० विन्मतोलुक्
| ३४४ शतादोनित्यम् ३५० वाक्यादेःसंबोधनस्या- | १३ विभक्त्यन्तं पदम् ३०८ शक्तियष्टयोरकिण सूयासंमतिकोपकुत्स- १३ विरामोऽवसानम्
। प्रहरणे नभर्त्सनेषु १७० विशेष्यपूर्व संबोधने
| ३०८ शम्याः प्लम् ४८ वाचस्पत्यादयो निपा- तरपूर्व संबोधन च
२८५ शरादेश्व तासिध्यन्ति
हित्वाऽन्यस्मात्संबोध
४७ शसपरे खसे विसर्ज ३३१ वाचो ग्मिनिः
नात्परयोनते
नीयस्य विसर्ग एव ७५ वा जसी | २१५ विश्लोषावधौ पञ्चमी
२५८ शसादी स्वरं तद्धित२४३ वा टाड्योः | ३२४ विष्वगित्युत्तरपदलो
यस्वरयोरीपीकारे च ३२७ वातातीसारपिशाचा
पश्चाकृतसंधेः
पदादेशः नामिनिः कुक् च | १३९ विश्वस्य वसुराटोदीर्घः
। ६. शति ३२७ वातात्समूहे च ३१२.विसंप्रोदः कटः
२५४ शसि बह्वल्पार्थस्य १५४ वाऽऽदीपोः शतुः १४६ विसर्गनुम्स्थानिकानु
पुंवत् ४४ वा पदान्तस्य
४५ शसे णोः कुक्दुको __स्वारव्यवधानेऽपि १०९ वाऽमशसि
४५ शसे चपस्य द्वितीया वा ११५ वाऽवसाने १२ विसर्गानुस्वारसंयोग
४७ शसे वा १३७ वाऽऽसु
परो गुरुर्दीर्घश्च
१५१ शसो नो वक्तव्यः १२४ वाहो वौ शसादौ स्वरे | ४७ विसर्जनीयस्य सः
२७६ शाकपार्थिवादीनां . . ३०९ विंशतित्रिंशद्भयों ड- | | ३१२ विस्तारे पटः
मध्यमपदलोपः कको वा ३४९ वीप्सायां पदं द्विः
३२५ शिखाया वल: २०९ विंशतेस्तिलोपो डिति । ३३९ वृद्धप्रशस्यया
२९६ शिवादेश्वाण ३४३ विंशत्यादेर्वा तमट् | २६६ वृद्धिहेतोस्तद्धितस्या- | ३२६ शीतोष्णतृप्रेभ्यस्तद१७१ विद्यमानपूर्वात्प्रथमा- | रक्तविकारार्थस्य न
। सहने न्तात्परयोरन्वादेशे | ३११ वेः शालशंकटौ
३२१ शुनो वस्य उवा च ऽप्येते वा ७७ वेड्योः
दीर्घः २२८ विद्याखीफारे पञ्चमी / ११० वेयुवः
| ३२६ शृङ्गवृन्दाभ्यामारकः
Page #15
--------------------------------------------------------------------------
________________
सूत्रादीनामकारादिवर्णक्रमः।
पृष्ठाकाः सूत्रादि. ! पृष्ठांकाः। सूत्रादि. | पृष्ठांकाः। सूत्रादि. ४० शे चग्वा
२९० संख्यापूर्व रात्रं क्लीबम् | २६८ समाहार एकवद्भावः २१० शेषाः कार्य कर्तृसाध.
२५८ संख्यापूर्वो द्विगुः । २५९ समाहारेऽत ईब् द्विगुः नयोदीनपात्रे विश्लेषा
३४४ संख्यायाः प्रकारे धा । ३२० समूहेऽर्थेऽपि वधौ संबन्ध आधार ७७ संख्याविसायपूर्वस्या
| १५४ सयङन्तस्य शौ म्ननु भावयोः ह्रस्याहन् वा औ
५८ सरूपाणामेक शेष ३५५ शेषा निपात्याः कत्या२९१ संख्याव्ययाभ्यां परस्य
एकविभक्तो दयः
पथः क्लीबता
| २६५ सर्वादेः समासादी २३४ शेषे कृति वा २६८ संख्यासुव्याघ्रादिपूर्व
पुंवत् १९८ शोणाद्वा
स्य पादशब्दस्यान्तलोपः
७१ सर्वादेः स्मट ११४ इत्वन्यादेः
२३७ सर्वादेहेतुप्रयोगे हेतो ३४१ संख्येयविशेषावधारणे ३३१ श्रद्धादेखें:
द्योत्ये च तृतीयाषष्ठ्यौ
द्वेस्तीयः २२६ श्लाघहनुस्थाशपां
२४ सवर्णे दीर्घः सह प्रयोगे बोधयितुमिष्टे | २९२ संघातार्थे सभान्तः ।
५३ सशब्दाद्विसर्गस्य लोपः ३१५ श्वसस्तिकण वा ३१२ संघाते कटः
स्वरे लोप एव पादपूरणं २०५ श्वशुरस्योकाराकार
| २६६ संज्ञापूरणार्थप्रत्यययोन लोप ऊश्च ८६ संज्ञोपसर्जनयो त्वम्
३१७ सस्नो प्रशंसायाम १३१ श्रादेः २१७ संबन्धे षष्ठी
२०१ सहनग्विद्यमानपूर्वान ३४२ षट्कतिकतिपयचतु३५२ संभ्रमेण प्रवृत्तावने
२२३ सहादियोगे तृतीया
कधा प्रयोगः यस्थ
२७७ सहादेः सादिः ३१२ षट्त्वे षड्गवः १२१ संयोगान्तस्य लोपः ।
| १२५ सहेः साढिः २०६ संहितशफलक्षणवाम-३१४ साक्षागृष्टरि संज्ञायां २७८ षष उत्वं दातृदशधासूत्तरपदादेः ष्टुत्वम् _____ सहितसहादेरनौपम्येऽपि
डिनिः २३७ षष्ठी हेतुप्रयोगे
८४ सखिपत्योरी
| ३५१ सादृश्ये द्योत्ये गुण३३४ षो डः २४१ स नपुंसकम्
वचनस्य द्वे स्तो बहु३८ ष्ट्राभः ष्टुः ३३सप्तम्यर्थे ईत्सधिन याति
व्रीहिवञ्च १८९ ष्टत्रितः १२२ शाभेन्नस्य रान
| २३१ साधुनिपुणाभ्यां पूजा१३६ ष्णः
६६ समानाद्धेलोपोऽधातोः यां सप्तमी ७० रुनों णोऽनन्ते २४१ समासप्रत्यययोः
२३२साध्वसाधुप्रयोगे सप्तमी १९२ संख्यादेदीन ईप् | २३९ समासश्चान्वये नानाम् | १६३ सामाकम् ३४५ संख्यापरिमाणाभ्यां २५ समासे कचिदैकपद्यं । २९१ सामान्ये नपुंसकम् वीप्सायाम् .
णत्वहेतुः
२५ सारङ्गः पशुपक्षिणोः
चेत्
Page #16
--------------------------------------------------------------------------
________________
(१२) सिद्धान्तचन्द्रिकापूर्वार्द्धस्थ-सूत्रादीनामकारादिवर्णक्रमः।
-
सुप्
पृष्ठाङ्काः। सूत्रादि. पृष्ठाङ्काः। सूत्रादि. | पृष्ठाङ्काः। सूत्रादि. १२१ सावनडुहः । ९७ स्तुरार
१३५ हनो ने ५७ सि औ जस अम् औ| ३२० स्तेनाद्यो नलोपश्च ५० हवे शस् टा भ्याम् भिस् । ३७ स्तोः श्चुभिः श्चुः
२५ हलादेरीषादी टेल.पो के भ्याम् भ्यस् ङसि ९० त्रियां योः
वक्तव्यः भ्याम् भ्यस् स् | सियासवन्तिकन्तिक- २७ हसात्परस्य झसस्य ओस् आम डि ओस् |
लोपो वा सवर्ण झसे
रुशूरसेनादिभ्यो३२५ सिध्मादेर्लः
ऽबहुत्वेऽपि
८९ हसेऽई हसः ६६ सिधिः
३५३ स्त्रीनपुंसकयोरुत्तरप-३२१ हिते च २५ सीमन्तः केशवेशे दस्थाया विभक्तराम्भावो वा ३२६ हिमादेलुः
१९३ हिमारण्ययोमहत्त्वे ७२ सुडामः
१०८ स्त्रीभ्रुवोः २९७ सुधातव्यासवरुडनि- ३४५ स्त्रीपुंसाभ्यां नबस्नबी ३२६ हृदयादालुः .
३०७हेतुमनुष्येभ्योवा रूप्यपादचाण्डालबिम्बाना३०० रुयपत्ये लुक्
. ३१३ स्नेहे तैल: मकङ्च
मयटी ३९ सुपो न २२७ स्पहयतेरीप्सिते
| २३० हेतौ तृतीयापञ्चम्यौ १९६ सुर्यागस्त्ययोरीयईपिच १२९ स्भ्यः
३०७हेमन्तस्य वातलोपोऽणि १९५ सूर्या देवतायां चाप् ४६ स्रोविसर्ग:
३३ हैहेप्रयोगे हैहयोः २९२ सेनासुराच्छायाशा- १० स्वरानन्तरिता हसाः
अलुतो वा लानिशान्तो वा
संयोगः
३६ हो झभाः ९५ सेरा
५१ स्वरे यत्वं वा १२४ हो ढः १४९ सेरौः
२६७ स्वांगादीपोऽमानिनि न ५ ह्रस्वदीर्घप्लुतभेदाः ८३ सेडर्डाऽधेः १९९ स्वांगाद्वा
सवर्णाः ५३ सैषाद्धसे ३२७ स्वादामिन्नैश्चर्ये । १२० हस्वदेशे संध्यक्षराणा. ५९ सो गः पुंसः २३१ स्वाम्यादियोगे षष्टी- मिकारोकारौ १४९ सौ सः
१२ ह्रस्वो लघुः १३९ स्कोराद्योश्च | ३१६ स्वार्थेऽपि | १८८ ह्रस्वो वा
सप्तम्यौ
इति सिद्धान्तचन्द्रिकापूर्वार्द्धस्थसूत्रादीनामकारादिवर्णक्रमः समाप्तः।
-
Page #17
--------------------------------------------------------------------------
________________
ने सिद्धान्तचन्द्रिका । सुबोधिनी-तत्त्वदीपिका-टीकाढयोपेता।
* (पूर्वार्द्धम् ) *
श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः। नमस्कृत्य महेशानं मतं बुद्धा पतञ्जले । वाणीप्रणीतसूत्राणां कुर्वे सिद्धान्तचन्द्रिकाम् ॥ १॥
सुबोधिनीपुराणपुरुषं ध्यात्वा नत्वा चार्हन्तनायकम् । सिद्धान्तचन्द्रिकावृत्तिं चकेरीमितरामहम् ॥ १॥ विद्यारत्नपयोनिधौ स्वरतराम्नाये जगत्पूज्यके श्रीभट्टारकसंपदं गुणगणैः स्तुत्यां धरन्पुण्यवान् । पूज्यश्रीजिनभक्तिसूरिधिपो वर्ति विद्यानिधिः सोऽयं शीतकरायते च यशसा सरायते तेजसा ॥ २॥ श्रीकीर्तिरत्नः सूर्याहाँ यतीन्द्रोऽभूत्तरां ततः। श्रीमत्सुमतिरङ्गाख्यः पाठकवरस्ततः ॥ ३ ॥ श्रीपाठकाः श्रीसुखलाभसंज्ञा जाग्रत्प्रभावा विलसत्प्रतिज्ञाः। तच्छिष्यवर्याः कृतिराजिधुर्याः श्रीपाठकाः पाठकवारणेन्द्राः ॥ ४ ॥ श्रीभागचन्द्रा गणिसंप्रवर्हाः संवेगरङ्गाङ्गनिमग्नगात्राः। श्रीभक्तिपूर्व विनयं हि येषां तन्नामधेयं गुरवो वदन्ति ॥५॥ तेषां हि तेषां विनयप्रधानोऽनवद्यविद्याभ्यसनैकतानः।
प्राज्ञः सदानन्दगणिः सुशिष्यः सुबोधिनी संविदधाति वृत्तिम् ॥ ६॥ ग्रन्थादौ ग्रन्थमध्ये ग्रन्थान्ते च मङ्गलमाचरणीयमिति शिष्टाचारः। तत्र मङ्गलं त्रिविधम् ।आशीर्वादात्मकं नमस्कारात्मकं वस्तुनिर्देशात्मकं चेति।अथ ग्रन्थादौ ग्रन्थ
Page #18
--------------------------------------------------------------------------
________________
(२)
सिद्धान्तचन्द्रिका। कर्ता रामाश्रमो नमस्कारात्मक मङ्गलं शिष्यशिक्षायै निबध्नाति ॥ नमस्कृत्योत।। अहं सिद्धान्तचन्द्रिकां कुर्वे । प्रमाणेन प्राप्तोऽर्थः सिद्धान्तः। 'षिधूशास्त्रादों' अस्माद्गत्य
र्थादिति क्तः। सिद्धो निष्पन्नोऽन्तो निश्चयोऽत्रति सिद्धान्तः। सिद्धान्ते चन्द्रिकेव चन्द्रिका शाकपार्थिवादित्वान्मध्यमपदलोपः सिद्धान्तचन्द्रिका ताम् । चन्द्रज्योतिरिव प्रकाशिकामित्यर्थः। सकलजनाह्लादकत्वसाम्येन चन्द्रिकाशब्दप्रयोगः । चन्द्रोऽस्त्यस्यामिति चन्द्रिका। 'अइको च मत्वर्थे' इति इकः। चन्द्रं कायात प्रतिपादयतीति वा चन्द्रिका । आतो डः। चन्द्रमाचष्टे इति वा चन्द्रिका। ञ्यन्ताद्वञ्।"चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमरः॥ कुर्वे इति लटू उत्तमपुरुषस्यैकवचनम् । आख्यातप्रत्ययस्तु कर्तयस्ति। कर्तुराख्यातेनोक्तत्वादाख्यातवाच्यकारकवाचकः प्रथमान्तोऽहमिति कर्ता संगृह्यते। कुर्वे इत्यत्र 'य्वोर्विहसे' इति दीर्घस्तु न भवति कुरुछुरोनेति निषेधात्॥ ननु करिष्यमाणायाश्चन्द्रिकायाः कथं कुबै इति वर्तमाननिर्देशः। उच्यते । वर्तमानसमीपे भूते भविष्यति चेति भविष्यदर्थे लटू । केषां सिद्धान्त इत्यत आह॥ वाणीप्रणीतसूत्राणामिति ॥ वाण्या प्रणीतानि वाणीप्रणीतानि वाणीप्रणीतानि सूत्राणि वाणीप्रणीतसूत्राणि तेषाम् । 'वण शब्दे' पचाद्यः । वणो ब्रह्मा 'देवतेदमर्थे' इत्यण् । ततो व्रण ईवितीपावाणी। वाणयति प्रेरयति जीवानिति ञ्यन्तात्पचाद्यः।नदादेरितीब्वा । गीर्वाग्वाणी सरस्वती" इत्यमरः । नियः कर्मणि क्तः। 'सूत्र वेष्टने' चुरादिः सूत्रयन्ति बहूनर्थानल्पाक्षरैरिति सूत्राणि। पचाद्यः। किं कृत्वा ।महेशानं नमस्कृत्य। महांश्चासावीशानश्चति महेशानः शम्भुस्तम् । सहादित्वान्महच्छब्दस्य महादेशः। ईष्टे इतीशानः। कतरि शानः ॥ नमस्कृत्यति॥ पूर्वकाले क्त्वेति क्त्वास्थाने समासे क्यविति भावे क्यप।वाचस्पत्यादित्वाद्विसर्गस्य सः।महेशानमिति । अनुक्तत्वात्कर्मणि द्वितीया। एककर्तृकयोईयो कृत्ययोः कर्तरि प्रथमाऽस्ति । विशेष्यया आख्यातक्रियया कर्तुरुक्तत्वात् 'गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः'इतिन्यायादाख्यातक्रियया कर्तुरभिसंबन्धः॥ ननु महेशानमित्यत्र नमआदियोगे' इति चतुर्थी स्यात् । मैवं वद । नमस्करोति देवानित्यत्रेव द्वितीयैव युक्ता। 'उपपदविभक्तेः कारकविभक्तिबलीयसी' इत्युक्तत्वात् । स्वयंभुवे नमस्कृत्येत्यत्रतुस्वयंभुवमनुकूलयितुमित्यर्थविवक्षायां 'तुमोऽप्रयुक्तस्यकर्मणि'इत्यनेन चतुर्थी । किं च जहत्स्वार्थावृत्तिपक्षे नमःशब्दस्यात्र निरर्थकत्वान्नमोयोगे चतुर्थी न भवति 'अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम्' इत्युक्तत्वात् । पुनः किं कृत्वा । पतञ्जलेर्मतं बुद्धा ज्ञात्वा । पतञ्जलिना मन्यते यत्तन्मतम् । 'मातबुाद्ध' इति वर्तमाने कर्मणि क्तः। वर्तमानाधाराथस्य क्तस्य इत्यनेन पतञ्जलेरित कर्तरि षष्ठी । 'बुध अवगमने' भावे क्त्वाप्रत्ययः। पतन्तोऽञ्जलयो यास्मिन् स पतञ्जलिः। शेषनागःतस्य पतञ्जलेः। 'इलादेरीषादौ' इति टिलोपः । किंच “आसनं ब्रह्मणस्तस्य तपसामुत्तमं तपः॥ 'प्रथमं छन्दसामङ्गमाहुयाकरणं बुधाः ॥१॥ अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्ध
Page #19
--------------------------------------------------------------------------
________________
[मङ्गलाचरणम् ] टीकाद्वयोपेता। नम् ॥ तत्त्वावबोधशब्दानां नास्ति व्याकरणाहते ॥ २॥" इत्युक्तत्वात्सर्वत उत्तम व्याकरणम् । तद्व्याकरणं सूत्रम्, सूत्रव्याख्यानम्, वाक्याध्याहारः, उदाहरणम् , प्रत्युदाहरणं चेति समुदितं भवति । तस्यैकदेशः सूत्रम् । तद्व्याख्यानं पञ्चधा। यथा-"पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना । आक्षेपस्य समाधान व्याख्यानं पञ्चधा स्मृतम्" इति ॥
तत्त्वदीपिकाप्रणम्य जगतां नाथं महेशं साम्बमव्ययम् ॥
सिद्धान्तचन्द्रिकाव्याख्या क्रियते तत्त्वदीपिका ॥१॥ प्रारिप्सितनिरन्तरायपरिसमाप्तये विहित मङ्गलं शिष्यशिक्षायै निबध्नन् चिकीर्षितं प्रतिजानीते। नमस्कृत्येत्यादिना ॥ अहं रामचन्द्राश्रमः वाणीप्रणीतसूत्राणां सिद्धान्तचन्द्रिकां कुर्वे । किं कृत्वा । महेशानं नमस्कृत्य । पुनः पतञ्जलेर्मतं बुद्ध्वेत्यन्वयः। नमो नतिं कृत्वा इति नमस्कृत्य । कृञः 'समासे क्यप्' इति पूर्वकाले क्यप् । हस्वस्येति तुक् । वाचस्पत्यादित्वाद्विसर्गस्य सः।नतिजन्यप्रीत्याश्रयत्वेन महेशानस्य कर्मत्वम् । ईष्टे इति ईशानः। ईश ऐश्वर्ये । शतृशानाविति शानप्रत्ययः। शिति चतुर्वदिति चतुर्ववादप् कर्तरीत्यप् । तस्यादादेरिति लुक् । ईशानाः सातिशयाः बहवः सन्ति तद्वयावृत्त्यर्थ विशेषणं महांधासावीशानश्चेति महेशानः।सहादित्वान्महत आत्वम् । सर्वापेक्षयोत्तमो यः परमेश्वरस्तम् । अनेन व्याकरणस्य सिद्धान्तः सूचितः। ध्वनिविशेषावच्छिन्नं ब्रह्मैव प्रतिपाद्यमिति । मन्यते इति मतम् । मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने मन्यतेः कर्मणि तक् । इच्छाविषयभूतं ज्ञानविषयभूत वा बुद्ध्वा ज्ञात्वेत्यर्थः।बुध अवगमने।पूर्वकाले क्त्वा।पूर्वकालत्वं च क्त्वाक्यपोः कुर्वेक्रियापेक्षया । खले कपोतन्यायेन द्वयोस्तत्र संबन्धः । विशेषणानां परस्परं संबन्धानभ्युपगमात्,आख्यातान्तवाच्यायाःक्रियाया विशेष्यत्वस्वीकारात्।पतन्नञ्जलियस्मिन् सर्वेषां नमस्कार्यत्वात् पतञ्जलिः तस्य पतञ्जलेरिति । मननक्रियाऽपेक्षया कर्तृकार्ययोरिति कर्तरि षष्ठी ।न क्तादाविति निषेधः क्तस्य स निषेधो न तु तकः। अनेन प्रक्रियामात्रं दृष्ट्वाऽयं ग्रन्थो न इध्यःकिन्तु भाष्यपर्यन्तं ज्ञात्वेति सूचितम् । वणतिवेदशब्दमुच्चारयति इति वणो ब्रह्मा। 'वण शब्दे'पचाद्यः। तस्येयं शक्तिवाणी सरस्वती । 'देवतेदमर्थे' इत्यण् । व्रण ईप् । यद्वा वाणयति सर्वान् जीवान् शब्दोच्चारणे प्रेरयतीति ज्यन्तात्पचाद्यः।नदादेरितीप् । प्रणीयन्ते इति प्रणीतानि।णीञःकर्मणि तः। वाण्या प्रणीतानि वाणीप्रणीतानि । अमादाविति तत्पुरुषः। सीव्यन्तेऽन्तर्भाव्यन्ते अस्मिन्नर्था यैस्तानि सूत्राणि । षिवु तन्तुसंताने । सिवेरुच्चेत्यौणादिकस्त्रप्रत्ययः। यद्वा सूत्रयन्ति वेष्टयन्ति अल्पाक्षरैर्बहूनानिति सूत्राणि । 'सूत्र वेष्टने'चुरादिः। पचाद्यः । अल्पाक्षरैर्बह्वर्थसूचकानि।वाणीप्रणीतानि च तानि सूत्राणि चेति कर्मधारयस्तेषाम्। संबन्धसामान्ये षष्ठी। कुर्व इति कृो वर्तमाने जित्त्वादात्मनेपदम् । उत्तमपुरुषस्यैकवचनम्।तनादेरुप् । गुणः। ङित्यदुरित्युत्वम् । य्वोर्विं हस इति दीर्घस्तु न संभवति संज्ञापूर्वकत्वात्।संज्ञापूर्वको विधिरनित्यः। द्विमात्रो दीर्घ इति संज्ञा असेधीदिति सिद्धः।षिधू शास्त्रादौ । गत्यर्थेति क्तः। सिद्धो निष्पन्नोऽन्तो निश्चयोऽत्रेति सिद्धान्तः। अन्यार्थे बहुव्रीहिः। चन्द्रोऽस्त्याश्रयत्वेनास्या इति चन्द्रिका।अइकावितीकः। सिद्धान्तानांचन्द्रिकासिद्धान्त
Page #20
--------------------------------------------------------------------------
________________
(४)
सिद्धान्तचन्द्रिका। [संज्ञाप्रकरणम् ] चन्द्रिकासा यथा कुमुदानां प्रकाशिका तथ्यं सरस्वतीसूत्रार्थप्रकाशिकेति सादृश्याद्गौणप्रयोगः। सिद्धान्तशब्दःसंबन्धित्वात्सूत्राणामितिविशेषणसापेक्षोऽपि चन्द्रिकाशब्देनसमस्यते।देवदत्तस्यगुरुकुलमित्यत्र गुरुशब्दो यथा। एतेन पदार्थःपदार्थेनान्वेति नतु पदार्थैकदेशेनेति नियमात्सूत्रशब्दस्य कथंसिद्धान्तशब्देनान्वयइत्युक्तिःपरास्ताविस्तुतस्तुसाकाङ्क्षत्वनिराकाङ्क्षत्वेएवान्वयानन्वयप्रयोजके न तुपदार्थत्वतदेकदेशत्वे । ननुनमस्कृत्य महेशानमित्यत्रनमआदियोगेचतुर्थीतिसूत्रेण चतुर्थ्या भवितव्यमिति चेन्न उपपदविभक्तःकारकविभक्तिर्बलीयसीतिवचनाद्वितीयैव । अथकथं स्वयंभुवे नमस्कृत्येति चतुर्थीतिचेत्स्वयंभुवमनुकूलयितुमित्यर्थे तुमोऽप्रयुक्तस्यकर्मणीतिकर्मणिचतुर्थीदर्शनादित्यवेहि । यत्तुकुर्वइत्यत्रआत्मगामिफलाभावात्कथमात्मनेपदमित्याशयग्रन्थकरणोत्पन्नपुण्यस्य दानफलवदात्मगामित्वादात्मनेपदमितिसमाहितंतन्नआत्मगामिचेत्फलमात्मनेपदं परगामिचत्फलं परस्मैपदमित्यस्यासार्वत्रिकत्वात् । तथा च मयूरभट्टः 'कमलवनोद्घाटनं कुर्वते ये ।' मयूखा इति शेषः ।कमलवनोद्घाटनरूपफलस्य कर्तृभूतमयूखागामित्वेऽपि कुर्वत इत्यात्मनेपदमुदाजहार॥१॥
अथ संज्ञाप्रकरणम् । (अइउऋल समानाः ) अनेन क्रमेणैते वर्णा ज्ञेयाः । ते च समानसंज्ञाः स्युः ॥ नैतेषु सूत्रेषु संधिरनुसंधेयोऽविवक्षितत्वात् । विवक्षितस्तु संधिर्भवतीति नियमात् ॥
(सुबोधिनी)-अइउऋल समानाः ॥ संज्ञासूत्रमिदम् । आद्यन्ताभ्यामित्यनेन संज्ञाविधायकसूत्रेण सहकवाक्यत्वात्। तेनावेल इत्यादिप्रत्याहारसंज्ञा सिध्यति। अत्राकारादिष्वर्थवत्सु सत्स्वपि स्वरूपग्रहणस्येष्टत्वेनार्थवत्वस्याविवक्षितत्वमस्ति।अर्थवत्त्वाभावान्न प्रातिपदिकसंज्ञा॥प्रातिपदिकत्वाभावान्न स्यादिविभक्त्युत्पत्तिःअविभक्तिकानां समासो न भवति पदानामेव समास इत्युक्तत्वात्। समासाभावाद्वाक्यमात्रतःसाङ्केतिकं षट्पदमिदं सूत्रम्॥ननु सन्धिःकथं न कृतः। उच्यते।वर्णानामसंदिग्धत्वन बोधनायाविवक्षितत्वादेतेष्वसंधिः। उक्तं च। “संहितैकपदे नित्या नित्या धातूपसर्गयोः॥ नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १॥” इति ॥ संहिताऽत्र सांधः । एकमेव पदमित्येकपदम् । तत्र संहिता नित्या । यथा । देवौ ॥ धातूपसर्गयोरुभयाः संहिता नित्या । प्रेक्ष्यते॥समासे संहिता नित्या अवान्तरपदविभागाभावात् समासे ोकपदवात् । यथा देवेन्द्रः॥ सा संहिता वाक्ये विवक्षां वक्तुमिच्छामपेक्षते । यथा ' हे रोहिणि त्वमसि शीलवतीषु धन्या एनं निवारय पतिं सखि दुर्विनीतम् ।' इत्यादिषु विवक्षाधीना संहिता ज्ञेया । तेन वाक्ये विवक्षितः मन्धिर्भवति न त्वविवक्षित इति ॥ स्वराणांचादिषु पाठान्निपातसंज्ञा।औनिपात इति प्रकृतिभावान्न संधिरित्यन्ये वदन्ति॥ ननु वर्णात्कारःइत्यनेनेभ्यः कारप्रत्ययः कथं न स्यात् । उच्यते । वार्तिकं दृष्ट्वा सूत्रकृतःप्रवृत्त्यसंभवान्न कारप्रत्ययः॥ ननु अकाराद्युपदेशेन यथा तत्सवर्णानामाकारादीनां
Page #21
--------------------------------------------------------------------------
________________
[ संज्ञाप्रकरणम् ] टीकाद्वयोपेता।
(५) लाभात्पृथगाकारादयो नोपदिष्टास्तथा ऋलवर्णयोरपिसावात ऋकारोपदेशेनैवोभयग्रहणसिद्धेः किं पृथगुपदेशः।उच्यते।ऋलवर्णयोः सावर्ण्यस्यानित्यतां ज्ञापयितुमुभयोरुदेशातत्फलं तु क्लप्ता शिखा यस्य स क्लप्तशिखस्तस्य दूरात्संबोधने क्लप्तशिखेस्त्रप्लुतभवनम्।ऋलवर्णयोः सावर्ण्यस्य नित्यत्वे तु गुरोरनृतोऽनन्त्यस्यापीत्यत्रान्त इति निषेधाहकारस्येव लकारस्यापि प्लुतो न स्यादित्यर्थः। इदं सूत्र कार्यद्वयं वक्ति। तत्किम् । अकारादिक्रमं तेषां समानसंज्ञां चासमानं मान परिमाणं यषां ते समानाः। समानशब्दः संज्ञा। अकारादयः संज्ञिन इति।इह प्रत्येकमकारादीनां संज्ञा न समुदा यस्य तस्य युगपल्लक्ष्ये प्रयोगाभावात्। समानसंज्ञाप्रदेशा:समाना लोपोधातारित्यादयः। किंच एतेषूक्तवक्ष्यमाणेषु सूत्रेषु संधिः संहिता नानुसन्धेयो न कर्तव्यः। कस्मात् वक्तुमिच्छा विवक्षा विवक्षा जाताऽस्यति विवक्षितः । वक्तुमिश्रो विवक्षित इति वा । विवक्षितस्य भावो विवक्षितत्वं न विवक्षितत्वम् अविवक्षितत्वं तस्मादविवक्षितत्वात् वक्तुरनिष्टत्वात् । तथा हि वाक्ये तु सा विवक्षामपेक्षते ' इति ॥
(तत्त्वदी०)-प्रकृतोपयुक्तमाह ॥ अइउऋल समानाः॥ अत्र प्राञ्चः । षट्पदमिदम्,न तु द्विपदम्।द्विपदत्वे हि पूर्वपदं पञ्चवर्णात्मकम्।तथा च समाहारद्वन्द्वः स च अश्व इश्व उध आ च आ च अइउऋलाएवं समासे संहिता स्यादिति। तथा चोक्तम्-"संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते॥"इति।।समासे वाक्यत्वाभावेन विवक्षाया असंभवादविवक्षितत्वादित्यादिकमनर्थकं संपद्येत।अतो न द्विपदमित्याहुः।वस्तुतस्तु नैतेषु संधिः सूत्रत्वादित्येव वक्तुमुचितमातथाच द्विपदत्वेऽपिनदोषः।उक्तं चाभोभगोअघोअपूर्वस्य योऽशीति पाणिनिसूत्रे असंधिः सौत्रः इति भट्टोजिदीक्षितैः।औ निपात इति सूत्रेण संधिविरहात्। अत्राहुः। अत्राकारादीनां स्वरूपेणानुकार्येण वाऽर्थस्य सतोऽप्यविवक्षणान्नामत्वाभावाद्विभक्त्यनुत्पादादसमासेनैकपदत्वाभावात्पञ्च पदानीति।तत्रेदमवधेयम्।पञ्च पदानीति तावद्वयाहतम्।विभक्तेरनुत्पादेन पदत्वासंभवात् । विभक्त्यन्तं पदमिति पदसंज्ञाविधानात् । किंतु सूत्रत्वादेव विभक्तेलक्। वर्णपरिगणनस्य संज्ञोपयोगित्वेन तत्पूर्वकं संज्ञाविधानमिति दर्शयति । अनेनेति ॥ अमि पूर्व इत्यादाविवार्थद्वयकथनेन विभागः ।
(इस्वदीर्घप्लुतभेदाःसवर्णाः) एतेषां ह्रस्वदीर्घप्लुताः सजातीयाः परस्परं सवर्णा भण्यन्ते ॥
(सुबोधिनी )-हस्वदीर्घप्लुतभेदाः सवर्णाः एतेषाम् अइउऋलवर्णानां ये भेदा विशेषव्यक्तयो ह्रस्वदीर्घप्लुतरूपाः सजातीयाः समाना चासौ जातिश्च सजातिः सहादित्वात्समानस्य सादेशः सजातौ भवाः सजातीयास्ते मिथः सवर्णसंज्ञका आचायेण कथ्यन्ते॥ह्रस्वश्च दीर्घश्च प्लुतश्च ते ह्रस्वदीर्घप्लुताः हस्वदीर्घप्लुताश्च ते भेदाश्च हस्वदीर्वप्लुतभेदाः जातिस्थानाभ्यां समानाः वर्णाः । सहादित्वात्समानस्य सः॥
Page #22
--------------------------------------------------------------------------
________________
सिद्धान्तचन्द्रिका । (तत्वदी०)-हस्वदीर्घप्लुतभेदा इति॥हस्वश्व दीर्घश्च प्लुतश्च तेषां ये भेदा उदात्तादयस्तेषां सवर्णसंज्ञाइत्यर्थः॥हस्वादिभिर्भेदशब्दस्य कर्मधारयो वायत्तुवासुदेवेन ह्रस्वादिभेदान्तस्यद्वन्द्वं कृत्वा व्याख्यातं तदसत् । अनन्तरग्रहणस्य वैयर्थ्यप्रसंगात् ॥ एतेषामिति॥अनन्तरोक्तानाम् । अइउऋलवर्णानामेवांगुल्या निर्देशः।समानो वर्णो येषां ते सवर्णा इत्यन्वर्थसंज्ञाश्रयणात्सजातीया इति।तथाचाकारस्याकारेणैव सावर्ण्य न तु विजातीयैरीकारादिभिरिति बोध्यम् ॥ननु अन्वर्थसंज्ञाबलादेवात्रसवर्णसंज्ञासिद्धौतद्विधायकं सूत्रंकिमर्थमिति चेन्नासन्ध्यक्षराणामप्यन्वर्थसंज्ञया सवर्णसंज्ञा स्यादिति तन्निरासार्थमिदं सूत्रम् । यदि त्वैऔइति पृथग्निर्देशो ज्ञापकस्तदेदं मन्दप्रयोजनम् ॥
(ऋलवर्गौच) एकमात्रो ह्रस्वः । द्विमात्रो दीर्घः त्रिमात्रः प्लुतः ॥ ( सुबोधिनी) ऋलवर्णौ च ॥ जातिस्थानाभ्यां भिन्नत्वेन सावर्ष्याप्राप्तौ विध्यर्थं वचनम् । पदान्तानां समानानामिति प्रकृतिभावः । एतावपि सवर्णसंज्ञकावाचार्येण कथ्येते । सवर्णसंज्ञाप्रदेशाः सवर्णे दीर्घः सहेत्यादयः॥ तेषां भेदानाह ॥ एकमात्रो ह्रस्व इति ॥ मात्राशब्देनाक्षिस्पन्दनप्रमाणः काल उच्यते । “मात्रं त्ववधृतौ स्वार्थे कात्स्न्यै मात्रा परिच्छदे।अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे॥काले वृत्तेच"इति हेमचन्द्रः । एका मात्रोच्चारणकालो यस्य स एकमात्रो ह्रस्वसंज्ञः कथ्यते । हसति हसते वा दीर्घापेक्षयेति ह्रस्वः ॥ द्विमात्रो दीर्घः ॥ द्वे मात्रे उच्चारणकालो यस्य स द्विमात्रो दीर्घसंज्ञः कथ्यते।हणाति दीर्यते वा मुखमिति दीर्घः॥त्रिमात्रः प्लुतः॥तिस्रो मात्रा उच्चारणकालो यस्य स त्रिमात्रः प्लुतसंज्ञः कथ्यते॥प्लवतेलंघते हस्वदीर्घाविति प्लुतः॥
(तत्त्वदी०)-ऋलवर्णाविति॥आ च आ च ऋलौ तौ च तौ वर्णाविति।यद्वा आ चलवर्णश्च तौनिनु ऋलवर्णावित्यनेनैव ऋवर्णलवर्णयोःसावादेव ऋकारोपदशेनैव लकारोपदेशे सिद्धे अइउऋल समानाः इति सूत्रेलकारग्रहणं व्यर्थमितिचेत्सत्यम्।ऋवर्णलवर्णयोःसावर्ण्यस्यानित्यत्वज्ञापनाय पृथक् लकारग्रहणम् इत्यवधेयम्।तत्फलंतु हे 'क्लप्तशिख' इत्यत्र 'गुरोरनृतः'इत्यनेन प्लुतत्वे कर्तव्ये ऋकारपर्युदासेन लकारस्य न पर्युदासः ।ह्रस्वादिसंज्ञाश्च लोकप्रसिद्धा इत्याह ।। एकमात्र इति ॥ मीयते इति मात्रा उच्चारणकालः।एका मात्रा यस्येति विग्रहः। एवमन्यदपि ।
(एऐ ओऔ सन्ध्यक्षराणि). ( सुबोधिनी )-एऐओऔ सन्ध्यक्षराणि ॥ पूर्ववद्वाक्यत्वात्पञ्चपदमिदं सूत्रम् ॥ अत्रापि सन्ध्यभावोऽविवक्षितत्वात् । इदमपि कार्यद्वयं षक्ति । तत्किम् । एकारादिक्रम सन्ध्यक्षरसंज्ञां च । सन्धौ जातान्यक्षराणि सन्ध्यक्षराणि । सन्ध्यक्षरसंज्ञाप्रदेशाः संध्यक्षराणामित्यादयः॥ . (तत्त्वदी०)-एऐओऔ संध्यक्षराणीति ॥ ननुसंधेर्जातान्यक्षराणि सन्ध्यक्षराणीत्यन्वर्थसंज्ञाबलादेव सन्ध्यक्षरसंज्ञासिद्धौ तत्संज्ञाविधायकं सूत्रं व्यर्थमिति चेन्नायकारादीनामपि संधिजत्वाविशेषेण सन्ध्यक्षरसंज्ञा स्यादिति तन्निरासार्थमिदं सूत्रम्।एषु च भागद्वयसत्त्वेऽपि नरसिंहवत्
Page #23
--------------------------------------------------------------------------
________________
[संज्ञाप्रकरणम् ] टीकाद्वयोपेता।
(७) जात्यन्तराक्रान्तत्वेन न भागकार्यम् । तेनामे इदं वायो उदकमित्यत्र सवर्णदीर्घत्व न । अत्रवर्णपरिगणनसंज्ञाविधानरूपकार्यद्वयस्य वृद्धकुमारीवरन्यायेन सिद्धेर्न वाक्यद्वयम्।एवं पूर्वसूत्रेऽपि बोध्यम् ।
(उभये स्वराः ) अकारादय एकारादयश्च स्वरा उच्यन्ते ॥ ( सुबोधिनी )-उभये स्वराः॥ उभाववयवौ येषां ते उभये तयडयटौ संख्याया अवयवे इत्ययट्र। “स्वरो नासासमीरेस्यान्मध्यमादित्रिकस्वरे । उदात्तादावकारादौ षड्जादौ च ध्वनौ पुमान् ॥” इत्याद्यकारादिभिन्नार्थान्तरवारणायेदम् । हस्वदीर्घ प्लुता भेदा विशेषव्यक्तयो येषां ते हस्वदीर्घप्लुतभेदाः एतादृशा अकारादयं एकारादयश्चाचार्येण स्वरसंज्ञकाः कथ्यन्ते । स्वयं राजन्ते शोभन्ते इति स्वराः । 'राजृ दीप्तो' अस्मान्नानीति डप्रत्ययः । एकाकिनोऽपि प्रायोऽर्थप्रतिपादने समर्थाः इत्यर्थः ॥ स्वरा इति बहुवचनं तु प्रत्येकं संज्ञाविधानार्थ ज्ञेयम् ॥ ननु 'उभये' इति ग्रहणं व्यर्थम् । अकारादीनामेकारादीनां चानुवृत्त्यैव लब्धत्वात्। उच्यते । 'अनन्तरस्य विधिर्वा प्रतिषेधो वा' इति न्यायोऽनेन ज्ञाप्यते । अनन्तरत्वादेकारादीनामेवानुवृत्तिःस्यात् न त्वकारादीनामन्तरितत्वादिति । स्वरसंज्ञाप्रदेशाः'इ यं स्वरे' इत्यादयः॥
(तत्त्वदी.)-उभयइति ॥ ननु ते स्वरा इत्येव किमिति न सूत्रितं तच्छब्दस्य पूर्वपरामार्शवनाकारादीनामेव लाभादिति चेन्न अनन्तरोक्त संध्यक्षराणामेव तच्छब्देन परामर्शः स्यादिति शङ्काया निवृत्तये उभयग्रहणस्यावश्यकत्वात् । यद्वा स्वरा इत्येवास्तु अकारादीनामनुवृत्त्यै लाभादिति चेन्न उक्तयुक्तेः । यदि तूत्तरसूत्रेऽवर्णपर्युदासेनाकाराद्यनुवृत्तिस्तदोभयग्रहणे सर्वादिप्रयोजनार्थमवेति ध्येयम् । बहुवचनं प्रत्येकसंज्ञार्थमपि त्यक्तुमुचितं समुदायस्य युगपल्लक्ष्ये प्रयोगाभावादेव तल्लाभात् । एवं पूर्वोत्तरसूत्रेष्वपि बोध्यम् । यत्तु अकारादयः पञ्च चत्वार एकारादय इति तन्न अकारादिषु न्यूनाधिकसंख्याया असंभवेन तद्ग्रहणस्यानर्थकत्वात् ॥
(अवर्जा नामिनः) अवर्णवर्जाः स्वरा नामिन उच्यन्ते ॥ (सुबोधिनी)-अवर्जानामिनः॥अश्च आश्च तयोःसमाहारःआमिति केचित्तन्मन्दम् । अइत्यनेनात्वजातेरेवाभिमतत्वात्। अंवर्जयन्तीत्यवर्जाः। वृजी वर्जने'चुरादिः। अस्मात् कार्येऽणित्यणप्रत्ययः। पूर्वसूत्रादुभये इत्यनुवर्तनीयम् । अवर्णवर्जा उभये इकारादय एकारादयश्च स्वरा नामिसंज्ञका आचार्यण कथ्यन्ते ॥ नमनं नामः। भावे घञ् । नामोऽस्यास्तीति नामी। नामिसंज्ञाप्रदेशा 'नामिनो रः' इत्यादयः । किंच स ह्रस्वदीर्घप्लुतरूपस्वरःप्रत्येकमुदात्तादिभेदेन त्रिधाऽस्ति । ह्रस्वस्वर उदात्तःहस्वस्वरोऽनुदात्तः २ ह्रस्वस्वरः स्वरितः ३ । दीर्घस्वर उदात्तः १ दीर्घस्वरोऽनुदात्तः२ दीर्घस्वरः स्वरितः ३ । प्लुतस्वर उदात्तः१प्लुतस्वरोऽनुदात्तः२ प्लुतस्वरःस्वरितः३॥ एवं नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकभेदाभ्यां पुनःस द्विधाऽस्ति । तदित्यम् । अ इ उ ऋ एषां चतुर्णा वर्णानां प्रत्येकमष्टादश भेदाः सन्ति । लवर्णस्य द्वादश भेदा
Page #24
--------------------------------------------------------------------------
________________
(2)
सिद्धान्तचन्द्रिका |
[संज्ञाप्रकरणम् ]
स्तस्य दीर्घाभावात् संध्यक्षराणामपि प्रत्येकं द्वादश भेदास्तेषां हस्वाभावात् । अ इत्यष्टादशानां संज्ञा । तथैवैकारोकारौ । ऋकारस्त्रिंशतः संज्ञा ऋलवर्णयोः सावयत् । एवम् ऌकारोऽपि । ए इति द्वादशानां संज्ञा । तथैकारौकारौकाराः । एदैतोरोदौतोश्च न मिथः सावर्ण्य भिन्नजातित्वात् ॥
O
(तत्त्वदी ० ) - अवर्जा नामिनइति ॥ अं वर्जयंतीत्यवजः । कार्येऽण् ॥ ननु यौ नामिन इत्येव किमिति नोक्तमौ निपातइतिवत् इकारमारभ्य औकारान्तस्य प्रत्याहारेण ग्रहणादवर्णवर्जानां लाभात्न चइकारौकारयोः संज्ञाशङ्कानिरासायतदितिचेन्न । पूर्वसूत्रोक्त स्वरानुवृत्त्या तन्निरासात् इति चेत्सत्यम् । नामिसंज्ञायाः पूर्वप्रत्याहारसंज्ञायाअनुक्तत्वेन यावित्यनेने काराद्यौ कारान्तस्वरबुधस्यानुदयात् । यदितु व्याकरणस्यानादितामाश्रित्यप्रत्याहारादि सिद्धिस्तदैवमेव न्याय्यमित्यलं पल्लवितेन । (हयवरल ॥ ञणनङम ॥ झढघघभ ॥ जेडद्गव || खफछठथ || चटतकप ॥ शषस ॥ )
( सुबोधिनी ) - हयवरल १ ञणनङम २ झढघघभ ३ जडदगब ४ खफछठथ ५ चटप ६ शषस ७ एतेऽपि वर्णा उक्तक्रमेणैव ज्ञेयाः । अन्यथा प्रत्याहारासिद्धेः । एतानि नव संज्ञासूत्राणि सन्ति । आद्यन्ताभ्यामित्यनेनैकवाक्यत्वात् । एषां वर्णानामर्थस्याविवक्षितत्वादेभ्यो विभक्तेरनुत्पत्तिर्ज्ञेया । किंच सवर्णा इत्यनुवर्त्य वाक्यभेदेन व्याख्यातव्यम् । तद्यथा । भिन्नजातीया अप्येते वर्णास्तुल्यस्थानप्रयत्नाः सन्तः सवर्णा आचार्येण कथ्यन्ते इत्यर्थः । हकारादिष्वकार उच्चारणार्थः । न तु प्रयोजनार्थः । ननु रेफस्य यपप्रत्याहारान्तर्भावात् कुण्डं रथेनत्यादौ वा पदान्तस्येति पक्षे रेफःस्यात् भद्रहृद इत्यत्र च रहायपो द्विरिति द्वित्वम् । उच्यते । भद्रहृद इत्यत्र रहायपो द्विरित्यनेन रस्य द्वित्वे कृते रि लोपो दीर्घश्चोत रलोपे च पूर्वस्य हकारस्य स्वरत्वाभावान्न दीर्घ इति । कुण्डं रथेनेत्यत्र त्वनुनासिकस्यानुस्वारस्य स्थानेऽनुनासिका एव यमा भवन्ति इत्यर्थकथनात् रेफस्याननुनासिकत्वादनुनासिकस्यानुस्वारस्य रकारो नभवतीत्यर्थः ॥
( तत्त्वदी ० ) - हयवरलेत्यादि || हकारादिष्वकार उच्चारणार्थः ॥
( आद्यन्ताभ्याम् ) आद्यन्तौ वर्णों मध्यगानामाभ्यां सहितानां संज्ञाः स्युः ॥ अव इल जब झभ चप । एवमन्येऽपि ॥
( सुबोधिनी ) - आद्यन्ताभ्याम् ॥ संज्ञासूत्रमेतत् । आदिश्व अन्तश्च आद्यन्तौ ताभ्याम् आद्यन्ताभ्यां कृत्वा मध्यस्था अक्षरा ग्राह्या इत्युक्तेः आद्यन्तवर्णरूपा मध्यगानां संज्ञा भवतीत्याद्यन्तयोरप्राप्तायां तत्र वृत्त्यन्तरस्य ग्रहणमाश्रित्य व्याख्येयम् । तद्यथा । आद्यन्ताभ्यां सहितानामिति । किंच आद्यन्तौ तावदवयवौ ताभ्यामवयवी समुदाय आक्षिप्यते तस्य च युगपलक्ष्ये प्रयोगाभावात्तदवयवेष्ववतरन्ती संज्ञा मध्यगेषु विश्राम्यति न त्वाद्यन्तयोः । संज्ञास्वरूपान्तर्भावेन तयोः पारार्थ्यनिर्णयादित्याशये
Page #25
--------------------------------------------------------------------------
________________
[संज्ञाप्रकरणम् ] टीकाद्वयोपेता।
(९) नाह ॥ आभ्यां सहितानामिति ॥ आद्यन्ताभ्यां वर्णाभ्यां सहितानां मध्यगा. नामाद्यन्तवर्णरूपाः संज्ञा भवन्तीत्यर्थः । एतत्सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवहियन्ते । प्रत्याहियन्ते संक्षिप्यन्ते वर्णा यत्र स प्रत्याहारः । साधनाधारयोर्युडिति युटि प्राप्ते संज्ञायामकर्तरि चेति अधिकरणे घञ् प्रत्ययः ॥
(तत्त्वदी० )-आद्यन्ताभ्यामिति ॥ आदिश्च अन्तश्च आद्यन्तौ । आवादेशे वकारस्य 'यवोर्लोपश्' इति सूत्रस्य छन्दस्त्वात्पुनः संधिरित्यभिप्रेत्याह ॥ आद्यन्तौवर्णाविति ॥ साङ्केतिकं वा पदम् ॥
(कार्यायेत् ) कार्य विधातुमुच्चार्यमाणो वर्ण इत्संज्ञो भवति ॥ या या संज्ञा सा सा फलवती । यस्येत्संज्ञा तस्य लोपः ॥
(सुबोधिनी)-कार्यायेत् । वर्णानामाद्योच्चारणं द्विधा । कार्यार्थ श्रवणार्थ चेति । कार्य विधातुं कर्तुमुच्चार्यमाण आचार्येण कथ्यमानो वर्ण इत्संज्ञकोऽस्ति ॥ क्रियते संपाद्यते तत्कार्य प्रयोजनमित्यर्थः। कार्यार्थों यथा । उङसिङसङीनां डकारो डिति डितां यडित्यादिकार्यार्थः । श्रवणार्थों यथा।हकारादिष्वकार इति । एति गच्छतीति इत् । आशुविनाशीत्यर्थः । तुमोऽप्रयुक्तस्य कर्मणीत्यनेन कार्यायेति चतुर्थी ॥
(तत्त्वदी० )-कार्यायेदिति ॥ 'तुमोऽप्रयुक्तस्य कर्मणि' इति कर्मणि चतुर्थीत्याशयेनाह ॥ कार्य विधातुमिति ॥ यत्तु प्रत्ययाद्यतिरिक्त इति प्रत्ययादयः प्रत्ययागमादेशास्तदतिरिक्त इति तद्विवरणं च तत्सर्वमापाततः। यत्तु प्रत्ययः परस्य बोधस्तदादिकारणमुत्तमवृद्धवाक्यप्रयोगस्तदतिरिक्त इति तदपि प्रकृतानुपयुक्तत्वादुपेक्षितम् । यद्याग्रहस्तदेत्थं योज्यः। प्रत्ययादिषु अतिरिक्तः लौकिकसिद्धप्रयोगोच्चारणादधिक इति कथंचित्प्राचो ग्रन्थः ॥ यस्यदि. ति ॥ एति गच्छति प्रयोगेण समवैति 'इण् गतौ' अस्मात्विपि 'हस्वस्य पिति कृति' इति तुक् । इत् । आशुविनाशीत्यर्थः । इदिति महासंज्ञाकरणादितो लोपः ॥
(प्रसक्तादर्शनं लोपः) (सुबोधिनी )-प्रसक्तादर्शनं लोपः॥ अदर्शनं सामान्य लोप इत्यस्यार्थः । प्रसक्तानुच्चारणरूपविशेषस्तु लक्षणया ज्ञातव्यः।प्रसक्तस्य प्रसङ्गप्राप्तस्य वर्णस्यादर्शनमा श्रवणमनुच्चारणं लोपसंज्ञं भवति ॥ लोपसंज्ञाप्रदेशाः 'हसेपः सेोपः' इत्यादयः।लोपसंज्ञाफलं तु प्रत्ययलोपे प्रत्ययलक्षणमिति ॥ प्रसक्तस्येति किम् । दधि मध्वित्यादौ हस्वस्य पिति कृति तुगिति तुक मा भूत् । अस्ति हि तत्र विपोऽदर्शनम् । तच्च लोप इति प्रसक्तविशेषणाभावे प्रत्ययलक्षणेन तुक् स्यादेवेति ॥
(तत्त्वदी०)-लोपस्वरूपमाह ॥प्रसक्तेति ॥प्रसक्तस्य प्राप्तस्यादर्शनमनुच्चारणं लोप इत्यर्थः॥ प्रसक्तेति किम् ।दधि अत्रापि विपोऽनुच्चारणस्य सत्त्वात्तस्य लोपत्वे प्रत्ययलक्षणेन तुक् प्रसज्येत॥
Page #26
--------------------------------------------------------------------------
________________
(१०)
सिद्धान्तचन्द्रिका। [संज्ञाप्रकरणम् ] (प्रत्ययादर्शनं लुक्) (सुबोधिनी )-प्रत्ययादर्शनं लुक् ॥ प्रत्ययस्यादर्शनमश्रवणमनुच्चारणं लुक्संज्ञं भवति ॥ लुगिति पूर्वाचार्यसंज्ञा । लुक्संज्ञाप्रदेशाः 'नपुंसकात्स्यमोलुक' इत्यादयः। लुक्संज्ञाफलं तु लुकि न तन्निमित्तमिति ॥ - (वर्णविरोधो लोपश) - (सुबोधिनी )-वर्णविरोधो लापश् ॥ स्वानुच्चारणप्रवृत्त्यनन्तरं कार्यान्तरप्रवृत्तिप्रतिबन्धको वर्णविरोधो लोपशसंज्ञो भवति ॥ वर्ण विरुणद्वीति वर्णविरोधः लोपशूसंज्ञाप्रदेशाः 'वोलोपश वा पदान्ते' इत्यादयः । लोपशूसंज्ञाफलं तु लोपशि पुनर्न संधिरिति । नस्य लोपशि न विभक्तिकार्यमिति च ॥
(तत्त्वदी०)-लोपशस्वरूपमाह ॥ वर्णेति ॥ वर्ण विरुणद्धीति स तथा । स्वप्रवृत्त्यनन्तरं कार्यान्तरप्रवृत्तिप्रतिबन्धकरूपमुच्चारणमित्यर्थः ॥ । (स्वरानन्तरिता हसाः संयोगः)
(सुबोधिनी )-स्वरानन्तरिता हसाः संयोगः ॥ अन्तर्मध्यमगुरित्यन्तरिताः नान्तरिता अनन्तरिताः स्वरा अनन्तरिता येषांतेस्वरानन्तरिताः । अथवा अन्तरमवकाशो जातो येषां तेऽन्तरिताः तद्भिन्ना अनन्तरिताः स्वरैरनन्तरिताः अव्यवहिताः स्वरानन्तरिताः । स्वररहितानां हसानां संयोगसंज्ञा भवतीत्यर्थः ॥ संयुज्यन्तेऽस्मिन् समुदाये हसा इति संयोगः । तेनात्र समुदाये वाक्यपरिसमाप्तिर्न तु गुणवृद्धयादिसंज्ञावत् प्रत्येकम् । यदि प्रत्येकं स्यात्तर्हि दृषद्विभर्तीत्यत्र बकारसंनिधौ दकारस्य संयोगत्वात् संयोगान्तस्य लोपः स्यात् । स्वरानन्तरिता इति किम् ॥ पनसमित्यत्राकारेण व्यवधानेऽपि सकारमकारयोः संयोगसंज्ञा स्यात्तदा स्कोरायोश्चेत्यनेन सस्य लोपः स्यादिति । हसा इति बहुवचनमविवक्षितं तेन द्वयोरपि संयोगसंज्ञाऽस्ति । अतः 'शिक्ष शिक्षणे' अस्माद् गुरोर्हसादित्यप्रत्यये शिक्षेति सिद्धयति ॥ . ( तत्वदी० )-स्वरानन्तरिता इति ॥ अन्तरम् इतः अन्तरितः न अन्तरितः अनन्तरितः स्वरोऽनन्तरितो येषां ते । अत्र स्वरशब्द इतशब्दश्च व्यर्थः अनन्तरा इत्यनेनैव तद्बोधात् । तथा हि । न अन्तरं छिद्रं येषां ते हसाः संयोगः । छिद्रं तु विजातीयस्वरस्य प्रवेशेन भवति । सयोग इत्येकवचनं तु वृक्षा वनमितिवत्समुदायस्य संज्ञालाभार्थम् ॥ (कुचुटुतुपु वर्गाः)
(सुबोधिनी)-कुचुटुतुपुवर्गाः॥ एषूकारः 'उदित सवर्णं गृह्णाति न तु वर्णमात्रम्' इति परिभाषाज्ञापनार्थः। अस्यार्थस्त्वयम् । उत् उकार इत् यस्य स उदित् स्वसवर्णस्य ग्राहको भवति । तेन चोः कुरित्युक्ते पञ्चानां ग्रहणमस्ति ॥ ननु कादीनां पञ्चानां सव
Page #27
--------------------------------------------------------------------------
________________
[ संज्ञाप्रकरणम् ] टीकाद्वयोपेता।
(११) र्णसंज्ञा केनेति चेच्छृणु अस्मादेवोदित्करणात् ज्ञापकाजानीहि । त एते वर्गसंज्ञाः स्युः। वर्गसंज्ञाप्रयोजनं तु वौँ वर्येण सवर्ण इति ॥
(तत्त्वदी०)-कुचुटुतुपु इति ॥ "अकारात्पञ्चमो वर्णस्तमाहुः पञ्चकग्रहे । उकारस्तत्र विख्यातो नान्यो भवितुमर्हति ॥" . (अरेदो नामिनो गुणः) अर् ए ओ गुणसंज्ञकाः । ते च नामिस्थाने भवन्ति ॥
(सुबोधिनी )-अरेदो नामिनो गुणः ॥ अर च एच्च ओश्च एषां समाहारः अरेदो । समाहारस्यैकत्वादेकत्वे द्विगुद्वन्द्वाविति नपुंसकत्वेऽपि ह्रस्वो न भवत्यत्र 'संज्ञापूर्वको विधिरनित्यः' इत्युक्तत्वात् ॥ अर ए ओ इति ॥ नामिन इति षष्ठयन्तमस्ति । नामिनः स्थाने गुणो भवतीत्यर्थः ॥ ननु गायति ग्लायतीत्यादौ संध्यक्षराणां मुणः स्यात् ॥ उच्यते । ऐकारोपदेशसामर्थ्यान्न भवति ।अन्यथा एकारमेवोपदिशेत् । एकारस्यैकारस्य च सत्यसति वा गुणे विशेषो नास्ति औकारान्तस्तु धातु स्ति अस्तु वा औकारोपदेशसामर्थ्यान्न भविष्यतीति। न चैवमायादेशोऽपि न स्यादिति वाच्यम् । 'यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्वाध्यते यस्य तु विधेनिमित्तमेव नासौ बाध्यते' इति न्यायात । गुणं प्रति हि ऐकारोपदेशोऽनर्थकः ग्ले इत्यस्यापि सुपठत्वात् । आयादेशस्य तु निमित्तमेवास्ति अतः परिशेषात् ऋवणैवर्णोवर्णानां स्थाने अर ए ओ यथाक्रमं गुणसंज्ञका भवन्ति । तपरत्वं तु स्पष्टाथेमिति । गुणसंज्ञाप्रदेशाः गुणः, नूपः, इत्यादयः॥
(तत्त्वदी०)-अरेदो नामिनो गुण इति ॥ विपरीतनिर्देशाहकारावधिकास्त्रय एव नामिनो गृह्यन्ते । अत्र प्राञ्चः-नामिषु इउऋ इति त्रयाणामेव ग्रहणं लकारस्य तु सावात् । अन्यथा गायतीत्यत्र गुणः स्यादित्याहुः । वस्तुतस्तु 'गै शब्दे' इत्यैकारोच्चारणसामर्थ्यादेव गुणो न । न च भवतीत्यादावपि गुणो न भवेदिति भ्रमितव्यं तस्य बभूवेत्यादिषु चरितार्थत्वात् ।।
(आरेऔ वृद्धिः) आ आर् ऐ औ वृद्धिसंज्ञाः स्युः ॥ ( सुबोधिनी)-आरऔ वृद्धिः॥ आश्च आर् च ऐश्च औश्च एषां समाहारः आरैऔं समाहारस्यैकत्वादेकत्वे द्विमुद्दन्दाविति नपुंसकत्वेऽपि हस्वो न संज्ञापूर्वकत्वेन तस्यानित्यत्वात् । समासेऽपि संहिताभावोऽत्र अइकौ च मत्वर्थे' इति लिङ्गात्। अथवा असमासेऽविभक्तिकोऽयं निर्देशः। तद्भिन्नत्वे सति तत्सदृशकरणमनुकरणम् । अनुकरणात् विभक्तिर्नास्तीति समासाभावाश्चत्वारि पदानि । एवमरेदो इत्यत्रापि त्रीणि पदानि । अकारस्य आवृद्धिः । ऋवर्णस्य आर वृद्धिः। इवर्णस्य एकारस्य चैकारो वृद्धिः। उवर्णस्य ओकारस्य च औ वृद्धिः। एते वृद्धिसंज्ञकाः । वृद्धिसंज्ञायाः प्रदेशाः 'धातोनामिनः' इत्यादयः ।।
Page #28
--------------------------------------------------------------------------
________________
( १२ )
सिद्धान्तचन्द्रिका |
[ संज्ञाप्रकरणम् ]
( तत्त्वदी ० ) - आरओ वृद्धिरिति ॥ ननु माऽस्तु वृद्धिसंज्ञा आदिस्वरस्य णित्यारैऔ इति सूत्र्यताम् । तदेवोत्तरत्राप्यनुवर्त्यतामिति चेन्न संज्ञापूर्वको विधिरनित्यो यथा स्यादित्येतदर्थ संज्ञाविधानम् । तत्फलं तु अभवीदित्यादौ पाक्षिको वृद्ध्यभाव इति ॥
( अन्त्यस्वरादिष्टिः ) अन्त्यो यः स्वरस्तदादिवर्णष्टिसंज्ञको भवति ॥ ( सुबोधिनी ) - अन्त्यस्वरादिष्टिः ॥ अन्ते भवोऽन्त्यः । ण्यः । अन्त्यश्चासौ स्वरश्चेत्यन्त्यस्वरः अन्त्यस्वर आदिर्यस्य सः अन्त्यस्वरादिः । स्वराणां मध्येऽन्त्यस्वर आदिर्यस्य समुदायस्य स टिसंज्ञो भवति ॥ यत्र तु तदादिरन्यो वर्णो नास्ति तत्र स्वरस्यैवान्त्यादित्वं व्यपदेशिवद्भावेन भवति । यत्र चैक एव स्वरस्तत्रापि व्यपदेशिवद्भावादन्त्यत्वमस्ति । यथा त्यदादिषु । व्यपदेशिवद्भावस्तु लौकिको न्यायः । तथा यस्य बहवः पुत्रास्तस्य तस्मिंस्तस्मिन् ज्येष्ठमध्य कनिष्ठव्यपदेशोऽस्ति । यस्य त्वेकः पुत्रस्तस्य ज्येष्ठादिव्यपदेशस्तस्मिन्नेवेति । टिसंज्ञाप्रदेशा यथा 'पथां टेः' इत्यादयः॥ सोऽन्त्यस्वर आदिवर्णो यस्य स तदादिवर्ण इति ॥
( तत्त्वदी ० ) - अन्त्यस्वरादिरिति || अन्त्यस्वर आदिर्यस्य स तथा । नन्वेवं हलीषेत्यादौ कथं टिसंज्ञाऽन्त्यस्वरस्यादित्वाभावादिति चेत्सत्यम् । व्यपदेशिवद्भावेनेति गृहाण || ( अन्त्यात्पूर्व उपधा) अन्त्याद्वर्णमात्रात्पूर्वो यो वर्णः स उपधासंज्ञो भवति ॥
( सुबोधिनी) - अन्त्यात्पूर्व उपधा || अन्ते भवोऽन्त्यस्तस्मात् अन्त्याद्वर्णात्पूर्वो वर्ण उपधासंज्ञोऽस्ति । वर्ण इति कस्मात् लब्धं न्यायात् । तद्यथा अवध्यवधिमद्भावः सजातीयानामेव भवतीत्युत्सर्गः । लोके हि अमीषां ब्राह्मणानामन्त्यात्पूर्वमानयेत्युक्ते एक एवान्त्यादव्यवहितपूर्व आनीयते न तु समुदायः तथेहापि वर्णादव्यवहितः पूर्वो वर्ण एव संज्ञी न तु समुदाय इति । उपधासंज्ञाप्रदेशाः 'नोपधायाः' इत्यादयः ॥
( तत्त्वदी ० ) - अन्त्यात्पूर्व उपधेति ॥ ननु वर्णादिति सूत्रे अनुक्तं कस्माल्लब्धमिति चेन्न पराण्यादिति ज्ञापकाद् गृहाण । अन्त्यादुपधेत्युक्तेऽपि पूर्वशब्दस्याक्षेपः संभवति । न च परशब्दस्याक्षेपः संभवति इति वाच्यम् अन्त्यत्वभंगप्रसंगात् । नहि परस्मिन्वर्णे सति पूर्वस्य अन्त्यत्वं संभवति । एवं सिद्धे यत्पूर्वग्रहणं तदव्यवहितपूर्वस्यैव ग्रहणार्थम् ॥
( ह्रस्वो लघुः )
( सुबोधिनी ) - स्वो लघुः ॥ ह्रस्वस्वगे लघुसंज्ञो भवति ॥ लघुसंज्ञाप्रदेशाः उपधाया लघोरित्यादयः ॥
(विसर्गानुस्वारसंयोगपरो गुरुर्दीर्घश्व )
(सुबोधिनी) - विसर्गानुस्वारसंयोगपरो गुरुदीर्घश्च ॥ विसर्गश्वानुस्वारश्च
Page #29
--------------------------------------------------------------------------
________________
[संज्ञाप्रकरणम् ]
टीकाद्वयोपेता ।
(१३)
संयोगश्च ते विसर्गानुस्वारसंयोगाः विसर्गानुस्वारसंयोगाः परे यस्माद्धस्वात्स विसगनुस्वारसंयोगपरो गुरुसंज्ञः दीर्घश्व गुरुसंज्ञः ॥
( तत्त्वदी ० )- विसर्गेति ॥ विसर्गश्च अनुस्वारश्च संयोगश्च ते परे यस्य स तथा । वस्तुतस्तु विसर्गानुस्वारयोरत्रानुपयोगात्संयोगपर इत्येव वक्तुमुचितम् ॥
( मुखनासिकावचनोऽनुनासिकः )
(सुबोधिनी ) - मुखनासिकावचनोऽनुनासिकः ॥ मुखेन सहिता नासिका मुखनासिका । शाकपार्थिवादित्वान्मध्यम पदलोपः । उच्यतेऽसाविति वचनः । युट् । मुखनासिकया वचनः मुखनासिकावचनो वर्णोऽनुनासिकसंज्ञो भवति ॥
1
( तत्वदी ० ) - मुखनासिकेति ॥ मुखसहिता नासिका मुखनासिका । अन्यथा मुख च नासिका चेति विग्रहे प्राण्यंगत्वादेकवद्भावे मुखनासिकमिति स्यात् । वस्तुतस्तु एकवद्भावे - ऽपि न क्षतिः आङः प्रश्लेषेण तथा सिद्धेः । मुखनासिका वचनमस्यास्तीति सः तथा । 'अइकौ च मत्वर्थे' इति अप्रत्ययः ॥
(विभक्त्यन्तं पदम् )
( सुबोधिनी) - विभक्त्यन्तं पदम् ॥ विभक्तिरन्ते यस्य तद्विभक्त्यन्तं पदसंज्ञमस्ति ॥ पद्यतेऽनेनेति पदम् । विभक्त्यन्तमित्यन्तग्रहणात् ' संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ' इति ज्ञाप्यते ॥
( तत्त्वदी ० ) - विभक्त्यन्तमिति ॥ विभक्तिरन्ते यस्य तत् ॥
( तपरः ) स्वसमानकालस्य सवर्णस्य ग्राहकः ॥
( सुबोधिनी ) - तपरः ॥ स्वसमान कालस्य सवर्णस्य ग्राहकः । तकारः परो यस्मात्स तपरः । तकारात्परो यः स तपरश्वति ॥ तन्त्रादिनोभयं विवक्षितम् । अत्र उच्चार्यमाणस्तपरः स्वसमानकालस्य सवर्णस्यैव संज्ञा भवति । स्वेनात्मना सह समानस्तुल्यकाल उच्चारणकालो यस्य स स्वसमानकालस्तस्यति । तेनादित्यादयः षण्णां षण्णां संज्ञाः । ऌदिति द्वादशानां संज्ञा । ह्रस्वतपरस्तु हस्वभेदानेव गृह्णाति । दीर्घतपरस्तु दीर्घमदानेव गृह्णाति नान्यानित्यर्थः ॥
( तत्त्वदी ० ) - तपर इति ॥ तः परो यस्मात्तात्परश्च तपरः । यत्तु संध्युपयोगीति कैश्विदुक्तं तन्न संधिभिन्नोपयोगितया संकोचे मानाभावात् । अथवा संधिपदमुपलक्षकम् ॥ ( विरामोऽवसानम् ) वर्णानामभावोऽवसानसंज्ञः स्यात् ॥ संज्ञाप्रकरणम् ॥
(सुबोधिनी ) - (कादयो मावसानाः स्पर्शाः ॥ ) लोकप्रसिद्ध पाठापेक्षमिदं सूत्रे मावसानत्वायोगात् । कादयः पञ्चविंशतिर्वर्णाः स्पर्शसंज्ञकाः सन्ति ( ञमङणना अनुनासिकाः ॥ ) एते पञ्च वर्णा अनुनासिकसंज्ञकाः सन्ति । नासिकामनुगता
Page #30
--------------------------------------------------------------------------
________________
T
(१४)
सिद्धान्तचन्द्रिका। [संज्ञाप्रकरणम् ] इत्यनुनासिकाः ॥ ( यरलवा अन्तस्थाः ॥) एते चत्वारो वर्णा अन्तस्थसंज्ञकाः सन्ति ॥ (शषसहा ऊष्माणः ॥ ) एते चत्वारो वर्णा ऊष्मसंज्ञकाः सन्ति । ( क इति ४ प इति कपाभ्यां खफाभ्यां प्रागर्द्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयसंज्ञको भवतः ॥) अर्द्धविसर्गसादृश्यमुच्चारणे लेखने च बोध्यम्॥ (अं इति अः इति स्वरात्परावनुस्वारविसर्गसंज्ञको भवतः ॥) (अकुहविसर्जनीयानां कण्ठः॥) एषामष्टानां वर्णानामुत्पत्तेः स्थानं कण्ठोऽस्ति । द्वन्द्वसमासो बोध्यः सर्वत्र ॥ (इचुयशानां तालु॥) एषामष्टानामुत्पत्तेः स्थानं तालु भवति॥ (उपूपध्मानीयानामोष्ठौ ॥) एषां सप्तानामुत्पत्तेः स्थानमोष्ठौ भवतः॥ (ऋटुरषाणां मूर्दा ॥) एषामष्टानामुत्पत्तेः स्थानं मूर्दा मस्तकोऽस्ति ॥ लतुलसानां दन्ताः ॥) एषामष्टानामुत्पत्तेः स्थानं दन्ताः सन्ति ॥ ( एदेतोः कण्ठतालु ॥) इत्यादौ तपरत्वमसंदेहाथै न स्वसमानकालसवर्णग्रहणार्थम्।।तेन प्लुतस्यापि ग्रहणमत्र भवतिाएकारैकारयोरुत्पत्तेःस्थानं कण्ठश्च तालुच कण्ठतालु भवति।प्राणियसनाङ्गानामित्येकवद्भावः॥ (ओदौतोः कण्ठोष्ठम् ॥) तपरत्वमसन्देहार्थम् । अनयोरुत्पत्तेः स्थानं कण्ठश्च ओष्ठौ च कण्ठोष्ठमस्ति । प्राण्यङ्गत्वादेकवद्भावः ॥ (वकारस्य दन्तोष्ठम् ॥) वस्योत्पत्तेः स्थानं दन्ताश्च ओष्ठौ च दन्तोष्ठमस्ति । ओत्वोष्ठयोः समासे वेत्योकारः ॥ ( जिह्वामूलीयस्य जिह्वामूलम् ॥) जिह्वामूलीयवर्णस्य जिह्वाया मूलमुत्पत्तेः स्थानमस्ति ॥ (नासिकाऽनुस्वारस्य ॥) अनुस्वारस्योत्पत्तेः स्थानं नासिकास्ति ॥ " हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम् । उरस्यं तं विजानीयाः कण्ठयमाहुरसंयुतम् ॥" तं हकारमुरसि भवमुरस्यम् । भवार्थे ण्यः । णितो वेति न वृद्धिः ॥ त्वं विजानीयाः बुध्याः ॥ कीदृशं तम् । पञ्चमैर्जमङणनैर्युक्तम् ॥ पुनः कीदृशं तम् । अन्तस्थाभिर्यरलवैः संयुतं मिलितम् ॥ पञ्चमैरसंयुतमन्तस्थाभिश्चासंयुक्तं हकारमाचार्याः कण्ठे भवं कण्ठयं कण्ठस्थानोद्भवमाहुब्रुवन्ति॥१॥वर्णानामुत्पत्तेरष्टौ स्थानानि सन्ति।तद्यथा ॥ " अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा॥ जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च॥२॥" मातृकायामेवमनेन प्रकारेण दिपञ्चाशद्वर्णा आचार्येणोदाहृतादर्शिताः। ते के। 'व्यञ्जनानि त्रयस्त्रिंशत्' इत्यादयः ॥३-४॥ इति स्थानानि॥ प्रयत्नो द्विधा आभ्यन्तरोबाह्यश्च।आभ्यन्तरः पञ्चधा। तद्यथा। स्पर्शानां स्पृष्टंप्रयतनम् १ अन्तस्थानामीपत्स्पृष्टं प्रयतनम् । २ । स्वराणां विवृतं प्रयतनम् । ३ । ऊष्मणामीषद्विवृतं प्रयतनम्। ४ । ह्रस्वस्याकारस्य संवृतं प्रयतनम् । ५।बाह्यस्त्वष्टधा। क पविसर्गशषसानां विवारः श्वासोऽघोषश्च ३ प्रयत्नः। हवानां संवारोनादोघोषश्च ६ प्रयत्नः।
१-व्यञ्जनानि त्रयस्त्रिंशत्स्वराश्चैव चतुर्दश । अनुस्वारो विसर्गश्च जिह्वामूलीय एव च ॥ गजकुम्भाकृतिवर्णः प्लुतश्च परिकीर्तितः । एवं वर्णा द्विपंचाशन्मातृकायामुदाहृताः ॥
HTTE
Page #31
--------------------------------------------------------------------------
________________
[ परिभाषाप्रकरणम् ] टीकाद्वयोपेता।
(१५) वर्गाणां प्रथमतृतीयपञ्चमानामन्तस्थानां चाल्पप्राणः ७ प्रयत्नः॥वर्गाणां द्वितीयचतुर्थानामूष्मणां महाप्राणः ८ प्रयत्नः ॥ इति प्रयत्नाः ॥ विरामोऽवसानम् ॥ विरम्यतऽनेनेति विरामः। बाहुलकात्करण घञ् । यदुच्चारणोत्तरं वर्णान्तरं नोच्चार्यते सोऽन्त्यवर्णो विरामोऽवसानसंज्ञको भवतीत्यर्थः ॥ सम्यक ज्ञायते शब्दादिव्यवहारो यया सा संज्ञा ॥ इति सुबोधिन्यां संज्ञाप्रकरणम् ॥
(तत्त्वदी०)-श्रीविद्यानगरस्थायिलोकेशकरशर्मणा।विहितायां हि टीकायां संज्ञासंधिरगात्सुखम्। (सुबो०)-[अथ परिभाषाः] (षष्ठीनिर्दिष्टस्यादेशस्तदन्तस्यज्ञेयः॥)स्थानषष्ठया निर्दिष्टस्य शब्दस्य य आदेश उच्यते स आदेशोऽन्त्यस्य वर्णस्य स्थाने भवतीत्यर्थः॥ ऐ सख्युरित्यैकारः सखिशब्दस्यान्तस्येकारस्य भवति॥स्थानषष्ठीति किम् । कृत इति इडागमस्तृप्रत्ययस्य ऋवर्णात्पूर्वो मा भूदिति ॥ जशूशसोः शिरित्यादीनां शित्त्वं परिभाषां ज्ञापयति तद्यथा।तत्राहि शित्त्वमन्त्यादेशं बाधित्वा सर्वादेशो यथा स्यादित्येतदर्थकृतम्। यदि षष्ठीनिर्दिष्टस्यादेशोऽन्त्यस्य न स्यात्तन्तिरेणापिशित्त्वं सर्वादेशःसिद्धः किं तेनेति व्यर्थेन सता शित्त्वेन ज्ञापयति ॥ (हिन्दन्तस्य वक्तव्यः ॥ ) ङिदादेशोऽप्यन्तस्य स्यात् ॥ गुरुःशिन सर्वस्येत्यस्यापवादोऽयम्॥'रयङ्'इत्ययङ्डादेशोऽन्त्यस्येकारस्य भवति । त्रयाणाम् । असुङ्ङादीनां ङित्त्वेन ज्ञापितेयम् । ङित्त्वस्य फलान्तरादर्शनात् ॥ (गुरुः शिच्च सर्वस्य॥) अनेकवर्ण आदेशः शिदादेशश्च सर्वस्य स्यात् ॥ षष्ठीनिर्दिष्टस्येत्यस्यापवादोऽयम् । अन टोसोरित्यनादेशस्त्रिवर्णात्मको गुरुरास्ति स सर्वस्येदमः स्थाने भवति । यथा अनेनेति ॥ जश्शसोः शिरिति शिदादेशः सर्वस्य जसः शसश्च स्थाने भवति । यथा वारीणीति ॥ उच्चरितप्रध्वंसिनाऽनुबन्धाः स्मर्यमाणाः सन्त एव कार्य निर्वाहयन्तीति ॥ ततः (अतुबन्धकृतमनेकवर्णत्वं न स्वीक्रियते ॥) अत्र संध्यक्षराणि पराणीत्यादिनिर्देशेन शिदंशेज्ञाप्यते इयं परिभाषा। तथा यह । जश्शसोः शिश्चेत् सर्वस्य न स्यात्तदोक्तनिर्देशोऽनुपपन्नःस्यादिति ॥ 'साधनाधारयोर्युट' 'कारकाक्रियायुक्तं' इत्यादिनिर्देशेनानेकवर्णाशेज्ञाप्यते इयम् ॥ (टित्कितावाद्यन्तयोर्वक्तव्यौ ।।) टिकितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवी भवतः॥ सिसतासीस्यपामिडितीट्स्यादीनामाद्यवयवो भवति ॥ अभविष्टेति।रातो जौ पुगिति पुक् आत इत्यस्यान्तावयवो भवति । यापयतीति अन्यार्थटिकित्स्वियं परिभाषा न प्रवर्तते । यथा । अटाविति टकारस्य ष्ट्रवित इतीप प्रयोजनमस्ति । कुरुचरीति । यक चतुर्विति ककारस्य गुणाप्रवृत्तिः प्रयोजनमस्ति । भूयते इति । प्रत्ययविधौ नेयं प्रवर्तते इति वा । टिदंशेतस्मादित्यत्रात इति स्मट्रसंख्याया इत्यत्र यट्ानवानामित्यत्र नुटू किदंश तु कार्यायेत्यत्र 'डे: अकू' इत्यक् । ऐ सख्यारत्यत्र'ऋङ' इत्यृक् । वर्तमान इत्यत्रमुगानेऽत इति मुगिमां परिभाषां ज्ञापयति॥ (मिदन्त्यात्स्वरात्परोवक्तव्यः) स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात्परस्तस्यैवान्तावयवा मित्स्यात् ॥ 'नुमयमः'
Page #32
--------------------------------------------------------------------------
________________
सिद्धान्तचन्द्रिका। [परिभाषाप्रकरणम् ] इति नुमः पूर्वान्तत्वान्नोपधाया इति दीर्घः सिध्यति। कुलानि, यशांसीति । नुमः परादिवे तु नोपधाया इति दी? न स्यात् । वारिणे इत्यादौ ङितीत्येकारश्च स्यादिति । अस्याः संध्यक्षराणीति निर्देशो ज्ञापकः॥(सप्तमीनिर्देशेन विधीयमानं कार्य वर्णान्तरेणाव्यवहितस्य पूर्वस्यैव वक्तव्यम् ॥) नियमायम् । 'इ यं स्वरे' इत्यत्र स्वरे इतिभावे सप्तमी।अश्रूयमाणक्रियत्वाच्चान्तरङ्गस्यास्त्यर्थस्य लाभो भवति। तेन स्वरे सति यकारो भवतीत्यर्थः। व्यवहितेऽव्यवहिते चप्राप्तमव्यवहिते एवेति पूर्वस्य परस्य च प्राप्तं पूर्वस्यैवेति च नियम्यते॥पूर्वस्योत किम् । ननु इदमत्रेकारस्य माभूत् ॥ अव्यवहितस्येति किम् । अग्निचिदत्रेत्यत्र सान्तरस्य मा भूत् । अस्याः प्वादेः व्रणः लित्पुषादेः सखिपत्योरित्यादिनिर्देशो ज्ञापकः (पञ्चमीनिर्देशेन क्रियमाणं कार्यमव्यवहितस्य परस्य वक्तव्यम् ॥) उदः स्थास्तम्भोः सलोपः इत्यत्रोद इति पञ्चमीनिर्देशेन क्रियमाणो लोपःसोऽव्यवहितस्य परस्य स्थास्तम्भोः सकारस्य भवति। उत्थानम् , उत्तम्भनामिति ॥ अव्यवहितस्येति किम् । उत्संस्थानम् उत्संस्तम्भनमित्या. दौ मा भूत् ॥ परस्येति किम् । अस्था उदासने स्तम्भ उद्गच्छत्यत्रमा भूत् ॥ अस्या ज्ञापकः स नपुंसकं सधातुरित्यादिनिर्देशः॥ तत्र हि सैषादिति विसर्गलोपः कृताऽतो ज्ञाप्यते ॥ (हस्वदीर्घप्लुतशब्दैर्यत्र स्वरो विधीयते तत्र स्वरेति षष्ठयन्तं पदमुपतिष्ठत ।) षष्ठीनिर्दिष्टस्यत्यस्य नायमपवादः किंतु तच्छेष एव।स्वरस्येति षष्ठयन्तं पदं सति संभवे सामानाधिकरण्येनैव संबध्यते न वैयधिकरण्यन । तेन नपुंसकस्येत्यत्र स्वरान्तस्यैव नाम्नो ह्रस्वो भवति । सोमपमिति ।नेह सुवाक ब्राह्मणकुलम् स्वरान्तत्वाभावान्न ह्रस्व इत्यर्थः॥शमां दीर्घ इत्यत्र तु सामानाधिकरण्यस्यासंभवात शमादीनां स्वरस्येति संबद्धयते । तेन शाम्यतीत्यादि सिद्धम् ॥ से दीर्घ इत्यत्र स्वरान्तस्य धातोर्घिः। संजिगीषतीति । नेह। विभित्सतीति ॥ दूरादाबाने टेः प्लुतः इत्यत्र सामानाधिकरण्यस्य संभवेऽपि टिग्रहणसामर्थ्यात् टेरवयवस्य स्वरस्य प्लुतो भवति । आयुष्मान् एधीन्द्रवर्मन् । ज्ञापकासिद्धयम्। तथा हि । यजां यवराणाम्, रुदादेश्चतुणामित्यत्र नामीति दघिस्य प्रवृत्त्यप्रवृत्तिभ्यां स्वरान्तेषु नामीति दीर्घो भवति न हसान्तेषु इति ज्ञापितम् ॥ एकदेशानुमितिद्वारा हस्वालुतयोरप्येवम् ॥ (वर्णानां प्रसङ्गे सति सदृशतम आदेशो वक्तव्यः॥सादृश्यं चतुविधमस्ति स्थानार्थगुणप्रमाणभेदात्।स्थानतो यथा।दध्यानयेत्यत्र तालुस्थानस्येकारस्य तालुस्थानो यकारः। अर्थतो यथा। रूपवती भार्या यस्येत्यत्र पुंववेत्यनेन पूर्वपदस्य स्थानेऽतिदिश्यमानः पुंशब्दो रूपवत्त्ववाचिनो रूपवतीशब्दस्य स्थाने तदर्थवाची एव रूपवच्छब्दो भवतीत्यर्थः । गुणतो यथा । वाग्धरिरित्यत्र घोषवतो नादवतो महाप्राणस्य संवारवतो हस्य तादृशो वर्णचतुर्थो कारोभवतीत्यर्थः॥प्रमाणतो यथा।अमुम्,अमू,अमून् इत्यत्र मादू
Page #33
--------------------------------------------------------------------------
________________
[ स्वरसन्धिः ] टीकाद्वयोपेता। इत्यनेन पूर्वपदस्य स्थाने ह्रस्वस्य ह्रस्वो दीर्घस्य दीर्घ उवर्णो भवतीत्यर्थः॥न्यायसिद्धेयम् । तथा हि । सभायामास्यतामित्युक्तेहि पंडिता:पंडितःसहासते शूराः शूरैः कवयः कविभिन तु संकरेण । किञ्च गवां संघ प्रति गौर्धावति अश्वोऽश्वानामित्यादिव्यवस्था तिर्यक्ष्वपि दृश्यते ॥ (लोपशि पुनर्न सन्धिर्वक्तव्यः ॥) लोपशि कृते सति सन्धिर्न भवति ॥ यथा-त आगताः ॥ (नस्य लोपशि न सन्धिर्वक्तव्यः॥) श्वादेरिति निर्देशात् । यथा राजाश्वः॥ (नस्य लोपशि तु विभक्तिकार्यम् ॥) पञ्चस्विति निर्देशात् ॥ किलात्पः स इति षत्वं तु भवत्येव तस्य वर्णमात्राश्रितत्वात् । यथा पथिषु । अस्याः ज्ञापकः आचार उपमानात् अत उपधाया इत्यादिनिर्देशः॥ (विशेषणं तदन्तस्य स्वस्य च रूपस्योपस्थापकं वक्तव्यम् ॥) अप्रधानमात्मान्तस्य रूपस्य ग्राहकं भवति । स्वस्य रूपस्य चेत्यर्थः ॥ स्वराद इत्यत्र धातो. रिति विशेष्यं स्वरादिति विशेषणं तदन्तग्राहकं भवति ॥ स्वरान्ताद्धातोरप्रत्ययो भवतीति । स्वस्य रूपस्य च ग्राहकं स्वरूपाद्धातोश्चाप्रत्यय इति ॥ चयः, अयः। अस्या ज्ञापकोऽतिशये हसादेः अन्वये नानामित्यादिनिर्देशः।न ह्यत्र तदन्तविधि विना स्वराद इति विधीयमानोऽप्रत्ययःशीडो भवेत् । स्वरग्रहणं विना च इधातोरप्रत्ययो न लभ्येतेति इयं परिभाषा॥(यदादेशस्तद्वद्भवति॥) न तु वर्णमात्रविधी आदेशे कृते स्वरूपभेदात्। स्थानिप्रयुक्तकार्याणामप्रवृत्तावतिदेश आरभ्यते । आदेशः स्थानिवद्भवति । यथा लक्ष्म्यामित्यत्र डेरामादेशे कृते तस्यामो ङित्त्वात् ङितामडित्य भवति। वर्णमात्रविधौ स्थानिवद्भावो न भवति।वर्णश्च स्थान्यवयव एवात्रगृह्यते । यश्च वर्णमात्रेण विधिःयश्च वर्णमात्रात् परस्य विधियश्च वर्णमात्रंस विधिर्यस्य वर्णमात्रे विधिस्तत्र मा भूत् । तत्र वर्णमात्रेण विधौ यथा । व्यूढोरस्केनेत्यत्र सकारस्य स्थानिवत्त्वेन विसर्गत्वमाश्रित्यावकुप्वन्तरेऽपीति णत्वं प्राप्तमिति तन्न भवति ॥ वर्णमात्रात्परस्य यथा । द्यौरित्यत्र दिव औरित्यौकारस्य स्थानिवत्त्वेन पन्थाइत्यत्र आसावित्याकारस्य स्थानिवत्त्वेन च हसत्वमाश्रित्य हसेप इति सिलोपो न भवतीति ॥ वर्णमात्रस्य विधौ यथा । युकाम इत्यत्र ऊ रसे इत्युकारस्य स्थानिवत्त्वेन यवयोर्वसे हकारे च लोपो न भवतीति ॥ वर्णमात्रे विधौ यथा । क इष्ट इत्यत्र 'यज देवपूजादौ' इति धातोः क्तप्रत्यये परतः संप्रसारणस्य स्थानिवत्त्वेन यकारमाश्रित्य ‘हबे' इत्युकारो न भवतीति ॥ क्रियायां स्त्रियामित्यादिनिर्देशो ज्ञापकः ॥ इति परिभाषाः ॥
अथ स्वरसन्धिः । (इयं स्वरे) इव) यत्वमापद्यते स्वरे परे ॥ (सुबोधिनी)--इ यं स्वरे॥इइत्यनेन इत्वजातिनिर्दिश्यते न तु ह्रस्वव्यक्तिरेव । प्लुत इति निषेधसामर्थ्यात् ।यमिति द्वितीयान्तं कर्म । तस्य योग्यत्वात् । प्राप्नोतीत्य
Page #34
--------------------------------------------------------------------------
________________
(१८)
सिद्धान्तचन्द्रिका। [ स्वरसन्धिः ] स्याध्याहारः कर्तव्यः । अथ इ इति क्लीवे कर्तृपदमस्ति । यमिति प्रथमान्तं क्लीवे । अकार उच्चारणार्थः। तदा सत्तार्थवाचकं क्रियापदमध्याहार्यमिति । स्वरे इति किम् । दधि पश्य । स्थानी आदेशो निमित्तं चेति त्रयं सर्वत्र बोध्यम् ॥ किंच अर्थवद्ग्रहणे नानर्थकस्येति परिभाषया अस्यापत्यमिः स्त्री चई इत्यत्रैव यकारःस्यात् न तु दध्यानयेत्यादौ। उच्यते । स्यादावित्यादिनिर्देशेन तस्यानित्यत्वज्ञापनान्न निषेधः। दध्यानयेत्यत्र नामिनः स्वरे इति नुम् न स्यादिस्वरत्वाभावात् । दध्य् इति स्थिते ।
(तत्त्वदी०)-इ यं स्वर इति ॥ इश्व ईश्चेति समाहारद्वन्द्वे एकवद्भावे नपुंसकत्वे च इ इति एतेन सांकेतिकत्वनिर्विभक्तिकत्वाद्युक्तिः परास्ता । ऋजुमार्गेण सिद्धयतोऽर्थस्य वक्रेण प्रदर्शनायोगात् । अर्थवद्ग्रहणे नानर्थकस्य इति परिभाषया केवलाया इव्यक्तेरेव ग्रहणं न तु दध्यादिस्थाया इति नाशङ्कनीयं स्यादावित्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात् । यमिति भावप्रधानो निर्देशः द्वयेकयोरितिवत् इत्याशयेनाह ॥ इवर्णो यत्वमापद्यत इति ॥ ननु इयं स्वरे' इत्यत्र इकारग्रहणं किमर्थमिति । उकारादीनां यत्ववारणायेति चेन्न उ वमित्यादि सत्रप्राबल्यात्। न च षडत्रेत्यादौ टकारादीनां यत्वनिषेधार्थ तदिति चेत् तत्रापि पूर्ववत् 'चपा अबे जबाः' इत्यादिसूत्रप्राबल्यात् । अथ पचतीत्यत्र चकारस्य तद्वारणायेति चेत् 'झ्नो हस्वात्' 'दीर्घात्' इति सूत्राभ्यां हस्वदीर्घग्रहणमनुवर्त्य हस्वदीर्घयोरेव यत्वविधानात् इति चेत्सत्यम् । चिनुह्यत्रेत्यादौ प्लुतस्यापि पक्षे यत्वविधानार्थमिग्रहणस्यावश्यकत्वात् । दद्ध्यानयेत्यत्रस्यादिस्वरत्वाभावात् 'नामिनः स्वरे' इतिनुमागमो नातद्धिवस्वरत्वाभावात् यस्य लोप इति यस्य लोपोऽपिन। नन्वत्र 'संयोगान्तस्य लोपः' इत्यनेन यलोपःकथं न स्यादिति चेत्सत्यम्। असिद्धं बहिरंगमन्तरंगे' इति न्यायेनान्तरंग लोपं प्रति बहिरंगस्य यादेशस्य असिद्धत्वादिति गृहाण ॥
(हसेहूं हसः) स्वरात्परो रेफहकारवर्जितो हसो हसे परे अवसाने च वा द्विर्भवति ॥ - (सुबोधिनी )--हसेऽहं हसः ॥ र च ह् चहौ न ही यस्मिन् सोऽई अत्र संयोगान्तस्पेति हलोपो न सभिन्नस्येति निषेधात् । रकारहकारभिन्नः स्वरात्परो हसो द्विर्वा स्यात् अवसाने हसे च ॥ स्वरादिति किम् । तस्मिन् स्नातः । हसे किम् । भवानत्र । हसः किम्। तिस उच्छत्रम् । अर्हिति किम् । हर्यानुभवः । नह्यस्ति । अवसाने यथा । वाकक्-वाग्ग् ! दधध्य इत्यत्र यकारस्य स्थानिवद्भावेन स्वरत्वमाश्रित्य हसेऽर्ह हस इति द्वित्वनिषेधो नाशङ्कयो न तु वर्णमात्रविधाविति स्थानिवद्भावनिषेधात् ॥
(तत्त्वदी०)-हसेऽह हस इति । अत्र 'झ्नो ह्रस्वात्' इति पूर्वसूत्रात्हस्वादित्यस्यानुवृत्तस्य चलक्षणया स्वपरत्व बोध्यम् । यत्तु दानं पात्रमित्यादौ दीर्घाद्वित्वनिवृत्त्यर्थ ह्रस्वादित्येव वक्तुंयोग्यमिति तन्न तत्र विकल्पेनैव तद्वारणसंभवात् । अत्र 'संयोगान्तस्य लोपः' इत्यनेनहलोपो न रात्सस्यैव लोप इति नियमात्।र् च ह च हौं ताभ्यामन्यः स तथा । अस्वरेऽई हस इति तु सुवचम् ।।
Page #35
--------------------------------------------------------------------------
________________
[ स्वरसंधिः] टीकाद्वयोपेता।
(झबे जबाः) झसानां झबे परे जबा भवन्ति ॥ (सुबोधिनी)-झबे जबाः ॥ झसानां जवाः स्युझवे ॥ झसानामिति किम् गीाम् ॥ झवे किम् ॥ खनौ ॥ दध्धय् इत्यत्रानेन धस्य दः ॥ (तत्त्वदी०)-झबे जवा इति ॥ यत्तु झमे जबा इति तन्न भृजते भृजतीत्यादावव्याप्तेः॥ (वग्यौं वर्येण सवर्णः) स्वरहीनं परेण संयोज्यम् ॥ दयानय ॥ (सुबोधिनी )-वग्यौं वर्येण सवर्णः ॥ वगै भवो वयों वर्णो वग्येण वर्णेन सह सवर्णों भवतीत्युक्तत्वात् संयोगान्तस्येति यलोपे प्राप्ते अन्तःस्थानां प्रतिषेधो वाच्य इति असिद्धं बहिरङ्गम् इति परिभाषया वा यलोपाभावः ॥ स्वरेण हीनं स्वरहीनं व्यञ्जनं परेण वर्णेन सह संयुज्यते इत्यर्थः ॥ (तत्त्वदी०)-वों वयेणेत्यादि । वर्गे भवो वर्यः ॥
(उपाधवला वा द्विवीच्याः) दध्यानय ॥ द्वित्वं धस्यैव यस्यैव नोभयोरुभयोरपि । दध्यानयादिषु प्रार्बोध्यं रूपचतुष्टयम् ॥
(सुबोधिनी )-अपाद्यवला वा द्विर्वाच्याः ॥ अपप्रत्याहारात्परा यवला वा द्विः स्युः ॥ धकारयकारयोदित्वविकल्पाच्चत्वारि रूपाणि ॥ इह धकारस्य द्वित्वे जबत्वे च कृते पुनर्दस्य द्वित्वं न भवति सकृच्छास्त्रं प्रवर्तते इत्युक्तत्वात् । अन्यथा द्वित्वानन्त्यापत्तिः॥ द्विधं दियम् १ एक, द्वियम् २ द्विधमेकयम् ३ एकधमेकयम् ४ दद्धय्यानय १ दद्धय्यानय १ दद्धयानय ३ दध्यानय ४॥
(तत्त्वदी० )-अपादिति ॥ इति यकारस्य द्वित्वम् । तथा च धययोत्विविकल्पाचत्वारि रूपाणि ॥ यत्तु नरोत्तमः । वाणीप्रणीतसूत्राणामिति प्रतिज्ञाय तदतिरिक्तविधानेन प्रतिज्ञाभंग इत्याशङ्ख्यात्र रामो बभ्रामेत्युक्तवान् तत्स्वमतिभ्रमादेव । यतः पतञ्जलेर्मतं बुद्ध्वेत्युक्त्वा पतञ्जलिमतावबोधपूर्वकत्वेन पतञ्जलिमतानुसरणविशिष्टवाणीप्रणीतसूत्रसंबन्धिसिद्धान्तचन्द्रिकाकरणप्रतिज्ञाया उद्देश्यत्वेन प्रतिज्ञाभंगाभावात् ॥ तथा च "रामाभिप्रायमज्ञात्वा तदुक्तौ दूषणार्पणम् । चकारानवबोधेन स्वयं भ्रान्तो नरोत्तमः ॥ नरोत्तमतया तस्य न नाम विहितं बुधैः । तृणोत्तमतया किं तु रलयोरैक्यभावनात् ॥" __ (रहायपो द्विः ) स्वरपूर्वाद्रेफात् हकाराच परो यपो वा विर्भवति ॥ जलतुम्बिकान्यायेन रेफस्योर्ध्वगमनम् ॥ गौयंत्र । हर्य्यनुभवः । नय्यस्ति । व्यवस्थितविभाषया शसस्यापि द्वित्वम् ॥ पार्श्वम् । पर्खा डण् । सस्स्य वमत्यादौ ॥
(सुबोधिनी )-रहाद्यपी द्विः ॥ स्वरात्पराभ्यां रेफहकाराभ्यां परो यपो द्विर्वा स्यात् ॥ स्वरादिति किम् । किं हुते॥ ननु मद्रहद इत्यत्रस्वरात्पगत् हकारानेफस्यापि द्वित्वप्रसंगः स्यादिति चेन्न विशेषेण सामान्यस्य बाधात् । विशेषे हि रस्य निमित्तत्वं
Page #36
--------------------------------------------------------------------------
________________
(२०)
सिद्धान्तचन्द्रिका। [ स्वरसंधिः] सामान्ये तु कार्यित्वम्। माठरकौण्डिन्यन्यायेन। तद्यथा ।ब्राह्मणा भोज्यन्तां माठरकौण्डिन्यौ परिवविष्टामिति ब्राह्मणभोजने निमित्तभूतयोस्तयोर्भोजनं बाध्यते । तद्वद्यपस्य द्विरुक्तौ निमित्तस्य द्वित्वं बाध्यते । व्यवस्थितविभाषया शसस्यापि द्वित्वम् । कुत्रचिद्भवति कुत्रचिन्न भवतीयं व्यवस्थितविभाषा । तया । स्वरात्पराभ्यां रहाभ्यां परः शसो द्विः स्यादित्यर्थः ॥ पाश्र्वम् । वम ॥ . (तत्त्वदी०)-रहाद्यपो द्विरिति ॥ रश्च हश्चेति द्वन्द्वः । हकाराधिक्यं तु 'अचों रहाभ्यां द्वे' इति पाणिनिसूत्रानुसारात् ।। मद्रहद इत्यादौ स्वरात्पराद्धात्परस्यापि रेफस्य न द्वित्वं माठरकौण्डिन्यन्यायेन तद्बाधात् । तद्यथा । ब्राह्मणा भोज्यन्तां माठरकौण्डिन्यौ परिवेविष्टामिति ब्राह्मणभोजने निमित्तभूतयोस्तयोर्भोजनं बाध्यते । एवमत्रापि यद्वित्वनिमित्तस्य रेफस्य न यपान्तर्गतत्वेन द्वित्वकार्यित्वम् । व्यवस्थितविभाषया शसस्यापि द्वित्वम् । पाश्र्व धर्षामत्यादौ । पविण् । णित्त्वावृद्धिः । डित्त्वाहिलोपः ॥ । (उ वम् ) मदूधव्वत्र-मध्व्वत्र--मद्ध्वत्र--मध्वत्र ॥ सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयम् ॥
(सुबोधिनी)-उ वम् ॥ चपा अबे जबा इत्यतः प्राक् स्वरे इत्यनुवर्तते। सूत्रेषु यत्पदं न दृष्टं तत् पदमन्यत्सूत्रं सूत्रान्तरं तस्मात्सूत्रान्तरादनुवर्तनीयमित्युक्तत्वात पूर्वसूत्राद ग्रहणमनुवृत्तिः ॥ उ वत्वं प्राप्नोति स्वरे परे ॥ एवम् ऋ रम् ल लमत्रापि पूर्ववत्सर्वं व्याख्येयम् । धस्य द्वित्वं जबत्वं च । मद्ध्वत्र ॥
(तत्त्वदी.)-उ वमिति ॥ वत्वमापद्यत इति पूर्ववत् ॥ मध्वत्रेति ॥ अत्रापि धकारवकारयोत्विविकल्पाच्चत्वारि रूपाणि ॥
(ऋरम् ) पित्रर्थः (ल लम् ) लनुबन्धः ॥
(सुबोधिनी)-ऋ रम् । ऋ रत्वं प्रामोति स्वरे ॥ रत्वं तकारस्य द्वित्वम् ।। पित्रर्थः॥ ल लम् ॥ ल लत्वं प्राप्नोति स्वरे परे ॥
(तत्त्वदी०)-ऋ रमित्यादिपूर्ववत् ॥ पित्रर्थः इति अत्रापि तकारस्य द्वित्वविकल्पाद्रूपद्वयम् ॥ ल लमिति ॥ लनुबन्ध इति ॥ ल अनुबन्धो यस्येति विग्रहः ॥
(ए अय् ) नयनम् ( ओ अ ) भवनम् ॥ (सुबोधिनी)-ए अय् ॥ एरय् स्यात्स्वरे ॥ ओ अव्॥ ओरव स्यात्स्वरे।
(तत्त्वदी.)-ए अयिति ॥ प्रथमान्तं पदद्वयमपि । एवमुत्तरसूत्रेऽपि ॥ नयनमिति॥ 'णीञ् प्रापणे' इत्यस्माद्युटि 'युवोरनाकौ' इति अनादेशे । एवं भवनमपि भूधातोः॥
(गोरग्या पदान्ते स्वरे) टिकितावायन्तयोर्वक्तव्यौ ॥ गोअग्रम् गोऽयम् गवायम् । पदान्ते किम् । गवि । स्वरे किम् । गोहितम् ॥
Page #37
--------------------------------------------------------------------------
________________
[स्वरसंधिः] टीकाद्वयोपेता।
(२१) (सुबोधिनी)-गोरग वा पदान्ते स्वरे ॥ पदान्ते ओदन्तस्य गोरग् वा स्यात स्वरे ॥ कित्त्वादन्ते ॥ पदान्ते किम् । गवि ॥ ओदन्तस्य किम् । चित्रग्वग्रम् ॥
(तत्त्वदी०)-गोरग्वेति॥पदान्ते किम् । गवि॥स्वरे किम्।गोहितम्॥तथा च पाणिनिसूत्रे अवङ् स्फोटायनस्य' इत्यत्र अक् स्फोटायनस्य' इत्युचितम् । अगागमे कृते सति एचोऽयवायावः' इत्यवादेशे गवाग्रमित्यादिरूपसिद्धेः॥
(इन्द्राक्षयोः परतो गोरनित्यम्) गवेन्द्रः । गवाक्षः॥ (सुबोधिनी) इन्द्राक्षयोः परतो गोरङ्ग नित्यम् ॥ पदान्ते ओदन्तस्य गोनित्यमक् स्यात् इन्द्रेक्षे च परे ॥ गवां किरणानामक्षीव यः स गवाक्षः टाडका इत्यप्रत्ययः । वातायने रूढोऽयम् । पुंस्त्वं लोकात् ॥ ( तत्त्वदी० )-व्यवस्थितविभाषा चेयमित्याशयेनाह ॥ इन्द्राक्षयोः परत इति ॥ (ऐ आय) नायकः (औ आव ) पावकः ॥ . (मुबोधिनी)-ऐ आय् ॥ ऐराय् स्यात् स्वरे॥औ आत् ॥औराव् स्यात् स्वरे । ( तत्त्वदी० )-नायकः पावकः इत्यत्र णीपूधातुभ्यां तृवुणाविति वुणि णित्वादृद्धौ अकादेशे च रूपसिद्धिः॥ (वचित्स्वरवद्यकारः) गव्यूतिः स्त्री क्रोशयुगम् । अन्यत्र गोयूतिः
(सुबोधिनी)-क्वचित्स्वरवद्यकारः॥ क्वचित्स्वरेण तुल्यं स्वरवद्यकारः स्यात् ॥ स्वरे परे यत्कार्य भवति तद्यकारे परेऽपीत्यर्थः ॥ तेन गव्यूतिः इत्यत्राध्वनः परिमाण एवात् । “गव्यूतिः स्त्रीक्रोशयुगम्" इत्यमरः॥अध्वपरिमाणाभावे गोयूतिर्गवां मिश्रीभाव इत्यर्थः ॥ ननु गव्यतिरित्यत्र बोर्लोपशित्यनेन वकारस्य लोपश कस्मान्न । उच्यते । व्यवस्थितविभाषाश्रयणात् संज्ञापूर्वकविधेरनित्यत्वाद्वा ॥
(तत्त्वदी०)-गव्यतिरिति ॥"गव्यूतिः स्त्री क्रोशयुगम्" इत्यमरः॥ 'य्योलॊपशु वा पदान्ते' इत्यत्र व्यवस्थितविभाषाश्रयणात् गव्यूतिरित्यादौ मलोपो न ॥
(क्षय्यं जय्यं शक्यार्थे ) क्षेतुं शय्यं क्षक्यं जेतुं शक्यं जय्यं सैन्यम् ॥ अन्यत्र क्षेयं पापम् । जेयं मनः॥
(सुबोधिनी) क्षय्यं जय्यं शक्याथै ॥ सामर्थ्यार्थे क्षय्यं जय्यमित्यत्राय निपात्यते । क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् ॥ 'क्षि क्षये' 'जि जये' आभ्यां तव्यादयोऽईऽर्थे विधौ शक्ती चेति यः प्रत्ययः । शक्यार्थाभावे तु क्षेतुं योग्यं क्षेयं जेतुं योग्यं जेयम् । नात्राय ॥
(तत्त्वदी० ) क्षय्यमित्यादि ॥क्षेतुं शक्यं क्षय्यम् । जेतुं शक्यं जय्यम् । क्षि क्षये जि जये इत्यतः स्वराद्यः इति यप्रत्यये गुणे च क्षेयं जेयमिति ॥
Page #38
--------------------------------------------------------------------------
________________
(२२)
सिद्धान्तचन्द्रिका। [स्वरसंधिः] (क्रयार्थे प्रसारितं कय्यम् ) क्रेयमन्यत् ॥
( सुबोधिनी)-क्रयार्थे प्रसारित क्रय्यम् ॥ द्रव्यविनिमयार्थेऽय निपात्यते । अत्र ग्राहका गृहीयुरिति बुद्धया हट्टे प्रसारित वस्तु क्रय्यम् । द्रव्यविनिमयाभाव तुक्रेतुं योग्यं क्रेयंक्रयणाहमित्यर्थः। डुक्रीज्'द्रव्यविनिमये इत्यस्मात्तव्यादयोऽहऽर्थे इति यः।
(तत्त्वदी० ) क्रयार्थे प्रसारितं क्रय्यमिति ॥ क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारित क्रय्यं क्रेयमन्यत् क्रयणाईमित्यर्थः ॥
( अक्षादेरूहिन्यादावरवक्तव्यः ) अक्षौहिणी सेना । प्रौढः । पौढिः । स्वैरम् । स्वैरी । स्वैरिणी ॥
(सुबोधिनी )-अक्षादेरूहिन्यादावरवक्तव्यः ॥ अक्षोदरक् स्यादूहिन्यादौ परतः॥ उहःसमूहोऽस्त्यस्याःसा ऊहिनीअक्षाणामूहिनीअक्षौहिणी। परिमाणविशेषविशिष्टा सेना । संज्ञायां णत्वम् । “सा सेनाऽक्षौहिणी नाम खागाष्टकदिक २१८७० गैजैः । रथैश्चे २१८७० भाद्धयस्विनैः ६५६१० पञ्चन्नैश्च पदातिभिः १०९३५०॥" प्रमाणमिति ॥ प्रौढः ।प्रौढिः । अर्थवद्ग्रहणे नानर्थकस्येति ऊढग्रहणे क्तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशस्तेन प्रोढवानत्र नाक् । स्वैरम् । स्वेन ईरितुंशीलमस्येति स्वैरी। णिन्यन्तः । अथवा ईरणमीरो घअन्तः । ततो मत्वर्थीय इनिः । स्वैरिणी ईबन्तः ॥
(तत्त्वदी० )-अक्षादेरूहिन्यादाविति ॥ अक्ष प्र स्व इत्यक्षादयः । ऊहिनी ईर ईरिणीऊढ ऊढि ऊठ् इत्यूहिन्यादयः।अग्विधिसामर्थ्यादादौ सवर्णदी? न॥अक्षौहिणीति ॥ सेनाविशेषस्य संज्ञा । तथा हि । “अक्षौहिण्यामित्यधिकैः सप्तत्या ह्यष्टभिः शतैः। संयुक्तानि सहस्राणि गजानामेकविंशतिः ॥२१८७० ॥एवमेव रथानां तु संख्यानं कीर्तितं बुधैः२१८७०॥ पञ्चषष्टिसहस्राणि षट् शतानि दशैव तु ॥ संख्यातास्तुरगास्तविना रथतुरंगमैः ६५६१०।नृणां शतसहस्राणि सहस्राणि नवैव तु ॥ शतानि त्रीणि चान्यानि पञ्चाशत्तु पदातयः १०१३५०॥" सप्ततिसहिताष्टशताधिकैकविंशतिसहस्राणि प्रजाः। इयन्त एव रथाः। दशोत्तरषदृशताधिकानि पञ्चषष्टिसहस्राणि अश्वाः । पञ्चाशदुत्तरशतत्रयसहितं नवसहस्राधिकमेकलक्षं :पदातय इत्यक्षौहिणीलक्षणम् ॥
(य्वोर्लोपश वा पदान्ते ) पदान्ते स्थितानामयादीनां यकारवकारयोलॊपश् वा भवति ॥ त आगताः-तयागताः । पट इह--पटविह । हे सखयिति-हे सख इति । तस्मा इदम्-तस्मायिदम् । ता इह-ताविह ॥ लोपशि न संधिः । नलोपशि तु भवति छन्दसि च श्वादेरिति निर्देशात् ॥ दामोदरः ।राजाश्वः ॥
Page #39
--------------------------------------------------------------------------
________________
[ स्वरसंधिः] टीकाद्वयोपेता।
(२३) (सुबोधिनी)-य्वोलापशू वा पदान्ते॥य च व च य्वौ तयोर्योः।पदस्यान्तः पदान्तः अन्तशब्दोऽवयववाची । पदं तु विभक्त्यन्तमेव गृह्यते । पद्यते गम्यतेऽर्थोऽनेनेति व्युत्पत्तेः।पूर्वसूत्रेभ्योऽय् अव् आय् आव् इत्यनुवर्तते । अनुवृत्तं च पष्ठया विपरिणम्यते । पदान्ते स्थितानामयादीनां बोलोपैश् वा स्यात् ॥ दाम उदरे यस्य स दामोदरः । राज्ञोऽश्वः राजाश्वः । नानो नोलोपशिति लोपशि कृतेऽपि पुनःसन्धिर्जातः । समासे नलोपशि तु भवतीत्युक्तत्वात् ॥ पदान्ते किम् । नायकः । पावकः।। अयादीनां किम् । दध्यानय । मध्वत्र ॥ ननु वृक्षं वाति वेति वा वृक्षवाः, वृक्षवीः । वा गतिगन्धनयोः। वी गतिव्याप्तिप्रजननादौ । आभ्यां विप्, वृक्षवां वृक्षव्यं वा करोतीति जिर्डिकरणे इति जिप्रत्यये टिलोपे च सति स धातुरिति धातुत्वम् । ततः विपि त्रिलोपे च वृक्षवू इति । वृक्षव् इहेत्यादाववरूपस्य सत्त्वात् वकारस्य लोपश् कस्मान। उच्यते । अव इति रूपस्य लाक्षणिकत्वान्न । अयादीनांरूपमव्युत्पन्नमेव॥ . (तत्त्वदी०)-य्वोर्लोपशू वेति॥य् च व् च य्वौ तयोः। अनन्तरोक्तत्वादयादीनामेव यकारवकारौ गृह्यते इत्याशयेनाह ॥ अयादीनामिति ॥ अयादयश्च आय्अय् अव् आव् । पदस्यान्तः पदान्तः । अन्तशब्दोऽवयववाची। पदं च विभक्त्यन्तमेव । अयादश्चैतत्सूत्रभाषिता एव गृह्यन्ते । तेन वृक्ष वातीति वृक्षवाः तं करोति जिडित्करणे इति 'जिप्रत्यये' टिलोपे च सति स धातुः' इति धातुत्वम् ततः विपि जिलोपे च वृक्षविति भवति । वृक्षविहेत्यत्र लोपो नापदान्ते किम् नयनम् ॥ श्वादेरिति ॥ श्वा आदिर्यस्य सः श्वादिः तस्य । बहुव्रीहिरन्यार्थ इति समासे 'नाम्नो नो लोपशधौ' इति नलोपशि सवर्णे दीर्घः ॥
(एदोतोऽतः) पदान्ते स्थितादेकारादोकाराच्च परस्याकारस्य लोपश् भवति ॥ तेऽत्र । पटोऽत्र ॥
(सुबोधिनी )-एदोतोऽतः ॥ अयवोरपवादः । एच ओच्च तयोः समाहारःएदोत् तस्मात् एदोतः । तपरकरणं स्पष्टार्थम्।प्लुतव्यावृत्तिः प्लुत इत्यादिना बोध्यः । तेन आगच्छाग्ने ३ अत्र तिष्ठ । एहि विष्णोः अत्र हविर्भुङ्क्वेत्यादौ न सन्धिःाप्लुतस्य निषेधादिति ॥ पदान्ते एदोतः परस्यातो लोपश् स्यात् ॥ पदान्ते किम् । नमनम् ॥ भवनम् ॥ एदोतः किम् । तस्मै अन्नम् । तौ अत्र ॥ अतः किम् । ते आगताः ॥
(तत्त्वदी०)-एदोतोऽत इति॥ एच्च ओच्च एदोत् तस्मात् । तपरकरणं सुखमुखोच्चारणार्थम् ॥ अत इति तपकरणं दीर्घादिनिवृत्त्यर्थम् । तेन हरे आगच्छेत्यादौ लोपो न ॥ तेऽत्रेति ॥ अत्रापवादत्वाल्लोप एव न त्वयादयः ॥
(गोर्वा ) तेन गोअजिनम्-गोऽजिनम्-गवाजिनम् ॥ (सुबोधिनी)-गोर्वा ॥ पदान्ते ओदन्तात् गोशब्दात् परस्यातो लोपश् पक्षे प्रकृतिभावश्च ॥ ओदन्तात्किम् । चित्रग्वग्रम् ॥ पदान्ते किम् । गोः ॥ प्रकृतिभावे गो अजिनम् ॥ अल्लोपे गोऽजिनम् ॥ गोरग्वेत्यगागमे गवाजिनम् ॥
Page #40
--------------------------------------------------------------------------
________________
(२४) सिद्धान्तचन्द्रिका। [स्वरसंधिः ]
(तत्त्वदी०)-गोति।गोशब्दादकारस्य लोपो वेत्यर्थः।।तेन गोऽजिनमित्पयत्र रूपत्रयम्।। .. (सवणे दीर्घः सह) समानस्य सवर्णे परे सह दीर्घो भवति ॥ दैत्यारिः। श्रद्धाऽत्र । दधीह । भानूदयः । श्रीशः । होतृकारः होतृकारः ॥ "सामान्यशास्त्रतो नूनं विशेषो बलवान् भवेत् । परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥"
(सुबोधिनी )-सवर्णे दीर्घः सह॥सवर्णशब्दस्य च ससंबन्धिकत्वात्सवर्णादिति लभ्यते । वर्णशब्दोऽक्षरेऽस्ति ।"वर्णो द्विजादौ शुक्लादौ स्तुतौवर्ण तुवाक्षरे॥” इत्याभिधानात् ॥ सशब्देन तु समानशब्दो लक्ष्यते । नामैकदेशेनापि नामग्रहणस्य संमतत्वात् सगोत्रः सनामेत्यादाविव समानशब्दस्यादेशः स इति वा । ततः समानं च तद्वर्ण च सवर्ण तस्मात् । सवर्णसंज्ञकस्य सवर्णस्यात्र ग्रहणं नास्ति किंतु यौगिकस्य ग्रहणं तेन समानसंज्ञात्मको वर्णःसमानशब्देन ग्राह्यो न तु तुल्यार्थकः ॥समानसंज्ञकाद्वर्णात्सवण परे सह दीघों भवतीत्यर्थः ॥ सहग्रहणं तूभयोः स्थानित्वलाभार्थं कृतम् । तच्च नामी इति यावदनुवर्तत ॥ ननु विना सहेत्यनेन सहशब्दयोगे तृतीया किं न स्यात्।उच्यते। उपपदविभक्तेःकारकविभक्तिर्बलीयसीत्युक्तत्वात् सहशब्दयोगे विधीयमाना तृतीयोपपदविभक्तिःसवणे इति सप्तमी तुभावे सामीपिकाधारे वा विहिता कारकविभक्तिःक्रियान्वयित्वात् क्रियापदमध्याहृतं भवति नायोगे ।दीर्घ इत्यत्रान्योक्ते इत्यनेन प्रथमाऽपि कारकविभक्तिः । सवर्णे किम् ॥ ध्यत्र मध्वेतत् । दधीह भानूदयाश्रीशः वधूपमेत्यादौ उकारादौ वकारादिप्राप्तिः सवर्णे दोघं इत्यस्य प्राप्तिश्चास्ति तत्र किं भवतीत्यत आह । सामान्यशास्त्रतोनूनविशेषो बलवान् भवेत् ॥ नूनमित्यव्ययं निश्चये विचारे वा। बहुव्यापकं शास्त्र सामान्यशास्त्रम् । शासनाच्छास्त्रं लक्षणं सूत्रमित्यर्थः॥ तस्मादल्पव्यापकोऽपवादो भवतीत्यर्थः। यथा रामोऽत्रेत्यादौ लोपशोऽपवाद उत्वम्॥ सर्वस्मै इत्यादौ डेरगित्यस्यापवादः स्मट्।कार्येऽणित्युत्सर्गः आतो ड इत्यपवादः॥ नुडागम इत्युत्सगः सुडागम इत्यपवादः ॥ एवं यत्ववत्वरत्वादिविधिरुत्सर्गः दीर्घविधिरपवादः ॥ पुनः परिहारान्तरमाह ॥ परेण पूर्ववाधौ वा ॥ वेति पक्षान्तरे । सूत्रपाठे परेण परपठितेन विधिना पूर्वबाधः क्रियते पूर्वपठितो विधिर्वाध्यत इत्यर्थः ॥ इदं परिहारान्तरं च नित्यान्तरङ्गापवादव्यतिरिक्तस्थले एव द्रष्टव्यम् । तत्र नित्यं बाधकमावश्यकत्वात ॥ अन्तरङ्गं तु बाधकं लाघवात् । अपवादस्तु बाधको भवति वचनप्रामाण्यात् । नुमागम इआदेशयोः यथा प्रधीनीत्यादौ परेण नु स्वौ वेति यत्वं बाध्यते तथा दीर्घविधिना यत्वादिविधिर्वाध्यते ॥ ननु वारीणां स्त्रीणामित्यादौ परत्वान्नुमियोः सतोर्नुडागमो न स्यादित्यत आह ॥ प्रायशो दृश्यतामिह ॥ प्रायश इत्यव्ययं बाहुल्येऽर्थे । इह शास्त्रे पूर्वोक्तो न्यायो
१ सहयोगाभावान्नेत्यर्थः ।
Page #41
--------------------------------------------------------------------------
________________
[ स्वरसंधिः ] टीकाद्वयोपेता।
(२५) बाहुल्येन भवद्भिदृश्यतां ज्ञायतां न सर्वत्र । दृशिज्ञानार्थः । 'दृशिर्ज्ञानेक्षिण दर्शनेइत्युक्तत्वात् । कर्मणि लोट् । प्रायश इति कथनात् क्वचित्पूर्वेणापि परविधिर्बाध्यते इति दृश्यताम्।यथास्त्रीणाम् वारीणामित्यादावियनुमौ परावपि पूर्वेण नुटा बाध्येते॥
(तत्त्वदी०)-सवणे दीर्घःसहेति ॥ सवर्णशब्दस्य ससंबन्धिकत्वात्सवर्णस्यति लब्धम् । सवर्णसंज्ञा च समानस्यैव नान्यस्येति स्पष्टार्थम् ॥ समानस्येति ॥ सहयोगे तृतीया तु न उपपदविभक्तित्वात् । सप्तम्यास्तु सामीपिकाधारे विहितत्वात्कारकविभक्तित्वम् ॥ दीर्घ इति प्रथमायाश्चाध्याहृतभवतिना योगादन्योक्त इत्यनेन विहितत्वात्कारकविभक्तित्वम्॥ उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति वचनात् ॥ समानस्येति किम् । हरये ॥ श्रद्धाऽत्रैति॥ पर्जन्यवल्लक्षणप्रवृत्तिरिति दीर्घस्यापि दीर्घः ॥ ' यत्तु अदी? दीर्घतां याति' इत्यादि कलापानुसारिभिरुक्तं तद्भाष्यविरोधादुपेक्ष्यम् । 'अलोऽलि दीर्घः' इत्येव सुवचमम् ॥ सामान्यशास्त्रत इत्यादि ॥ बहुव्यापकं सामान्यम् । अल्पव्यापको विशेषः ॥
(हलादेरीषादौ टेलीपो वक्तव्यः) हलीषा।लागलीषा।मनीषा।अयोम्। शकन्धुः । कर्कन्धुः । कुलटा । पटत् इति पटिति ॥ ( सारङ्गः पशुपक्षिणोः)-साराङ्गोऽन्यः॥ (सीमन्तः केशवेशे )-सीमान्तोऽन्यः ॥
(सुबोधिनी)-हलादेरीषादौ टेर्लोपो वक्तव्यः॥हलादेष्टेर्लोपः स्यादीषादौ परे ॥ 'ईष उञ्छे' 'ईष गत्यादिषु च।आभ्यां गुरोर्हसादित्यङ्प्रत्यये ईषाशब्दः। हलस्य ईषा हलीषा । लाङ्गलदण्डः। लाङ्गलस्य ईषा लागलीषा॥मनसः ईषा मनीषा ॥ शकानां देशविशेषाणामन्धुः कूपः शकन्धुः॥ कर्काणां राज्ञामन्धुः कर्कन्धुः ॥ अटतीत्यया । पचायप्रत्ययः । कुलस्याटा कुलट।। यदा तु कुलमटतीति विगृह्येत तदा कार्येऽणित्यणप्रत्यये ईपि च कुलटीति स्यात् ॥ अन्यस्मिन् अर्थे साराणि प्रधानान्यङ्कानि यस्य स साशंगः । टिलोपो न ॥ केशवेशे केशरचनायामर्थे टिलोपो भवति । सीमन्तः । अन्यस्मिन् अर्थे सीमाया अन्तः। सवर्णे दीर्घः। सीनो अन्तः सीमान्त इति वा । नानो नो लोपशिति नलोपे कृते दीर्घोत्र । 'सीमसीमे स्त्रियामुभे' इत्यमरः ॥
( तत्त्वदी०)-हलादेरिति ॥ हलादेरीषादेव आकृतिगणत्वं बोध्यम् । तेन पतञ्जलिमार्तण्ड इत्यादि सिद्धम् ॥ हलीषेति ॥ 'ईषा लाङ्गलदण्डः स्यात्' इत्यमरः ॥ मनीषेति ॥ 'बुद्धिर्मनीषा धिषणा' इत्यपि च ॥ शकन्धुरिति ॥ शकानां दे विशेषाणामन्धुः कूप इत्यर्थः ॥ सीमान्तोऽन्य इति ॥ सीम्नः अन्तः सीमान्तः ॥
(ओत्वोष्ठयोः समासे वा) (ओ औ औ) अवर्णादोकारे औकारे च परे सह औकारो भवति ॥ बिम्बोष्ठः-बिम्बौष्ठः । स्थूलोतुःस्थूलौतुः । समासे इति किम् । तवौष्ठः ॥
Page #42
--------------------------------------------------------------------------
________________
(२६) सिद्धान्तचन्द्रिका।
[ स्वरसंधिः] (सुबोधिनी)-ओत्वौष्ठयोःसमासे वा। समासे अकारस्य लोपोवा स्यादोतुशब्दे ओष्ठशब्दे च परे ॥ बिम्बवदोष्ठौ यस्य स विम्बोष्ठः। स्थूलश्चासौ ओतुश्च स्थूलोतुः । 'ओतुर्विडालो मार्जारः' इत्यमरः ।। एकस्मिन्समासे इदं प्रवर्तते । तेनेह न । हेवृषलसुतौष्ठवणस्ते इति । पक्षे औत्वम्॥ओऔ औ॥आद्यौ सप्तम्यन्तौ प्रथमान्तोऽन्त्यः॥
(तत्त्वदी० )-ओत्वोष्ठयोरिति ॥ ओतुश्च ओष्ठश्च तौ तयोः । अत्र स्वराद्यदन्तत्वादोष्ठशब्दस्य पूर्वनिपाते न्याय्ये स्वराद्यदन्तम् इत्यस्यानित्यत्वज्ञापनायेदम् । स्थलोतुरिति॥ स्थूलश्चासौ ओतुश्च स तथा । ओतुर्मार्जारः ननु वृषलसुतौष्ठव्रणस्ते इत्यत्र कथं न टिलोपः स्यादिति चेत्सत्यम् । ओत्वोष्ठयोश्चैकत्र समासे स्थिताविदं बोध्यम् ॥
( एदोदादौ धातौ ) अवर्णान्तोपसर्गस्य लोपः॥ प्रेजते । उपोषति ।।
(सुबोधिनी )-एदोदादी धातौ ॥ अवर्णोऽन्ते यस्य स अवर्णान्तः अवर्णान्तश्चासौ उपसर्गश्च अवर्णान्तोपसर्गस्तस्य अवर्णान्तोपसर्गस्य लोपः स्यात् ॥ एच ओच्च एदोतौ एदोतावादौ यस्य स एदोदादिस्तस्मिन् एदोदादौ धातौ परे ॥ एज दीप्तौ कम्पने च । कम्पनार्थस्तु परस्मैपदी । प्रेजतीति । प्रेजते इति दीप्त्यर्थः॥
(तत्त्वदी० )-एदोदादाविति ॥ एच्च ओच्च एदोत् स आदिर्यस्य स तथा तस्मिन्॥ प्रेजत इति।एज दीप्तौ । न तु एज कम्पने भ्वादिः तस्य परस्मैपदित्वात् ॥ उपोषतीति॥उष दाहे।एदोदादिकं च कृत्रिममकृत्रिमं च ग्राह्य विशेषानुपादानात् एत्येधत्योरिति निषेधाज्ज्ञापनाच ॥
(एदोदादौ नामधातौ वा ) उपेडकीयति-उपैडकीयति । प्रोघीयति-प्रौघीयति ॥
(सुबोधिनी )-एदोदादौ नामधातौ वा ॥ अवर्णान्तोपसर्गस्य वा लोपः स्यात् । एदोदादी नामधातौ परे ॥ आत्मन एडकमिच्छतीत्येडकीयति । नानो यई चास्येति यः । आत्मन ओघमिच्छतीत्योघीयति ॥
(तत्त्वदी० )-उपेडकीयति इति ॥ एडकमिच्छति इति वाक्ये 'नाम्नो य ई चास्येति सूत्रेण यप्रत्ययेऽकारस्येकारादेशे रूपसिद्धिः । एवं प्रोघीयतीत्यादि ॥
( एत्येधत्योन ) उपैति । उपैधते ॥ (सुबोधिनी )-एत्येधत्योर्न ॥ अवर्णान्तोपसर्गस्य लोपो न भवति एतिश्च एधतिश्च इति एत्येधती तयोरेत्येधत्योः परतः ॥ संध्यक्षराद्योरेत्येधत्योरेव । तेनेह न। उपेतः मा भवान्प्रेदिधदिति ॥ प्रपूर्वस्य एधतेय॑न्तस्य लुङि परे अङि परे अङि लघाविति ह्रस्वे कृते पश्चाद् द्वित्वे मेट् इत्यडागमाभावे रूपम् ॥ (तत्त्वदी०)-एत्येधत्योरिति ॥ इण् गतौ । एध वृद्धौ ॥ (प्रस्यैष्यैषयोन ) एष्यः-एषः। प्रैष्यः-प्रेषः।प्रस्य किम् । अपेषः॥
Page #43
--------------------------------------------------------------------------
________________
[ स्वरसंधिः ]
टीकाद्वयोपेता। (२७) (सुबोधिनी)-प्रस्यैष्यैषयोन ॥ प्रोपसर्गस्याकारस्य लोपो न स्यादेष्यशब्दे एषशब्दे च परे ॥ एदोदादौ धाताविति प्राप्तेऽयं निषेधः । इषु इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये त्यादिः एषां धातूनां घञ्प्रत्यये घ्यणप्रत्यये च एषः एष्यः इति रूपे भवतः । किं च एषसाहचयादेष्योऽप्यनव्ययं गृह्यते । तेन ज्यन्तादिषेः क्यपि कृते एष्येत्यव्ययम्। तत्राकारस्य लोपो भवतीत्यर्थः। प्रेष्य गत इति॥
(तत्त्वदी० )-प्रैष इति ॥ इषु इच्छायां तुदादिः । इष गतौ दिवादिः । इष आभीक्ष्ण्ये त्र्यादिः। घञि घ्यणि च एष एष्य इति रूपे सिद्धे । तत्र लोपे प्राप्तेऽनेन निषेधः ॥ यतु ईष उञ्छे यश्च ईष गतिहिंसादानेषु तयोर्दी|पधत्वादीष ईष्यस्तत्रत्वे प्रेष्यः ।
(एवेऽनवधारणे ) अयेव । अवधारणे त्वयैव ॥ (सुबोधिनी )-एवेऽनवधारणे ॥अकारस्य लोपः स्यादनिर्धारणे एवशब्दे परे॥ अद्येव कुरु । अनिश्चयार्थे एवशब्दोऽत्र । निश्चयेऽथै त्वकारस्य लोपो न । अथैव ॥
(तत्त्वदी० )-एवेऽनवधारणे इति ॥ एवशब्दे परे अनवधारणेऽर्थे अकारान्तपूर्वपदस्य लोप इत्यर्थः॥
(अ इ ए ) अवर्णादिवर्णे परे सह ए भवति ॥ ममेदम् ॥ (सुबोधिनी )-अ इ ए॥ अ इति पञ्चम्यन्तम् । इ इति सप्तम्यन्तम् । ए इति प्रथमान्तं संकेतितम् ॥
(तत्त्वदी० )-अ इ ए इति ॥ अ इति पञ्चम्यन्तमित्यभिप्रेत्याह ॥ अवर्णादिति॥ इ इति सप्तम्यन्तम् । यत्तु प्राचा अ इत्यस्य प्रथमान्तत्वमंगीकृत्य अवर्ण इवणे पर इति विवृतं तत्पाणिनीयग्रन्थाननुसारित्वादुपेक्षितम् ॥
(उ ओ) अवर्णादुवर्णे परे सह ओ भवति ॥ गङ्गोदकम् ॥ ( सुबोधिनी )-उ ओ ॥ उ इति सप्तम्यन्तम् । ओ इति प्रथमान्तं सङ्केतितम् ॥ ( तत्त्वदी० )-3 ओ इति ॥ उ इति सप्तम्यन्तम् ॥ (ऋ अर) अवर्णाहवणे परे सह अर् भवति ॥ (सुबोधिनी) ऋ अर् ॥ ऋ इति सप्तम्यन्तम्॥अर इति प्रथमान्तं संकेतितम्॥ (तत्त्वदी० )-ऋ अरिति ॥ ऋ इति सप्तम्यन्तम् ॥ ( हसात्परस्य झसस्य लोपो वा सवर्णे झसे ) तवधिः-तवर्दिः ॥ (सुबोधिनी )-हसात्परस्य झसस्य लोपो वा सवर्णे झसे ॥ हसात्किम् । प्रत्तम् ॥ झसस्येति किम् । शार्ङ्गम् ॥ झसे इति किम् । प्रियपञ्चानाम् ।। सवर्णे किम्। तप्र्ता ।। तव ऋद्धिरित्यत्रार् । ततो 'रहाद्यपो द्विः' इत्यनेन पक्षे ऋद्धर्थस्य द्वित्वम् । द्वित्वाभावे लोपे सति एकधम् । तवधिः। लोपाभावपक्षे द्वित्वलोपयोर्वा द्विधम् । तवद्धिः।
Page #44
--------------------------------------------------------------------------
________________
(२८)
सिद्धान्तचन्द्रिका। [स्वरसंधिः] द्वित्वे सति लोपे चासति त्रिधम् । तवर्द्धिः । यवलाद्यपो द्विवंति लक्षणान्तरेण पुनर्दित्वे चतुर्द्धमपि बोध्यम् ॥
(तत्त्वदी०)-तवद्धिरिति ॥ रूपत्रयम् । तथा च द्वित्वाभावे लोपे सत्येकधम् । असति लोपे द्वित्वलोपयोर्वा द्विधम् । सति द्वित्वे लोपे चासति त्रिधम् ॥
(ल अल्) अवर्णात् लवणे परे सह अल् भवति ॥ (सुबोधिनी)-ल अल ॥ ल इति सप्तम्यन्तम् । अल् इति प्रथमान्तम् ॥ 'इसेऽहं हसः' इत्यनेन लस्य द्वित्वम् ॥
(तत्त्वदी० )-ल अलिति ॥ ल इति सप्तम्यन्तम् ॥ (यवलायपो द्विा) तवल्कारः-तवल्लकारःतवल्क्कारःतवल्ल्क्कारः।
(सुबोधिनी)-यवलाद्यपो द्विर्वा ॥ अर्थवशाद्विभक्तिविपरिणाम इत्यनेन यपाद् यवला वा द्विरित्यस्य स्थाने यवलादिति पञ्चमी । यप इति प्रथमति पक्षे ककारस्यापि द्वित्वे तवल्कार इत्यत्र रूपचतुष्टयं भवति ॥ " द्वित्वं लस्यैव कस्यैव नोभयोरुभयोरपि । तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम् ॥"
(तत्त्वदी०) यवलाद्यपो द्विति ॥ 'हसेऽई हसः इति द्वित्वविकल्पाच्चत्वारि रूपाणि । एवं प्राल्कारीयतीत्यादावपि बोध्यम् ॥
( एऐ ऐ ) अवर्णादेकारे ऐकारे च परे सह ऐकारो भवति ॥ तवैषा देवैश्वर्यम् ॥ (सुबोधिनी )-एऐ ऐ ॥ आद्यौ सप्तम्यन्तौ, प्रथमान्तोऽन्त्यः॥
(प्रवत्सतरकम्बलवसनाणदशभ्य ऋणे ) प्रार्णम् । वत्सतरार्णम् । कम्बलार्णम् । वसनार्णम् । ऋणार्णम् । दशार्णः ॥
(सुबोधिनी)-प्रवत्सतरकम्बलवसनार्णदशभ्य ऋणे ॥ एषामृणशब्दे परे आर् भवति । इह केचित् वत्सशब्दं प्रक्षिपन्ति । भाष्ये तु वत्सशब्दे परे आर भवति ॥ इह केचित् वत्सशब्दं प्रक्षिपन्ति । भाष्ये तु वत्सशब्दो नोक्तः । ऋणस्यापनयनाय यदन्यपूर्ण क्रियते तहणार्णम् । वत्सतरस्य ऋणं वत्सतरार्णमित्यत्र 'हसेऽई हसः' इत्यनेन तकारसकारयोदित्वविकल्पाच्चत्वारि रूपाणि । 'खपात् शसस्य द्विः' इति वार्तिकेन वा सकारद्वित्वे चतुर्विंशतिः ॥ रेफात्परस्य णस्य तु 'रहाद्यपो दिः' इत्यनेन द्वित्वे ' यवलाद्यपो द्विा' इति वचनान्तरेण पुनर्दित्वे एकणं द्विणं त्रिणमिति द्वादश । दशार्णों देशः ॥ दशार्णा नदी च ॥ ___ (तत्त्वदी०)-प्रवत्सतरेत्यादि॥प्रादिभ्यः षड्भ्यः ऋणशब्दे परे सह आर् भवतीत्यर्थः।। प्रार्णमित्यादि॥प्रकृष्टम् ऋणमिति विग्रहः॥ वत्सतरार्णमित्यादि । वत्सरेण देयमृणमित्यादि। एवं कम्बलार्णमित्याद्यपि ॥ऋणार्णमिति ॥ ऋणस्यापनयनाय यहणं क्रियत तहणार्णमित्यर्थः॥
Page #45
--------------------------------------------------------------------------
________________
[ स्वरसन्धिः ] टीकाद्वयोपेता।
(२९) दशार्णो देशः नदी च दशार्णा । ऋणशब्दो दुर्गभूमौ जले च । अत्र कालापानुसारिणः वत्सशब्द मपि पठित्वा वत्सेन देयम् ऋणं वत्सतरार्णमित्युदाहरंति । तत्सर्वं भाष्यादिविरुद्धम् ॥
(ऋदादौ नामधातौ वा ) प्रार्षभीयति-प्रर्षभीयति ॥
(सुबोधिनी । ऋदादौ नामधातौ वा ॥ अवर्णान्तादुपसर्गादादौ नामधातौं परे सह वाऽऽर् भवति ॥ आत्मन ऋषभमिच्छतीति ऋषभीयति । यप्रत्ययः॥
(तत्त्वदी० )-ऋदादावित्यादि ॥ प्रार्षभीयतीत्यादि । ऋषभमिच्छति ऋषभीयति। नाम्नो य ई चास्येति यप्रत्ययः । अवर्णस्येकारः ॥
(अवर्णान्तादुपसर्गाहकारादौ धातावार ) उपार्छति ॥ (सुबोधिनी)-अवर्णान्तादुपसर्गाहकारादौ धातावार् ॥ उपसर्गादिति किम् । खट्वर्छति॥ ऋकारादौ किम् । उपेतः ॥ धातोः किम् । उपर्कारः॥ .(तत्त्वदी०)-उपार्छतीति ॥ ऋ गतौ भ्वादिः दृशादेः पश्यादिरित्यनेनास्य ऋच्छादेशः। ननूपा तीत्यत्र ‘स्रोविंसर्गः' इत्यनेन रेफस्य विसर्गोऽस्त्विति चेन्न पदान्तत्वाभावात् । न चोपेत्यस्यान्त्यावयवेन सहाविधानात्कथं न पदान्ततेति वाच्यम् । ऋच्छतीत्यस्याप्याद्यावयवत्वेन पदान्तत्वाभावात् ॥ ननूपसर्गग्रहणेनैव धातोराक्षेपे सिद्धे धाताविति ग्रहणं व्यर्थमिति चेन्नापदान्तानां समानानामृति लति वा ह्रस्वः इति पाक्षिकहस्वस्यापि बाधनार्थ धातुग्रहणम् ॥
अवर्णाहते तरे तृतीयासमासे ) सुखार्तः । शीतार्तः ॥ तृतीयासमासे किम् । परमर्तः ॥
(सुबोधिनी )-अवर्णाहते परे तृतीयासमासे ॥ अवर्णादृते परे सह आर स्यात् ॥ सुखेन ऋतः सुखार्तः । शीतेन ऋतः शीतार्तः ॥ तृतीयासमासाभावे तु परमश्चासौ ऋतश्च परमतः ॥ " ऋतं शिलोञ्छे पानीये पूजिते दीप्तिसत्ययोः" इति हेमचन्द्रः ॥ तृतीयासमासार्थवाक्येऽपि न । तृतीयासमासोऽर्थः प्रयोजनं यस्य तत् तृतीयासमासाथै तृतीयासमासाथै च तद्वाक्यं च तृतीयासमासार्थवाक्यं तस्मिन् तृतीयासमासार्थवाक्ये अवर्णाहकारे सह आर् न भवति किं त्वर्॥
(तत्त्वदी० )-अवर्णाहते पर इति ॥ अवर्णादृतशब्दे परे तृतीयासमासे आर् भवति इत्यर्थः ॥ सुखात इति ॥ सुखेन ऋत इति विग्रहः ॥ समासे किम् । सुखेनतः ॥ तृतीयेति किम् । परमर्तः ॥
( लदादौ नामधतौ वाऽऽल् ) पाल्कारीयति-प्राल्ल्कारीयतिपाल्कारीयति-प्राल्ल्क्कारीयति ॥ इति स्वरसंधिः ॥ ( सुबोधिनी )-लुदादी नामधातो वाऽऽल् । अवान्तादुपसर्गाद् लकारादौ
Page #46
--------------------------------------------------------------------------
________________
(३०)
सिद्धान्तचन्द्रिका। [प्रकृतिभावः ] नामधातौ सह आल् वा स्यात्॥आत्मनः लकारमिच्छतीति लकारीयति। यप्रत्ययः। पाल्कारीयति इत्यादावपि पूर्ववद्रूपचतुष्टयं बोध्यम् ॥ इति सुबोधिन्यां स्वरसंधिः॥ (तत्त्वदी०)-श्रीविद्यानगरस्थायिलोकेशकरशर्मणा। विहितायां हि टीकायां स्वरसंधिरगादयम् ।।
इति तत्त्वदीपिकायां स्वरसंधिः ॥
अथ प्रकृतिभावः। - [नामी)॥ अदसोऽमीशब्दः संधिं न प्राप्नोति ॥ अमी आदित्याः। अदसः किम् । अम्यत्र ॥
(सुबोधिनी)-नामी ॥ अदस इति वक्तव्यमत्र व्यवस्थार्थे वाऽनुवृत्तेः। अदस्शब्दस्यामीरूपं स्वरे परे सन्धि न प्राप्नोति ॥ अदस इति वचनादमो रोगोऽस्यास्तीत्यमी इत्यत्र सन्धिर्भवत्येव । नामीति ज्ञापकादकारस्य न निषेधः॥
(तत्त्वदी०)-नामी ।। अदसोऽमीशब्ददस्येकार एव संधिं न प्राप्नोति न त्वकारोऽपि नामीति सूत्रज्ञापकादिति भावः ॥ अमू असाते इत्यत्र य्वे द्वित्वे इत्यनेनैव संधिनिषेधः ॥ अदसः किम् । अम्यत्रेति प्रत्युदाहरणं बोध्यम् ॥ अमो रोगः सोऽस्यास्तीत्यमी । अदस एवेति तु वेत्यस्य व्यवस्थितस्यानुवृत्तेः ॥
(खे द्वित्वे ) ईकारान्त ऊकारान्त एकारान्तश्च शब्दो द्वित्वे वर्तमानः संधि न पामोति ॥ अनी अत्र । पटू अत्र । माले आनय । पचेते इमौ ॥
(सुबोधिनी)-वे द्वित्त्वे ॥ ईश्च ऊश्च एश्च एषां समाहारो य्वे । 'एकत्वे द्विशुद्वन्द्वौं' इति नपुंसकस्येति ह्रस्वो न द्विग्वादिसंज्ञापूर्वकत्वेनानित्यत्वात्॥अथवा भिन्नमेवेदं पदम् ॥ सर्वत्राविभक्तिकनिर्देशश्च ॥ ननु ईदूतोः स्थाने यवयोः कृतयोः संदेहो भवति किं ह्रस्वयोनिर्देश उत दीर्घयोरिति । उच्यते । दीर्घयोरेवात्र ग्रहणं न हस्वयोः दीर्घस्यैकारस्य साहचर्यात् । तेनाकुर्वह्यावामित्यादौ प्रकृतिभावोन । पदग्रहणमित्यनुवर्त्यते । तस्य वे इति विशेषणं तदन्तविधिराश्रीयते ईदूदेदन्तं पदमिति । तेन पचेते इमावित्यादौ प्रकृतिभावः सिद्धयति । न ह्यत्रैद द्वित्वेऽस्ति । द्वित्वे इति तु वे इत्यस्य विशेषणम् । किंभूतम् ईदूदेदन्तम् । द्वित्वे वर्तमानम् ॥ ननु कुमार्योरगारं कुमार्यगारं वध्वोरगारं वध्वगारमित्यत्रौसि लुप्ते ईदूदन्तं द्वित्वे वर्तते ततः प्रकृतिभावः स्यात् । उच्यते । ईकारादीनां प्रत्ययत्वस्यासिद्धेर्न प्रकृतिभावः । न ह्यत्र प्रत्ययत्वोपस्थापकं किश्चिदस्तीति । यद्वा समासे कृते समुदायस्यैवार्थवत्त्वेन पूर्वोत्तरपदयोरनर्थकत्वान्न प्रकृतिभावः ॥" मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम” इति भारतप्रयोगे तु इवाथै वशब्दो वाशब्दो वा बोध्यः॥ वा विकल्पोपमानयोः ' इति । “वं प्रचेतसि जानीयादिवाथै च तदव्ययम् ।" इति मेदिनी ॥
Page #47
--------------------------------------------------------------------------
________________
[प्रकृतिभावः ] टीकाद्वयोपेता।
(३१) (तत्त्वदी०) वे द्वित्वे इति ॥ ईकारान्तत्वादिकं च परिनिष्ठितत्वे सति बोध्यम् ॥ ननु कुमार्योरगारं कुमार्यगारं वध्वगारमित्यत्रापि संधिनिषेधः प्राप्नोति ॥ ईकाराद्यन्तस्य द्वित्वे वर्तमानत्वात् प्रत्ययलक्षणेनेति चेन्न । ईकारादिभिद्विवचनस्य विशेषितत्वात् ईकाराद्यन्तं द्विवचनमिति निष्कर्षात् । समासे कृते समुदायस्यैवार्थवत्त्वेन पूर्वोत्तरपदयोरनर्थकत्वाद्वा ॥ नन्वेवमपि अशुक्ले वस्त्रे शुक्ले संपद्येतां शुक्लयास्तां वस्त्रे अत्र प्राप्नोति । अत्र हि ईकारादिमविवचनान्तत्व च भवति प्रत्ययलक्षणेनेति चेत्सत्यम् । अत्राप्यकृते ईभावे लुग्भविष्यति च्यन्तस्याव्ययत्वेनासंख्यत्वादर्थवत्त्वाद्वा । यत्तु मणीवादिवर्णमिति पठित्वा मणीवायुदाहृतं प्राचा तच्च मुनित्रयानुक्तत्वादप्रमाणमिति सन्तः । एवं "मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम" इति भारतप्रयोगसमर्थनाय इवार्थे वशब्दो वाशब्दो वा बोध्यः । “व वा यथातथैवैवं साम्ये" इत्यमरग्रन्थव्याख्यावसरे ॥ 'शात्रवं व पपुर्यशः” इति कालिदासपयोगस्याभियुक्तैरुदाहृतत्वात् । "कादम्बखण्डितदलानिव पङ्कजानि" इत्यादिदर्शनाच्चेति भावः ॥
(औ निपातः) स्वरो निपातश्च संधि न पामोति ॥ अ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । आ एवं मन्यसे ॥
(सुबोधिनी )-औ निपातः॥ औ इति अकारादारभ्य औकारेण प्रत्याहारो ग्राह्यः । ततः स्वरो निपातसंज्ञकश्च स्वरे पर संधिं न प्राप्नोति ॥ अ अपेहि । अइति निषेधाक्षेपयोः ॥ इ इन्द्रं त्वं पश्य । इ इति विस्मये ॥ उ उत्तिष्ठ जुगुप्सासंतापान्वर्थाप्यर्थेषु ॥ आ एवं त्वं मन्यसे ॥ पूर्वप्रक्रान्तवाक्यार्थस्यान्यथात्वद्योतकोऽयमाकारः। पूर्वमित्थं न त्वममंस्था इदानीं त्वेवं मन्यसे इत्यर्थः ॥ आ एवं किल तत्। स्मरणद्योतकोऽयमाकारः । ङित आकारस्य तु निपातसंज्ञा नास्ति प्रादिषूपसर्गेषु आङः पाठात् निपातसंज्ञाऽप्रादीनामेवास्ति न तु प्रादीनाम् । ततो डिन्त आकारस्य प्रकृतिभावो न । आ ईपदुष्णं ओष्णम् किंच "ईपदर्थे कियायोगे मर्यादाभिविधौ च यः । एतमातं डि विद्याद्वाक्यस्मरणयारङित्” इति भाष्ये उक्तम् ॥आङनाङोरर्थ एव भेदकोऽस्ति । स्वराणामपि निपातानिपातविवेकोऽर्थाधीन एव ॥ निपातग्रहणं किम् । अकारोवासुदेवस्तस्य धौ अ इतिरूपम् । आगच्छ आगच्छेति । उः शम्भुस्तस्य धौ ओ इति रूपम् । ओ आगच्छ अवागच्छेति । इ. कामस्तस्य धौ ए इति रूपम् ए आगच्छ अयागच्छति । स्वररूपनिपातस्य परेण स्वरेण सह संधिनिषेधोऽस्ति । पूर्वेण स्वरेण सह तु संधिभर्वत्येव । जानु उ अस्य रुजतीत्यत्र उकाराकारयोः सवणे दीर्धे कृते निपातस्य विकृतत्वात् परेणापि संधिर्भवत्येव जान्वस्येति । _(तत्त्वदी० )-औ निपात इति ॥ अकारादिरौकारान्त औप्रत्याहार इत्यभिप्रेत्याह ॥ स्वर इति ॥ स्वरोऽप्येक एव बोध्यः न तु स्वरान्तः । चार्थे वेङयोः इत्यादिनिर्देशात् । तेन प्रेदं ब्रह्मेत्यत्र न संधिनिषेधः ॥ निपात इति किम् । चकारात्र जहाराबाङो न निषेधः । तस्य प्रादिषु पाठेनानिपातत्वात् । चादिनिपातः इति चादेरेव तत्त्वात् । ङित्त्वं च भाष्यात् । “ईष
Page #48
--------------------------------------------------------------------------
________________
(३२)
सिद्धान्तचन्द्रिका। [प्रकृतिभावः] दर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङित विद्याद्वाक्यस्मरणयोरङित् ॥” इति ।। आ एवमिति ॥ पूर्वप्रक्रान्तवाक्यार्थस्यान्यथात्वद्योतकोऽयमाकारः । पूर्वमित्थं नामस्थाः इदानीं त्येवं मन्यसे इत्यर्थः ॥
(ओदन्तो निपातश्च ) अहो ईशाः । अहो आगताः ॥
(सुबोधिनी ) ओदन्तो निपातश्च ॥ ओदन्तो निपातः संधिं न प्रामोति ॥ निपातः किम् । देवोऽसि । ।
(तत्त्वदी.)-ओदन्त इति ॥ अत्र भाष्यम् । ओतश्च प्रतिषेधः। ओदन्तो निपात इत्यत्र च्च्यन्तस्य प्रतिषेधो वक्तव्यः । अनदः अदः अभवत् अदोऽभवत् । तिरोऽभवत् । इह यथा न स्यात् । स च वक्तव्यो न वक्तव्यः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य इत्येव भविष्यति एवमपि अगौ!ः समपद्यत गोऽभवत् । अत्र प्राप्नोति । एवं तर्हि गौणमुख्ययोमुख्य कार्यसंप्रत्यय इति । तद्यथा । गौरनुबध्यते इत्यत्र न वाहीकोऽनुबध्यते । च्च्यन्तस्य क्त्वाद्यन्तर्गतत्वेन निपातत्वाभावान्नेत्यपरे ॥ निपातः किम् । सुद्योऽयम् । यत्तु मनोरमायां निपातः किम् । देवोऽसि वायवायाहि इति प्रत्युदाहृतं तद्भाष्यविरोधादुपेक्ष्यम् ॥
(ओदन्तो धौ वेतौ) विष्णो इति-विष्णविति ॥ ( सुबोधिनी)-ओदन्तो धौ वेतौ ॥ संबोधननिमित्तक ओकारः संधि वा प्राप्नोति इतिशब्दे परे ॥ इतौ किम् पटोत्र ॥ धौ किम् । अहो इति ॥ प्रकृतिभावे विष्णो इति । पक्षे अवादेशः वोर्लोपशिति वलोपे विष्ण इति । पक्षे विष्णविति ॥
(तत्त्वदी० )-ओदन्तो धाविति ॥ अवैदिके इतौ बोध्यम् ॥धाविति किम् । नही इति । अत्र विकल्पो मा भूत् ।।
(यवृणामसवणे स्वरेऽसमासे पदान्ते वा ह्रस्वः) चक्रि अत्र चयत्र । मधु एतत्-मध्वेतत् । कर्तृ इदम्-कत्रिदम् ह्रस्वविधानसामर्थ्यान्न संधिः । समासे तु हर्यर्थः । पदान्ते किम् गौर्यो । (सुबोधिनी)-वृणामसवणे स्वरेऽसमासे पदान्ते वा हस्वः॥ इश्च उश्च आ च ते य्वरस्तेषां वृणाम् । असमासे पदान्ते स्थितानामिवर्गोवर्णऋवर्णानां प्रकृतिभावो ह्रस्वश्च वा भवत्यसवणे स्वरे परे ॥ ह्रस्वपक्षे चकि अत्र । प्रकृतिभावे चक्री अत्र । पक्षे यत्वम् । चयत्र । इह स्कोरिति कस्य लोपो न यत्वस्य बहिरङ्गपरिभाषयासिद्धत्वात्स्थानिवद्भावाच्च । हरेरथे इति हर्यर्थः समासत्वादत्र हस्वप्रकृतिभावी न ॥ (तत्त्वदी० )-रवृणामिति ॥ इश्व उश्च आ च य्वरस्तेषाम् ॥
(पदान्तानां समानानामृति लति च वा ह्रस्वः) ब्रह्म ऋषिः ब्रह्मर्षिः । दण्डि ऋषिः-दण्डयषिः । वधु ऋकारः-वध्वृकारः। होतृ ऋकारः-होतृलकारः-होतृकारः॥ पदान्तानां किम् । आर्छत् ॥
Page #49
--------------------------------------------------------------------------
________________
[प्रकृतिभावः ] टीकाद्वयोपेता।
(सुबोधिनी )-पदान्तानां समानानामृति लति च वा हस्वः ॥ पदान्ते स्थितानांसमानानां प्रकृतिभावो हस्वश्च वा भवति ऋकारे च लकारे परे ॥ होतृलकारः ब्रह्मा ऋषिरित्यादौ प्रकृतिभावार्थमिदम् । वृणां तु पूर्वेणैव प्रकृतिभावः सिद्धयति । समासेऽप्ययं प्रकृतिभावोऽस्ति । तेन सप्तऋषीणामिति । प्रकृतिभावे ब्रह्मा ऋषिः। ह्रस्वे ब्रह्मऋषिः। संधौ ब्रह्मर्षिः॥ पदान्ते किम् । आऋच्छदित्यत्र आ इत्यस्य ह्रस्वो न । ऋकारे परेऽपि पदान्तत्वाभावात्। ऋच्छ गत्यादावित्यस्य लङि तुदादेरित्यप्रत्यये दिवादावडिति स्वरादेरिति चाडागमयोः कृतयो रूपम् ॥
(ञयादुञो वो वा स्वरे )किम्बुक्तम्-किमु उक्तम् ॥ (सुबोधिनी)-अयादुञो वो वा स्वरे ॥ जयात्परस्य उनिपातस्य वो वा स्यात्स्वरे परे ॥ किमु उक्तम् । वत्वपक्षे किम्वुक्तम् । वस्यासिद्धत्वान्नानुस्वारोऽत्र ॥ __ (तत्त्वदी० )-अयादुञ इति ॥ किम्वुक्तमिति ॥ वत्वस्यासिद्धत्वान्नानुस्वारः। ओदन्तो निपात इत्यारभ्यैतत्पर्यन्तं वेत्यस्य व्यवस्थितस्यानुवृत्तेर्लभ्यत इति बोध्यम् ॥
(दूरादाबाने टः प्लुतः) दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतो वा ॥ प्लुतः संधि न पामोति । एहि देवदत्त ३ अत्राधीष्व ॥
(सुबोधिनी)-दूरादाबाने टेःप्लुतः॥ दूरत्वमिहाद्वानापेक्षं बोध्यते न देशापेक्ष पुरुषापेक्षं च गृह्यते।आह्वाने इति संबोधनमात्रोपलक्षणम् । तेनाह्वानादन्यत्रापि भवति सक्तन्पिच देवदत्त ३ इति । आह्वाने इत्याधारे सप्तमी । आधारश्चाधेयमपेक्षते । आधेयं च वाक्यमेव । तेनैवाह्वानसंभवात्। संबोधने वाक्यस्य टेः प्लुतः वा स्यादित्यर्थः। ह्रस्वदीर्घव्यक्त्योरुच्चारणात्स्वरूपलिखनाच भानं प्लुतव्यक्तेरुच्चारणादेव ॥
(तत्त्वदी० )-दूरादाबान इति ॥ दूरत्वमिहाह्वानापेक्षं न तु देशापेक्षं पुरुषापेक्ष वा वाक्यस्य टेरिति ।। वाक्यं च सामर्थ्याल्लभ्यते । आह्वाने इत्याधारे सप्तमी । आधारश्चाधेयमपेक्षते । आधेयं च वाक्यमेव । तेनैवाह्वानसंभवात् इति नव्याः । संबोधनमात्रोपलक्षकम् । इत्यभिप्रेत्याह ॥ दृरात्संबोधन इति ॥
(हैहेप्रयोगे हैहयोःप्लुतोवा) है अम्ब-हायम्ब । हे ईश-हयीश ॥ (सुबोधिनी ) हैहेप्रयोगे हेहयोः प्लुतो वा ॥ हैहेप्रयोगे दूरात्संबोधने यद्वाक्यं तत्र हैहयोरेव प्लुतो वा स्यात् ॥ प्लुताभावे आय । हायम्ब । हयीशेत्यत्र अय्॥ (सप्तम्यर्थ ईत् संधिं न याति) वातप्रमी आस्ते। ययी इदम् । पपी एषः॥
(सुबोधिनी)-सप्तम्यर्थे ईत्संधि न याति ॥ सप्तम्यर्थे संसिद्धमीकारान्तं पदं संधि न प्रामोति ॥ अर्थग्रहणात्समासे मा भूत् । वाप्यामश्वो वाप्यश्व इत्यत्र वापीशब्दो वाप्यविकरणकद्रव्ये उपसंक्रान्तो न तु सप्तम्यर्थे । वातप्रमीययीपपीशब्दा औणादिकेकारान्ताः सन्ति तेषां सप्तम्येकवचने सवर्णे दीर्ध रूपम् ॥
Page #50
--------------------------------------------------------------------------
________________
(३४)
सिद्धान्तचन्द्रिका। [हससंधिः] - (तत्त्वदी०)-सप्तम्यर्थे इति ॥ अर्थग्रहणं किम् । वाप्यामश्वो वाप्यश्वः । इह यथा न स्यात् । अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति जहत्स्वार्था वृत्तिरिति सप्तम्यर्थाभावात् । अथाजहत्स्वार्थायां वृत्तौ दोष एवेति चेन्न । समुदायार्थोऽभिधीयते ।
(इतौ वा उञ् ) उ इति-विति ॥ (सुबोधिनी)-इतौ वा उञ् ॥ उञ् निपातः सन्धि वा प्राप्नोति इतिशब्दे परे ॥ औ निपात इति नित्यं प्राप्ते विकल्पोऽयम् ॥ ( तत्त्वदी० )-इतौ वेति ॥ उभयत्र सानुबन्धक एव गृह्यते ॥ ( अप्लुतवदितौ ) देवदत्तेति ॥ (सुबोधिनी)-अप्लुतवदितौ ॥ प्लुतोऽप्लुतवद्भवति इतिशब्दे परे ॥ अप्लुतवत्कार्य यत्वादिकं करोतीत्यर्थः॥
( तत्त्वदी० )-अप्लुतवदिति ॥ अत्रापि अवैदिके इतौ बोध्यम् ॥ वत्किम् । अग्नी इति इत्यत्र यथा न स्यात् ॥
(गुरोरनृतोऽनन्त्यस्यापि वा पर्यायेण प्लुतः) दे ३ वदत्त-देवद ३ त्त ।अपिशब्दादन्त्यस्याप्यगुरोर्वा पर्यायेण प्लुतः। देवदत्त ३ ॥ गुरोः किम् । वकारादकारस्य मा भूत् ॥ अनृतः किम् । कृष्ण ३ गौश्चरति ॥ इति प्रकृतिभावः ॥
(सुबोधिनी)-गुरोरनृतोऽनन्त्यस्यापि वा पर्यायेण प्लुतः॥ दूगत्संबोधने यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा पर्यायेणानुक्रमण प्लुतः स्यात् ॥ एकत्र दे इत्येकारस्य प्लुतता। अन्यत्र द इत्यकारस्य प्लुतता । त इत्यकारस्य तु 'दूरादाबान टेः प्लुतः' इत्यनेन प्लुतसंज्ञा । प्रकृतर्मूलरूपस्य भवनं प्रकृतिभावः ॥ इति सुबोधिन्यां प्रकृतिभावः ॥
(तत्त्वदी० )-गुरोरनृत इति ॥ अपिशब्दो गुरोरगुरोश्च टेः प्लुतार्थः॥ श्रीविद्यानगरस्थायी क्षेमकरसुतोऽकरोत् । श्रीलोकेशकरो व्याख्यां संध्यभावस्य सत्तमाम् ।।
- इति तत्वदीपिकायां प्रकृतिभावः ॥
अथ हससन्धिः । -- (चपा अबे जबाः) पदान्ते वर्तमानाश्चपा जबा भवन्त्यबे परे ॥ षडत्र । वाग्यथा ॥
(सुबोधिनी)-चपा अबे जबाः॥ पदान्त इत्यनुवर्तते । पदान्ते वर्गप्रथमास्तृतीया भवन्त्यवे परे ॥ पदान्ते किम् । वाचौ । भवन्तौ । बहुवचनं सर्वव्यक्तिषु तात्पर्यवोधनार्थम् ॥
Page #51
--------------------------------------------------------------------------
________________
[ हससंधिः ]
टीकाद्वयोपेता। (३५) ( तत्त्वदी०)-चपा अबे जवाः ॥ अत्र लघुभाष्यम् । झपा इति पाठ्यम् । समिदत्र ककुबत्र अग्निमदासनमित्यादावव्याप्तिर्यथा न स्यात् । यद्वा अबे जबा इत्येव कर्तव्यम् । पदान्त इत्यनुवर्तते । पदान्ते वर्तमानस्य जबा भवन्त्यबे परे इत्यर्थः ॥ स्वराणां पूर्व विधयो बाधकाः । हसानां तूत्तरविधय इति । अत्रोच्यते । तयागताः पटविहेत्यादौ अतिप्रसङ्गवारणाय तावत् अन्यतरद्वक्तव्यम् । तत्र व्यक्तिलाघवाच्चपग्रहणमेव कर्तव्यम् । न चोक्तदोषः 'वाऽवसाने' इतीष्टसिद्धेः । अवसानं किमिति चेत् अन्त एवेति गृहाण ॥ विद्यावसानमित्यादिप्रयोगदर्शनात् । अत्रार्थे चपग्रहणस्यापि मानत्वात् इति । अत्रेदमवधेयम् । 'वाऽवसाने' इत्यत्रावसानशब्दस्यान्तवाचकता नोचिता । 'विरामोऽवसानम्' इत्यनेन वर्णाभावस्यावसानसंज्ञां कुर्वता सूत्रकारेण विरुद्धत्वात् । किं चैवं भवत्पुत्रः बृहत्फणी महत्खण्डन इत्यादिषु 'वाऽवसाने' इत्यनेन पक्षे दकारश्रवणापत्तेः । न चेष्टापत्तिः तदसाधुत्वस्य सर्वत्र दर्शनात् । न च ककुबत्रेत्यादौ अव्याप्तिपरिहारः कथमिति चेत् । इत्थम् । 'नमे ञमा वा' इत्यत्र व्यवस्थितविभाषाश्रयणात् झपानामपि जबा नमाश्च भवन्तीति व्याख्यानात् । तन्मयमित्यादौ जमकरणार्थ प्रत्यये जमे जबस्यापीति भवद्भिरपि व्यवस्थितविभाषाश्रयणस्य स्वीकृतत्वात् । अथ भवत्पुत्र इत्यादौ 'खसे चपा झसानाम्' इति सूत्रेण पाक्षिकदकारस्यापि तत्वेन रूपसिद्धिरिति चत्सत्यम् । खसे चपा झसानाम्' इति सूत्रं प्रति तु 'वाऽवसाने' इत्यस्य बहिरङ्गत्वेनासिद्धत्वात्। किं च तच्छिव इत्यत्र तदो 'वाऽवसाने' इति चर्वे कृते पश्चाच्छिव इत्यनेन संबन्धे 'झलां जशोऽन्ते' इति जश्त्वे 'खरि च' इति चलमिति व्याकुर्वतां कृष्णपण्डितानां मते भाविन्यवसानभङ्गे अकृतव्यूहपरिभाषया कृतमभिशास्त्रं निवर्तयन्तीत्यनया वा 'वाऽवसाने' इत्यस्याप्रवृत्तेरित्युक्त्या दूषयता भट्टोजिदीक्षितानां मतेनातिविरोधात् इति दिक् ॥ अवग्रहणं किम् । जगत्सर्वमित्यादौ खसे मा भूत् । अथ तत्र ‘खसे चपा झसानाम्' इत्यस्यैव प्रवृत्तिरिति चेत्तर्हि उत्तरार्थमबग्रहणं स्पष्टार्थमिहैव कृतम् ॥ पदान्त इति किम् । त्वचौ ॥
(अमेञमा वा ) पदान्ते वर्तमानाश्चपा बमे परे जमा वा भवन्ति॥ पण्मम षड्मम । वाङ्मथुरा-वाग्मधुरा ॥
(सुबोधिनी)-अमेञमा वा॥ पदान्ते इत्यनुवर्तते । पदान्ते वर्गप्रथमाः पञ्चमा स्युः पञ्चमे परे॥पदान्ते किम्। वच्मि । पाप्मा। यत्नः। पक्षे तृतीयाश्चपा अबेजबा इत्यनेनैव॥
(तत्त्वदी० )-अमेञमा वेति ॥ अत्रापि पदान्त इत्यनुवर्तते । तेन वच्मीत्यादौ न। वाशब्दोऽत्र व्यवस्थावाची । तेन क्वचित् झपानामपि जमा भवन्ति । प्रत्यये च नित्यतालाभः। यत्तु कैश्चिन्मयटि नित्यमित्युक्तं तद्भाष्यविरोधादुपेक्ष्यम् ॥ चपा इति किम् । विष्णो मां रक्षेत्यादौ स्वरस्य मा भूत् ॥
(प्रत्यये जमे जबस्यापि नित्यम् ) तन्मयम् । चिन्मात्रम् ॥ (सुबोधिनी )-प्रत्यये अमेजबस्यापि नित्यम् ॥वर्गतृतीयानां पञ्चमा भवन्ति
Page #52
--------------------------------------------------------------------------
________________
सिद्धान्तचन्द्रिका। [हससंधिः ] प्रत्ययसंबन्धिान अमे परे ॥ अपिशब्दाद्वर्गप्रथमानामपि ॥ कथं तर्हि रघुकाव्ये 'मदोदयाः ककुद्मन्तः' इति । उच्यते । यवादिगणे दकारस्य निपातनान्न अमो भवतीति कौमुदी ॥ कचिजबस्यापि जमो भवति 'त्वन्मदेकत्वे' इति ज्ञापकात् ॥ तत्स्वरूपमस्येति तन्मयम् । प्राचुर्यविकारप्राधान्यादिष्विति मयट् ॥ चित्प्रमाणमस्येति चिन्मात्रम् । प्रमाणे द्वयसदनमात्रटः इति मात्रट् ॥
(चपाच्छः शः) पदान्ते वर्तमानाच्चपादुत्तरस्य शकारस्य छो वा भवत्यबे परे ॥ वाक्छूरः-वाक्शूरः ॥ अबे किम् । वाक्श्च्योतति ॥
(सुबोधिनी)-चपाच्छः शः॥ चपादुत्तरः शकारः छकारो वा भवत्यवे परे ॥ चपादिति किम् । प्रशान् शेते ॥ अबे इति किम् । वाक्श्च्योतति ॥ शः किम् । वाक्साधुः॥ ननु चपाच्छः श इत्युक्ते संदेहो भवति किं शस्य छः छस्य शो वेति। लोकाच्छेषस्येति निर्देशान्न संदेह इति ॥
(तत्त्वदी०)-चपाच्छः श इति ॥ पदान्त इति किम् । विरप्शम् रपेर्विपूर्वादौणादिकशप्रत्यये रूपमेतत् इति प्राञ्चः। तच्चिन्त्यम् । विरप्शमित्यस्य छान्दसत्वलाभात् । छन्दसि दृष्टानुविधिस्वीकारात् इत्युक्तं लघुभाष्ये । तत्रेदमवधेयम् । विरप्शमित्यस्य पदान्त: प्रत्युदाहरणत्वमेवोचितं पतञ्जलिसंमतत्वात् ॥ किं च 'शश्छोऽटि' इत्यस्य हि पदान्ताज्झयः परस्य शस्य छ इत्यर्थ आकरे स्थितः । विपूर्वाद्रपेरौणादिकशप्रत्यये 'मध्वश्च्योतन्त्यभितो विरप्शम्' इत्यादौ यथेति मनोरमायामुक्तवतां दीक्षितानां मतेन विरोधात् छान्दसत्वादित्यस्यागतित्वेनोपेक्षितत्वात् ॥ चपादिति किम् । प्रशान् शेते । अबे इति किम् । वाक्श्च्योतति ॥ शः किम् । वाक्साधुः । ननु चपा इत्यनुवार्थवशाद्विभक्तिविपरिणामं कृत्वा चपादिति व्याख्याऽऽश्रीयते इति चेत् तद्युत्तरार्थ तच्च ' हो झभाः ' इत्यत्र वक्ष्यते । इहार्थं च । अत्र तन्त्रादिना वाक्यद्वयमाश्रीयते । तत्राद्य उक्तएव । द्वितीयस्तु चपमततीति चपात् चेन सहितः छः तस्य शो अमे । तेन च पाप्रश्मीत्यादौ शत्वम् विधेयस्य पूर्वनिर्देशस्त्वसेदंहार्थः। 'चपाच्छः छः ' इत्युक्ते सन्देहः स्यात् ॥
(हो झभाः) चपादुत्तरस्य हकारस्य शभा वा भवंति ॥ यदर्गगश्चपस्तद्वर्गगश्चतुर्थो भवति । तद्धविः-तद् हविः । वाग्धरिः वाम्हरिः॥
( सुबोधिनी)-हो झमाः॥ 'चपाच्छः शः' इत्यतश्चपादित्यनुवर्तते । चपापरस्य हस्य स्थाने झभाः स्युर्वा ॥ निमित्तादेशयोश्चपझभयोः समसंख्ययोर्यथाक्रमं वक्ति । यद्वर्गगश्चपस्तद्वर्गगश्चतुर्थों भवतीति ॥ चात्परस्य हस्य झः। टात्परस्य हस्य ढः । तात्परस्य हस्य धः । कात्परस्य हस्य घः । पात्परस्य हस्य भः इति । चपादिति किम् । भगवन् हरे ॥ हस्येति किम् । तत् षष्ठम् ॥ वाग्धरिः। वर्गचतुर्थाभावे वाग्हरिः। उभयत्र जबत्वम् ॥
Page #53
--------------------------------------------------------------------------
________________
[ हससंधिः] टीकाद्वयोपेता।
(३७) (तत्त्वदी०)-हो झभा ॥ इति ॥ चपादित्यनुवृत्तेर्नेह । भगवन् हरे ॥ हकारस्येति किम् । तत्षष्ठम् ॥ चपानां झभानां च यथाक्रमं प्रवृत्तिरित्याह ॥ यद्वर्गग इति ॥ ननु उद्दिश्यमानविधीयमानयोर्यथाक्रमं प्रवृत्तिर्भवतीति वचनं विना कथं यथाक्रमं लभ्यत इति चेन्न ज्ञापकाद्वचनमस्तीति अनुमानात् । ज्ञापके तु 'सैषाद्धसे' इति सूत्रे तकारात्परस्य धकारकरणम् ।
(स्तोः श्चुभिः श्चुः) सकारतवर्गयोः शकारचवर्गाश्यां योगे शकारचवलॊ भवतः ॥ उद्दिश्यमानप्रतिनिर्दिश्यमानयोर्यथाक्रममिति वाच्यम् ।। कश्चरति । कश्शूरः । तचित्रम् । तच्छादयति ॥
(सुबोधिनी)-स्तोः श्चुभिःश्चुः॥स्च तुश्चानयोः समाहारः स्तु तस्यस्तो। आगमजमनित्यम् इत्युक्तत्वान्न नुम्। अथवा सा सहितः तुःस्तुः तस्य स्तोः। शाकपार्थिवादित्वान्मध्यमपदलोपः। श् च चवश्च श्ववस्तैः श्चुभिः । श्चुरिति पुंल्लिा ङ्गनिर्देशोऽयमित्येके । नपुंसकनिर्देशोऽयमित्यन्ये । श्चुभिरिति सहादियोगं विनाऽपि सहार्थे तृतीया। सिनति निर्देशात् । अत्र स्थान्यादेशयोर्यथासंख्यमस्ति । निमित्तस्थानिनोस्तु न यथासंख्यम् ' न शात् ' इति ज्ञापकात् । उद्दिश्यते इति उद्दिश्यः मानः स्थानी । निर्दिश्यते विधीयते यः स निर्दिश्यमानः आदेशस्तयोर्यथाक्रमं यथासंख्यं वक्तव्यम् । चवर्गयोगे कश्चरतीति। कश्शूर इत्यत्र शसे वेत्यस्य पाक्षिकत्वाद्विसर्जनीयस्य सस्तस्य शकारेण योगे शः । तच्चित्रमित्यत्र चवर्गयोगे तवर्गस्य चुत्वम् । तशिव इत्यत्र शकारेण योगे तोश्चुत्वम् ॥
(तत्त्वदी० )-स्तोःश्चुभिः श्चुरिति ॥ स् च तुश्च अनयोः समाहारः स्तुः तस्य स्तोः । एकत्वे द्विगुद्वन्द्वावित्यस्यानित्यत्वान्न क्लीबत्वम् । तज्ज्ञापकं चेदमेव सा सहित इति वा शाकपार्थिवादिः श् च चवश्व चवः तैः श्चुभिः । श्चुना इत्यत्रार्द्धमात्रागौरवाद्बहुवचनम् । अत्र स्थान्यादेशयोर्यथासंख्यं निमित्तकार्यिणोस्तु न 'न शात्' इति ज्ञाएकात् इत्यभिप्रेत्याह ॥ संख्यासाम्य इति ॥ समस्य भावः साम्यं संख्यायाः साम्यं संख्यासाम्यम्, तस्मिन् ॥ क्रममनतिक्रम्य यथाक्रमम् । यावत्संख्याकस्योदिश्यमानस्य तावत्संख्याकमेव प्रतिनिर्दिश्यमानं भवतीत्यर्थः । स्तोः श्चौ श्चुरित्येव सुवचम् ॥ न च 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इति परिभाषोपस्थानेन यज्ञः याच्ञा इत्यादि न सिद्धयेत् । 'न शात्' इति लिङ्गेन तस्या अनुपस्थानाभ्युपगमात् ॥
( न शात् ) शकारात्परस्य तवर्गस्य चुत्वं न भवति ॥ प्रश्नः। विश्नः।
(सुबोधिनी)-न शात् ॥ स्तोः श्चुरित्यनुवर्तते । शात्परस्य सस्य शकारप्रसङ्गो नास्त्यतः शात्परस्य तोश्चुत्वं न ॥'प्रच्छ जीप्सायाम्' 'विच्छ गतौ आभ्यां नकी इति नङ्प्रत्ययः। क्ङिति झसे को अमे चेति छस्य शत्वम् । नङो ङित्त्वाद् गुणाभावः । प्रच्छेस्तु संप्रसारणं न भाष्येऽनुक्तत्वात् ॥
Page #54
--------------------------------------------------------------------------
________________
(३८)
सिद्धान्तचन्द्रिका। [हससंधिः] - ( तत्त्वदी०)-न शादिति ॥ शात्परस्य सस्य शकारप्रसंगो नास्ति अतः शात्परस्य तवर्गस्य चवर्गो निषिध्यते ॥ शादिति किम् । याञा ॥
(ष्टुभिः ष्टुः ) सकारतवर्गयोः षकारटवर्गाश्यां योगे षकारटवर्गों भवतः ॥ कष्षष्ठः । तट्टीकते । __ (सुबोधिनी )-ष्टुभिः ष्टुः ॥ स्तोरित्यनुवर्तते । ष् च टवश्च ष्टवस्तैः टुभिः । च टुश्चानयोः समाहाराष्टः । नपुंसकनिर्देशोऽयमित्येके । षा माहितः टुःष्टुः । शाकपार्थिवादित्वान्मध्यमपदलोपः । इति पुल्लिङ्गनिर्देशोऽयमित्यन्ये । इहापि स्थान्यादेशयोर्यथासंख्यम् । निमित्तस्थानिनोस्तु न 'न षि' इति निषेधात् । स्तोः ष्टुभिर्योगे ष्टुः स्यादिति ॥ . (तत्त्वदी. )-ष्टुभिः ष्टुरिति ॥ स्तोरित्यनुवर्तते । समासः पूर्ववत् । अत्रापि ष्टौ पुरित्येव सुवचम् ॥
(न पि) षकारे परे तवर्गस्य ष्टुत्वं न भवति ॥ भवान्षष्ठः । " (सुबोधिनी)-न पि ॥ तोष्टुर्न स्यात् षकारे परे ॥ तोरिति किम् । कष्षष्ठः ॥ पात किम् । तट्टीका ॥ पीति सप्तमीनिर्देशात्पूर्वे षकारे ष्टुत्वं स्यादेव । रोष्टेति ॥ . (तत्त्वदी०)-न षीति ॥ अत्र तोरित्यनुवर्तते ॥षीति किम् । तट्टीकते । पीति सप्तमीनिर्देशात्पूर्वस्य शकारस्य योगे ष्टुत्वं स्यादेव क्रोष्टा ॥
( टोरन्त्यात् ) पदान्ते वर्तमानादृवर्गात्परस्य स्तोः ष्टुर्न भवति । षण्नरः षड्नरः । षट् सीदन्ति ॥
(सुबोधिनी)-टोरन्त्यात् ॥ स्तोरित्यनुवर्तते । अन्ते भवोऽन्त्यस्तस्मादन्त्याता अन्त्यशब्देन पदान्तं कथ्यते । भवार्थे ण्यः । 'णितो वा' इति णित्त्वविकल्पादृद्धयभावः पदान्ते स्थिताट्टोः परस्य स्तोः ष्टुत्वं न भवति ॥ पदान्तात् टोः किम् । ईट्टे ॥ टोः किम् । सर्पिष्टमम् ॥ 'अमे जमा वा' इति मे षण्नरः। जबभावपक्षे षड् नरः। नर इति बहुवचनम् ॥ . (तत्त्वदी० )-टोरन्त्यादिति ॥ स्तोरित्यत्रानुवर्तते नतोरिति ॥ टोरिति किम् ॥ सार्पष्टमम् ॥ अन्त्यः । भवार्थे ण्यः । 'णितो वा' इति वृद्धिविकल्पादृद्धयभावः ॥
( नवतिनगॉर्न ) षण्णवतिः । षण्णगर्यः ॥ (सुबोधिनी )-नवतिनगर्योन ॥ पदान्तादृवर्गात्परयोर्नवतिनगरीशब्दयोर्न ष्टुत्वनिषेधो भवति ॥ टोरन्त्यादिति निषेधो न प्रवर्तते इत्यर्थः। षडभिरधिका नवतिरिक त्यत्र पस्य डत्वे कृते नस्य ष्टुत्वम् ततः षण्णवतिः ॥ षट् नगर्यः इत्यत्र नस्य ष्टुत्वम् । षण्णगर्यः॥
Page #55
--------------------------------------------------------------------------
________________
[ हससंधिः ]
टीकाद्वयोपेता ।
( ३९ )
( तत्त्वदी ० ) - पदान्त इत्यनुवृत्तेः पदान्तादिति लब्धे अन्त्यादिति ग्रहणमस्यानित्यत्वज्ञापनायेत्यभिप्रेत्याह-नवतिनगर्योर्नेति ॥ षण्णवतिरिति ॥ षटू च नवतिश्च षडधिका नवतिरिति वा ॥
( सुपो न ) लिट्सु । टनात्सस्य वा धुट् । लिट्त्सु ॥
,"
(सुबोधिनी - सुपो न ॥ टवर्गात्परस्य स्यादीनां सुपः सकारस्य ष्टुत्वं न भवति ॥ (तत्त्वदी ० ) - 'नशात् नषि' इत्यत्र नद्वयोपादनं टुत्वस्यानित्यत्वज्ञापनार्थमित्याशयेनाह सुपो नेति ॥ सुपः सकारस्य ष्टुत्वं नेत्यर्थः ॥
( तोर्लि लः ) तवर्गस्य लकारे परे लकारः स्यात् ॥ तल्लुनाति । भवाँल्लिखति । अनुनासिकाननुनासिकत्वेन द्विधा यवलाः । तत्र नकारस्यानुनासिको लकारः ॥
( सुबोधिनी ) - तोलि लः ॥ तोरिति किम् । शक्नोतीति शक् लुनातीति ॥ लि इति किम् । तदन्नम् ॥ यकारवकारलकाराः सानुनासिका निरनुनासिकाश्च । तत्र सानुनासिकस्य नकारस्य स्थाने सानुनासिक एव लो भवतीत्यर्थः ॥
( तत्त्वदी ० ) - तोर्लि ल इति ॥ अत्र लघुभाष्यम् । स्तोरित्यनुवर्तमाने तोर्ग्रहणं सकारनिवृत्त्यर्थमित्येके । तन्न लकारपरस्य सकारस्याभावात् । न च को लुनातीत्यादावन्तरंगेण विसर्गेण भाव्यम् । सल्लावक इत्यत्रापि परत्वादन्तरङ्गत्वाच्च दत्वे कृते लः । तोर्लि इति द्विलकार पाठ्यम्।लू लि चेति छेदः। एवं सार्द्धमात्रा न्यूना भवति । 'अत्रेदमवधेयम् । तोर्लिं इत्युक्ते रकारात्परत्वात्तन्निमित्तक द्वित्वमाशङ्कय विधेयसंदेहस्यानिवार्यत्वात् । किं च स्तोः शचुभिः श्चुरित्यत्र प्रकृतस्य श्चुरित्यस्य विधेयत्वेनोपन्यासाद्वा ॥ भवाँल्लिखति इति ॥ अत्रानुनासिको लकारः ॥ ( उदः स्थास्तम्भोः स लोपः ) उत्थानम् । उत्तम्भनम् ॥
1
( सुबोधिनी) - उद: स्थास्तम्भोः सलोपः ॥ उदः परयो स्थास्तम्भोः सकारस्य लोपो भवति ॥ ष्ठा गतिनिवृत्तौ । स्तम्भु निरोधने । सलोपे कृते 'खसे चपा इसानाम् ' इति दस्य तः । उत्थानम् ॥
( तत्त्वदी०)-उदः स्थास्तम्भोरिति ॥ उदः परयोः स्थास्तम्भोः सस्य लोपः स्यादित्यर्थः ॥ उत्थानम् । उत्तम्भनमिति ॥ स्थीयत इति स्थानम् । भावे युटू । युवोरनाकावित्यनादेशः सलोपे कृते ' खसे चपा झसानाम् ' इति दकास्य तकारः ॥
( नः सक् छते ) नान्तस्य पदस्यावपरे छते सगागमो भवति ॥ राजश्चित्रम् । भवाँस्तनोति । अवपरे किम् । सन्त्सरुः ॥
(सुबोधिनी ) - न सक् छते ॥ नान्तस्य पदस्य सकू स्यात् अवः परो यस्मात्सः अवपरस्तस्मिन् अवपरे छते । कित्त्वादन्ते । सकोऽकारस्तुच्चारणार्थः । कस्यान्ते इत्या
Page #56
--------------------------------------------------------------------------
________________
(४०) सिद्धान्तचन्द्रिका।
[ हससंघिः] कांक्षायां पदस्यान्ते भवति । नस्यापदान्तत्वात् 'नश्चापदान्ते झसे' इत्यनुस्वारः।नस्यां सगागमो भवतीति वचने तु नस्यानुस्वारो न स्यात् । सको नकारस्य भक्तत्वात् नस्य पदान्तत्वानपायात्। आगमाष्टित्किन्मितस्ते यद्गुणीभूताःयस्य गुणीभूता यस्य विशेषणीकृतास्तद्रहणेन विशेष्यग्रहणेन कृत्वा ते आगमा आचार्यह्यन्ते अभ्युपगम्यन्ते । तद्यथा । सगागमः पदस्य विहितः। पदं विशेष्यम्। सगागमो विशेषणम् । पदग्रहणेन सक् गृह्यते । सपर्यन्तं पदमित्यर्थः ॥ पदस्येति किम् । इति ॥ नान्तस्येति किम् । तट्टीकते ॥ छते किम् । भगवन् कुरु ॥ अवपरे छते किम् । सन्त्सरुः खड्गमुष्टिः॥ __ (तत्त्वदी० )-नः सक् छते इति ॥ अत्र पदस्य सगागमः न तु नस्य । तथा सति नस्यानुस्वारो न स्यात् अपदान्तत्वाभावात् इत्याशयेनाह-नान्तस्येत्यादि ॥ पदस्येति किम् । हंति ॥ न इति किम् । तट्टीकते ॥ छते किम् । भगवन्कुरु ॥ अवपरे किम् । सन्त्सरुः। 'त्सरुः खड्गादिमुष्टिः स्यात् ' इत्यमरः ॥
(न प्रशानः)प्रशान्तनोति ॥ (सुबोधिनी)-न प्रशानः ॥ प्रशानिति नान्तस्य पदस्य सग न भवत्यवपरे छते ॥ प्रपूर्वात् शाम्यतेः क्विप् । 'जमान्तस्योपधाया दीर्घः इत्यनेन दीर्घः ।' मो नो धातोः इति नः । नस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् ॥
(तत्त्वदी०)-अव इत्यपकृष्य तस्य व्यवस्थितत्वाश्रयणात् मस्थानिकस्य नस्य समेत्याशयेनाह न प्रशान इति ॥ प्रशान्तनोतीति ॥' शमु उपशमे ' इत्यस्मात् क्विपि 'अमान्तस्य क्वौ' इति दीर्घ — मो नो धातोः' इत्यनेन नत्वे रूपम् ॥
(शे चक् वा)नान्तस्य पदस्यावपरे शे वा चगागमो भवति ॥ भवाञ्छूरः-भवाञ्चरः-भवाञ्चशूरः-भवाञ्शूरः ॥ __ (सुबोधिनी)-शे चक वा ॥ न इत्यनुवर्तते । नान्तस्य पदस्य चक् स्यादा शे। पदस्येति किम् । दंशः॥शे इति किम् । भवांश्चिनोति ॥ चक् वा इत्यत्र 'वाक्ये तु सा विवक्षामपेक्षते' इत्युक्तत्वाजवाभावः ॥ भवान् शूर इत्यत्र चगागमस्य कित्त्वात् पूर्वान्तत्वेन 'चपाच्छः शः' इति:छत्वविकल्पः। पक्षे हसात्परस्य झसस्येति चलोपः। नकारस्यानुस्वारपरसवर्णी अपदान्तत्वात् । भवाञ्छूरः-भवाच्छूरः-भवाजच्शूर:भवाज्ञ शूरः॥ "अछौ अचछा जछशा अशाविति चतुष्टयम् । रूपाणामिह तुक्छत्वचलोपानां विकल्पनात् ॥" कुवैस्तिष्ठ । कुर्वज्ञच्छेते । इत्यत्रापदान्तनकारस्य स्थानेऽनुस्वारचुत्वाभ्यां परत्वात्माप्त णत्वं न। कस्मात अनन्ते इत्यन्तरङ्गे णत्वनिषेधे सति 'असिद्धं बहिरंगमन्तरंगे' इति परिभाषया बहिरंगयोः सक्चकोरसिद्धत्वात् ॥ तच्छास्त्रम् सञ्चशंभुरित्यादौ चोः कुरिति कुत्वमपिन । अन्तरंगे कुत्वे कर्तव्ये चुत्तचकारासिद्धत्वात् । कुत्वविधिस्तुवाग्भ्यां वक्ष्यतीत्यादावेकपदस्थे चवर्गे सावकाशः। 'चपाच्छ शः' अम्वयुक्ताच्छसादौ' इत्यादिनिर्देशात् ॥
Page #57
--------------------------------------------------------------------------
________________
[ हससन्धि: ]
टीकाद्वयोपेता ।
( ४१ )
( तत्त्वदी ० ) - शे चकू वेति ॥ भवाञ्च्छूर इत्यादि ॥ " ञछौ ञचछा ञचशा अशाविति चतुष्टयम् । रूपाणामिह चक्छत्वचलोपानां विकल्पनात् ॥” पदस्येति किम् । दंशः ॥ नान्तस्य किम् । पञ्चशः || शे इति किम् । भवांश्चिनोति ॥ अत्र शीत्येव वक्तुमुचितम् । मात्रालाघवात् । ननु कुवैस्तिष्ठ कुर्वञ्छेते इत्यत्र अपदान्तत्वान्नस्य चुत्वादनुस्वाराच्च परत्वात् णत्वं प्राप्नोति । सत्यम् । अनन्त इत्यन्तरंग निषेधं प्रति बहिरंगयोश्वक्सको रसिद्धत्वाश्रयणात् । तच्छास्त्रमित्यत्रापि चुत्वे कृते कुत्वमप्यसिद्धत्वादेव न ॥
( नो ह्रस्वाद् द्विः स्वरे ) ङकारणकारनकारा हस्वादुत्तरा द्विर्भवन्ति स्वरे परे पदान्ते ॥ प्रत्यङ्किदम् ॥ सुगणिह | राजन्निह ॥ ह्रस्वाकिम् । प्राङास्ते ॥ पदान्ते किम् । परमदण्डिनौ ॥
नः
( सुबोधिनी ) - नो हस्वाद् द्विः स्वरे ॥ ङ् च ण च नू च ते पदान्ते इत्यनुवर्तते । हस्वात्पराः पदान्ते स्थिताः झुनः द्विः स्युः स्वरेः परे ॥ हस्वादिति किम् । प्रा आस्ते । प्राणू आस्ते । भवान् आस्ते ॥ डूण्न इति किम् | आस्ते ॥ स्वरे किम् । प्रत्यङ् करोति । सुगणू वदति । पचन्वदति ॥ पदान्ते किम् । दण्डिनौ ॥ ननु समिद्दण्डिनावित्यादौ पूर्वपदस्येव चोत्तरखण्डस्यापि प्रत्ययलक्षणेन पदत्वात् नस्य द्वित्वं स्यात् । उच्यते । उत्तरखण्डस्य प्रत्ययलक्षणेन पदान्तकार्ये न 'एदोतोऽतः' 'वत्विनौ' इत्यादिनिर्देशात् । अत एव परमवाचौ परमगोदुहौ परमलिहावित्यादौ कुत्वघत्वढत्वादीनि न भवन्ति ॥ ननु अनश्व इत्यादौ नस्य द्वित्वं स्यात् । उच्यते । अनन्ते अनपीत्यादिज्ञापनान्न द्वित्वम् ॥
( तत्वदी ० ) - नो खाद् द्विः स्वरे इति ।। डू च ण् च न् च ते नः ॥ ह्रस्वादिति किम् । प्राङ् आस्ते । स्वरे इति किम् । प्रत्यङ् करोति पदान्ते इति किम् । दण्डनौ ॥ ननु समिद्दण्डिनावित्यत्र पूर्वपदस्येवोत्तरखण्डस्यापि प्रत्ययलक्षणत्वेन पदत्वात् नस्य द्विचनं प्राप्नौतीति चेन्न । उत्तरपदस्य प्रत्ययलक्षणेन न पदान्तकार्यितेति 'दोतोऽतः' इति ज्ञापनात् । अत एव नलोपोऽपि न । अनश्व इत्यादौ तु अनपीत्यादिज्ञापकादुद्वित्वं न । नलोपस्तु अमुविधिसामर्थ्यान्न । द्विरिति क्रियावृत्तौ 'द्वित्रिचतुर्भ्यः सुः' इति स्वन्तत्वादव्ययम् । क्रिया चात्रोच्चारणमेव । तथा च द्विरुच्चार्या इत्यर्थो बोद्धव्यः ॥
(छः ) ह्रस्वात्परश्छकारो द्विर्भवति ॥
( सुबोधिनी ) - छः ॥ हस्वादित्यनुवर्तते । छकारे अकार उच्चारणार्थः । तेन विच्छिन्नमित्यादि सिद्धयति ॥
( तत्तदी)- इति ॥ अन्त्र स्वरे इत्यनुवर्त्य विभक्तिव्यत्ययेन स्वरात् इति बोध्यम् । पदान्ते वेत्यनुवर्तते । तच्च वाक्यभेदेन संबध्यते । विकल्पस्तु व्यवस्थितः । तेन पदान्ते दीर्घादाङ्माङ्वर्जिताद्वा || स्वरादिति किम् । छत्रम् ।।
1
Page #58
--------------------------------------------------------------------------
________________
(४२)
सिद्धान्तचन्द्रिका। [ हससंधिः] (खसे चपा झसानाम् ) तव छत्रम्-तव च्छत्रम् ॥ _(सुबोधिनी)-खस चपा झसानाम् ॥ झसानां चपाः स्युः खसे परे ॥ झसानामिति किम् । खन्सु ॥ खसे किम् । वेद्मि ।।
(दीर्घाच ) ह्रीच्छः ॥ ( सुबोधिनी )-दीर्घाञ्च ॥ दीर्घात्परश्छकारो द्विः स्यात् ॥ (पदान्तादीर्घाद्वा) लक्ष्मीच्छाया--लक्ष्मीछाया ॥ (सुबोधिनी)-पदान्तादीर्घाद्वा ॥ पदान्तादीर्घात्परश्छो वा द्विः स्यात् ॥ (आङ्माङ्भ्यां नित्यम् ) आच्छादयति । माच्छिदत् ॥ (सुबोधिनी)-आङ्माङ्भ्यां नित्यम् ॥ पदान्ताद्दीर्घादित्यस्यापवादोऽयम् । आङ्माङ्भ्यां परश्छा द्विः स्यान्नित्यम् ॥ . (पुंसोऽवपरे खपे संयोगान्तस्य लोपो न ) पुस्कोकिलः । पुंस्पुत्रः॥ अवपरे किम् । पुङ्क्षीरम् ॥ खपे किम् । पुन्दासः॥
( सुबोधिनी)-पुंसोऽवपरे खपे संयोगान्तस्य लोपो न ॥ पुंस्शब्दस्य सस्य लोपो न भवति । अवः परो यस्मात्सः अवपरस्तस्मिन् अवपरे खपे ॥ 'संयोगान्तस्य लोपः' इति प्राप्तावयं निषेधः । अवपरे किम् । पुंक्षीरम् । सलोपोत्र ॥ खपे किम् । पुंदासः । अत्रापि सलोपः॥
(तत्त्वदी.)-संयोगान्तस्य लोप इत्यत्र वाऽवसाने इत्यतो वेत्यपकृष्य तस्य व्यवस्थितत्वाश्रयणात् क्वचिन्न इत्याशयेनाह ॥ पुंसोऽवपर इत्यादि ॥ तेन ख्यातौ वा सभिन्नस्य रान्न इत्यादि सिद्धम् ॥ पुंस्कोकिल इति ॥ पुमांश्चासौ कोकिलश्च सः ॥
(ख्याधातौ वा पुख्यानम् ॥ (सुबोधिनी)-ख्याधातौ वा ॥ पुंस्शब्दस्य सकारस्य लोपो वा भवति । 'चक्षिङः व्याञ्' इति ख्याधातौ परे ॥ पुंख्यानमिति । चक्षिङो युटि रूपम् ॥
(मोऽनुस्वारः) मकारस्यानुस्वारो भवति हसे पदान्ते । तं हसति । पटुं वृथा ॥ पदान्ते किम् । गम्यते ॥ हसे किम् । किमत्र ॥
(सुबोधिनी)-मोऽनुसारः॥ पदान्ते इत्यनुवर्तते । पदान्ते मोऽनुस्वारः स्यात् हसे परे ॥ पदान्ते किम् । गम्यते ॥ म इति किम् । भवान्हसति ॥ हसे किम् । फलमस्ति ॥ म इत्यत्राकार उच्चारणार्थः ॥ अनुस्वार इति पूर्वाचार्याणां संज्ञा ॥
(तत्त्वदी० )--मोऽनुस्वार इति ॥ पदान्ते किम् । गम्यते ॥ मकारस्य किम् ॥ भवान् हसति । हसे इति किम् । फलमस्ति । अत्र लघुभाष्यम्।ननु मोम्' इति सूत्र्यताम् । अत्राकार उच्चार
Page #59
--------------------------------------------------------------------------
________________
[ हससंधिः ] . टीकाद्वयोपेता। णार्थः ततः परस्यादेशः स्यादिति चेत् सत्यम् । संज्ञापूर्वको विधिरनित्यो यथा स्यादित्येवमर्थमिदम् ॥ अनुस्वार इति प्राचां संज्ञा । तेन सम्राडिति सिद्धम् । वस्तुतस्तु 'मोम्' इति कर्तुं शक्यम् “अम्शसोः' इत्यादिनिर्देशेनास्यानित्यत्वज्ञापनात् सम्राडित्यादि सिद्धम् । अत्रेदमवधेयम् । 'मोम्' इति कृते ओ अवित्यादिष्विव म इत्यस्य प्रथमान्तत्वमाशङ्कय ओकारस्य विधेयत्व शङ्काया अनिवार्यत्वादनुस्वारस्य तत्संदेहनिराकरणायावश्यं वक्तव्यत्वात । यत्तु अत्र म् इति योगं विभज्य तत्र सकं चानुवर्त्य कचिन्मस्य सगागम इति व्याख्येयम् । तेन पुंस्कोकिला पुंस्पुत्र इत्यादि सिध्यतीत्युक्तम् । तत्तु पुंसोऽवपरे खपे संयोगान्तस्य लोप इति स्वोक्तया विरोधादुपेक्ष्यम् ॥
(नश्चापदान्ते झसे ) नस्य मस्य चापदान्ते वर्तमानस्यानुस्वारो भवति झसे हकारे च परे ॥ यशांसि । पुंग्याम् । स्वनड्वांहि ॥ अपदान्ते किम् । ब्रह्मन् पाहि ॥ झसे किम् । तन्यते ॥ . (सुबोधिनी)-नश्चापदान्ते झसे ॥ चकारो मकारस्य समुच्चयार्थः ॥ अपदान्ते नस्य मस्थ चानुस्वारः स्यात् झसे परे ॥ अपदान्त किम् । भवान् भाति ॥ झसे किम् । मन्यते । यम्यते ॥
(तत्त्वदी०)-नश्चापदान्ते झसे इति ॥ चकारो मकारस्य समुच्चयार्थः । अन्यथा अपदान्ते नस्यैव स्यात् ॥ अपदान्ते किम् । भवान् याति । अत्रापदान्तग्रहणादेतत्सूत्रपर्यन्तः पदान्त इत्यधिकारो बोध्यः॥ झस इति किम् । मन्यते यम्यत । अत्र हो झभा इत्यतो हकारोऽनुवर्त्यः स च विभक्तिविपरिणामेन सप्तम्यन्तो बोध्य इत्याशयेनाह-हकारे चेति ॥ - (यमा यपेऽस्य ) अपदान्ते वर्तमानस्यानुस्वारस्य यमा भवन्ति यपे परे ॥ अस्य यपस्य सवाः । शान्तः । अङ्कितः। अञ्चितः । कुण्ठितः । गुम्फितः॥ __ (सुबोधिनी)-यमा यपेऽस्य ॥ अस्येति यपपरामर्शार्थम् । अनुस्वारस्यानुवृत्त्यैव लाभात्।अपदान्ते अनुस्वारस्य यमाभवन्ति यपे परे।ते यमा अस्य यपस्य सवर्णा भवन्तीत्यर्थः । सानुनासिकस्यानुस्वारस्य सानुनासिका एव यमाः स्युः ।यमा इति बहुवचनं जातो ज्ञेयम् । कुण्डं रथेनेत्यत्रानुस्वारस्य पाक्षिको यमो न रकारस्यानुनासिकत्वाभावात्॥यपे किम् । आक्रस्यते । स्वनड्वांहि । अनुस्वारस्यति किम् । राजन् गच्छ। गम्यते। 'अङ्क पदे लक्षणे च' इति चुरादिश्यन्तात् क्तः। 'सेटोः क्तक्तवत्वोजिलोपः' इति बेलोपः । अनेनानुस्वारस्य ङः। 'अकि लक्षणे' इत्यस्माद्दा क्तः। नुमोऽनुस्वारे परसवर्णेन डः। अङ्कितः ॥ अञ्चेः पूजायामिट् इतीटू। पूजार्थस्याश्चतर्नेति नलोपोन। अश्चितः ॥ 'कुठि प्रतिघाते' क्तः । नुमोऽनुस्वारे परसवर्णेन णः । कुण्ठितः ॥'शमु उपशमे' क्तः। 'दान्तादयो वा निपात्यन्ते' इति निपातनादिडभावः । 'जमस्य
Page #60
--------------------------------------------------------------------------
________________
(४४) सिद्धान्तचन्द्रिका। [हससंधिः] क्ङिति झसे इति ' दीर्घः। मस्यानुस्वारे परसवर्णेन नकारः । शान्तः ॥ ' गुम्फ अन्थे ' क्तः।मस्यानुस्वारे परसवर्णेन मः। गुम्फितः॥ ननु कुर्वन्तीत्यत्रानेन कृतस्य नस्य णत्वं कस्मान्न । उच्यते । ' असिद्धं बहिरङ्गमन्तरङ्गे' इति परसवर्णस्यासिद्धत्वान्न णत्वम् ॥ - ( तत्त्वदी.)-यमा यपेऽस्येति ॥ अस्येति किमर्थम् । अनुस्वारपरामर्शार्थ चेन्न । तस्यानुवृत्त्यैव लाभात । न च प्रथमान्तस्यानुवृत्तस्य अनुस्वार इत्यस्य षष्ठीविपरिणामार्थमिति याच्यम् । यमा इत्यादेशापेक्षया अर्थात् षष्ठीविपरिणामसंभवात् । एवं तर्हि यपपरामर्शार्थम् । इत्यभिप्रेत्याह-अस्य यपस्य सवर्णा इति ॥ अनुनासिकस्यानुस्वारस्य सदृशयपस्य सवर्णा ञमा भवन्तीत्यर्थः ।। तन रेफो न भवति अनुस्वारसादृश्याभावात् । न च सादृश्याभावऽपि वचनात् स्यादिति वाच्यम् । यपे इत्यस्य जातिपरत्वेन यपजातीये सवर्णे यमजातीयस्यानुस्वारसदृशस्य विधानेन वचनस्य चरितार्थत्वात् ॥ यत्तु यमोऽस्येति सूत्रं युक्तम् । अनुस्वारेण झसे हसे इति वाऽऽक्षेपणीयम् ॥ अनुस्वारस्य सदृशझसहसयोः सवर्ण आदेशो भविष्यतीति व्यर्थमिह यपे इति । शषसहेषु तु नातिव्याप्तिःतेषां यमे सवर्णाभावादिति । तत्रेदमवधेयम् । हसाक्षेपेणैव तदन्तर्गतस्य झसस्याक्षेपस्याशक्यत्वात् किं च अनुवृत्तिलब्धेनानुस्वारेण हसाक्षेपे पदान्तस्याक्षेपाच ॥
(वा पदान्तस्य) पदान्ते वर्तमानस्यानुस्वारस्य यमा वा भवन्ति यपे परे॥ अस्य यपस्य सवर्णाः॥ त्वङ्करोषि-त्वं करोषि। तन्तनोति-तं तनोति । सय्यन्ता-संयन्ता ॥ सव्वत्सरः संवत्सरः। यस़लोकम-यं लोकम् ॥
(सुबोधिनी)-वा पदान्तस्य॥ अत्रानुस्वारस्यानुनासिका एव यमा वा स्युः।।
(तत्त्वदी०)-वेति॥ द्वितीयसूत्रोपन्याससामर्थ्यादेतत्पदान्तविषयमित्याशयेनाह-पदान्ते वर्तमानस्येति ॥
(मो राजि समः कौ) विबन्ते राजतौ परे समो मस्य म एव स्यात् ॥ सम्राट् ॥
(सुबोधिनी)-मो राजि समः क्वौ ॥ किवन्ते राजतौ परे समो मस्य म एव॥ मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थम् ॥ राजतौ किम् । गमादीनां जमस्य इति मलोपे हस्वस्य इति तुक् । संगत् ॥ सम इति किम् । इदं राट् ॥ क्विवन्ते इति किम् ॥ संराजितव्यम् । संराजते । राज़ दीप्तौ इति । संपूर्वादस्माद्वर्तमाने क्विपू । षत्वडत्वचपत्वानि । सम्राट् ॥
(यवलमनपरे हकारे मस्य यवलमना वा) किं ह्यः-किययः। किं ह्वलयति-कि, ह्वलयवि । किं ह्रादयति–कि हादयति । किं हलयतिकिम् मलयति । किं द्रुते-किन हुते ॥
Page #61
--------------------------------------------------------------------------
________________
[ हससंधिः ] . टीकाद्वयोपेता।
(४५) (सुबोधिनी)-यवलमनपरे हकारे मस्य यवलमना वा ॥ यश्च वश्च लश्च मश्च नश्च ते यवलमनाः यवलमनाः परे यस्मात् सः यवलमनपरस्तस्मिन्यवलमनपरे हकारे मस्य यवलमना वा भवन्ति ॥ 'बल मल संचलने । 'हुङ् अपनयने ।।
(तत्त्वदी० )-वेति व्यवस्थितो विकल्प इत्यभिप्रेत्याह-यवलमनपरे इति ॥ हकारे इति विशेष्यम् । यश्च वश्व लश्च मश्व नश्च ते। ते परे यस्य स तथा तस्मिन् ॥ किं ह्यइति।। योऽतीतेऽहि किं हलयतीत्यादि ॥ 'ह्वल हल चलने ।' 'ज्वलहलह्मलनमामनुपसर्गाद्वा' इति मित्त्वाद्धस्वत्वम् ।। हुङ् अपनयने ।' अदादिः । 'हादी सुखे ॥' कुर्वन्तीत्यत्र नस्य णत्वं तु 'असिद्धं बहिरङ्गमन्तरंगे' इत्यसिद्धत्वात् न ॥ वेति व्यवस्थितविभाषाश्रयणात् शसे चपस्य द्वितीया वा । टनात्सस्य वा धुट् । शसे जोः कुक्टुकौ वा । पकारे परे नृनकारस्य न्स वा इत्यादि संगृहीतम् ॥
(शसे चपस्य द्वितीया वा) वथ्सरः-वत्सरः। अफ्सरः-अप्सरः॥ (सुबोधिनी)-शसे चपस्य द्वितीया वा ॥ वर्गप्रथमानां द्वितीया भवन्ति शसे परे ॥
(न पदान्ते ) तत्साधुः ॥ ( सुबोधिनी )-न पदान्ते॥पदान्ते स्थितानां वर्गप्रथमानां द्वितीया न भवन्ति ।
(कुक्टुवर्जितस्य विभक्तौ न ) भवत्सु ॥ (सुबोधिनी )-कुक्टुक्वर्जितस्य विभक्तौ न ॥ चपस्य विभक्तौ द्वितीया न स्युः कुक्टुकोश्च द्वितीयाः स्युर्विभक्तौ परे ॥ .
(टनात्सस्य वा धुट) षट्त्सन्तः षट् सन्तः सन्त्सः-सन्सः ॥ (सुबोधिनी)-टनात्सस्य वा धुट्॥ टश्च नश्च तयोः समाहारः टनं तस्मात् । टकारनकाराभ्यां परस्य सकारस्य धुट् वा स्यात् ॥ धुटश्वपत्वेन तकारः॥ ततःशसे घपस्येत्यनेन तकारस्य थो न चपत्वस्यासिद्धत्वात् । षट्त्सन्तः॥ (शसे णोः कुक्टुको वा) प्राङ् षष्ठः-प्राङ्क्षष्ठः-प्राङ्ख् षष्ठः । सुगण साधुः-सुगण्ट् साधुः-सुगण्ठ् साधुः ॥
(सुबोधिनी)-शसे जोः कुक्टुको वा ॥ डकारणकारयोः कुक्टुकारागमौ वा स्तः शसे परे ॥ कुगभावे प्राङ्क षष्ठः । कुगागमे प्राङ्क्षष्ठः । कुको द्वितीये प्राइव षष्ठः ॥ (तत्त्वदी०)-ङ् च णू च ङ्गौ तयोः । ङस्य कुक् णस्य टुक् भवतीत्यर्थः वय॑त्वात् ।। (पकारे परे नृन्नकारस्य नम् वा) (सुबोधिनी )-पकारे परे नृन्नकारस्य नम् वा ॥ नृनित्यस्य नकारस्य न्स् आदेशः स्याद्वा पकारे परे ॥ अकार उच्चारणार्थः। तेन नृःपुनाति इत्यादि सिद्धयति ।
Page #62
--------------------------------------------------------------------------
________________
(४६) सिद्धान्तचन्द्रिका। [हससन्धिः ]
(स्रोविसर्गः ) सकाररेफयोर्विसर्गो भवति रसे पदान्ते च ॥ (सुबोधिनी)-स्रोविसर्गः ॥ स च र् च स्रौ तयोः स्रोः । स्रोर्विसर्गः स्यात् रसे पदान्ते च ॥ धात्वधातुसाधारणमिदम् ॥ पदान्ते किम् । स्यात् । ब्रयात् । पयसी । वारी ॥रसे किम् । चातुर्यम् ॥ सुप्प्रयत्ये परे रस्य विसों न चतुद्धिति निर्देशात् । तेन गीषु वार्षु पूर्षु इत्यादि सिद्धयति । नापत्यः भार्गवः इत्यादौ तु बहिरङ्गाया वृद्धरसिद्धत्वान्न विसर्गः । वर्म वत्मत्यादौ कर्तृसाधनयोरिति निर्देशान्न विसर्गः ॥
(तत्त्वदी०)-स्रोर्विसर्गः॥ पदान्ते वर्तमानयोः स्रोविसर्गः स्यात् । धात्वधातुसाधारणमिदम् । तेन अबिभः देवः प्रातरित्यादि सिद्धम् । अव्ययादित्यस्य परत्वात्सिलुकि नान रसपरत्वम् ॥ पदान्ते किम् । धुर्यात् । पयसी। नाम्नश्च रसपरयोः स्रोर्विसर्गः स्यात् । तेन वेधोभ्यां दोःस्वित्यादि सिद्धम् ॥ सौ तु सिलोपात् प्रथमं रत्वाद्विसर्गे कृते तस्य हसपरस्वाभावेन सिलोपाभावे नित्यं विसर्गद्वयश्रवणप्रसंगः । अथ वेधोभ्याम् इत्यत्र द्वयोः सकारयोरेको विसर्गो भविष्यति सत्वजातेराश्रयणादिति चेत् । शृणु । प्रियचत्वाः गीरित्यादौ रसपरयोरेकजात्यभावादुक्तदोषतादवस्थ्यमिति केचित् तन्न 'प्रायशो दृश्यताम्' इति वचनात् ।। क्वचित्पूर्वेणापि परबाध इष्टसिद्धयर्थम् ॥ रसे किम् । चीवरान् । वस्तेः क्वचित्विविशिष्टस्य नामसंज्ञा भवति लुप्तेऽपि विपि एकदेशविकृतन्यायेन नामत्वमस्ति । तेन सुबोभ्यामित्यादौ विसर्ग: सिध्यति । स् च र् च स्रौ सयोः । अत्र रेफो निर्दिष्टो न तु रेफभूत ऋकारः। रेफस्थानिकविसर्गस्य रादेशविधायकस्य र इति सूत्रस्य वैयर्थ्यापत्तेः। कर्तकार्ययोरित्यादिनिदेशाच्च न ह्यत्र ऋकारस्य विसर्गो निर्दिष्टः । प्रातःपाशमित्यादावुभयथा विसर्गः । नामसज्ञाप्रवृत्तिकाले रेफस्य सुपि न विसर्गः चतुर्विति ज्ञापकात् । तेन गीतवत्यादि सिद्धयति । नापत्य इत्यत्र तु बहिरङ्गाया वृद्धरसिद्धत्वान्न विसर्गः । वर्म इत्यादौ न विसर्गः कर्तृसाधनयोरिति निर्देशादिति दिक् ॥
(कुप्वोः क - पौ वा ) कवर्गपवर्गसम्बन्धिनि खसे परे विसर्गस्य क - पौ वा भवतः॥ कपावुच्चारणार्थों । नः पाहि-नः पाहिनृन् पाहि ॥ इति हससन्धिः ॥
(सुबोधिनी)-कुप्वोः क४ पौ वा ॥ आदेशनिमित्तयोर्यथाक्रममत्रास्ति। आदेशे ककारपकारावुच्चारणार्थो । केवलयोर्जिह्वामूलीयोपध्मानीययोरुच्चारणासंभवात् । किं च ककारखकारयोः परतः कः स्यात् । पकारफकारयोश्च प: स्यात् ॥ कुप्वोरिति किम् । कश्चारः॥वाग्रहणात्पक्षे विसर्गः। विसर्जनीयस्य स इत्यस्यापवादो ऽयम् । उपध्मानीये नुं पाहि । विसगें →ः पाहि । नभावे नृन्पाहि ॥ इति सुबोधिन्यां हससन्धिः ॥
Page #63
--------------------------------------------------------------------------
________________
[ विसर्गसंधिः] . टीकाद्वयोपेता।
(४७) (तत्त्वदी० )कुप्वोः क४ पौ वेति ॥ कुश्च पुश्च कुपू तयोः । अत्रादेशनिमिचयोर्यथाक्रमम् । आदेशे कपावुच्चारणार्थों केवलयोरुच्चारणासम्भवात् । कखयोः कः। पफयोःपः । अन्यत्रोत्तरविधिर्बाधनात् ।। श्रीविद्यानगरस्थायी पौत्रो रामकरस्य हि । हससंधेय॑धाद्याख्यां स हि लोकेशसंज्ञकः ॥
इति तत्त्वदीपिकायां हससंधिः॥
अथ विसर्गसन्धिः । (विसर्जनीयस्य सः) खसे परे ॥ कस्तनोति ॥ (सुबोधिनी)-विसर्जनीयस्य सः॥ विसर्गस्य सकारः म्यात् खसे परे ॥ कस्तनोतीत्यत्र विसर्गस्य सत्वे कृते तस्य पुनर्विसर्गादेशो न असिद्धत्वाद्विधिसामर्थ्यादा ॥
(तत्त्वदी०)-विसर्जनीयस्य स इति ॥आसंधिसमाप्तीदं षष्ठयन्तमधिक्रियते। परिशे. षात् खसे एवास्य प्रवृत्तिः । अन्यत्र तूत्तरसूत्रैस्तत्र तत्र बाधः विसर्गस्य स इति नोक्तम् । पर्यायशब्दानां गौरवलाघवयोरनपेक्षणात् ॥ यत्तु प्राचामुपहासाथै विसर्जनीयादिग्रहणं प्राञ्चो लाघवं न जानन्तीत्युक्तम् । तत्रदमवधेयम् । प्राञ्चोऽत्र के विवरणकर्तारः सत्रकर्तारो वा। आये सूत्रस्थगौरवेण तेषामुपहासासंभवात् । अन्ते सरस्वत्याः सूत्रकर्तृत्वेन तदुपहासप्रत्यवायसंभवात् । न निन्देन्मनसा वाचा सर्वव्याधिपराङ्मुखः । इति निषेधदर्शनात् । अः सः इति सूत्रणीये यद्विसर्जनीयस्येत्युक्तं तत्संज्ञापूर्वकत्वेन सस्यानित्यताबोधनार्थम् । तेन कः साधुरित्यादि सिद्धम् । ननु कुप्वोः क पावित्यस्य वैकल्पिकत्वात् पक्षे सत्वं कुतो नेति चेन्न । 'शेषाः कार्ये ' इति निर्देशेन क पाभ्यां मुक्ते ' सत्वप्रवृत्त्यभावस्य ज्ञापनात् । अत्र वेत्यनुवृतस्य व्यवस्थितविभाषाश्रयणात् शसे वा सकारः॥
(शसपरे खसे विसर्जनीयस्य विसर्ग एव) कः सरुः । घनाघनः क्षाभणः ॥
(सुबोधिनी)-शसपरे खसे विसर्जनीयस्य विसर्ग एव ॥ शसः परो यस्मात्स शसपरस्तस्मिन् शसपरे खसे विसर्जनीयस्य विसर्जनीय एव भवति न त्वन्यत् ॥ यदि तु शसपरे खसे नेत्यवोच्येत तर्हि प्रकृते सत्त्वे निषिद्धेऽपिक४ पौ स्याताम् । विसर्गवचनात्तु विकारमात्रमाप निषिध्यते । तेन वासः क्षोमम् अद्भिः प्सातमित्यादी विसर्ग एव ॥ .
(तत्त्वदी)-शसपरे खसे इत्यादि ॥ शसः परो यत्मात्स शसपरः तस्मिन् ॥ (शसेवा) कश्शूरः कःशूरः। कष्पंढः- कः षण्डः। कस्साधुः-कः साधुः ॥
(सुबोधिनी)-शसे वा ॥ शसे परे विसर्जनीयस्य विसर्जनीय एव वा भवति ॥ पक्षे सः।कः शूरः। कस् शूरः। श्चुत्वं कश्शूरः। कः षण्ढः। कस् पंढः। ष्टुत्वं कष्षण्ढः॥
Page #64
--------------------------------------------------------------------------
________________
(86)
सिद्धान्तचन्द्रिका |
[ विसर्गसंधि: ]
( खपपरे शसे विसर्गस्य लोपो वा ) हरिस्फुरति - हरिः स्फुरति - कौवा । ककरोति कः करोति ।
हरिरस्फुरति । कुप्वोः क : पचति - कः पचति ॥
(सुबोधिनी ) - खपपरे शसे विसर्गस्य लोपो वा ॥ खपः परो यस्मात्सः खपपरः तस्मिन्खपपरे शसे विसर्जनीयस्य लोपो वा भवति ॥ वाग्रहणात्पक्षे शसे । वेति विसर्गे सत्वे च त्रैरूप्यम् हरिस्फुरति - हरिः स्फुरति - हरिमस्फुरति ॥
( तत्त्वदी ० ) - पपरे इति ॥ खपः परो यस्मात्सः खपपरः तस्मिन् । एतत्सर्वं व्यवस्थितविभाषाश्रयणादेव । कुप्पोः पाविति व्याख्यानं पूर्वोक्तमेव ॥
( वाचस्पत्यादयो निपातात्सिध्यन्ति ) वाचस्पतिः । बृहस्पतिः । तस्करः । कौतस्कुतः । कानूकान् - कांस्कान् । कस्कः । भास्करः । पयस्पाशम् । यशस्कल्पम् । यशस्कम् | यशस्काम्यति । सर्पिष्पाशम् । सर्पिकल्पम् । सर्पिष्कम् । सर्पिष्काम्यति । नमस्करोति नमः करोति । पुरस्करोति । निष्प्रत्यूहम् | आविष्कृतम् । तिरस्कर्ता - तिरः कर्ता । द्विष्करोतिद्विः करोति । त्रिष्करोति--त्रिः करोति । चतुष्करोति- चतुःकरोति । चतुष्कपालम् । सर्पिष्करोति--सर्पिः करोति । धनुष्करोति - धनुः करोति । सपि - कुण्डिका । अयस्कारः । अयस्कामः । अयस्कुम्भः । अयस्पात्रम् । अयः सहिता कुशा -- अयस्कुशा । अयस्कर्णी । अधस्पदम् । शिरस्पदम् ॥ आकृतिगणोऽयम् | अविहितलक्षणः सकारो वाचस्पत्यादिषु द्रष्टव्यः ॥
( सुबोधिनी ) - वाचस्पत्यादयो निपातात्सिध्यन्ति ॥ सिद्धस्वरूपो - चारणं निपातस्तस्मादेते शब्दाः सिद्धिं यान्ति ॥ वाचः पतिरित्यत्र षष्ट्या अलुकू । निपातनाद्विसर्गस्य सत्वम् । वाचस्पतिः। ततः चौर्यं करोतीति तकारस्य सत्वं निपातनात् । तस्करः ॥ बृहतां पतिरिति । निपातनात् तकारस्य सत्वम् । बृहस्पतिः ॥ कुतः कुत आगत इत्यत्र 'त्यतनौ' इत्यनेनाव्ययात्त्यप्प्रत्यये प्राप्ते गणपाठसामर्थ्यादणप्रत्ययष्टिलोपश्च । निपातनाद्विसर्गस्य जिह्वामूलीयाभावः । कौतस्कुतः ॥ कान्कानिति । अत्र एकः किंशब्दः प्रश्ने । द्वितीयो निन्दार्थे । सगागमाभावोऽत्र भिन्नार्थत्वात् । गणे चाम्रेडितस्यैव ग्रहणम् । कान् कुत्सितान् पश्यसीत्यर्थः। कांस्कान् इति । अत्र आम्रेडितत्वा
पूर्वकारस्य सगागमो भवति निपातनात् । कांस्कान् कान् कान् पश्यतीत्यर्थः॥ कः क इति कस्क: । जिह्वामूलीयाभावोऽत्र ॥ भासः करोतीति भास्करः । जिह्वामूलीयाभावः। कुत्सितं पय इति पयस्पाशम् । कुत्सायामिति पाशः ॥ ईषन्न्यूनं यश इति यशस्कल्पम् ।
Page #65
--------------------------------------------------------------------------
________________
[ विसर्गसंधिः] टीकाद्वयोपेता।
(४९) ईषदसमाप्ताविति कल्पः । कुत्सितं यश इति कुत्सितेऽर्थे कः। यशस्कम् ॥ आत्मनो यश इच्छतीति काम्यश्चेति काम्यप्रत्ययः । यशस्काम्यति इत्यादौ विसर्गस्य जिह्वामूलीयोपध्मानीयाभावो निपातनात् ॥ कुत्सितं सपिरिति सर्पिष्पाशम् ॥ ईष. न्यूनं सपिरिति सर्पिष्कल्पम् ॥ कुत्सितं सपिरिति सर्पिष्कम् ॥ आत्मनः सर्पिरिरिच्छतीति सर्पिष्काम्यति इत्यादौ विसर्गस्य पत्वं निपातनात् ॥ नमस्करोति-नमः करोति । इत्यत्र विकल्पेन सकारविसौं निपातनात् । पुरस्करोतीत्यत्र जिह्वामूलीयाभावः ॥ निष्प्रत्यूहम् , आविष्कृतम्, दुष्कृतमित्यादौ विसर्गस्य षत्वं निपातनात् ॥ तिरस्कर्ता तिरः कर्तेत्यत्र विकल्पेन सकारविसौं ॥ द्वौ वारौ करो. तीति द्विष्करोति-द्विःकरोति ॥ त्रीन् वारान्करोतीति त्रिष्करोति त्रिः करोति ॥ चतुरो वारान् करोति चतुष्करोति-चतुः करोति । द्वित्रिचतुर्थ्यः इति सुः ॥ चतुर्यु कपालेषु संस्कृत इत्यर्थे अण् । दिगुसमासेऽणो लुकू च । चतुष्कपालःचतुःकपालः॥ सर्पिष्करोति-सर्पिःकरोति ॥ धनुष्करोति-धनुःकरोति । इत्यादौ विकल्पेन विसर्गस्य पत्वविसर्गौ निपातनात् ॥ सर्पिषो घृतस्य कुण्डिकेति सर्पिष्कुण्डिका। नित्यं पत्वमत्र ॥ अयसः कार इत्ययस्कारः॥ अयसः काम इत्ययस्कामः ॥ अयसः कुम्भ इत्ययस्कुम्भः ॥ इत्यत्र विसर्गस्य जिह्वामूलीयाभावः ॥ अयसः पात्रमित्ययस्पात्रमित्यत्रोपध्मानीयाभावः ॥ अयः सहिता कुशेत्ययस्कुशा । वेदे औदुम्बरशडूकुं कुशेति व्यवहरन्ति । अयोविकारे तु कुशीति ॥ अय इव कर्णौ यस्याः सा अयस्कर्णी । नासिकोदरेतीप् । अत्र जिह्वामूलीयाभावः ॥ पदस्याध इत्यधस्पदं शिरस: पदमिति शिरस्पदमित्यत्रोपध्मानीयाभावः ॥ आकृत्या स्वरूपेण गण्यते यः स आकृतिगण इति ॥
( तत्त्वदी० )-अत्रापि वेत्यस्य व्यवस्थितत्वात् अनेकार्थलाभ इत्याशयेनाह-वाचस्पत्यादय इति ॥ बृहस्पतिरित्यत्र तकारस्य सकारः, तस्कर इत्यत्र दकारस्य ॥ एवमन्येऽपि ॥
(रोऽरात्रिषु ) अह्नो विसर्जनीयस्य पदान्ते रो भवति न तु राज्यादिषु ॥ अहर्गणः । अहरहः ॥ अरात्रिषु किम् । गतमहो रात्रिरेषा । अहोरात्रः । अहोरूपम् । अहोरथन्तरम् ॥
(सुबोधिनी)-रो रात्रिषु ॥ पदान्तेऽहनशब्दस्य विसर्गस्य रः स्यात् रात्र्यादिवर्जितेषु परतः ॥ अरात्रिष्विति बहुवचनमादिशब्दार्थे । तेन रात्रिरात्ररूपरथन्तराणि रात्र्यादयः । अह्नां गण इत्यहर्गणः । अह्नः इति नस्य रः ॥ अहः अहः इत्यहरहः । वीप्सायां द्वित्वम् ॥अहश्च रात्रिश्चानयोः समाहार इत्यहोरात्रः। समासान्तोऽप्रत्ययोऽत्र । 'रात्राहाहान्ताः' इति पुंस्त्वम् । अहो रात्रिरेषा । इदमह एषा रात्रिरस्तीत्यर्थः। प्रशस्तमह इत्यहोरूपम् । प्रशंसायामिति रूपः॥ अहोरूपम् । गुणवाचको रूपशब्दो
Page #66
--------------------------------------------------------------------------
________________
(५०)
सिद्धान्तचन्द्रिका। [विसर्गसंधिः] ऽप्यत्र ॥ रथन्तरं सामवेदसंज्ञा । अहोरथन्तरम् । एषु विसर्गस्य उत्वं तत ओत्वम् ॥ पदान्ते किम् ॥ अहोभ्याम् ॥
(तत्त्वदी० )-रोऽरात्रिष्विति ॥ अरात्रिष्विति बहुवचनात् राज्यादिर्गृह्यते ॥ अहोरात्र इति ॥ एकदेशविकृतस्यानन्यत्वाद्रात्रशब्दस्यापि ग्रहणम् । 'रात्राहाहान्ताः पुंसि । इति नियमात्पुंस्त्वम् । गतमहो रात्रिरेषेति मुख्यः प्रयोगः ॥ (अतोऽत्युः) अकारात्परस्य विसर्जनीयस्योकारो भवत्यति परेकोऽर्थः॥
(सुबोधिनी)-अतोऽत्युः॥ आदवे लोपशू इत्यस्यापवादोऽयम् । अतः परस्य विसर्गस्य उत्वं स्यादति ॥ अत इति किम् । अग्निरत्र ॥ तपरः किम् । देवा अत्र ॥ सुस्रोतः ३ अत्र । दूगदाह्वाने इति प्लुतः॥ अतीते किम् । देव इह ।। तपरः किम् । देव आगतः ॥ तिष्ठतु पय अ ३ निदत्तेत्यत्र गुरोरनृत इति प्लुतः॥ विसर्गस्य उत्वे आत्वे च 'एदोतोऽतः" इत्यल्लोपः कोऽर्थः ॥
(तत्त्वदी०)-अतोऽत्युरिति।।अत इति किम् । हरिरत्र ॥ तपरः किम् । देवा अत्र। अतीति तपरः किम् । देव आगतः॥ विसर्गस्येति किम् । राममनु । 'आदबे लोपश्' इत्यस्यापवादोऽयम् ॥
(हबे ) अकारात्परस्य विसर्जनीयस्योकारो भवति हबे परे ॥ देवो याति । मनोरथः॥
(सुबोधिनी) हवे ॥ अत इत्यनुवर्तते । अतः परस्य विसर्गस्य उत्वं स्यात् हवे ॥ 'आदबे लोपश्' इत्यस्यापवादोऽयम् ॥अतः किम् । वायुर्वन्द्यः॥तपरः किम्। वेधा वन्द्यः ॥ हवे किम् । देवः पश्यति ॥
(तत्त्वदी० )-हबे इति ॥ लोपशोऽपवादः ॥ अतः किम् । भानुर्वन्द्यः ॥ तपरः किम् । वेधा नम्यः ॥ हबे किम् । रामः कर्ता ॥ अत्र लघुभाष्यम् । अतोऽद्धबे उरित्येकयोगो न कृतोऽस्यानित्यत्वज्ञापनाय । तेन उपर्बुध इत्यादि सिद्धम् । अत्रेदमवधेयम् । 'कुप्पो क
पौ वा' इत्यस्य व्यवस्थितत्वाश्रयणेनैव वाचस्पत्यादीनां सिद्धत्वेनोपर्बुध इत्यत्रापि रत्वसिद्धेरनित्यत्वज्ञापनस्यानुचितत्वात् किं ज्ञापितेऽप्यस्यानित्यत्वे 'आदबे लोपश्' इत्यस्य प्राप्तौ रेफार्थयत्नस्य त्वयाऽयभ्युपगमात् ॥
(आदबे लोपश) अवर्णात्परस्य विसर्जनीयस्य लोपश् भवत्यबे परे ॥ देवा अत्र । वाता वान्ति । देवा इह ॥
(सुबोधिनी)-आदवे लोपश ॥ आदिति पञ्चम्यन्तम् । न तु तपरत्वम् । दिव औ इत्यादिनिर्देशात् ॥ अवे किम् । देवाः सन्ति ॥
(तत्त्वदी०)-आदबे लोपशिति। नन्वाद्ग्रहणं किमर्थम् । नचेकारादिनिवृत्त्यर्थ 'नामिनो रः' इति रेफेण बाधितत्वात् । न च हसव्यावृत्त्यर्थ हसाद्विसर्गस्यासंभवात् । तस्मादुत्तरार्थमेव ॥
Page #67
--------------------------------------------------------------------------
________________
[विसर्ग संधि: ]
टीकाद्वयोपेता ।
( ५१ )
नन्वबग्रहणं किमर्थम् न च हवग्रहणाननुवृत्त्यर्थम् | ब्रुव आह पूर्व उपधेत्यादिनिर्देशैस्तज्ज्ञापनात्॥ नाप्युतरार्थम् । असंदेहार्थं लाघवार्थं तत्रैवाकरिष्यत् ॥ नाप्यवसानबाधनार्थ ज्ञापकादेव तत्राप्यस्याप्रवृत्तेः॥ तथा हि । यत् आप इति सिलोपं शास्ति तज्ज्ञापयति नानेनावसाने लोपश् भवतीति अन्यथा सेर्विसर्गलोपशोःकृतयोर्गङ्गेत्यादिसिद्धौ किंसिलोप विधानेन। ननु लोपशि सति गंगाऽत्रेत्यादौ संधिर्न स्यादतो लोपविधानं न ज्ञापकमिति चेन्न । यस्मिन् स्वरे परे लोपश् तेन सह संधि - नैति ज्ञेयम् । वस्तुतोऽवसानेऽतिप्रसंगवारणार्थमेवाबग्रहणम् ॥ ननु 'आद्योऽचे' इत्येव सूत्रयतां स्वरे यत्थं वेति तु न कर्तव्यम् । देव इहेत्यादौ यकारे 'खोर्लोपश् वा' इत्यनेन लोपशि कृते सिद्धेः । न च तत्रायाद्यनुवर्तनादस्य कथं लोपश् इति वाच्यम् । यात्पूर्वमवर्ण गृहीत्वा अय् रूप इत्यादिरूप संभवात् । लक्षणप्रतिपदोक्तयोः इति परिभाषायास्तु अनित्यत्वात् । उच्यते । भोस इत्यत्रापि यो वेत्यनुवर्तेत । ततश्च भो इहेत्यादि न सिद्ध्येत् ॥
स्वरे यत्वं वा ) देवाहि ||
(सुबोधिनी ) - स्वरे यत्वं वा ॥ लोपशो विकल्पेनापवादोऽयम् । अवर्णात्परस्य विसर्गस्य यत्वं वा स्यात् ॥ पक्षे लोपश् । स्वरे किम् । रामश्चतुरः ॥ ( तत्त्वदी ० ) - स्वरे यत्वं वेति ॥ अवर्णात्परस्य विसर्जनीयस्य स्वरे यत्वं वेत्यर्थः ॥ (भोसः ) भोस्भगोस् अघोस् इत्येतस्य विसर्जनीयस्य लोपश् भवत्यबे परे ॥ भो हरे । भगो नमस्ते । अघो याहि (स्वरे यत्वं वा ) भोभगो अघोविसर्गस्य स्वरे यत्वं वा भवति ॥ भोयेहि । भगोयेहि । अघोयगच्छत् ॥
-
( सुबोधिनी ) - भोसः ॥ भोस् भगोस् अघोस् इति सकारान्ताः निपाताः सन्ति । तत्राद्यन्ताभ्यां प्रत्याहारो ' भोस्' इति गृहीतः । भोसः इति षष्ठयन्तम् । भोस् भगो अघोस एषां विसर्गस्य लापशू स्यादवे || अबे किम् । भोस्तपस्विनः।। स्वरे यत्वं वा ॥ भोम्भगोस्अघोसां विसर्गस्य यत्वं वा भवति स्वरे । पक्षे लोपश् ॥
( तत्त्वदी ० ) - भोस इति ॥ षष्ठयेषा न तु पञ्चमी । भोरशब्दस्य सान्तत्वेन ततः परस्य विसर्गस्याभावादित्यभिप्रेत्याह ॥ भोगोअघोम्इत्येतस्येति । भोसूभगोस् अघोस् इत्येतस्मात्परस्येति तु प्राचः प्रमाद एव । भोस इत्यत्र निपातभवच्छब्दयोरपि सामान्येनानुकरणम् । तथा च भो देव, भो लक्ष्मि भो विद्वन् इत्यादि सिद्धम् । न च भोस इत्यत्र भोसमात्रग्रहणात् भगो Tera याहीत्यादावव्याप्तमिति वाच्यम् । प्रत्याहाराश्रयणेनाव्याप्तिवारणात् ॥ एवं च विभोरिदमित्यादावतिप्रसंगवारणं च सम्भवति । तस्य प्रत्याहारेऽनन्तर्भावात् ॥ अत्र लघुभाष्यम् । ननु 'अभोसोऽवे लोपश्' इत्येकयोग एव लाघवाय कर्तुमुचितः । उच्यते । नञ्समासोऽत्र प्रतीयेत । भोसूव्यतिरिक्ताच्छब्दात्परस्येति । तथैतदोषवारणाय अभोसोर लोपशिति सूत्रणीयम् । तदाईमात्रात्त्रघवेऽपि वैरूप्यं दोषः । भोसोऽवयवोऽवर्णात्पर इति सूत्रभेदे तु नायं दोष इति सूत्रमेद एवाश्रितः । अत्रेदमवधेयम् । आगोसोऽच लोपशिति सूत्रणीयम् । तथा च । ननुसमासश्रमवैरू
Page #68
--------------------------------------------------------------------------
________________
( ५२ )
सिद्धान्तचन्द्रिका |
[ विसर्ग संधिः ] प्यदोषयोरसंभव एव । आदित्यस्य पञ्चम्यन्तत्वात् । मौस इत्यस्य षष्ठयन्तत्वाच्च भोसोऽवयवो - वर्णात् पर इत्यस्यार्थस्य सुलभत्वात् । एवं च स्वरे यत्वं वेत्यस्याद्विरुक्तिश्चेति महलाघवम् ॥ ( नामिनो रः ) नामिनः परस्य विसर्जनीयस्य रेफो भवत्यवे परे ॥ अग्निरत्र | पटुर्वक्ता ॥ ( उषसो बुधे) उषसो विसर्जनीयस्य रेफो भवति बुधे परे ॥ उषः बुधः - उषर्बुधः ॥
( सुबोधिनी ) - नामिनो रः । नामिन इति किम् । रामो वन्द्यः ॥ अवे किम् । अग्निः करोति ॥
( तत्त्वदी ० ) - नामिनो र इति ॥ ननु नामिन इति किमर्थम् । अवणालीपशादिविधानेन हसाद्विसर्गासंभवेन च तस्यैव परिशेषात् । यत्तु नामिन इति योगविभागे आदबे लोपशित्यतोऽबे लोपशिति चानुवर्तते । क्वचिन्नामिनः परस्य विसर्गस्यावे लोपश् । तेन 'सेमां भूम्या - ददे' इत्यादि सिद्धमित्याहुः । तन्न । सेमामित्यादेश्छान्दसत्वात् छंदसि दृष्टानुविधिरित्यस्योक्तत्वात् । 'सेमां भूम्याददे' इत्यत्रापि भूमिशब्दस्य कृदन्तत्वेन कृदिकारादिति ईपि कृते 'हसेप:' इति सिलोपे इष्टसिद्धेः । उच्यते 'नामिनो रः' इत्यत्र योगविभागार्थं नाभिग्रहणम् । तथा च वाक्यभेदेन व्याख्यानम् । नामिन इत्येको योगः । तत्र खपे वेति चानुवर्त्य र इति षष्ठयन्तं च कृत्वा वाक्यभेदेन व्याख्येयम् ।
( रेफप्रकृतिकस्य खपे वा रेफः) गीः पतिः - गीर्पतिः गीपतिः॥ ( सुबोधिनी) - रेफप्रकृतिकस्य खपे वा रेफः ॥ रेफः प्रकृतिर्मूलकारणं यस्य स रेफ प्रकृतिकस्तस्य रेफप्रकृतिकस्य विसर्गस्य रकारो वा भवति खपे परे ॥ वाग्रहणात् पक्षे विसर्गोपध्मानीयौ ॥
( तत्त्वदी ० ) - रेफ प्रकृतिकस्य खपे वेति ॥ रेफः प्रकृतिर्यस्य सः तथा तस्य । वस्तुतस्तु रेफप्रकृतिकस्येति नोचितं वक्तुम् । र इति सूत्रार्थेनैव तद्गतार्थम् ॥
( अहन ) अहपतिः - अहः पतिः - अह
पतिः ॥
( सुबोधिनी ) - अहन् ॥ अहनशब्दस्य विसर्गस्य रो भवति ॥ रोडरात्रिष्विति रत्वे विसर्गे च कृतेऽयं विधिः प्रवर्तते । अहर्पतिः - अहः पतिः - अह पतिः ॥ (रः) रेफसम्बन्धिनो विसर्जनीयस्य रेफो भवत्यबे परे ॥ प्रातरत्र । अन्तर्गतः ॥
( सुबोधिनी ) रः ॥ षष्ठ्यन्तमिदम् । रेफस्य स्थाने विहितो यो विसर्जनीयस्तस्य रो भवत्यवे परे ॥ अबे किम् । प्रातः कालः रेफप्रकृतिकस्यति किम् । रामो नम्यः॥ ( तत्त्वदी ० ) - इति ॥ षष्ठयेषा न तु पंचमी ॥
(रि लोपो दीर्घश्व) रेफस्य रेफे परे लोपो भवति पूर्वस्य च दीर्घः॥ पुना रमते । हरी राजते । भानू रम्यः । शम्भू राजते ॥
Page #69
--------------------------------------------------------------------------
________________
[ विसर्गसन्धिः ] टीकाद्वयोपेता।
(५३) (सुबोधिनी)-रि लोपो दीर्घश्च ॥ र इति षष्ठ्यन्तमनुवर्तते । रि इति सप्तम्य. न्तम् । रो लोपः स्याद्रेफे परे ॥चकारो विधेययोर्लोपदीर्घयोः समुच्चयार्थः। तेन पूर्वस्वरस्य दीर्घश्च ॥ रीति किम् । प्रातर्वायुः॥ र इति किम् । मनोरथः॥
(तत्त्वदी० )-रि लोपो दीर्घश्चेति ॥ रि इति सप्तमी । अत्र र इति षष्ठयन्तमनुववर्तते इत्यभिप्रेत्याह-रेफस्येति ॥ रीति सप्तमीनिर्देशाल्लोपनिमित्तानेफात्पूर्वस्येत्याशयेनाहपूर्वस्येति ॥ चकारो विधेययोर्लोपदीर्घयोः समुच्चयस्य द्योतकः ॥
( सैषादसे) सशब्दादेषशब्दाच्च परस्य विसर्जनीयस्य लोपो भवति । हसे परे ॥ स चरति । एष हसति ॥
(सुबोधिनी)-सैषाद्धसे ॥ सश्च एषश्च तयोः समाहारः सैषं तस्माद् । अनसमासेऽककारात्सैषात् परस्य विसर्गस्य लोपः स्यात् हसे परे । स इति एष इति च कृतात्वसत्वस्य तच्छब्दस्य एतच्छब्दस्य चानुकरणम् । अनुकार्यानुकरणयोभैदेऽर्थवत्त्वाद्विभक्त्युत्पत्ती सत्यां वन्दे विभक्तिलोपे च कृते नामत्वात् ङसि परतः स्मटोऽभावः। द्वन्द्वे सर्वादीनां न सर्वकार्यमित्युक्तत्वात् ॥ अककारात् किम् । एषको रुद्रः ॥ अनसमासे किम् । असः शिवः ॥ हसे किम् । एषोऽत्र ॥
(तत्त्वदी० )-सैषादसे इति ॥ सश्च एषश्च तयोः समाहारः सैंघ तस्मात् । स इति तच्छब्दस्य कृतात्वसत्वत्यानुकरणम् । एष इत्येतच्छब्दस्य । अनुकार्यानुकरणयोर्भेदादर्थवत्त्वम् । स्मटोऽभावो द्वन्द्वे सर्वादीनां सर्वकार्याभावज्ञापकः । स धातुरित्यादिज्ञापकात् तच्छब्दस्यैवानुकरणम् । तत्साहचर्यादेषशब्दोऽप्यतच्छब्दस्यैव विकृतनिर्देशात्प्रथमान्तादन्यत्र न । असशिवः इत्यादौ तु संज्ञापूर्वको विधिरनित्य इत्यनित्यत्वान्न ॥
(सशब्दाद्विसर्गस्य लोपः स्वरे लोप एव पादपूरणं चेत् ) सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष कर्णो महात्यागी सैष भीमो महाबल ॥ इति विसर्गसन्धिः ॥
(सुबोधिनी)-सशब्दाद्विसर्गस्य लोपः स्वरे लोप एव पादपूरणं चेत् ॥ स इति शब्दस्य विसर्गस्य लोप: स्यात् स्वरे परे । चेद्यदि लोपे सत्येव पादः पूर्येत । पादःश्लोकचतुर्थांश इति। पादपूरणमिति किम् । स एवमुक्त्वा । लोप एवेत्यवधारणात अन्यथा पादपूरणे लोपोन। सोऽहमाजन्मशुद्धानाम्' इति ।। स एष रामोऽस्ति । कीदृशः दशरथस्यापत्यं दाशरथिः। अत इञनषेरिती ॥ स एष युधिष्ठिरः। कीदृशः । राजते इति राजा ॥सएष कर्णः । कीदृशः। महांश्चासौ त्यागश्च महात्यागः।महात्यागोऽस्ति यस्य स महात्यागी। 'मान्तोपधादत्विनौ' इतीन् । स एष भीमः। कीदृशः । महद् बलं यस्य स महाबलः । अइको चेत्यप्रत्ययः॥ इति सुबोधिन्यां विसर्गसंधिः ॥
Page #70
--------------------------------------------------------------------------
________________
(५४)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिङ्गाः] ( तत्त्वदी० )-रि लोपो दीर्घश्चेति सूत्रे लोदशोऽनुवर्तनात् रि लोपो दीर्घश्चेति लोपग्रहणमुत्तरार्थमित्याशयेनाह-सशब्दाद्विसर्गस्य लोपः स्वरे लोप एव पादपूरणं चेदिति॥ तथा च 'सैष दाशरथी रामः' इत्यादौ लोपे जाते संधिः सिद्धयति । लोपशि तु न स्यात् । लोप एवेत्यवधारणादन्यथापि पादपूरणे लोपोन। तेन सोहमाजन्मशुद्धानाम्' इत्यादि सिद्धम्॥ श्रीविद्यानगरस्थायी लोकेशकरसंज्ञकः । विसर्गसंधेः कृतवान् व्याख्यां भाष्यानुसारिणीम् ॥
इति तत्त्वदीपिकायां विसर्गसंधिः ॥
अथ स्वरान्तपुंल्लिङ्गाः ॥ (अविभक्ति नाम ) विभक्तिरहितं धातुवर्जितं चार्थवच्छब्दरूपं नामोच्यते ॥
(सुबोधिनी)-अविभक्ति नाम ॥ विभक्तेरन्यदित्यविभक्ति । अन्यच्छब्देन शब्दरूपं विशेष्यंगृह्यते। तत् क्लीबम् । तस्य विशेषणमिदम् । सूत्रेविभक्तिशब्देन तन्त्रादिना विभक्तिः विभक्त्यन्तं चेत्युभयमुच्यते ॥ विभक्तिशब्देन सह नञ्तत्पुरुषः। नञ्तु द्विधा। तथा हि "दौ नौ च समाख्यातौ पर्युदासप्रसज्यको । पर्युदासः सदृगग्राही प्रसज्यस्तु निषेधकृत् ॥ १॥ प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता ॥ पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नज्ञ ॥२॥ अप्राधान्य विधेयंत्र प्रतिषध प्रधानता ॥ प्रसज्यस्तु स विज्ञयः क्रियया सह यत्र नञ् ॥३॥” एवं हि विभक्तिभिन्नं विभक्त्यन्तभिन्नमर्थवच्छब्दरूपं संज्ञि। नाम च संज्ञा । विभक्त्यन्तभिन्नमिति कथनेन धातूनां व्यावृत्तिः कृता तेषां तिवादिविभक्त्यन्तत्वात् । तच्छब्दरूपं नाम प्रातिपदिकमुच्यते । कीदृशं तत् । अविभक्ति। पर्युदासोऽत्र नञ् गृह्यते। विभक्तिसदृशं विभक्तिभिन्नमित्यर्थः । विभक्तिसदृशमिति कथनेनार्थवदेवागतम् ॥ पुनः कीदृशम् । विभक्त्यन्तभिन्नमिति कथनेन धातुवर्जितमित्यागतम् ॥ पुनः कीदृशम् । अर्थवत् । अत्रार्थशब्दोऽभिधेयवचनो न तुधननिवृत्तिप्रयोजनवचनः यथा-अर्थवान् धनवानित्यर्थः। मशकार्थो धूमःमशकनिवृत्तये इत्यर्थः । कोऽर्थः किं प्रयोजनमित्यर्थः । तत्राभिधेयं तु चतुर्विधं जातिगुणक्रियाद्रव्यभेदात्।जातिशब्दा यथा । गौः अश्व इत्यादयः। गुणशब्दा यथा । शुक्लः कृष्णः इत्यादयः।क्रियाशब्दा यथा। पाचकः गन्तेत्यादयः। द्रव्यशब्दा यथा। डित्थं कपित्थमित्यादयः॥ ननु वन्ध्यापुत्राभावशशविषाणगगनकुसुमादीनामर्थाभावादेषांनामसंज्ञा न स्यादिति चेदुच्यते। अभावोऽपि पदार्थान्तरत्वेनाभिधेयत्वादभावशब्दस्य सिद्धा संज्ञा।वन्ध्यादिशब्दार्थः पुत्रादिशब्दार्थश्च प्रसिद्ध एव । तयोःसंसर्गमारोप्य शब्दप्रयोगसंभवात्तेषामप्यस्ति ॥ विभक्तिरहितमिति किम् । हरिषु । करोषि । सुपसिपोर्मा भूत् । पदादित्वात्सस्य षो न स्यात् ॥ विभक्त्यन्तरहितमिति किम् । देवौ। भवन्ति ।
Page #71
--------------------------------------------------------------------------
________________
[स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता। अत्र द्वित्वाद्यनभिधानेऽप्यव्ययादिवच्चैकवचनं स्यात् ॥ धातुवर्जिसमिति किम् । अहनित्यत्र 'नानो नो लोपश् ' इत्यनेन लोपश् स्यात् । अहनित्यत्र अह इत्यनेन सत्वं तु न तस्य लाक्षणिकत्वात् ॥ अर्थवदिति किम् । धनं वनमित्यादौ प्रतिवणे संज्ञा मा भूत् ॥ अत्र वार्तिकम् । कृत्तद्धितसमासाश्चेति । चकारोऽनुक्तसमुच्चयार्थः । तेन निपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्येति ॥
(तत्त्वदी०)-अविभक्ति नामेति ॥ विभक्तेरन्यदिति अविभक्ति । विशेष्यं तु शब्दस्वरूपम् । तन्त्रादिना विभक्त्यन्तमपि लब्धम् ॥ ननु सूत्रे अविभक्तीत्येतावन्मात्रमर्थवद्ग्रहण कुतो लब्धमिति चेत् उच्यते । “द्वौ नौ च समाख्यातौ पर्युदासप्रसज्यको । पर्युदासः सहग्याही प्रसज्यस्तु निषेधकृत् ॥ प्राधान्यं तु विधैर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥ अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यस्तु स विज्ञेयः क्रियया सह यत्र नञ् ॥” इति । तथा च पर्युदासोऽत्र न गृह्यते । ततश्च विभक्तरर्थवत्त्वात् तत्सहशमर्थवदेव संज्ञि उपपततीत्यर्थवल्लाभः ॥ तन्त्रादिलब्धविभक्त्यन्तपर्युदासाद्धातुपर्युदासोऽपि॥ अर्थवदिति किम् । धनं वनमित्यत्र प्रतिवर्ण संज्ञा मा भूत् । तस्यां सत्यां स्याद्युत्पत्तौ नलोपः प्रसज्येत ॥ ननु च एकवर्णानामप्यर्थदर्शनादेतीत्यादाविव देवादिष्वपि वर्णा अर्थवन्तः कथं न । तथा च प्रत्याहाराह्निके अर्थवन्तो वर्णा इति भाष्येऽपि श्रीमत्पतञ्जलिनोक्तम् । उदाहृतं च कूप इति ककारे सति कश्चिदर्थो गम्यते । यूप इति यकारे अर्थान्तरम् । तेन मन्यामहे । यः कूपे कूपार्थः स ककारस्य यो यूरे यूपार्थः स यकारस्येति । तथा ब्राह्मण इत्युक्ते योऽर्थो गम्यते नासौ बकारादीनामन्यतमापायेऽपि गम्यते । येषां च संघातो यत्कार्य करोति ते प्रत्येकमपि तत्कुर्वन्ति । यथा तिलानां खारी तैलमुत्सादयति प्रत्येकं च तिलाः। ये तु यस्मिन् प्रत्येकमसमर्थास्तेषां समुदायोऽपि तत्रासमर्थः यथा प्रत्येकं सिकतास्तैलं नोत्पादयन्ति तेषां खार्यपि । अतः संघातार्थवत्त्वाच्चार्थवन्तो वर्णाः । तत्कथमर्थवद्ग्रहणे सत्यपि तेषां निवृत्तिरिति चेत् । उच्यते । अनर्थका वर्णाः प्रतिवर्णमानुपलब्धेः । नहि ब्राह्मण इत्यत्र ब्रा इत्युक्ते कश्चिदर्थों गम्यते । अतो धात्वादीनामेकवर्णानामर्थवत्त्वादन्येऽपि वर्णा अर्थवन्त इत्यनुपलब्धिबाधितमेतत् । किंच कूपो यूप इत्यन्वयव्यतिरेकाभ्यां ककारयकारयोरर्थवत्त्वादन्येषामपि वर्णानामानर्थक्यमभ्युपगतं न । अथ तेषामप्यर्थवत्त्वम् । भूयिष्ठः कूपे यूपार्थः स्यात् कूपार्थश्च यूपे । यत्र भूयसामर्थानामन्वयो व्यतिरेकस्तु कस्यचित् । तत्रार्थानामपि भूयसामनुवृत्तिय॑तिरेकस्तु कस्यचित् यथा देवदत्तामानय शुक्लां देवदत्त गामानय कृष्णामिति । अतः संघाता एवं तेनार्थेनार्थवन्तः संघातार्थवत्त्वाच्चेति हेतुरनैकान्तिक इति शङ्का । तैलाग्निवत्तिसंघातेन दीपो न प्रत्येकम् । रथावयवैश्वक्रादिभिः संहतैः वजिक्रिया । किं चार्थवतां विपर्यासे अर्थप्रत्ययस्याविपर्यासः । आहर पात्रं पात्रमाहरेति । अपाये चापायः। गामानय शुक्ला शुक्ला गामानयेति । उपजने चोपजनः । गामानय शुक्लामिति ॥ वर्णेषु नैवम् । हिनस्ति इति सिंहः। हन्ति, हतः, नन्ति । भविता । अतः संघाता एवार्थवन्तः ॥ विभक्तिरहितमिति
Page #72
--------------------------------------------------------------------------
________________
(५६)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः] किम् । हरिषु करोषि । सुप्सिपोर्मा भूत् । पदादित्वात्सस्य षो न स्मात् ॥ विभक्त्यन्तरहितमिति किम् । देवाः । भवन्ति । अत्र द्वित्वाद्यनभिधानेऽप्यव्ययादिवच्चैकवचनं स्यात् ॥ धातुवर्जितमिति किम् । अहन् नलोपश् स्यात् ॥ यत्तु प्राचोक्तम् । अथ विभक्तिविभाव्यते । तत् व्याख्यातृभिश्च व्याकृतं संधिप्रकरणकथनानन्तरं ये विधयो वक्ष्यन्ते तेषां विभक्तिसंज्ञा स्यात् । सा च विभाव्यते प्रस्तूयते तत्प्रकरणमारभ्यत इति विभक्तिशब्दावृत्त्या योज्यम् । स्वमते शब्दार्थयोरभेदोपचारादित्यर्थः । अभेदोपचाराच्च द्वितीयो विभक्तिशब्दः संज्ञिवचनः । आदिः संज्ञावचनः महासंज्ञाकरणं तु विभज्यन्ते विविच्यन्ते संख्याकर्मादयोऽर्था अनयेति विभक्तिः इत्यन्वर्थसंज्ञाविज्ञानार्थम् ॥ तेनागमादीनामत्र वक्ष्यमाणानामपि विभक्तिसंज्ञा नेति । तन्न वार्तिकं दृष्ट्वा सूत्रकृतः प्रवृत्त्ययोगात् ॥ अन्ये तु यौगिकार्थेनैव सिद्धमित्याहुः । विभज्यते प्रकटीक्रियते कर्तृकर्माद्यर्थोऽनया सा विभक्तिः ॥ अतिप्रसक्तं योगमानं कृदादौ यद्यपि तथापि स्यादिषु तिबादिषु च योगरूढिः । यच्च कृत्तद्धितसमासाश्चेति वार्तिकम् । चकारो नामसंज्ञानुकर्षणार्थः। अत्र तव्याख्यातारः। ननु किमर्थमिदं नामसंज्ञा तु पूर्वेणैव सिद्धा । न सिद्धयति । तत्र कृत्सु किबाद्यन्तानां धातुत्वानपायात् । अत एव हे सोमपा इति धिलोपो न स्वार्थतद्धितानामपि गुणीभूतार्थवत्वात् । तथाहि । चोर एव चौरः । स्वार्थेऽण् । अत्र हि चोरशब्दस्य साक्षादर्थवत्त्वम् । चौरशब्दस्य चोरशब्दस्मरणद्वारा गौणमुख्यन्यायेन चोरशब्दस्यैव पूर्वेण संज्ञा स्यान्न चौरशब्दस्येति विध्यर्थं कृत्तद्धितग्रहणम् । समासेष्वपि भूतपूर्वविभक्त्या अविभक्तित्वाभावात् । अत एव पञ्चामीति पदान्ताश्रयो नलोप इत्याहुः । अत्रेदं वक्तव्यम् । पञ्च नव दधि मधु इत्यादीनामविभक्तिकत्वेन नामत्वानपायात्कथं पदत्वम् । अत्र यदि विभक्तिसत्त्वसमये एव प्रवृत्ता पदसंज्ञा लुप्तायां विभक्तौ एकदेशविकृतन्यायेन प्रकृतिभागेऽपि साऽस्तीति ब्रूव तार्ह प्रकृतेऽपि समं किवादिसत्त्वसमये प्रवृत्ता नामसंज्ञा लुप्तेऽपि तस्मिन्प्रकृतिभागेऽपि साऽस्तीति तुल्यम् । यदि च लुप्ते प्रत्यये प्रत्ययलक्षणेन पदसंज्ञा स्वीकरोषि तदपि समं समाधानम् । यदपि स्वार्थतद्धितानामपीत्यादि तदपि न गौणत्वासंभवात् । स्वार्थोपसर्जनार्थान्तराभिधायित्वं गौणत्वम् । तच्चात्र न संभवति । नहि चौरचोरशब्दयोरर्थों भिन्नो येनैकोऽपरत्र गौणो भवेत् । यदपि अत्र चोरशब्दस्य साक्षादित्यादि तदपि न । नहि पर्यायाणां परस्परस्मरणद्वारा स्वार्थबोधकत्वं कचित्स्वीक्रियते । व्याकरणानभिज्ञस्यापि शक्तिग्रहे सति ततो बोधो जायते । अन्यथा ज्ञान ध्यानमित्यादौ युटः स्वार्थिकत्वेन गौणवादिकं स्यात् । यदपि समासेष्वपि भूतपूर्वविभक्त्येत्यादि तदपि न अवयवानां विभक्त्यन्तत्वेऽपि समुदायस्यातथात्वात् । यस्माद्विभक्तिर्विधीयते तद्विभक्त्यन्तम् । सा चावयवेभ्यो विधीयते न समुदायात् । अन्यथा समासवत् वाक्यस्यापि विभक्त्यन्तत्वेन पूर्वेण प्राप्तिविरहादेव तत्र नियमानुपयोगात् । यदि नन्वेवमपि अव्ययीभावादिति विभक्तिलुग्विधानाज्ज्ञापकात्समासे नामसंज्ञा भविष्यति । एवमपि नियमार्थ समासग्रहणम् । अर्थवत्समुदायानां मध्ये समासस्यैव यथास्यात् । तेन वाक्यस्यार्थवतो न भवतीति । तदपि न । उक्तरीत्या
Page #73
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंल्लिंगाः ] टीकाद्वयोपेता।
(५७) समासस्याविभक्त्यन्तत्वेन ज्ञारकोपन्यासवैयर्थ्यात् । अन्यथा समासवद्वाक्यस्यापि विभक्त्यन्तस्वेन समासेष्वपि भूतपूर्वविभक्त्या अविभक्तित्वाभावादित्यनेन विध्यर्थतायास्त्वयैवोक्तत्वात् पूर्वापरविरोधः नियमफलाभावेन समासग्रहणवैयर्थ्यात् । नियमस्तत्र क्रियते यत्र सर्वत्र प्राप्तिर्भवति । अत्र तु तव मते वाक्ये प्राप्तिास्ति वाक्यस्य चेत्प्राप्तिर्भवति तर्हि वार्तिके समासपदं व्यर्थम् । तस्मात्पूर्वेणैव सिद्धे वार्तिकमिदं न कार्यम् ॥
(तस्मात् ) (सुबोधिनी)-तस्मात् ॥ अधिकारोऽयम् । 'धातोः' इत्यतः प्राक् स्यादयोऽणादयश्च प्रत्यया नाम्नः पराः स्युः ॥ तस्मादिति पञ्चमी । इयं न विश्लेषावधौ विश्लेषस्यासम्भवात् । किंतु ऋतेआदिषु दिक्शब्दपाठादिग्योगलक्षणा पञ्चमी । तत्र परः पूर्वो वा इत्यनियमेनाध्याहारे प्रसक्ते बहुर्वा उक्तेऽथै स च प्रयोगे वेत्यनेन बहोः पूर्वत्वस्य नियतत्वादन्यः प्रत्ययः परः एवेति परशब्दोऽध्याहार्यः॥
(तत्त्वदी०)-तस्मादिति ॥ अधिकारोऽयं प्राग्धातोः। तथा च स्यादयोऽणादयश्च नाम्न एव परे बोध्या इति।ननु घातोरित्यग्रिमाधिकारात् ततः प्राक्तनानां प्रत्ययानां नाम्नः परत्वमवधेयमेवेति किं तस्मादित्यनेनेति चेन्न किंपरिमाणमिति वक्तव्ये किंदनमित्यपि स्यात् इति निराकरणाय तस्मादित्यस्यावश्यकत्वात् । अथ न केवलः प्रत्ययः प्रयोक्तव्य इति नियमेन तद्वारणसंभवादिति चेत् एतस्यापि तन्मूलकत्वादित्यवधेहि । तस्मादिति पञ्चमी न विश्लेषावधौ विश्लेषस्यात्रासंभवात् । किंतु ऋतादिमध्ये दिक्शब्दस्य पाठात्तद्योगे । तत्र च पूर्वः परो वेति नियमाभावेऽपि परशब्द एवाध्याहार्यः समानाद्धोप इति निर्देशात् । तच्छब्दस्य पूर्वपरामर्शित्वान्नाम्नः परामर्शः॥
(सि औ जस्,अम् औ शसू,टा भ्याम् भिस्, ङे भ्याम् भ्यस, ङसि भ्याम् भ्यस्, ङस् ओस् आम्,ङि ओम् सुप्) नाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति ॥
(सुबोधिनी)-सि औ जस् १ अम् औ शम २ टा भ्यां भिस् ३ डे भ्यां भ्यस् ४ ङसि भ्यां भ्यस५ ङस् ओस् आम् ६ङिओस् सुप्७॥सिप्रत्ययस्येकारोऽत्वसोः सावित्यादौ विशेषणार्थः। जस्शसोर्जकारशकारौ जसीशसीत्यनयोर्विषयविभागाौँ । टाप्रत्ययस्य टकारःटेन टा ना टोसोटाङयोरित्यादौभेदकः॥डेङसिङस्डीनां डकारस्तु डिन्तीत्यादौ विशेषणार्थः । ङसरिकारो ङसिरादिति विशेषणार्थः । सुप्प्रत्ययस्य पकारः प्रत्याहारार्थस्तेन सिपप्रत्याहारो यथा स्यात् ॥ स्यादित्यादिभेदतो विभक्तिईिधा । तत्र सिऔजसित्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः । तेषु त्रिकेषु त्रीणि त्रीणि वचनानि एकश एकवचनद्विवचनबहुवचनसंज्ञकानि सन्ति ॥
( तत्त्वदी० )-सिऔजस् इत्यादि ॥ सेरिकारोऽत्वसोः सावित्यादौ सीत्युक्ते सकारा
Page #74
--------------------------------------------------------------------------
________________
(५८)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः] दिलाभसंभवात् । न चेष्टापत्तिः वेधःसु इत्यादावति दीर्घत्वप्रसङ्गात् । न च श्रवणार्थः गुण इत्यादिलिङ्गात् । एतेन सेरिकार उच्चारणार्थ इत्युक्तिः प्रत्युक्ता सू इत्यनेनाप्युच्चारणसंभवात् ।।
(एकत्वद्वित्वबहुत्वेषु ) एकवचनद्विवचनबहुवचनानि ॥ स्रोविसर्गः । देवः॥
(सुबोधिनी)-एकत्वद्वित्वबहुत्वेषु ॥ एकत्वद्वित्वबहुत्वशब्दा इह संख्यापराः सन्तिातेन बहुः पर्वतः इति वैपुल्यवाचिनो ग्रहणं न।आश्रयद्रव्यगतेषु एकत्वद्वित्वबहुत्वेषु सत्सु एकवचन द्विवचनबहुवचनसंज्ञकाः प्रत्ययाः भवंति । उच्यतेऽनेनेति वचनम् । एकस्य वचनमेकवचनम् द्वयोर्वचनमिति द्विवचनम्। बहूनां वचनमिति बहुवचनम्॥
(तत्त्वदी०)-एकवचनादिसंज्ञानामन्वर्थतामाश्रित्याह-एकत्वेत्यादि । तथा च एकं वक्ति एकवचनम् ।द्वौ वक्ति द्विवचनम्।बहून्वक्ति बहुवचनम् ॥ यद्वा उच्यत इति वचनम् । एकस्य वचनमिति ॥ जसो जकारस्य फलमाह । जसो जकार इति ॥ तथा च शसः शकारोऽपि शसीति विशेषणार्थः । वस्तुतस्तु एकतरो न पठितुं योग्यः एकेनैव द्वितीयवारणात् ॥
(सरूपाणामेकशेष एकविभक्तौ ) देवौ । देवाः ॥ ( सुबोधिनी)-सरूपाणामेकशेष एकविभक्तौ ॥ एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते ॥रूप्यते बोध्यत इति रूपमर्थः। समानं रूपं येषां ते सरूपाः । सहादित्वात्समानस्य सादेशः। तया समानं रूपं स्वरूपं येषां ते सरूपाः सरूपाश्च सरूपाश्चेति सरूपास्तेषामित्येकशेषेण व्याख्यानम् ॥ एकविभक्ताविति विभक्तिसारूप्ये उपलक्षणं न त्वेकशेष निमित्तम्। एवं च नैमित्तिकत्वेनान्तरंगोऽयमेकशेषः स्याद्युत्पतेः प्रागेव प्रवर्तते । यद्येतन्नारभ्यते तार्ह प्रत्येकं विभक्तिः स्यात् द्वन्दश्च प्रवर्तत । आरब्धे त्वेकशेषो भवति न तु द्वन्दः अनेकपदाभावात् ॥ ननु स्यायुत्पत्तेः प्रागेकशेषप्रवृत्तौ शिष्यमाणं यत्प्रातिपदिकं तदेकमेवार्थ बोधयतीति द्विवचनाद्युत्पत्तौ देवी देवा इत्यादि न सिध्येत् । उच्यते । शिष्यमाणो लुप्यमानार्थ कथयति । एकशेषस्य वृत्तिषु पाठात् । परार्थाभिधानं वृत्तिरिति ॥ अत एव लुप्तेऽपि प्रत्यये लिट् धुक् इत्यादौ कर्ता प्रतीयते॥ एकस्यां विभक्तौ परतः सरूपाण्येवेति किम् । मातृशब्दयोजननीपरिच्छेत्तृवाचिनो कशेषो भवति ।मातृभ्यां मातृभिरित्यादौ सारूप्येऽपि औजसादिषु वैरूप्यात् ॥ नन्वेवं पयः पयो नयति देवदेव इत्यादावतिप्रसङ्गः स्यात् । सह विवक्षायामेकशेषः प्रवर्तते इतरेतरयोगे इन्दस्य विषये इत्यर्थो नान्यत्र।
( अम्शसोरस्य ) समानादुत्तरयोरमशसोरकारस्य लोपो भवति ॥ देवम् । देवौ । शसः शकारः शसीति विशेषणार्थः ॥
(सुबोधिनी)-अम्शसोरस्य ॥ समानार्लोिपोऽधातोरित्यतः समानादिति लोप इति अधातोरिति चानुवर्तते अधातोः समानात्परयोरमशसोरकारस्य लोप: स्यात्॥
Page #75
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंलिंगाः ] टीकाद्वयोपेता।
(५९) अधातोरिति किम् । श्रियं भवमित्यादावियुवौ । सेनान्यं खलप्वमित्यादौ य्वौ । सोमपामित्यादौ सवर्णदीर्घः ॥ समानादिति किम् । रायम् । ग्लावम् ॥
(तत्त्वदी० )-अम्शसोरस्येति ॥ अत्र समाना लोपोऽधातोरिति सूत्रात्समानलोपावनुर्तेते इत्याशयेनाह-समानादिति ॥ समानादिति किम् । रायम् । अत्र स्याद्यधिकारस्यैवामोग्रहणादधातोरिति नानुवर्त्यम् । अतोऽचिनवमित्यादौ नातिव्याप्तिः ॥ अस्येति किम् । षष्ठीनिर्दिष्टत्वेनान्त्यत्य मा भूत् ॥ न च 'सो नः पुंसः' इत्यत्र सकारस्य नवविधेलिङ्गान्नान्त्यस्य विधिरन्यथा शसः सकारस्यान्त्यत्वेन लोपे तदभावान्नत्वसंभवः स्यादिति वाच्यम् तत्र 'सो नः पुंसः' इत्युक्त्या ज्ञापनासंभवात् । नहि तत्र शसोन इत्युक्तं येन ज्ञापकं स्यात् । न च सो न इत्यत्रापि शसः सकारस्यैव ग्रहणमिति वाच्यम् । नहि शस्येव सकारो नान्यत्रेति नियमोऽस्ति येन ज्ञापकमिदं स्यात् ॥ यत्तु लघुभाष्यम् । अत्र 'आदबे लोपश्' इत्यत आदित्यस्यानुवृत्तेरस्येति व्यर्थमिति कश्चित् इति । अत्रेदमवधेयम् ।आदित्यस्य पञ्चम्यन्तत्वेन षष्ठयर्थालाभात् । अथार्थवशाद्विभक्तिविपरिणामेन षष्ठयर्थलाभः। विभक्तिविपरिणामे त्वर्थलाभस्यातिक्लिष्टत्वेऽन्त्यस्येत्यस्यैवावश्यकत्वात् ॥
(सो नः पुंसः) पुल्लिङ्गात्समानादुत्तरस्य शसः सकारस्य नकारादेशो भवति न त्वाम्शसीत्यात्वे ॥
(सुबोधिनी)-सो नः पुंसः ॥ पुंल्लिङ्गात्समानान्नाम्नः परस्य शसः सस्य नः स्यात् ॥ शस इत्यनुवृत्तम् लिङ्गं नामार्थ इति मते पुंस इति पञ्चमी । पुल्लिङ्गात्समानान्तानाम्न इति । यदा तु लिङ्गं प्रत्ययार्थस्तदा पुस इति षष्ठी । समानान्तान्नाम्न: परस्य पुंसो वाचकस्य शसः सस्य नः स्यादिति ॥ उक्तं च "एक दिकं त्रिकं चाथ चतुष्कं पञ्चकं तथा । नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥"इति ॥ स्वार्थद्रव्यलिंगसंख्याकारकात्मकः पञ्चको नामार्थः। उक्तपञ्चसु पूर्वस्य पूर्वस्य नामार्थत्वे परः परो विभक्त्यर्थों ज्ञेयः। शब्दप्रवृत्तिनिमित्तः स्वार्थोऽस्ति । स्वार्थश्चानेकविधः स्वरूपजातिगुणक्रियाद्रव्यसंबन्धभेदात् ॥ स्वरूपं यथा । डित्थः यदा शब्दरूपेण विशिष्टा जातिः कथ्यते गौरिति तदा गोशब्दस्य स्वरूपं स्वार्थोऽस्ति विशेषणत्वात् जातिस्तु द्रव्यं भवात विशेष्यत्वात्।यदा जात्या विशिष्टो गुणः कथ्यते पटस्य शुक्लो गुण इति तदा जातिःस्वार्थों भवति विशेषणत्वात्।शुक्लागुणोद्रव्यं भवति विशेष्यत्वात् यदा गुणेन विशिष्टं द्रव्यं कथ्यते शुक्ल पटइति यदा विशेषणभूतोगुणःस्वार्थों भवति । विशेष्यभूतं पटादिकं द्रव्यं भवति । यदा तु द्रव्यमाप द्रव्यान्तरस्य विशेषणं भवति यष्टीः प्रवेशयेत्यादौ तदा यष्टयादिकं द्रव्यं विशेषणत्वमापन्नं स्वार्थो भवति। पुरुषादिविशेषणं द्रव्यं भवति। दण्डीत्यादौ दंडपुरुषसंबन्धः स्वार्थों भवति । दंडीति द्रव्यं विशेषणं भवति । पाचक इत्यादौ क्रिया स्वार्थों भवति । पुरुषो द्रव्यं भवति । किञ्च"शब्दस्य यत्र विश्रान्तिर्वाच्यं द्रव्यं तदिष्यते ।" पर्यवसानभूमिरित्यर्थः।।तच्चानेक
Page #76
--------------------------------------------------------------------------
________________
(६०)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः] प्रकारम् । जातिगुणक्रियाद्रव्यस्वरूपमिति । गौः शुक्लः पाचकः डित्थः । लिंगं स्त्रीत्वादिः संख्या एकत्वादिः। कर्मादयः कारकविशेषाः । तत्र स्वाथों विशेषणम् । द्रव्यं तु विशेष्यमिति निर्गलितार्थः॥'आम्शसि' इति सूत्रेणीकारस्य स्थाने आत्वे कृते सति 'सो नः' इत्येतत्सूत्रं न प्रवर्तते इत्यर्थः ॥ कुतो न । उच्यते । पदावभागात् । यथा स् १ ओ २ - ३ अः ४ सः ५ इति पञ्च पदानि छित्त्वा पुँल्लिङ्गासमानाच्छसःसस्यन् स्यात् ओकारसंबन्धिनोऽवर्णात्तु विसर्गः स्यादिति व्याख्येयम्। अतो गाः पश्येत्यादौ नत्वं न ॥ पुंल्लिङ्गादिति किम् । बुद्धिः ॥ समानादिति किम्। रायः । ग्लावः । लोपविषये एवास्य प्रवृत्तिः । समानादमशसोरल्लोपस्यानिषेधात् ॥ अत एव बहुश इत्यत्र नत्वं न । स्यायधिकाराद्वा ॥
(तत्त्वदी०)-सोनः पुंस इति॥पञ्चमीत्याशयेनाह-पुंल्लिङ्गादिति ॥तथा च समानान्तानाम्न इति बोद्धव्यम् । यद्वा पुंल्लिङ्गात्समानादित्येकं पदम्। पुल्लिङ्गमततीति पुंल्लिङ्गात् स चासौ समानश्चेति स तथा तस्मादित्यर्थः ॥ तत्राम्शसोरित्यतः शस इत्यनुवृत्तं यद्यपि समासान्तर्गतं तथापि नामोऽनुवृत्तिस्तत्र तस्यासंभवादित्याह-शस इति ॥ ननु गा इत्यत्र नत्वं कुतो न अम्शसीत्यात्वेन समानात्परत्वादिति चेत्।अत्र केचित्सो न इत्यावर्त्य शसो नकारस्य सकार इति व्याख्येयम्। इष्टसिद्धयर्थमिदम् । तेन गा इत्यादि सिद्धम् ॥ यद्वा आवृत्या लब्धं यत्सो न इति सूत्रं तत्र शसो नस्येत्यनुवर्तते । स् इत्यविभक्तिको निर्देशः ओरिति षष्ठी ततश्च ओकारसंबन्धी योऽवर्णः तस्मात्परो यः शसः सकारस्तस्य नकार आदेशो भवतीत्यर्थो लभ्यतेऽतो नातिप्रसङ्गः। यद्वा स ओ न अः पुंस इति पञ्च पदानि छित्वा पुंल्लिङ्गात्समानात् शसः सस्य नकारः। ओकारसंबन्धिनोऽवर्णात्तु विसर्ग इति व्याख्येयम् ॥ अत्रेदं वक्तव्यम् ।गा इत्यत्र नत्ववारणे सन्निपातपरिभाषयैव सिद्धे तदर्थमेतावदावृत्त्याद्यनुसरणक्लेशन किम् । न च तानित्यादावपि सन्निपातपरिभाषया निषेध इति वाच्यम् । कानित्यादिलिंगेन त्यदादिषु शसो नत्वविधौ परिभाषानाश्रयणात्॥ यद्वा त्यदादेष्टेरः स्यादावित्यत्रादिपदगृहीतस्य शसो निमित्तत्वे लाक्षणिकत्वेनाम्शसीत्यत्र शसः साक्षाच्छ्रवणेन निमित्तत्वे प्रतिपदोक्तत्वात् लक्षणपतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात् ॥ किञ्च परिभाषाश्रयणस्येष्टसिद्ध्यर्थत्वात् तानित्यादावनाश्रयणात्॥ यच्च पुंस्त्वादिविचारे " स्तनकेशवती स्त्री स्याल्लोमशः पुरुषो भेवत् । उभयोरन्तरं यच्च तदभावे नपुंसकम्" इतिलक्षणे खट्वावृक्षादावव्याप्तिवारणाय चेतनेषु स्तनादिमध्यक्तयादिस्त्रीत्वाभिव्यञ्जकम् । अचेतनेषु तु सर्वत्रोपदेश एवाभिव्यञ्जकः । उपदेशस्तु लिङ्गानुशासनादिष्वित्युक्तम् । तत्रापि चेतनाचेतनविषयविभागो व्यर्थः । अतिप्रसक्तस्य दारशब्दस्य स्त्रीवाचकस्य स्तनकेशवत्त्वत्य व्यञ्जकस्य सत्त्वेऽपि स्त्रीत्वादर्शनात्सर्वचेतनाचेतने उपदेश एव स्त्रीत्वादिव्यञ्जक इत्यलमतिविस्तेरण॥
(शसि ) शसि परे पूर्वस्य दीर्घो भवति ॥ यदादेशस्तवद्भवति । न तु वर्णमात्रविधौ । देवान् ।
Page #77
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंलिङ्गाः ] टीकाद्वयोपेता। (६१)
(सुबोधिनी )-शसि ॥ दीर्घश्रुत्योपस्थितस्य स्वरस्येति पदस्य नाम्नो विशेषणत्वात्तदन्तविधिः। पूर्वस्य स्वरान्तस्य नाम्नो दीर्घः स्यात् शसि परे॥'सो नः पुंसः' इति नत्वे दीर्घत्वम् । पूर्व नत्वं ततो दीर्घत्वम् पश्चादल्लोपः॥वैपत्यिं वाज्ञेयम्॥ शसि किम् । हरिभिः॥ स्वरस्य किम् । लिहः॥ ननु इह शम्परत्वाभावात्कथं दीर्घः। उच्यते।यस्य स्थाने आदेशःयदादेशःस तेन स्थानिनातुल्यं तद्वत् स्थानिवद्भवतीत्यर्थः। स्थानिवर्णाश्रयविधौ कर्तव्ये न भवति । अस्य व्याख्यानं परिभाषाप्रकरणे उक्तम्॥
(तत्त्वदी० )-शसीति ॥ दीर्घश्रुत्योपस्थितेन स्वरेण नानो विशेषणात्तदन्तविधिः । पूर्व दीर्घः । पश्चादल्लोपः । वैपरीत्यं वा । उभयथा वैलक्षण्यं नास्ति । एवं 'सो नः पुंसः" इति नत्वेऽपि ज्ञेयम् ॥
(टेन )अकारात्परष्टा इनो भवति॥टकारष्टेनेति विशेषणार्थः । देवेन॥ (सुबोधिनी)-टेन॥पदद्वयमपि प्रथमान्तं संकेतितम् । अतःपरष्टा इनः स्यात्॥ अतः किम् । क; । भवता ॥ तपरः किम् । हाहा ॥ टा किम् । देवैः ॥
(तत्त्वदी०)-टेनेति ॥ टा इन इति च्छेदः। पदद्वयमपि लुप्तप्रथमान्तम् । अत्रात इत्यनुवर्तते ॥ टा इति किम् । देवैः ।। अतः किम् । पित्रा ॥ तपरः किम् । हाहा ॥ ननु टानेत्येव सूत्र्यताम् किम् एकारेण, एग्रहणं चानुवर्त्य एनेति रूपसिद्धेरिति चेन्न । लाघवे विशेषाभावादित्युक्तं कैश्चित् । तत्र ए इत्यनुवृत्त्या गौरवस्य जागरूकत्वेन विशेषाभावादित्युक्तेरपार्थत्वात्।। न च एनेत्येव सभ्यताम् । आ इन इति च्छेदः स्याद्यधिकाराच्च नातिव्याप्तिः। आमि तु नटा बाधान्नातिप्रसङ्ग इति वाच्यम् स्पष्टार्थत्वाट्टकारस्य ॥ .
( अद्भि) अकारस्यात्वं भवति भकारादौ स्यादौ ॥ देवाभ्याम् ॥
(सुबोधिनी)-अद्धि ॥ अकार आकारो भवति भादौ स्यादौ च ॥ अदिति किम् । हरिभ्याम् । तपरत्वमुत्तरार्थम् ॥ भीति किम् । देवस्य ॥ स्यादौ किम् । देवभवनम् । बहुत्वे तु परत्वादेत्वं भवति । देवेभ्य इति ॥
(तत्त्वदी० ) अद्भीति ॥ अत्रादिति प्रथमान्तम् । भीति सप्तम्यन्तम् । तच्च भकारादाविति व्याख्येयम् । अदिति न स्वरूपग्राहकम् आद्यन्ताभ्यामिति लिङ्गात् । तेन महद्भयामित्यत्रात्वं न ॥ अदिति किम् । हरिभ्याम् ॥ भीति किम् । देवस्य ॥ ननु रैस्मीत्यतो भीति सिद्धे किं भग्रहणेनेति चेन्न । एकयोगनिर्दिष्टत्वेन सकारस्यानुवृत्तिः स्यादिति तन्निरासार्थ भीत्यस्यावश्यकत्वात् ॥ भ्यामो मस्य च नेत्वं इदुद्भयामिति लिङ्गात् ॥ स्यादौ किम् । देवभवनम् ।।
(भ्यः) अकारात्परस्य भिसो भकारस्य अकारादेशो भवति ॥ देवैः । उकारो ङित्कार्यार्थः॥
(सुबोधिनी )-ब्भ्यः ॥ 'एस्भि बहुत्वे' इत्यस्यापवादोऽयम् । भ् भि अः इति पदच्छेदः। भि इत्येकदेशद्वारेण भिस एवानुकरणम् । अत इत्यनुवृत्तम् । अतो भिसो
Page #78
--------------------------------------------------------------------------
________________
(६२) सिद्धान्तचन्द्रिका। [ स्वरान्तपुंल्लिङ्गाः ] भकारस्याकारः स्यात् ॥ स्यादावित्यधिकारात् स्यादिसंबन्धी भिस् गृह्यते । तेन ब्राह्मणभिस्सत्यादौ नातिप्रसंगः ॥ __ (तत्त्वदी० )-उभ्य इति ॥ भ् भि अः इति छेदः अत इति पूर्वसूत्रादनुवर्तते । भीति भिस एकदेशानुकरणम् । नामैकदेशग्रहणे नामग्रहणम् । यथा भीमो भीमसेन इति चतुर्थीपञ्चम्योर्बहुवचनस्य ग्रहणम्। अद्भि'इत्यस्मादकारात्परत्वात् 'हसेईहसः इति द्वित्वम्'झबे जबा' इति मस्य बः । तथाचातः परस्य भ्यस एवाकारादेश इत्यर्थी लभ्यते ॥ यद्वा भ्भ्यः इति छेदः।। अकारात्परस्य भ्यसो भकारस्याकार इत्यर्थोऽस्तु । आकारो वास्वित्यतोऽनुवर्तते । एवं भ्यसो ग्रहणे व्याख्यायमाने 'भिस् भिस्' इति सूत्रं व्यर्थं स्यात् । ननु तर्हि भि अ इति छित्त्वा भकारे परे पूर्वस्य अत एव भवति । तस्यादेशान्तरं न भवतीति व्याख्यानमस्तु । यद्वा भि इत्येकदेशद्वारेण भिस् एवानुकरणम् । ततश्च मिसि परे अत एवेत्यर्थोऽस्तु । मैवम् । आद्यपक्षे भीति व्यथै स्यात् पूर्वसूत्रादनुवृत्तेःसत्त्वात् । द्वितीये तु भागैरिति निर्देशो नोपपद्यते । इत्याद्युक्तम् । तत्रेदमवधेयम् । भकारस्य द्वित्वे द्वितीयसूत्रस्यैकारस्य निमित्तत्वे बहुस्थलेऽतिप्रसङ्गः स्यात् । किंच भागैरिति लिङ्गस्यैव विद्यमानत्वेनैव भिस् भिस् इति निर्देशपर्यन्तानुधावनस्य क्लिष्टत्वात् । अवर्णविधानसामर्थ्यात्सवर्णदीर्घ बाधित्वाप्येत्वमेव । अन्यथा 'समानाद्धेर्लोपः' इत्यतो लोपमनुवर्त्य लोपमेव व्यधास्यत् ॥ ननु ब्भि इति सूत्रमस्तु आकारो वास्वित्यतोऽनुवर्तते । तथा च भिसो भकारस्यात्वेऽपि रूपसिद्धः ॥ यद्वा भ इत्येवास्तु भि इति पूर्वसूत्रापदनुवर्तनीयम् । तच्च रूपपरम् । इत्थं च भि इति समुदाये यो भः स आकारो भवतीत्यर्थः । अत्रार्थे भागैरिति लिङ्गदर्शनम् । उच्यते।इमौ यकाराकारौ योगविभागेनस्यादिप्रकरणं भित्त्वान्यस्माद्विधीयेते । अतः प्रौढः स्वैरी वापयतीत्यादि सिद्धम् । पादेयुक् गवादेरिति च न वक्तव्यं भवति॥
(डे अकू) अकारात्परस्य 3 इत्येतस्यागागमो भवति ॥ देवाय देवाभ्याम् ॥
(सुबोधिनी )-डे अक् ॥ ङे इत्यविभक्तिको निर्देशः । अतो डे इत्यस्याक् स्यात् ॥ कित्त्वादन्ते ॥ अत इत्यनुवृत्तर्नेह । वातप्रम्ये॥ तपरत्वान्नेह । हाहै। अथ अकि कृते' एदोतोऽतः' इत्यकारस्य लोपशू तु न । विधानसामर्थ्यादपदान्तत्वादान हि अकि कृते एतः पदान्तत्वं संभवतीति ॥
(तत्त्वदी०)-अगिति ॥ अत्र ढे श्त्यविभक्तिको निर्देशोऽसंदेहार्थः । डेरित्युक्तौ चतुर्थीसप्तम्येकवचनयोः संदेहः स्यात् । वस्तुतस्तु डेरित्युक्तिरपि न्याय्या । आम्डेरित्यादौ चतुः यंकवचनसंदेहनिराकरणाय व्याख्यानतो विशेषप्रतिपतिनहि संदेहादलक्षणमित्यस्याश्रयणीयत्वात् । डकारो व्यर्थः स्याद्यधिकारेणैवातिप्रसंगवारणादित्याहुः । वस्तुतस्तु स्पष्टार्थमुपात. त्वान्न व्यर्थता । अत इत्यनुवृत्तेर्वातप्रम्ये इत्यादौ न ॥ हे इति किम् । देवौ देवे ॥ एदोतोतः' इत्यनेन लोपस्तु न । एतोऽपदान्तत्वात् । अग्विधानसामर्थ्यादित्युक्तिस्तु निर्मूला प्रासलोपे विधानसामर्थ्यावलम्बनस्योचितत्वादिह तु पदान्तत्वाभावे प्राप्तेरेवासंभवात ।।
Page #79
--------------------------------------------------------------------------
________________
[ स्वरान्तपुँल्लिंगाः ]
टीकाद्वयोपेता ।
( ६३ )
( एस्भ बहुत्वे ) अकारस्यैत्वं भवति सकारभकारादौ विभक्तौ
बहुत्वे सति ॥ देवेभ्यः ॥
( सुबोधिनी ) - ए स्भि बहुत्वे ॥ अकार एकारो भवति बहुत्वे वर्तमानेषु सकारकरादिषु स्यादिषु परेषु ॥ अकार इति किम् | हाहाभ्यः ॥ बहुत्वे किम् | देवस्य ॥ स्यादिष्विति किम् । पचध्वम् ॥
( दी ० ) - एभि बहुत्वे इति ॥ भीति सप्तम्यन्तम् । स् च भ् च स्भ् तस्मिन् स्भि ॥ अतः किम् । हरिभ्यः ॥ तपरः किम् | हाहाभ्यः ॥ स्मीति किम् । देवानाम् ॥ ननु स्भीति किम् । न च देवानामित्यत्रातिप्रसङ्गः तत्र परत्वान्नामीति दीर्घेण बाधात् । देवानित्यादौ तु शसीत्यनेन । अथ देवा इत्यत्रातिप्रसङ्गः स्यादिति चेन्न । तद्वारणाय रैस्मीति सूत्रात् भीत्यस्यानुवृत्तेः सत्त्वात् अथानन्तरत्वादद्भीत्यतो भीत्यस्यैवानुवृत्तिः स्यादिति चेन्न इच्छा ज्ञापकात् ।। अथवा देवा इत्यत्रापि सवर्णदीर्घः पूर्वोऽपि 'झबे जबा:' इत्यादिनिर्देशेन कचित्पूर्वेणापि परबाधस्येष्टसिद्ध्यर्थमभ्युपगमात् । तस्माद्वयर्थं स्भीति । अत्राहुः । देवपूज्या इत्यादी पूर्वपदस्थस्यैव वारणाय स्भीत्यावश्यकमिति तन्नेति वृद्धाः । विहितविशेषणाश्रयणात् ।
tad बहुवर्तमाने पर एत्वमित्यभ्युपगमात् । अन्ये तु बहुत्वविशेषणार्थं पुनः स्भीत्युक्तम् । तेन बहुत्वे वाच्ये सति विहितो यःसकारो भकारश्च तस्मिन् परतो नाम्नोऽत एत्वम् । तेन सोमं सुनोतीति सोमसुत् तमाचक्षते सोमसयन्ति ते सोमस इत्यत्र नेत्याहुः । तन्नति नव्याः । स्याद्यनुवृत्त्यैतद्वारणसंभवात् । अत्रोच्यते रैस्मीत्यत्र नकारोऽपि द्रष्टव्यो नादावपि स्यादावात्वमित्यर्थः । तथा च त्रिराणामिति सिद्धयति । अत्रार्थे इदं स्भिग्रहणमेव लिङ्गम् । यदि तस्याप्यत्रानुवृत्तिः स्यात्तदा देवानामित्यत्राप्येत्वं स्यात् । नामीति तु हरीणामित्याद्यर्थं स्यात् । ततस्तन्निवृत्त्यर्थं पुनः स्भिग्रहणस्यावश्यकत्वात् ॥
(ङसिरत ) अकारात्परो ङसिरद्भवति ॥ देवात्, देवाभ्याम् देवेभ्यः ॥
( सुबोधिनी ) - ङसिरदिति ॥ आदन्तान्नाम्नः परो ङसिरत् स्यात् ॥ अतः किम् । वातप्रम्यः । ग्लावः ॥ तपरः किम् । हाहाः ॥ ननु ङसेरदादेशे कृते 'यस्य लोपः' इत्यतो लोपः स्यात् । उच्यंत स्यादौ ' यस्य लोपः' इत्यस्याभावा ज्ञापितोऽकारविधानेन अन्यथा ङसिस्त इत्यवक्ष्यत् ॥ यद्वा तद्धितप्रकरणादीपीति सूत्रारम्भाव नात्र यस्य लोपः । देवादित्यत्र 'वाऽवसाने' इति जबत्वचपत्वे 'हसे हसः' इति दतयोर्द्वित्वे रूपचतुष्टयं बोध्यम् ॥
( तत्त्वदी ० ) - ङसिरत् ॥ अत्राप्यत इत्यनुवर्तते । अतो वातप्रम्य इत्यादौ न । तपरत्वात् हाहा इत्यत्र न । अत्रापि ङकारो व्यर्थ इत्युक्तिः पूर्वोक्तयुक्त्यैव निरसनीया । न चाति कृते ‘यस्य लोपः' इत्यनेनाकारस्य लोपोऽस्त्विति वाच्यम् । अकारोच्चारणसामर्थ्यात्स्यादौ न 'यस्य लोपः” इति प्रवर्तते । अत्राहुः । कार्ये 'सिस्योः ' ' शेषाः ' - इत्यादिनिर्देशात् तद्धितप्रकरणाद्वा यस्य लोपो न ।
Page #80
--------------------------------------------------------------------------
________________
(६४)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः ] एवं स्थिते लाघवे विशेषाभावात् ङसिस्त इति न सूत्रितम् । तत्रोच्यते । सेस्त इत्येव सुवचम् । न च देव इत्यत्राव्याप्तिस्त्वन्यादेरिति लिङ्गेनातिव्याप्तिवारणात्। न चामथै तदिति वाच्यम् । छ इत्यादि लिङ्गात्। अथ देवस्येत्यत्रातिप्रसङ्गःतत्र ङस् स्येति विशेषसूत्रेण बाधात् इकारसहितानुकरणसंभवात्।
(ङस् स्य) अकारात्परो ङस् स्यो भवति ॥ देवस्य ॥ (सुबोधिनी)-डसू स्य ॥ अतो डस् स्यः स्यात् ॥ अत इति किम् । वातप्रम्यः ॥ तपरः किम् । हाहाः ॥
(तत्त्वदी०)-डस् स्येति पदद्वयमपि प्रथमान्तम् ॥ अतः किम् । वातप्रम्यः॥ तपरः किम् । हाहाः॥अत्राहुः। स्वरादित्यादि लिङ्गात्तदन्तलाभः । आदिति लिङ्गाच्च तस्यापीति ज्ञापकद्वयबलमाश्रित्य देवस्य अस्येत्यादिसिद्धिरिति । वस्तुतस्तु तदन्तलाभाय तल्लाभाय च ज्ञापकद्वयानुसरणक्लेशोऽपार्थ एव देवस्येत्यादौ ङसोऽतः परत्वसम्भवात् । न च विहितविशेषणादतोऽविहितत्वाभावेन देवस्येत्यादिसिद्धिर्न स्यादितिशङ्कनीयं तस्येत्यादिसिद्धयर्थ विहितविशेषणानाश्रयणात् ॥
(ओसि ) अकारस्यैत्वं भवति ओसि परे ॥ देवयोः ॥ (सुबोधिनी)-ओसि॥अत एकारः स्यादोसि परे ॥ अत इति किम् । यो तपरः किम् । हाहौः ॥ ओसि किम् । देवस्य ॥
(तत्त्वदी० )-ओसि ॥ अत्रापि स्याघधिकारादेव ओस्र इत्यादौ नातिप्रसङ्ग । आ उस्रः ओस्रः ॥ अत इति किम् । भान्वोः ॥ तपरः किम् । हाहौः ॥ओसीति किम् । देवस्य ॥
(नुडामः) समानादुत्तरस्यामो नुडागमो भवति पुंसि तु ह्रखादेव ॥ ( सुबोधिनी )-नुडामः ॥ आमो नुडिति कर्तव्ये नुटः पूर्वोच्चारणं प्राथम्यार्थम् । यत्र नुडन्यच्च प्राप्नोति तत्र प्रथमं नुडेव भवति । तेन स्त्रीणां वारीणामित्यादावुभयप्रसङ्गे परावियनुमौ बाधित्वा नुडेव । अत एव प्राक् प्रायशो दृश्यतामित्युक्तबीजम्। तत्र क्वचित्पूर्वेणापि नुटा परस्य बाधः क्रियत इति तदर्थः । किंच मण्डूकप्लुत्या'जनो ह्रस्वात्' इति सूत्रादू ह्रस्वादिति पदं पुंस इति चात्रानुवर्त्य वाक्यभेदेन संबध्यते । समानादित्यनुवृत्तं समानान्तान्नाम्न आमो नुट् स्यात् । पुल्लिङ्गे तु ह्रस्वान्तानाम्न एव परस्यामो नुट् न दीर्घान्तान्नाम्न इत्यर्थः ॥ समानादिति किम् । रायाम् । भवताम् ॥ ह्रस्वान्तात् किम् । हाहाम् ॥ पुंस इति किम् । वातप्रम्याम् ॥ नाम्न इति किम् । कारयांचकार । पचतितरामित्यत्र तुकारानुबन्ध आम् ज्ञेयः। तेन न नुटू 'निरनुबन्धकग्रहणे न सानुबन्धकस्य ' इति वचनात् । डेरादेशस्यामस्तु न नुन परत्वेनायङ्भ्यां बाधनात् स्त्रियामित्यादिनिर्देशाच्च ॥
(तत्त्वदी०)-तुडामः ॥ नुट् आम इति छेदः॥ अत्र समानादित्यनुर्तते । तेन रायामित्यादौन। अत्राहुः। अत्राधातोरित्यनुवर्तनीयं श्रियामित्याद्यार्थ तन्न परेणेया बाधात् । एवं तार्ह कारयांचकारेत्यादावतिप्रसङ्गवारणायाधातोरित्यनुवर्तनात्तदपि न परत्वाद्गुणेन बाधात् । पातयांचका
Page #81
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(६५) रेत्यादावपि लोपेन बाधः। पचतितरामित्यादावपि यस्य लोपः परः। न चैवमपि मालांचकारेत्यत्र नु स्यादिति वाच्यम् । स्याद्यधिकारेण तद्वाधात् इति । अत्रेदमवधेयम् । स्याद्यधिकारस्य जागरूकत्वेन गुणाल्लोणदीनां परत्वानुधावनेन बाधान्वेषणस्य व्यर्थत्वात् ।। अत्र रामः कुतो न नुडिति चेन्न । स्त्रियामित्यादिलिङ्गेन विभक्त्युपदेशकाले विद्यमानस्यैवामोऽत्र ग्रहणात् । अत एव चतुराम् शौ च देव आमः देव आमि इत्यादौ नातिप्रसङ्गः। एतेनैतद्वारणायानर्थकत्वेन समानान्तान्नाम्नोऽभावेन वा प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणमित्यादि समाधानं परास्तम् । ननु वारीणां स्त्रीणामित्यत्र परत्वान्नुमियौ भविष्यतः न नुट् । अथ नुमि न क्षतिरिति न वाच्यम् । नुट्सहित एवामि दीर्घविधानात् दीघताभावः प्रसज्येत । अत्रोच्यते । प्रायशो दृश्यतामिहेत्यत्र प्रायश इत्यस्य ग्रहणेन क्वचित्पूर्वेणापि परस्य बाधदर्शनात् । आमो मस्येत्त्वं तु गमां स्वर इत्यादि निर्देशान्न । ननु हाहामित्यादौ कुतो न नुट् । समानात्परत्वसंभवादित्याह॥ पुंसि त्वित्यादि । अयमाशयः । अत्र झ्नो ह्रस्वादिति सूत्रान्मण्डूकप्लुत्या ह्रस्वादिति पुंस इति चानुवर्त्य पुंसि तु ह्रस्वादेवेति व्याख्यानात्तत्र ह्रस्वात्परत्वाभावान्न नुट् । अत्रार्थे झपानां दां हौ इत्यादि लिङ्गम् ॥
(नामि) नामि परे पूर्वस्य दीर्थो भवति ॥ देवानाम् । देवे, देवयोः ॥
(मुबोधिनी)-नामि ॥ पूर्वस्य स्वरान्तस्य नाम्नो दीर्घः स्यात् नुट्सहिते आमि परे ॥ नुमसहिते आमि तु न दीर्घो भवति । यदि हि नुम्सहिते आम्यपि दीर्घः स्यात्तार्ह नुमं बाधित्वा नुइविधान व्यर्थं स्यात् । नुमचिरतृज्वद्भावेभ्यो नुट् पूर्ववि. प्रतिषेधेन इत्युक्तत्वान्नुटसहित एव आम् गृह्यते ॥
(तत्त्वदी०)-नामीति ।। नुटूसहित आम् नाम् तस्मिन् नामि परे पूर्वस्य दीर्घो भवति इत्यर्थः ॥ आमीति तु न सूत्रितं वर्मणामित्यादावपि दीर्घः स्यात् । तथा हि । यत्र नोपधाया इति सूत्रस्य प्राप्तिसम्भवः स्यात्तत्राण्यामीत्यस्यानुवृत्तेरामः सत्त्वात् ॥ यत्तु कैश्चिन्नामीत्युक्त्या वारीणामित्यत्र सनुम्यप्यामि दीर्घः सिध्यतीत्युक्तम् । तत्र नुटसहित आम् नाम् तस्मिन्नामीति व्याख्यानं सर्वसंमत्वेन स्वोक्त्यैव तद्विरोधेन चोपेक्षितम् ॥
(किलात्षःसःकृतस्य) कवर्गादिलाच्च प्रत्याहारात्परस्य केनचित्सूत्रेण कृतस्य सकारस्य षकारादेशो भवति अन्ते स्थितस्य न भवति ॥ देवेषु ॥
( सुबोधिनी)-क्विलात्वः सः कृतस्य ॥ कुश्च इलश्चानयोः समाहारः क्विलं तस्मात् क्विलात् । क्रियते स्म विधीयते स्मेति कर्मणि क्तः । कृतस्य शास्त्रेण विहितस्येत्यर्थः ॥ स इति षष्ठयन्तम् ॥ष इति प्रथमान्तम् ॥ आकार उच्चारणार्थः ॥ किलात्परस्य कृतस्यादेशरूपस्य प्रत्ययावयवस्य च सः स्थाने षः स्यात् ॥ 'स्नों णोऽनन्ते' इत्यतोऽनन्ते इत्यनुवर्तते। तेन पदान्ते स्थितस्य सस्य षत्वं न। क्विलात्किम् । देवस्य ॥ कृतस्येति किम्। सुपीः, सुपिसौ॥ पदान्ते स्थितस्य नेति किम् । हरिस्तत्र ॥ (तत्त्वदी०)-क्विलात्षः सः कृतस्येति ॥ कुश्च इलश्च क्विलं तस्मात् ॥ष इति प्रथ
Page #82
--------------------------------------------------------------------------
________________
(६६) सिद्धान्तचन्द्रिका। [ स्वरान्तपुंल्लिंगाः] मान्तम् । स इति षष्ठयन्तम् ॥ अत्र रुनों णोऽनन्त इत्यतोऽनन्त इत्यनुवर्तते। ततश्चान्ते स्थितस्य सस्य षत्वं न हरिस्तत्रेत्यादौ ॥ ननु कृतस्य सस्येति व्याख्यानात् देवेष्वित्यादौ सुपः कृतत्वेन समात्रस्यकृतकत्वाभावात्कथंषत्वमिति चेन्न । अरात्रिष्वित्यादिलिङ्गात्कचिदवयवग्रहणेनापि समुदायस्य ग्रहणात् । न चैव तिस्र इत्यादौ षत्वप्रसङ्ग इति वाच्यं तत्र तिसृचतसृ इति सत्वनिर्देशेन तद्वाधनसंभवात् ॥ अत्र केचित् । नन्वत्र कु इति 'शब्दे' इति धातोग्रहण कुत्सितार्थाव्ययस्य वा कवर्गस्य वा । नाद्यः इलादित्येव सिद्धत्वात् । ननु यदा कुर्धातुस्तदा इलोऽपि गत्यों धातुरेव साहचर्यात् । मैवम् । अकारोच्चारणसामर्थ्यान्न धातुः । तार्ह कोरेव यथा स्यान्नान्यस्माद्धातोरिति नियमार्थ कुर्घातुरेवेति चेन्न इलेन संज्ञाशब्देन साहचर्यात्संज्ञाशब्दस्यव कोहणात् । चोः कुरित्यादौ कवर्गार्थस्यैव सिद्धत्वाच्चेत्याहुः ॥ सतो हि कार्येण भवितव्यमिति सः प इति निर्देष्टव्ये विपरीतनिर्देशः षसूस इति द्विसकारनिर्देशेन षत्ववत्सत्त्वस्यापि क्वचिद्विध्यर्थः। तेन सिस्वेदयिषतीत्यादि सिद्धम् । यच्च दधिसेचौ यजुःषु सीषि अवष्टः भ सुष्टु इत्यादिसिद्ध्यर्थमनेकक्लेशानुसरणं तत्सर्व रभसोक्तिमात्रमित्युपेक्षितम् । बहुसेचावित्यत्र षत्वनिषेधार्थ शेषाः निपात्याः कत्यादय इत्यस्य शरणीकर्तव्यत्वेन सर्वस्यानुक्तस्यानेनैव निर्वाहसत्त्वात् ॥ किलात्किम् । देवस्य । विश्वपासु ॥ कृतस्येति किम् । बिसम् ॥
(सिधिः ) आमन्त्रणेऽर्थे सिर्धिसंज्ञको भवति ॥ (सुबोधिनी)-सिर्धेिः ॥ आमन्त्र्यते प्रसन्नं क्रियतेऽनेनेत्यामन्त्रणम् । साधने युट् ॥ आमन्त्रणे किम् । रामः ॥ सिः किम् । हे रामौ ॥
(तत्त्वदी.)-सिर्धिरिति॥आमन्त्रण इत्यनुवर्तते इत्यभिप्रेत्याह-आमन्त्रणेऽर्थे इति॥ आमन्त्रणं चानुकूलकरणम् ॥ आमन्त्रणे किम् । रामः ॥ सिः किम् । हे रामौ ॥
(समानाद्धेलापोऽधातोः ) ह्रस्वात्समानादेदोतश्चोत्तरस्य धेर्लोपो भवत्यधातोः ॥ आभिमुख्याभिव्यक्तये हेशब्दस्य प्राक् प्रयोगः ॥ हे देव, हे देवौ, हे देवाः ॥ एवं घटपटरामकृष्णमुकुन्दादयः ॥
(सुबोधिनी)-समानाद्धेर्लोपोऽधातोःङ्नो ह्रस्वात् इत्यतो मंडूकप्लुत्या हस्वादिति पदम् एदोतोऽतः इत्यत एदोत इति चानुवर्तते । ह्रस्वसमानान्तादेदोदन्ताच्च नाम्नः परस्य धेर्लोप: स्यात्॥ ह्रस्वसमानान्तादिति किम् । हे हाहाः। हे वातप्रमीः॥ अधातोरित्युत्तरार्थम् ॥ ऐदोत इति ग्रहणं किम् । हे हरे हे विष्णो ॥ अत्र हि परत्वान्नित्यत्वाच्च धावित्यनेनैदोतोः कृतयोर्हस्वात्परत्वं नास्ति ॥ अभिमुखस्य भाव आभिमुख्यं सम्मुखीकरणम् । आभिमुख्यस्याभिव्यक्तिः प्रकटीकरणम् आभिमुख्याभिव्यक्तिस्तस्यै । नाम्नः प्राक् हेशब्दस्य प्रयोगोऽर्थतः शब्दतो वा योज्यः ॥
(तत्त्वदी०)-समानाद्धलोपोऽधातोरिति ॥ लोपः अधातोरिति छदः॥समानादिति किम् । गौः। अधातोरिति किम् । हे श्रीः॥ ननु हे हाहाहे हरे इत्यादावतिव्याप्त्यव्याप्ती इत्यत
Page #83
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंल्लिंगाः ] टीकाद्वयोपेता।
(६७) आह हस्वादिति ॥ ननु सूत्रे ह्रस्वादित्येव किमिति नोक्तम्, किं समानादित्यनेनेति चेत् अम्शसोरस्येत्यत्रानुवृत्त्यर्थमेतस्यावश्यकत्वात् । न च समानादित्युक्त्या कथं ह्रस्वलाभ इति वाच्यम् । लक्षणयेति गृहाण ॥ अथैवमप्येदोतोः कुतो लब्धिरिति चेत् अधातुग्रहणात् । अधातुग्रहणात्कथमिति चेत् शृणु । अधातुग्रहण तावद्ध्यर्थम् । न च हे श्रीरित्यादावतिव्याप्तिः ह्रस्वग्रहणेनैव तद्वारणात् । न चाम्शसोरित्यत्रानुवृत्त्यर्थं श्रियमित्यादौ परत्वादियैव तद्बाधात् । न चाचिनवमित्यादिवारणार्थ स्यायधिकारेणैव तद्वारणसंभवात् । तस्माद्धातुप्रहणं व्यर्थत्वादेतज्ज्ञापनार्थमेवोपात्तम् । लोपग्रहणं तु व्यर्थमेव । रि लोपो दीर्घ इत्यतोऽनुवृत्त्यैव तल्लाभात् । चैकयोगनिर्दिष्टत्वेन दीर्घस्याप्यनुवृत्तिः स्यादिति वाच्यं सैषाद्धस इत्यत्र केवलस्याप्यानुवृत्तिदर्शनात् ॥ यद्वा लोपग्रहणस्यैवैतज्ज्ञापनमधातुग्रहणं तु वितो नुमित्यत्रोपयोगार्थमपि न्याय्यम् । जलधिरित्यादौ तु स्याद्यधिकारेण वारणम् । एवं च ग्रामणि कुलमित्यादौ एकदेशविकृतन्यायन धातुत्वेऽनेनाप्राप्तेऽपि नपुंसकात्स्यमोलकैव रूपसिद्धेः॥
सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर डतम सम सिम त्वत् त्व भवतु नेम एक पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व अन्तर त्यद् तद् यद् एतद् इदम् अदस् द्वि किम् युष्मद् अस्मद् ॥
(एते सर्वादयस्त्रिलिङ्गाः) (सुबोधिनी)-सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर डतम सम सिमत्वद् त्व भवतु नेम एक पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व अन्तर त्यद् तद् यद् एतद् इदम् अदस् द्वि किम् युष्मद् अस्मद् ॥ एते सर्वादयस्त्रिलिङ्गाः ॥ एते पञ्चत्रिंशच्छब्दाःत्रीणि लिङ्गानि येषांते त्रिलिङ्गाः सर्वादिसंज्ञका ज्ञेयाः॥गणसूत्रमिदम्।
आदिशब्दोऽत्रावयववाची।सर्वः आदिराद्यावयवो येषां ते सर्वादयः। तद्गुणसविज्ञानाऽयं बहुव्रीहिः। तस्यान्यपदार्थस्य गुणानां विशेषणानां वृत्तिपदार्थरूणां कार्यान्वपितया संविज्ञानं यस्मिन् स तद्गुणसंविज्ञान इत्यक्षगर्यः॥ आदिशब्दस्यावयववावि. स्वादुतावयवभेदः समुदायः समासार्थ इति बहुवचनम् । तस्य च युगपलक्ष्ये प्रयोगाभावादानर्थक्यात्तदंगेष्विति न्यायेन तदवयवेषु प्रवर्तमाना सर्वादिसंज्ञाऽविशेषात्सर्वशब्देऽपि प्रवर्तत इति युक्तम् । तद्गुणसंविज्ञानत्वं संयोगसमवायान्यतरसंबन्ध । लंबकर्णमानयेत्यादौ तद्गुणसंविज्ञानत्वमेव ॥ स्वस्वामिभावसंबन्धे तु चित्र गुमानयेत्यादा. वतद्गुणसंविज्ञानत्वम् ।। तदन्तस्यापीयं सर्वादिसंज्ञा भवति द्वन्द्वे सर्वादीनां सर्वकार्य न इति ज्ञापकात् । संज्ञोपसर्जनीभूतेषु सर्वादिषु सर्वादिसंज्ञा न प्रवर्तते । मुरूमुख्ययोमुख्य कार्यसंप्रत्ययो नामुख्ये इति न्यायात् । मुख्यो हि लोकपसिद्धोऽर्थः । तत्र सर्वविश्वशब्दो कृत्स्नपर्यायौ ॥ उभशब्दो द्वित्त्वविशिष्टस्य वाचकोऽो नित्यं द्विवचनान्तः। ननु उभस्य सर्वनामत्वे कोऽर्थ इति भाष्यकारप्रयोगो विरुध्येत । उच्यते ।
Page #84
--------------------------------------------------------------------------
________________
(६८) सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः] अर्थपरस्यैव नित्यं द्विवचनान्तता न तु स्वरूपानुकरणस्योत । अथ सर्वादिषु उभशब्दपाठो व्यर्थः । सर्वादिकार्याणां स्मडादीनां द्विवचनेऽभावात् । उच्यते । सर्वादिगणे उभशब्दस्य पाठस्तु उभकाविति रूपसिद्धयर्थः । तथा हि । उभशब्दस्तावद् द्विवचनमात्रविषयः। जित्स्वरितेत उभे इति लिङ्गात् । समासतद्धितादौ तु द्विवचनलोपे नासौ प्रयुज्यतेऽनभिधानात् । द्विवचनलोपे तु उभशब्दाद्वृत्तिविषये स्वार्थे नित्यमयट् भवति । उभयोऽन्यत्रेति । अन्यत्र द्विवचनपरत्वाभावे इत्युक्तत्वात् । तेन उभयतः। उभयत्र । उभाभ्यां पक्षाभ्यां विनीता निद्रा यैस्ते इति विग्रहे 'उभयपक्षविनीतनिद्राः' इत्यादिप्रयोगवत् कप्रत्ययेऽप्ययट प्राप्तः । अयाट सति उभयकाविति रूपापत्तिः स्यात् । तन्निवारणार्थः सर्वादिषूभशब्दस्य पाठः । तेनाख्याताव्ययसर्वादेष्टेः प्रागक इत्यकप्रत्यये उभकाविति सिध्यति। तद्धितस्य मध्यपतितत्वेन द्विवचनपरत्वानपायात् ॥ उभयशब्दस्तु अवयवदयारब्धेऽवयविनि वर्तते । उभावयवौ यस्य स उभयः। संख्याया अवयवे तयडयटौ इत्ययः। ननु 'द्वयेषामपि मेदिनीभृताम्' इति माघप्रयोगः कथं संगच्छते तस्य सर्वादित्वाभावात्। उच्यते । द्वयं द्वैधामिच्छन्ति गच्छन्तीति द्वयेषस्तेषां येषामिति इषेः क्विवन्तस्य रूपम् ॥ अन्यशब्दो भिन्नार्थः॥ अन्यतरशब्दोऽव्युत्पन्नः स्वभावात् द्विविषये निर्धारणेस्त ॥ इतरस्त्वन्यनीचयोः॥ डतरडतमौ प्रत्ययौ । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति विभक्त्यन्तं पदमिति ज्ञापकात् । तथापीह तदन्तग्रहणम् । येभ्यो डतरडतमौ विहिती तेषां तदन्तानां ग्रहणमित्यर्थः। केवलयोः संज्ञायाः प्रयोजनाभावात् ॥ कतरकतमयतरयतमादयस्तदन्ताः। द्वयोबहूनां चैकस्य निर्धारणे इति डतरडतमौ ॥ समशब्दः सर्वपर्यायः। तुल्यपर्यायस्तु नेह गृह्यते ॥ ' सिमः कृत्स्ने च शक्ते च स्यान्मर्यादाबद्धयोः ॥ त्वत्त्वशब्दावन्यपर्यायौ । आद्यस्तान्तः। एतस्य पाठोऽकार्थः ॥ भवतुशब्दस्तुभवदर्थः॥ उणादौ भातेर्डवतुरिति डवतुप्रत्ययान्तः उकारानुबन्धो व्युत्पादितः । आ सर्वादेः इत्यात्वमकप्रत्ययश्च प्रयोजनमस्य। भवाहक । भवकान् ॥नेमशब्दोऽर्द्धवाची ॥"एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा। साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते॥" संख्यायामेकवचनान्तः ॥ पूर्वपरावरशब्दा दिग्देशकालवाचकाः सर्वादिसंज्ञकाः॥ दक्षिणशब्दस्तु दिग्देशवाचक: सर्वादिः न तु प्रवीणवाची॥ उत्तरापरशब्दों दिग्देशकालवाचकौ सर्वादी ॥ अधरस्तु दिग्देशवाचकः सर्वादिः ॥ 'स्वो ज्ञातावात्मान स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने 'इत्यमरः ॥' स्वः स्यात्पुंस्यात्मविज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने।'इति मेदिनी ॥ इति चत्वारोऽर्थाः स्वशब्दस्य ।तत्रात्मात्मीययोरेव सर्वादित्वम् ॥ "अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थे । छिद्रात्मीयविनावहिरवसरमध्येऽन्तरात्मनि च ॥” इत्यन्तरशब्दस्यार्थाः तत्र परिधानबहिर्योगयोरेव सर्वादित्वम् ॥ त्यदूतदौ शब्दौ पूर्वोक्तपरामर्शकौ ॥ यद्शब्द उद्देश्यसमर्थकः ॥ एतदू.
Page #85
--------------------------------------------------------------------------
________________
[स्वरान्तपुंलिङ्गाः] टीकाद्वयोपेता।
(६९) इदमौ शब्दो प्रत्यक्षोपस्थितवाचकौ ॥ अदस्शब्दस्तु व्यवाहतवाचकः । उक्तं च । " इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् ॥ अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् "इति ॥ द्विशब्दो द्वित्वविशिष्टवाचकः ॥ किम्शब्दः प्रश्ने आक्षेप च ।। अलिङ्गः सम्बोधनकविषयश्च युष्मदर्थः ॥ अलिंगः उच्चारयित्रर्थोऽस्मच्छब्दः ॥
(तत्त्वदी० )-सर्वविश्वेत्यादि सर्वादयः पञ्चत्रिंशत् ॥ तत्र सर्वविश्वशब्दौ कृत्वपर्यायौ उभशब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः । पाठस्तूभकावित्यकार्थः । अन्यथा क एव स्यात् । तस्मिन् द्विवचनपरत्वाभावादुभयकावित्येव रूपं स्यात् ॥ उभयशब्दस्तु अवयवद्वयारब्ध इत्यर्थः । तिरोहितावयवभेदत्वादेकवचनम् । अन्यो भिन्नार्थः॥अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद् द्विबहुविषये निर्धारणे वर्तेते। तत्रान्यतमशब्दस्य गणे पाठाभावान्नसंज्ञा ॥ इतरशब्दस्स्वन्यनीचयोः त्वत् त्व इत्यन्यपर्यायौ । आद्यस्तान्तः ।। नेम इत्यर्द्ध ॥ समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते ॥ 'सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः ॥' पूर्वपरावरोत्तरापराः पञ्च दिक्कालयोस्तदवच्छिन्ने च ॥ दक्षिणाधरशब्दौ दिशि तदवच्छिन्ने च। न दक्षिणः प्रवीणः, अधरे ताम्बूलरागः, उत्तरे प्रत्युत्तरे वा शक्त इत्येते गृह्यन्ते । कथं परे शत्रवः, अपरे वादिन इति शत्रुप्रतिवादिवाचिनोः सर्वादित्वम् । उपचारादिति गृहाण । न चोपसर्जनत्वात्कथमिति वाच्यम् । नहि लाक्षणिकत्वमुपसर्जनत्वम् । किंतु स्वार्थविशिष्टार्थान्तरसंक्रमः । अथ दिग्वाचकत्वे संज्ञात्वात्सर्वादिकार्यनिषेध इति वाच्यम् । आधुनिकसंकेतो हि संज्ञा । न च सा दिक्षु । कुरुषु तु साऽस्त्येव । तेनोत्तराः कुरवः । केचित्तु दिक्षु चिरन्तनः कुरुषु तु आधुनिकः संकेत इयत्र प्रमाणाभावः। सुमेरुमवधिमपेक्ष्य कुरुघूत्तरशब्दप्रवृत्तेरित्याहुः। तत्र वृद्धव्यवहार एव प्रमाणमिति तु नव्याः॥ स्वशब्दस्य ज्ञातिरात्मा धनमात्मीयं चेति चत्वारोऽर्थाः। तत्र जातौ धने च न सर्वादित्वम् । “अन्तरमवकाशावधिपरिधानान्तद्धिभेदतादर्थे । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च" इति अन्तरशब्दस्यार्थेषु परिधानबहियोगयोरेव सर्वादित्वम् । बहिरित्यनावृतो देशो बाह्यं चोच्यते ॥ भवच्छब्दस्य पाठस्तु आ सर्वादेरित्यात्वार्थोऽकार्थश्च ॥ स्यद्तशब्दौ पूर्वोक्तपरामर्शकौ ॥ यदुद्देश्यसमर्थकः ॥ एतदिमौ प्रत्यक्षोपस्थिते ॥ अदस् व्यवहिते ॥ " एकोऽन्यार्थे प्रधानेऽल्पे प्रथमे केवले तथा । साधारणे समाने च संख्यायां च प्रवर्तते ॥" संख्यायामेकवचनान्त एव ॥अलिङ्गः संबोधनकविषयश्च युष्मदर्थः ॥ किंशब्दः प्रश्ने आक्षेपे च ॥
(जसी) सर्वादेरकारान्तात्परस्य जस ईर्भवति ॥ सर्वे ॥ ( सुबोधिनी )-जसी ॥ अदन्तात्सर्वादेर्जस ई: स्यात् ॥ षष्ठ्या अविधानानान्तस्यायमादेशो भवति । निर्दिश्यमानस्यादेशा भवन्ति इति न्यायेन जस् इत्यस्यं सर्वस्यैव स्थाने आदेशः ॥ यद्वा जसीत्यत्र ई इ इति प्रश्लेषण गुरुत्वात्सर्वादेशः। अन्यथा दीर्घग्रहणस्य प्रयोजनाभावात् ॥ यद्वा अस्त्यत्र दीर्घस्य प्रयोजनम् । द्वितीय इकारः प्रथमचरमादिभ्योऽपि विध्यर्थः ॥ ननु अकारमाश्रित्य जात ईकारः कथमे
Page #86
--------------------------------------------------------------------------
________________
(७०) सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः ] स्वरूपेणाकारस्य विधातकः स्यात् । उच्यते । उभये इति निर्देशन सन्निपातपरिभापाया अनित्यत्वाभ्युपगमादविघातको भवतीत्यर्थः ॥ _(तत्त्वदी०)-जसी॥जस् ई इ इति छेदः। इकारप्रश्लेषः किमर्थम् इति चेत्सत्यम् । प्रथमादिभ्योऽपि विध्यर्थो द्वितीयः। अथैवं जसोऽन्त्यस्य सस्यैव किं नेति चेन्न, अन्त्यविधायकषष्ठया अदर्शनात् । उभय इति लिङ्गाच्च । अत्र केचित्सप्तमीभ्रमव्यावृत्त्यर्थ दीर्घविधिः न तु तदर्थमित्याहुः । तन्न 'उभये' इति निर्देशेन तद्रमनिरासात् ॥ ननु सर्वे इत्यत्र कथम् अ इ ए इत्यनेनैत्वं सन्निपातपरिभाषया तस्य बाधात् इति चेन्न । अत्रोभयोरपि विनाशे सन्निपातपरिभाषाया अविषयत्वात् । 'उभये' इति निर्देशेन तस्य अनिस्यत्वज्ञापनाद्वा ॥
(रुनौ णोऽनन्ते) षकाररेफऋवर्णेयः परस्य नकारस्यैकपदस्थस्य णकारादेशो भवत्यन्ते स्थितस्य न भवति सर्वानित्यादौ ॥
(सुबोधिनी )-रु! णोऽनन्ते ॥ च आ च एषां समाहारः ए तस्मात् का संज्ञापूर्वकत्वेनानित्यत्वात् नामिनः स्वरे इंति न नुम् । अनन्ते इत्यत्र नज्ञ प्रसंज्यप्रतिषेध एव । अन्तशब्देन पदान्त एव गृह्यते न तु वाक्यान्तः । व्याकरणे पदसंस्कारपक्षस्याभ्युपगमात् । रुनः धातोर्नामिन इत्यादिनिदेशादेकपदे एव णत्वदि. धिरस्ति । तेनैकपदस्थस्य प्रऋवणेभ्यः परस्य नस्य णः स्यादपदान्ते ॥ यथा पुष्णाति । चतुर्णाम् ॥ धातॄणाम् ॥ अपदान्ते किम् । पितॄन् । रिति किम् । देवेन ॥
(तत्त्वदी०)-हों णोऽनन्त इति ॥ष् च र च आ च एषां समाहारः ए तस्मात् रुः पकाररेफऋवर्णेभ्य इत्यर्थः॥ननुसमासे नपुंसकत्वात्प्रुरिति कथमिति चेत्सत्यम् । नामिनःस्वर इति नुमः संज्ञापूर्वकत्वेनानित्यत्वात् । सौत्रत्वाद्वा पुंस्त्वम् । अनन्ते इति किम् । कृर्तृन् ॥ रुरिति किम् । देवेन । न इति किम् । वर्म ॥ ननु हरेनेत्रमित्यत्र कुतो न णत्वमिति चेन्न । धातो - मिन इत्यादि निर्देशेनैकपद एवास्य स्वीकारात् । अथैवं रामनामेत्यादावपि कुतो न णत्वं समासेनैकपदत्वादिति चेन्न । गर्गनडेत्यादिनिर्देशेन समासेनैकपदत्वे न णत्वम् । अथ हरिकामेणेत्यादौ कथमिति वाच्यं ज्ञापकसिद्धं न सर्वत्रेत्याद्याश्रयणात् ॥ नन्वत्र षग्रहणं किमर्थम् । न च पुष्णातीत्यत्र णत्वं कथमिति वाच्यम् ष्टुत्वेनैव तत्सिद्धेः । न च पुषाणेत्यादौ व्यवहितेऽपि णत्वार्थमिति चेत् ।। रुरिति पञ्चमीनिर्देशेनाव्यवहितस्यैव णत्वविधानात् । तथा चोत्तरार्थमिहैव कृतम् । परेफसाहचर्यादृकारोऽपि वर्ण एवं गृह्यते न तु धातुः। ननु पितृणामित्यत्र ऋकारैकदेशरेफमाश्रित्य णत्वं भविष्यति किमृकारेणेति चेन्न । नरसिंहवज्जात्यन्तराक्रान्तत्वाहकारत्वेनैव तस्य सर्वव्यवहारसिद्धत्वान्न तुरेफत्वेनेति न तत्र रेफत्वमतोऽवश्यमृग्रहणम् । अतएव हरे इन्द्र इत्यादावेकारान्तर्गतमिकारमाश्रित्य न सवर्णदीर्घः । अत्र केचित् । ननु चैवमपि धातर्नमस्ते इत्यादौ पदादेर्नस्य णत्वं स्यात् अनन्त इति निषेधानुपस्थानात् । अनन्त इत्यस्य काकाक्षिगोलकन्यायेनावृत्त्या वा रुरित्यनेनापि संबन्धात् पदान्तेभ्यः षकाररेफऋवणे
Page #87
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(७१) भ्योऽपि प्रतिषेधादित्याहुः । तत्रेदमवधेयम् । एकपदे एव णत्वविधानस्योक्तत्वेन द्वितीयपदस्थस्य नस्य णत्वाशङ्का निर्मूलेति सूरिभिर्विभावनीयम् ॥
( अवकुप्वन्तरेऽपि ) अवप्रत्याहारेण कवर्गेण पवर्गेणानुस्वारेण विसर्गेण : क : पायां च मध्ये व्यवधानेऽपि भवति नान्येन ॥ सर्वेण ॥
(सुबोधिनी)-अवकुप्वन्तरेऽपि ॥ अवश्च कुश्च पुश्च तेषां समाहारः अवकुपु। तेनान्तरम् अवकुप्वन्तरम् तस्मिन् । स्वराद्यदन्तस्य इति अवशब्दस्य पूर्वनिपातः। दन्तौष्ठयवकारेणापप्रत्याहारः । अन्तरशब्दो मध्यवाची । रुरित्यनुवर्तते । पञ्चमीनिर्देशाव्यवधाने सति णत्वं न प्राप्नोत्यत इदमारभ्यते । अत्रापिशब्दोऽनुक्तसमुच्चयार्थः। तेनानुस्वारविसर्गजिह्वामूलीयोपध्मानीया ज्ञेयाः । एतेषां व्यस्तानां यथासंभवं मिलितानां च मध्ये व्यवधाने सति ष्रुः परस्य नस्य णः स्यादनन्ते ॥ अवेत्यादि किम् । मृत्स्ना ॥ रुरिति किम् । भानुना ॥ अनन्ते किम् ॥ सर्वान् ॥ अनुस्वारा. दिव्यवधाने यथा। बृहणम् । उर केण-उर केण । उरः पेण-उर पेणेत्यादि ॥
(तत्त्वदी०)-अवकुप्वन्तरेऽपि ॥ अवश्व कुश्च पुश्च एतेषां समाहारः अवकुपु तेन अन्तरं तस्मिन् ॥ यदि गर्गाः शतं दण्डयन्तामितिवत्समुदाये वाक्यसमाप्तिराश्रीयते तदा कापि न प्राप्तिः । ब्राह्मणा भोज्यन्तामितिवद्यदि प्रत्येकं वाक्यपरिसमाप्तिस्तदा अवर्णेत्यादि न स्यात्। तस्मादेतैव्यस्तैर्यथासंभवं मिलितैश्च व्यवधाने णत्वं भवति । यथा गर्गः सह न भोक्तव्यमिति प्रत्येकं च न सह भुज्यते समुदितैरपि तथेहापि व्यस्ताः समस्ताश्चावादयो व्यवायमुपलक्षयितुं शक्ताः। अपिशब्दोऽनुक्तसमुच्चयार्थः । तेनानुस्वारविसर्ग-क पव्यवायेऽपि णो भवति ॥ कुप्ववान्तरेऽपीति सुवचम् अल्पस्वरत्वादुकारान्तत्वात्कु पु एतयोरेव पूर्वनिपातस्य न्याय्यत्वात्। तथा च लाघवमपीति ध्येयम् । स्वराद्यदन्तस्येत्यस्य यदि परत्वाद्बलवत्त्वं तदेदम् ॥
( सर्वादेः स्मट ) सर्वादेरकारान्तात्परस्य डे इत्येतस्य स्मडागमो भवति ॥ सर्वस्मै ॥
(सुबोधिनी)-सर्वादेः स्मट् ॥ डे अगित्यस्यापवादोऽयम् । अदन्तात्सर्वादेर्डे इत्यस्य स्मट् स्यात् ॥ अदन्तादिति किम् । त्वते । भवते॥सर्वादेरिति किम् । रामाय ॥
( तत्त्वदी० )-सर्वादेः स्मडिति । अत्रात इत्यनुवृत्तेरदन्तादिति अतो भवते इत्यत्र न । तपरकरणं तु स्पष्टार्थमेव न त्वावन्तनिवृत्त्यर्थं तत्र यडादिनैव बाधात् ।। सर्वादेरिति किम् । देवाय ॥ अकोऽप्ययमपवादो येननाप्रप्तिन्यायात् । सर्व आदिर्यस्य स सर्वादिरिति तद्णसंविज्ञानो बहुव्रीहिरतः सर्वशब्दस्यापि लाभः । न च सर्वादिशब्दस्य समुदायवाचित्वात्कथं तदवयवे सर्वशब्दे इति वाच्यम् । समुदायस्य युगपलक्ष्ये प्रयोगाभावादानर्थक्यात्तदङ्गेष्विति न्यायेन तदवयवे एव तत्कार्यम् ।।
(अतः) सर्वादेरकारान्तात्परस्यातः स्मडागमो भवति ॥ सर्वस्मात् ॥
Page #88
--------------------------------------------------------------------------
________________
(७२) सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः
(सुबोधिनी)-अतः ॥ ङसिरत् इत्यतो ङसिरित्यनुवर्त्य विभक्तिविपरिणामेन व्याख्यातव्यम् ! यथा अदन्तात्सर्वादेः परस्य डसेरादेशस्यातः स्मट् स्यात् ॥ (तत्त्वदी०)-अत इति ॥ अत्र ङसेरादेश एवात् गृह्यते न त्वकारः तस्मादिति ज्ञापकात्॥ (सुडामः) सवोदेरवणोन्तात्परस्यामः सुडागमो भवति ॥ सर्वेषाम् । (सुबोधिनी )-सुडामः ॥ अम्शसोरस्य इत्यतो मण्डूकप्लुत्या अस्येत्यनुवर्त्य व्याख्येयम् । यथा अवर्णान्तात्सवोदेरामः सुट् स्यात् । नुडामः इत्यत आम इत्यनुवर्तनीयम् । तेनामः षष्ठीबहुवचनस्यामः सुडित्यों ज्ञेयः । तेन 'आम्डे' इत्यादिना कृतस्यामस्तु सुड् न । युवाम् । आवाम् । सर्वस्यामित्यत्र परत्वात् डिन्तां यडित्यपि समाधानमस्ति ।
(तत्त्वदी० )-सुडाम इति । अत्राम्शसोरस्येत्यतो मण्डूकप्लुत्याऽस्येत्यनुवृत्त्या अदिति नेत्याह अवर्णान्तादिति ॥ सर्वादेरेतावन्मात्रोक्तौ भवत इत्यत्रातिप्रसङ्गः स्यात् अदन्तादित्युक्तावबन्तेऽव्याप्तिः। किंचैवं सर्वमिच्छन्ति सर्वीयन्तीति सर्वीयस्तेषां सर्वीया सर्वं कुर्वता मित्यादावतिव्याप्तिवारणाय यादीनां परत्वादनुसरणक्लेशोऽपि न कार्यः ॥
(ङिस्मिन् ) सर्वादेरकारान्तात्परो ङि स्मिन्भवति ॥ सर्वस्मिन् ॥ शेष देववत् ॥ एवं विश्वादयः॥ डतरडतमौ प्रत्ययौ । ततस्तदन्ताः शब्दाः ग्राह्याः॥
(सुबोधिनी)-ङि स्मिन् ॥ अदन्तात्सर्वाङि स्मिन् भवति ॥ अतः किम् । भवति ॥ सर्वादिगणे डतरडतमौ प्रत्ययौ पठितौ न केवलः प्रत्यय इत्युक्तत्वात् तौ डतरडतमावन्ते येषां ते तदन्ताः कतरकतमादयो ज्ञेयाः॥
(तत्त्वदी)-डिस्मिन्निति ॥ अत्राप्यत इत्यनुवर्तते । इ स्मिन्नित्येव सूत्रयितुमुचितम् । कारग्रहणं स्पष्टार्थम् । न च जसः शौ सर्वाणीत्यादावतिव्याप्तिरिति वाच्यम् । तत्र परत्वान्नुमा बाधात् । अथ जातिपक्षे ह्रस्वग्रहणेन दीर्घस्यापि ग्रहणे ईमौ जसीति कृतेष्वतिप्रसङ्ग इति वाच्यम् । उभे उभये इत्यादिलिङ्गेन ह्रस्वव्यक्तेरेवालाभात् । सर्वेष्टिरित्यादौ तु स्यादिविशेषणेन वारणसंभवात् । स्यादीनां परवर्ण इति व्याख्यानात् ।। ततस्तदन्ता इत्यादि। केवलयोः संज्ञायाः प्रयोजनाभावादित्यर्थः । एतन्मूलं तु जसी, सर्वादेः स्मट, अतः, डि स्मिन्निति सूत्रचतुष्टये वेत्यनुवयं तस्य व्यवस्थितत्वमाश्रित्य सर्वार्थनिर्वाहो बोध्यः । __(पूर्वादीनां नवानां जसूङसिङीनामीस्मास्मिनो वा)पूर्वे-पूर्वाः। पूर्वस्मात्-पूर्वात् । पूर्वस्मिन्-पूर्वे । शेषं सर्ववत् ॥ एवं परादयः ॥ सर्वादिः सर्वकार्यो स्यान्न चेद् गौणोऽथवाऽभिधा । पूर्वादिश्च व्यवस्थायां समोऽनुल्येऽन्तरोऽपुरि ॥ परिधाने बहियोंगे स्वोऽर्थज्ञात्यन्यवाच्यपि ॥ सर्वमतिक्रान्तोऽतिसर्वः तस्मै अतिसर्वाय देहि ॥ प्रियं सर्व यस्यासौ
Page #89
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंलिंगाः] टीकाद्वयोपेता।
(७३) प्रियसर्वः तस्मै प्रियसर्वाय । सर्वो नाम कश्चित्तस्मै सर्वाय । अतिपूर्वाय । अन्तरायां पुरि । समाय तुल्याय ॥ व्यवस्थायां किम् । दक्षिणा गाथकाः। कुशला इत्यर्थः ॥ असंज्ञायां किम् । उत्तराः कुरवः ॥ अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः। अन्तरेऽन्तरा वा चाण्डालस्य गृहाः । बाह्या इत्यर्थः । बहियोगे किम् । ग्रामयोरन्तरे तापसः । मध्य इत्यर्थः ।
(सुबोधिनी )-पूर्वादीनां नवानां जसङसिङीनामीस्मास्मिनो वा ॥ पूर्वादीनां सप्तानां व्यवस्थायामसंज्ञायां स्वशब्दस्य चात्मात्मीयार्थयोरन्तरशब्दस्य बाह्ये परिधानीये चार्थे गणपाठात्सर्वत्र सर्वादिसंज्ञा प्राप्ता सा जस्ङसिडिषु परतो वा भवतीत्यर्थः । “सर्वादिः सर्वकार्यो स्यान्न चेद्गौणोऽथवाऽभिधा । पूर्वादिश्च व्यव. स्थायां समोऽतुल्येऽन्तरोऽपुरि ॥ परिधाने बहिोंगे स्वोऽर्थज्ञात्यन्यवाच्यपि ॥" चेद्यदि सर्वादिः सर्वादिगणो गौणो न अथवाऽभिधा नाम न स्यात् तदा सर्वादिः। सर्वशब्दस्य कार्यमस्ति यस्य सः सर्वकार्यो स्याद्भवेत् । मान्तोपधात् इतीन् । सर्वनामाख्य इति वा पाटः । ये तु संज्ञोपसर्जनीभूताः सर्वादयस्तेषां सर्वादिकार्यमन्तर्गणकार्य च न सर्वादिसंज्ञाया अभावात् । सर्वादिकार्य यथा। जसी'इतीत्वम् । सर्वादेः' इति स्म। 'अतः' इति स्मट । 'ङि स्मिन्'इति स्मिन् । 'सुडामः' इति सुडागमः। यटोऽञ्च' इति सुट्। इत्यादि । अन्तर्गणकार्य यथा। 'श्त्वन्यादेः' इति इतुः। 'त्यदादेष्टेः' इत्यः । 'दस्य मः' इति मः । 'सौ सः' इति सः। इत्यादि॥ स्वाय परित्यज्य अन्याथे ब्रूतेस गौणः। गौणे यथा । सर्वमतिक्रान्त इत्यत्र अत्यादयः क्रान्ताद्यर्थे द्वितीययति तत्पुरुषः । अतिसर्वस्तस्मै अतिसर्वाय पुरुषाय त्वं देहि। गौणत्वादत्र न स्मट । प्रियं सर्व यस्येति बहुव्रीहिः स प्रियसर्वः ॥ संकेतकरणं संज्ञा । यथा कश्चित्पुरुषस्तस्य नाम सर्व इति तस्मै सर्वाय । संज्ञात्वादत्र न स्मट् ॥ पूर्वादिसप्तको गणो व्यवस्थया सर्वकार्यां स्यात् । स्वाभिधेयापेक्षावधिनियमो व्यवस्थेति । स्वस्य पूर्वादिशब्दस्याभिधेये नापेक्ष्यमाणस्यावधेनियम इत्यर्थः । अपेक्ष्यते इति अपेक्षः। कर्मणि घञ्प्रत्ययः । स्वशब्देन पूर्वादयः सप्त ग्राह्याः। स्वेषां पूर्वादीनामभिधेयः स्वाभिधेयो दिग्देशकालरूपोऽर्थः। स्वाभिधेयस्यापेक्षः स्वाभिधेयापेक्षः। कर्तृकार्ययोरक्तादौ' इति कर्तृषष्ट्या समासः। स्वाभिधेयेनापेक्ष्यते इत्यर्थः। स्वाभिधेयेनापेक्ष्यश्वासाववधिनियमश्च स्वाभिधेयापेक्षावधिनियमो व्यवस्था। अवधिमपेक्ष्य ते पूर्वादयो यत्र स्युस्तत्र व्यवस्था भवतीत्यर्थः॥ व्यवस्थायां किम् । दक्षिणा नराः। कुशला इत्यर्थः। एवमधरे ताम्बूलरागः। उत्तरे प्रत्युत्तरे च शक्त इति ॥ गौणे यथा। पूर्वमतिक्रान्तोऽतिपूर्वस्तस्मै अतिपूर्वाय पुरुषाय त्वं देहि । गौणत्वाइन न स्मट् ।। समशब्दोऽतुल्येऽर्थे सर्वकार्यः। तुल्येऽर्थे न भवतीत्यर्थः। समाय देहि । तुल्यार्थत्वादत्र न स्मटू ॥ अन्तरशब्दः परिधाने उत्तरीयेऽर्थे बहियोंगे चार्थे
Page #90
--------------------------------------------------------------------------
________________
(७४)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः] सर्वकार्यः। अपुरि पुरीविषयतायां सर्वकार्यो न भवति । बहि:शब्देनानावृतो देशो बाह्यं चोच्यते। अन्तरायां पुरीति प्राकाराद्वाह्यायां पुरि प्राकारान्तरवतिन्यां वा पुरि गृहाः सन्ति । सत्यपि बहियाँगे पुरीविषयत्वान्न सर्वादिसंज्ञाऽत्र । सर्वादित्वाभावात् 'यटोऽच्च' इति न सुटू ॥ परिधाने तु अन्तरे अन्तरे वा शाटका इति । परिधानीया इत्यर्थः । सर्वादित्वात् वा'जसी'इति ईत्वम् । बहिःशब्दोऽर्थव्यवाची उक्तः। तत्राद्ये यथा। अन्तरे अन्तरा वा गृहा इति। नगराद्वाह्याश्चाण्डालादिगृह्या इत्यर्थः॥ द्वितीये तु नगराभ्यन्तरागृहा इत्यर्थः। बाह्येन सहाभ्यन्तरस्य योगो ह्यस्ति ॥ बहियोंगे किम् । ग्रामयोईयोरन्तरे मध्ये तापसा वसन्तीति अन्तरशब्दस्य मध्यार्थत्वान्न सर्वादिसंज्ञा । अत एवात्र पाक्षिको न स्मिन् ॥ अर्थश्च ज्ञातिश्चार्थज्ञाती। अर्थज्ञातिभ्यामन्यावात्मात्मीयावर्थों अर्थज्ञात्यन्यौ । अर्थज्ञात्यन्यौ वक्तीत्यर्थज्ञात्यन्यवाची स्वशब्दः सर्वकार्यः । आत्मात्मीयज्ञातिधनवाची स्वशब्दः । तत्र ज्ञातिधनयोः पर्युदासादात्मात्मीयौ परिशिष्टौ । तत्र सर्वादिसंज्ञा भवति । स्वे-स्वाः । आत्मानः-आत्मीया वेत्यर्थः । सर्वादित्वादत्र 'वा' जसी इतीत्वम् । ज्ञातिधनवाचिनस्तु स्वायेत्यत्र सर्वादित्वाभावान्न स्मट । ननु आत्मात्मीयवाचीति वक्तुं पर्युदासग्रहणमनर्थकम् । उच्यते । ज्ञातित्वेन धनत्वेन च विवक्षायां सत्यामात्मीयार्थे सर्वादिसंज्ञा मा भूदित्यर्थं पर्युदासग्रहणमिति ॥ अन्यशब्दग्रहणमनर्थकम् । उच्यते । आत्मीयार्थस्यापि ज्ञातित्वेन धनत्वेन च विवक्षायां सत्यां सर्वादिसंज्ञा मा भूदित्येतदर्थमन्यशब्दग्रहणमिति ॥
(तत्त्वदी०)-सर्वादिःसर्वकार्यो स्यादित्यादि ॥ सर्वादिस्तदा सर्वकार्यां स्याच्चद्गौणो न अथवा अभिधा न । पूर्वादिश्च व्यवस्थायां वाच्यायां सर्वकार्यां स्यादित्यर्थः चशब्दाद्गौणाभिधयोः सर्वत्रान्वयः॥समः अतुल्ये ॥ अन्तरः अपुरि। परिधाने बहियोंगे च अन्तर एव ॥ स्वशब्दः अर्थज्ञातिभिन्नार्थवाची चेत्तदा सर्वकार्यात्यर्थः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। अवधेनियमः। कीदृशः स्वामिधेयापेक्षः । स्वस्य पूर्वादेरभिधेयं वाच्यं दिगादि अपेक्षत इत्यपेक्षः॥ 'दिशः सपत्नी भव दक्षिणस्याः' इत्यादावपि व्यवस्थाऽस्त्येव । प्रसिद्धत्वात्तु नावधिवाची शब्दःप्रयुज्यते । नच संज्ञात्वानिषेधःआधुनिकसंकेतस्यैव संज्ञात्वात्। आधुनिकत्वं तु व्यवहार एव शरणम्। एवं च विश्वेषां देवानामित्यपि सिद्धम्।वेदे प्रसिद्धत्वादाधुनिकत्वाभावात् । अन्यच्च पूर्वमेवोक्तम् ।गौणत्वं च स्वार्थविशिष्टार्थान्तरसंक्रमः॥अभिधा संज्ञानिनु सर्वादिगणे सर्वविश्वादीनामेव पाठो न त्वतिसर्वातितदित्यादीनां तत्कथं तेषु सर्वादिकार्यातिप्रसंगशंकेति चेन्न । तदन्तग्रहणस्यात्रेष्टत्वात् । अन्यथा परमसर्वस्मै इत्यादावपि न स्यात् इति चेदुच्यते । सर्वादेः स्मडित्यत्र सर्वादरित्यावर्त्तते । आदिशब्दश्चात्रप्रकार । प्रकारश्च सादृश्यम् तच्च सर्वार्थाभिधानसामर्थ्यम्। तथा च सर्वार्थाभिधानसामर्थ्य विशिष्टानामेव गणे पाठस्यावश्यकतया प्रकारान्तरजुषां च पाठे प्रमाणाभावादेव विशेष व्यवस्थितानां संज्ञानामुपसर्जनानां च सर्वादित्वमेव नास्ति । तेन तेषां सर्वादिकार्यमन्तर्गणकार्य च न भवति ॥ यत्तु शब्दस्वरूपमात्राश्रयं न तु गणा पेक्षं तत्तूपसर्जनत्वेऽपि स्यादेव युष्मदस्मदोस्त्वमह
Page #91
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंलिंगाः ] टीकाद्वयोपेता।
(७५) मितिवत् । नचैवं युष्मदि चास्मदि चेत्यत्र त्वन्मदादिप्रसंगः । लोकप्रसिद्धार्थवाचकतायामेव तत्प्रसंगः नतु शब्दस्वरूपत्वे वाच्ये। नन्वेवमस इत्यादौ कथमतिसर्वे इति वद्गौणत्वेऽपि तत्कार्यसंभवः। अब्राह्मण इत्यादौ ब्राह्मणभिन्न इत्यादिपूर्वपदार्थप्राधान्येन विवरणसंभवादिति चेत्सत्यम् । वैयाकरणैर्नसमासे उत्तरपदार्थप्राधान्यस्यैवाभ्युपगमात् । तथा हि । आरोपितत्वं नअर्थः । तथा च मायामनुष्यः कपटब्राह्मण इतिवत् मिथ्याभूतो ब्राह्मण इत्येव शाब्दबोधः । ब्राह्मणभिन्न इत्याद्यर्थस्तु न शाब्दः । अत्राचतुर्णामिति निर्देशोऽनुकूलः ॥
(द्वन्द्वे सर्वादीनां न सर्वकार्यम् ) पूर्वपरावराणाम् ॥ (सुबोधिनी )-द्वन्द्वे सर्वादीनां न सर्वकार्यम् ॥ द्वन्द्वसमासे: सर्वादिसंज्ञा न भवति ॥ समुदायस्यायं निषेधो न त्ववयवानाम् ॥ वर्णाश्च आश्रमाश्च इतरे च ते वर्णाश्रमेतरे । तेषां वर्णाश्रमेतराणाम् । सर्वादिसंज्ञाऽभावान्न सुट् ॥
(तत्त्वदी०) द्वन्द्व सवादीनामिति ॥ एतन्मूलं तु पूर्वोक्तमेव ॥ वर्णेत्यादि । वर्णाश्च आश्रमाश्च इतरे च ते तथा ॥
( वा जसी) वर्णाश्रमेतरे-वर्णाश्रमेतराः ॥ ( सुबोधिनी)-वा जसी॥द्वन्द्वे उक्ता संज्ञा वा स्याज्जाति ई आदेशे कर्तव्ये॥
(तृतीयासमासे तृतीयासमासार्थवाक्येऽपि च न ) मासपूर्वाय । मासेन पूर्वाय ॥
(सुबोधिनी)-तृतीयासमासे तृतीयासमासार्थवाक्येपि च न ॥ तृतीयातत्पुरुषसमासे तृतीयासमासोऽर्थः प्रयोजनं यस्य तत् तृतीयासमाप्तार्थ तृतीयासमासाथै च तद्वाक्यं च तृतीयासमासार्थवाक्यं तस्मिन् तृतीयासमासार्थवाक्येऽपि च सर्वादिसंज्ञा न भवति ॥ मासेन पूर्वः मासपूर्वस्तस्मै मासपूर्वाय देहि । तृतीयासमासेत्रि सर्वादित्वाभावान्न स्मट् ॥
(तत्त्वदी०) तृतीयेत्यादि ॥व्यवस्थितविभाषाश्रयणात् अत्र निषेधः। शेष देववत् ॥ अथ 'कथं द्वयेषामपि मेदिनीभृताम्' इति माघः ॥ उच्यते । द्वयमिच्छन्तीति द्वयेषः तेषामिति क्विबन्तस्येच्छते रूपम् ॥
(प्रथमचरमतयडयडल्पार्द्धकतिपयनेमानां जसी वा) प्रथमेप्रथमा। चरमे-चरमाः॥ तयडयटौ प्रत्ययौ। ततस्तदन्ताः शब्दा ग्राह्याः। द्वितये-द्वितयाः। द्वये-दयाः। शेषं देववत् ॥ नेमे नेमाः। शेषं सर्ववत् ॥
(सुबोधिनी )-प्रथमचरमतयडयडल्पार्द्धकतिपयनेमाना जसी वा ॥ एतेषां सर्वादिसंज्ञा वा स्यात् जसी इतीत्वे कर्तव्ये । नेमशब्दस्य नित्यं प्राप्त अन्येषामप्राप्ते चायमारम्भः॥ तयडयटी प्रत्ययो । केवलयोः संज्ञायाः प्रयोजनाभावात्
Page #92
--------------------------------------------------------------------------
________________
. (७६) सिद्धान्तचन्द्रिका। [ स्वरान्तपुंल्लिङ्गाः] तयडयडन्ता द्वितयद्वयादिका ग्राह्याः। 'संख्याया अवयवे' इति तयडयटौ । दाववयवौ यस्य सः द्वितयः द्वयः॥
(तीयस्य कित्सु वा सर्ववद्रूपम् ) द्वितीयस्मै-द्वितीयाय । द्वितीयस्मात्-द्वितीयात् । द्वितीयस्मिन्-द्वितीये ॥ एवं तृतीयः ॥ उभशब्दो नित्यं द्विवचनान्तः । उभौ । उभौ। उभा याम् । उभाभ्याम् । उभाभ्याम् । उभयोः । उभयोः ॥ उभयशब्दस्य दिवचनं नास्तीत्येके । अस्तीत्यन्ये । उभयः । उभये ॥ निर्जरः ॥
(सुबोधिनी)-तीयस्य ङित्सु वा सर्ववद्रपम् ॥ तीयप्रत्ययान्तस्य वा सर्वशब्दतुल्यं रूपं भवति डेङसिङिषु परतः । द्वित्रिभ्याम् इति तीयः । अर्थवद्ग्रहणानेह । पटुजातीयायेत्यत्र प्रकारे जातीयः इति जातीयः ॥ उभशब्दस्य आख्याताव्ययसर्वांदेः इत्यकार्थः सर्वादौ पाठः। द्विवचनपरत्वाभावे तु उभशब्दान्नित्यमयटू भवतीति न कप्रत्ययादिष्टसिद्धिः ॥ उभयशब्दस्य द्विवचनान्तानभिधानादिति कैयटः ॥ उभयशब्दस्य द्विवचनमस्ति अनभिधाने प्रमाणाभावादिति हरदत्तः॥ उभयशब्दस्यायट्प्रत्ययान्तत्वात् प्रथमचरम इति विकल्पे प्राप्त सर्वादौ पाठसामर्थ्यानित्यं संज्ञा भवति विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वाच्च । अयमर्थः । उभयशब्दे प्रथमचरमेति विकल्पस्य जसपेक्षया बहिरङ्गत्वं सर्वादिगणपाठसिद्धनित्यसंज्ञायास्तु विभत्यपेक्षारहितत्वेन अन्तरङ्गत्वम् । ततः अन्तरङ्गबहिरङ्गयोर्मध्येऽन्तरङ्गो विधिर्वलीयान् इति न्यायादत्र नित्यैव संज्ञा स्यान्न तु विकल्प इति ॥ निष्क्रान्तो जराया इति । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति तत्पुरुषः। अन्याथै इति ह्रस्वः । निर्जरः। 'अमरा निर्जराः देवाः' इत्यमरः ॥ (तत्त्वदी० ) उभये इति अयडन्तत्वेऽपि न जसि विकल्पः व्यवस्थितत्वात् ॥
(जरायाः स्वरादौ जरस वा वक्तव्यः) तदन्तविधिरत्र ॥ षष्ठीनिर्दिष्टस्योदेशस्तदन्तस्य ज्ञेयः ॥ गुरुः शिश्च सर्वस्य ॥ निर्दिश्यमानस्यादेशा भवन्ति ॥ एकदेशविकृतमनन्यवत् ॥ निर्जरसौनिर्जरौ । निर्जरसः-निर्जराः । पक्षे हसादौ च देववत् ॥
(सुबोधिनी)-जरायाः स्वरादौ जरस् वा वक्तव्यः ॥ जराशब्दस्य वा जरस् भवति स्वरादौ विभक्तौ परतः। तदन्तविधिरत्र जराया इत्यस्य नाम्नो विशेषणत्वात् । षष्ठीनिर्दिष्टस्येति परिभाषया निर्जरशब्दस्यान्तस्य स्थाने जरस् प्राप्तोऽत आह ॥ गुरुः शिञ्चेति ॥ अनया परिभाषया सोपपदस्य सर्वस्य स्थाने जरसादेशे प्राप्ते सत्याह ॥ निर्दिश्यमानस्यादेशा भवन्ति ॥ निर्दिश्यते इति निर्दिश्यमा:
Page #93
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(७७) न उच्चार्यमाणस्तस्य स्थाने आदेशाः स्युः । एवमपि निर्दिश्यमानजराशब्दस्य जरसादेशो भवति न त्वन्यत्रेत्यत आह ॥ एकदेशेति ॥ एकदेशेन विकृतमेकदेशविकृतं शब्दरूपम् अन्येन तुल्यमित्यन्यवन्न भवति । अनया परिभाषया निर्जर इत्यत्र जरोऽपि जरावद् ज्ञेयः। जरसादशाभावपक्षे हसादौ च देववद्रूपम् ॥
(तत्त्वदी० )-जराया इत्यादि ॥ तदन्त इत्यादि ॥ स अन्ते यस्य तस्य विधिरित्यर्थः । तथा च जराशब्दस्योक्तो जरस् निर्जरशब्दस्यापि भवतीत्याशयः॥ षष्ठीनिर्दिष्टस्यादेशिन इति भावः ॥ एतदपवादमाह-गुरुः शिच्चेति ॥ अनेकाक्षर आदेशो गुरुः । तथा च निर्जरस्य कृत्स्नस्य प्राप्तिरत आह-निर्दिश्यमानस्येत्यादि ॥ एवमपि जराशब्दनिर्देशादत्रादन्तत्वात्कथं प्राप्तिरित्यत आह-एकदेशेत्यादि ॥ अन्यैः तुल्यमन्यवत् न अन्यवत् अनन्यवत् । नहि कणे पुच्छे वा छिन्न श्वा अश्वोभवति न वा गर्दभः किंतु श्वैव ॥ स्वरादौ विभक्तावेव जरस् बोध्यः नान्यत्र । तेन जराया इदंजारमित्यत्र ॥ नातिप्रसङ्गः॥पक्षे इत्यादि ॥ पक्षे सर्वत्र देववत् । हसादौ देववदेवेति बोध्यम् ॥ - (संख्याविसायपूर्वस्याह्नस्याहन् वा ङौ )
(सुबोधिनी )-संख्याविसायपूर्वस्याहस्याहन् वा ङौ ॥ संख्याविसायाः पूर्व यस्य स संख्याविसायपूर्वस्तस्य संख्यादिपूर्वस्याह्नस्य स्थानेऽहन् आदेशो वास्यात् ॥
(तत्त्वदी० )-संख्याविसायेत्यादि ॥ संख्या च विश्व सायश्च संख्याविसायाः ते पूर्वे यस्य स तस्येत्यर्थः॥
( वेड्योः ) अन्नन्तस्योपधाया लोपो वा भवति ईंडीत्येतयोः परयोः॥ मकारवकारान्तसंयोगादुत्तरस्य न॥यह्नि-व्यहनि-व्यते । विगतमहळह्नः। व्यह्नि-व्यहनि-व्यते । अह्नः सायः सायाह्नः । सायाह्नि सायाहनि-सायाह्ने ॥
(सुबोधिनी)-वेङ्योः ॥ ईश्च डिश्च ईङी तयोरीङयोः ॥ ई इति ईमौ' इति सूत्रेण कृतोत्र गृह्यते न तु 'जस्शसोः शिः' इति शिः।नापि ईप। निरनुबन्धकग्रहणे न सानुबन्धकस्येत्युक्तत्वात् । अल्लोप इति नित्ये प्राप्त विकल्पोऽयम्।अन्नन्तस्य नाम्न उपधाया लोपो वा स्यात् ईङयोः परतःवकारमकारौ अन्ते यस्य संयोगस्य स वकारमकारान्तःवकारमकारान्तश्चासौ संयोगश्च वकारमकारान्तसंयोगस्तस्मात्परस्यान उपधाया लोपो न भवतीत्यर्थः ॥ यथा बहुयज्वनी चर्मणी इत्यादि ॥ द्वयोरगोर्भव इति तद्धितार्थे द्विगुसमासोऽयम् । भवार्थे इक्प्रत्ययस्तस्य लुक् च। ततः समासान्तष्टप्रत्ययः। 'नो वा' इत्युपधालोपः। द्वयनः । विगतमहारीत तत्पुरुषः। व्यह्नः। अह्नः सायम् इति क्वचित् । अमाद्यन्तस्य' इति परानिपातः। स्यतेर्घञ्प्रत्यये युकि च कृते सति सायशब्दोऽवसानवाची साधितः । अहन्नादेशे उपधालोपे व्यानि । लोपाभावे यहनि । अहन्नभावे दयते ॥
Page #94
--------------------------------------------------------------------------
________________
(७८)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिङ्गाः ] (तत्त्वदी०)-वेङयोरिति ॥ वा ईङ्योरिति छेदः। ईश्च डिश्च ईडी तयोः ईङयोः ई इति 'ईमौ' इत्यनेन कृतो गृह्यते न तु जस्शसोः शिरिति सानुबन्धकनिरनुबन्धकयोनिरनुबन्धकस्यैव ग्रहणमिति न्यायात् । अत एव ईपोऽपि न ग्रहणम् । अत्र वा ङ्योरित्येव छेदः । द्विवचननिर्देशनैव ईकारलाभात् ॥ अहःसाय इति षोऽन्तकर्मणीत्यस्माद्धनि कृते अवसानवचन:सायशब्दः न तु मान्तमव्ययम् । मलोपस्यादर्शनात् ॥
(पाददन्तनासिकामासहृदयनिशाअसृग्यूषदोषयकृच्छकृदुदकआस्यमांसपृतनासानूनाम् )-पद् दत् नस् मास् हृद् निश् असृक् यूषन् दोषन् यकन् शकन् उदन् आसन् मांस् पृत् स्नु एते आदेशा भवन्ति शसादौ वा ॥ पदः । पदा, पद्याम्, पद्भिः ॥ दतः । दता, दयाम्, दद्भिः ॥ मासः । मासा, माझ्याम्, मासाभ्याम् ॥
(सुबोधिनी )-पाददन्तनासिकामासहृदयनिशाअमृग्यूषदोषयकृत्शकृउदकआस्यमांसपृतनासानूनाम् ॥ एते पदादय आदेशा वा स्युः शसादौ॥ माभ्यामित्यत्र सस्य विसर्गे आदव इति विसर्गलोपश् । यूषो मण्डः। 'मुद्गामलकयूषस्तु भेदी दीपनपाचनः' इति दर्शनात् ॥
(तत्त्वदी० )-शसादौ वेति ॥ आदिशब्दः प्रकारे इत्यभिप्रेत्याह-पदादय इति ॥ तेन 'पदधिश्वरणोऽस्त्रियाम्' इति 'स्वान्तं हृन्मानसं मनः' इति च संगच्छते ॥
(अल्लोपः स्वरेऽम्बयुक्ताच्छसादौ ) अन्नन्तस्योपधाया लोपो भवति शसादौ स्वरे पर ॥ मकारवकारान्तसंयोगादुत्तरस्य न ॥ यूष्णः। यूष्णा ॥
(सुबोधिनी)-अल्लोपः स्वरेऽम्वयुक्ताच्छसादौ ॥ नोपधाया इत्यनुवर्तते । नान्तस्य नाम्न उपधाया अतो लोपः स्यात् शसादौ स्वरे ॥ नान्तस्येति किम् । भवतः ॥ अत इति किम् । दण्डिनः ॥ तपर इति किम् । प्रतानयतीति प्रतान् । क्विप् प्रत्ययः । तान् प्रतानः ॥ स्वरे किम् । राजभ्याम् ॥ शसादौ किम् । मघोन इदं माववनम् । देवतेदमर्थे इत्यण ॥ म् च वश्च म्वौ । युक्तः कर्मणि क्तः। म्वाभ्यां युक्तो म्वयुक्तः नम्बयुक्ताऽम्वयुक्तस्तस्मादम्बयुक्तात् । म्वाभ्यां युक्ताद्वर्णात्परस्यातो लोपो न भवतीत्यर्थः ॥ यथा । यज्वनः। ब्रह्मणः ॥ म्वति किम् । तक्ष्णा ॥ युक्तादिति किम् । अर्यम्णः ॥ ष्नयोगे णत्वे कृते ष्ण इत्यक्षरं भवति । यूष्णः॥
(तत्त्वदी०)-अल्लोपः स्वरेऽम्वयुक्ताच्छसादाविति ॥ अत्रादिति निर्विभक्तिको निदेशः।नोपधाया इत्यनुवर्तत । तथा च नान्तस्योपधाया अतो लोपः स्यादित्यर्थः ॥म् च वश्वम्वौ म्वाभ्यां युक्तः वर्णः म्वयुक्तः नम्बयुक्तः अम्वयुक्तः तस्मात् ।म्वाभ्यां युक्ताद्वर्णान्नेत्यर्थः॥ प्रसज्यप्रतिषेधः पर्युदासो वा ॥ तथा च म्वयु कभिन्नाद्वात्परस्यातो लोप इत्यर्थः ॥ उपधाया इति
Page #95
--------------------------------------------------------------------------
________________
[ स्वरान्त पुंल्लिङ्गाः ]
टीकाद्वयोपेता ।
(७९)
किम् | तपस्विनः ॥ नान्तस्य किम् । महतः | अतः किम् । दण्डिनः ॥ स्वरे किम् । राजभ्याम् ॥ तपरः किम् । प्रतानयतीति प्रतान् तस्य शसि प्रतानः इत्यत्र लोपो न । केवलस्य क्विपि नान्तत्वाभावात् व्यन्तत्वमाश्रित्योदाहृतमिति भावः ॥ वेति किम् । तक्ष्णः ॥ युक्तात्किम् । अर्यम्णः ॥ यूष्णा इति ॥ षो मण्ड: । 'मुद्रामलकयूषस्तु भेदी दीपनपाचनः' इति दर्शनात् ॥
(नाम्म्रो नो लोपशधौ ) नान्तस्य नाम्नो नस्य लोपश् भवति रसे पदान्ते चाधौ ॥ यूषभ्याम् । यूषभिः ॥ नस्य लोपारी न विभक्तिकार्यम् ॥ पक्षे पञ्चसु देववत् ।। पदादयः पृथक् शब्दा इत्येके । सोमपाः, सोमपौ, सोमपाः, सोमपाम् ॥
1
( सुबोधिनी ) - नाम्नो नो लोपशधौ ॥ न इत्यनेन नाम विशेष्यते । विशेषणत्वात्तदन्तविधिर्भवति । नान्तस्य नाम्नोऽन्तस्य लोपश् स्याद्वसे पदान्ते चाधौ ॥ नाम्न इति किम् । अहन् ॥ नाम्न इत्यनुवर्तमाने पुनर्नामग्रहणं नामसंज्ञाप्रवृत्तिकाले स्थितस्य नकारस्य लोपशर्थम् । तेनागमादेशयोर्न कारस्य लोपश् न भवति । यथा । पचन् । भवन् । श्वन् । सुहिन् । प्रशान् ॥ यूषभ्याम् । अत्र नस्य लोपशि कृते अद्भि इत्यात्वे प्राप्त उच्यते । नस्य लोपशि न विभक्तिकार्यमिति । विभक्तौ कार्य विभक्तेव कार्यमिति समासः ॥ पथिष्वित्यादौ पत्वं तु न विभक्तिकार्यम् । सैषादिति ज्ञापकात् ॥ आदेशाभावपक्षे सर्वाणि रूपाणि देववत् । आदेशपक्षे पञ्च वचनानि देववत् । पदादयो नादेशाः किंतु पृथकशब्दाः इति एके आचार्या वदन्ति । तेन 'पदङ्गत्रिश्चरणोऽस्त्रियाम् ।" स्वान्तं हृन्मानसं मनः' इत्यादि संगच्छते ॥ इत्यदन्ताः ॥ सोमं पिवतीति सोमपाः । पा पाने इत्यस्मात् आतो ड इति उप्रत्ययं बाधित्वा किप् ॥
( तत्त्वदी ० ) - नाम्नो नो लोपशधाविति ॥ अत्र न इति षष्ठयन्तं नाम्नो विशेषण अतस्तत्र तदन्तलाभ इत्यभिप्रेत्याह ॥ नान्तस्येति ॥ ननु राजेत्यत्र परत्वात्प्रथमं नलोपशिति चेत्र । प्रायशो दृश्यतामिति वचनात्क्वचित्पूर्वेणापि परबाधः आ साविति ज्ञापकाच्च । अन्यथा अधावित्येवावक्ष्यत् ॥ ननु यूषभ्याम्, यूषभिरित्यादौ अदि ब्भ्य इत्यादिनात्वाऽऽदिकमस्त्वित्यत आह-नस्य लोपशि न विभक्तिकार्यमिति ॥ विभक्तौ कार्य विभक्तेर्वा कार्यमिति समासः । तेन दंडित्रित्यादौ नलोपे सति षत्वं भवत्येव । सैषादिति ज्ञापकेन तस्य विभक्तिकार्यत्वाभावात् ॥ अत्र नाम्न इत्यनुवर्तमाने पुनर्नामग्रहणान्नाम संज्ञा प्रवृत्तिकाले नान्तत्वं ग्राह्यम् । तेन पचन्नित्यादौ नलोपो न ॥
( आतो धातोर्लोपः ) धातुसम्बन्धिन आकारस्य लोपो भवति शसादौ स्वरे परे || सोमपः । सोमपा, सोमपाभ्यामित्यादि ॥ एवं कीला - लपाशंखध्मामधुपाविश्वपाप्रभृतयः ॥ धातोः किम् | हाहान् । हाहा । हा । हाहाः । हाहाः । हाहौः ॥ हरिः ॥
Page #96
--------------------------------------------------------------------------
________________
(८०)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः ] (सुबोधिनी ) आतो धातोर्लोपः॥ आकारान्तस्य धातोर्लोपः स्याच्छसादौ स्वरे ॥ 'शतृशानक्वसन्तानां तृजन्तानां तथैव च । क्विवन्तानां च शब्दानां धातुत्वं नोपहन्यते ॥” प्रातिपदिकसंज्ञयेत्यर्थः ॥ अतोऽस्य द्वे संज्ञे स्तः । षष्ठीनिर्दिष्टस्यत्यन्तलोपः ॥ धातोः किम् । हाहान् । गंधर्वविशेषवाचकमव्युत्पन्नं प्रातिपदिकमिदम् । 'हाहा हूहूश्चैवमाद्या गन्धर्वाः' इत्यमरः ॥ टा सवर्णे दर्घिः। हाहा ॥ डे ऐत्वं हाहै ॥ ङसिङसोर्दीर्घः हाहाः । हाहाः ॥ ओसि औत्वं हाहौः । ङौ एत्वं हाहे ॥ शेष सोमपावत् । आत इति योगविभागादधातारेप्याकारलोपः क्वचित् । क्त्वः ॥ इत्यादन्ताः॥
(तत्त्वदी)-आतो धातोर्लोपः इति ॥धातोः किम् । खट्टाः पश्य ॥ न च नामत्वधातुत्वयोर्विरोधात्कथं धातुत्वमिति वाच्यम् क्विबन्ता विजन्ता विडन्ताश्च धातुत्वं न जहति नामत्वं प्रतिपादयन्तीति वचनादविरोधात् ।। ननु अस्य धातोरिति किमिति न सूत्रितमिति चेन्न । श्रीपेण कुलेनेत्यादावपि परत्वादकारलोपापत्तेर्दुरित्वात् । तपकरणं तु व्यर्थमेव ॥ अत्रात इति योगविभागादधातोरप्यलोपः क्वचित् तेन क्त्वः ॥ हाहानिति ॥ गंधर्वविशेषवाचकमव्युत्पन्नं नामेदम् । केचित्तु जहातीति हाहा इति क्रियाशब्दं वदंतः सोमपावद्रपमाहुः॥
(औयू)इकारान्तादुकारान्ताच्च पर औयू आपद्यतेई ऊ भवतः॥हरी॥ (सुबोधिनी )-औ यू इदुद्भ्यां पर औ यू स्याताम् । ईदूतोर्दीर्घयोर्ग्रहणे ई ऊ इति पदद्वयं बोध्यम् । ह्रस्वग्रहणपक्षे तु यु इत्यत्रेतरेतरद्वन्दः ॥ इदुझ्यामिति किम् । देवो ॥ तपरत्वमिति किम् । वातप्रम्यौ । हूतौ ॥
(तत्त्वदी०)-औ य इति ॥ अत्र इदुद्भवामित्यनुवर्तते । दीघयोर्ग्रहणे ई ऊ इति छेदः हस्वयोर्ग्रहणे तु इतरेतरद्वन्द्वः॥
(ए ओ जसि ) इकारान्तस्योकारान्तस्य च जसि परे एकार ओकारश्च भवति ॥ हरयः॥
(सुबोधिनी) एओ जसि ॥ इदुद्भवामित्यनुवर्तते । तच्च षष्ठया विपरिणम्यते। तच नाम्नो विशेषणम् । विशेषणे हि तदंतविधिः । इदुदन्तस्य नाम्न एओ स्यातां जसि परतः ॥इदुदन्तस्यति किम् । रायः । ग्लावः ॥ तपरत्वं किम् । वातप्रम्यःहूह्वः।
(तत्त्वदी० )-एओ इति ॥ अत्रेदुद्भ्यामित्यनुवृत्तस्यापि विभक्तिविपरिणामेन व्याख्यानमित्यभिप्रेत्याह-इदुदन्तस्येत्यादि ॥इदुदन्तस्य किम्। रामाः। गुणो जसीति तु न सत्रितं लाघवे विशेषाभावात् । जसि गुण इत्युक्ते त्वर्द्धमात्रालाघवेऽपि प्रतिपत्तिलाघवार्थमिदमुक्तम् ।।
(धौ ) इकारान्तस्योकारान्तस्य च धौ परे एकार ओकारश्च भवति॥ हे हरे । हरिम्, हरी, हरीन् ॥
Page #97
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(८१) (सुबोधिनी)-धौ ॥ इदुदन्तस्य एओ भवतः धौ परे ॥ कृताकृतप्रसङ्गित्वेन नित्यत्वाच्च पूर्वमेत्वमोत्वं च ॥ ततः 'समानाद्धेः' इति घिलोपः॥ इदुदन्तस्य किम् । हे ग्लौः । तपरत्वं किम् । हे वातप्रमीः। हे ह्हः।।।
(तत्त्वदी०)-धाविति ॥ अत्र एओ धिजसोरिति जस्ध्योरिति वा एकयोगो न कृतो यथाक्रमं स्थानिनोरादेशविधानशंकानिरासाय ॥ यत्तु योगविभागो विषयसप्तमीलब्ध्यर्थ इति तन्न विषये सप्तम्या अविधानादित्युक्तं तच्चिन्त्यम् ॥ विषये सप्तम्या बहुस्थले दर्शनात्॥ किंच यत्रं प्रत्ययोत्पत्तेः पूर्वमेव कार्य विधीयते तत्रैव विषयसप्तमीति व्यवहारः प्राचाम् ।। यथाऽऽर्धधातुके 'बजो वच् 'चक्षिङः ख्याञादयः' एवं वदता वया स्वयमेव विषयसप्तम्याः स्वीकृतत्वात्॥
(टा नाऽस्त्रियाम् ॥ ) इकारान्तादुकारान्ताच परष्टा ना भवत्यस्त्रियाम् ॥ हरिणा, इरिग्याम्, हरिभिः॥
(सुबोधिनी)-टा नाऽस्त्रियाम् ॥ इदुद्भयां परष्टा ना स्यात् । स्त्रीलिङ्गे तु न॥ किंच पुंसीत्युक्ते तु अदसष्टाप्रत्यये त्यदाद्यत्वे मत्वे च अम टा इति स्थिते इनादेशतः परत्वादन्तरङ्गत्वाच्च 'मादू' इत्युत्वे पुल्लिङ्गे सिद्धममुनेति । क्लीवे त्वमुनेति न सिद्धयति । 'नामिनः स्वरे' इति नुमि कर्तव्ये उत्वस्यासिद्धत्वात् । अतोऽस्त्रियामित्युक्तम ॥ इदुद्भयां किम् । गवा ॥ तपरत्वं किम् । वातप्रम्या, हूह्वा ।
(तत्त्वदी० )-टा नाऽस्त्रियामिति ॥ इदुद्भयामित्यत्राप्यनुवर्तते । अत्र अस्त्रियामिति नझं प्रश्लिष्य छेदः । नञः प्रश्लेषे च व्याख्यानमेव शरणमिति तु वृद्धाः॥ ननु पुंसीत्येव किमिति न सूत्रितं लाघवात् । अत्राहुः । अमुना कुलेनेत्यत्र उखादन्तरङ्गत्वादिनादेशः स्यादतो नाम्यभावान्नुभावे रूपसिद्धिः स्यादित्यस्त्रियांग्रहणसामर्थ्याद् दुर्बलमप्युत्वं प्रवर्त्य नाभावो भवतीत्युक्तं कैश्चित्तन्न इनादेशत उत्वस्यान्तरङ्गत्वात् । अदस्शब्दमकारान्तात्परवर्ण ह्यपेक्षते उत्तम् । इनादेशस्तु नामस्यादि अकार टा चतुष्टयापेक्षत्वेन बहाश्रयत्वात् बहिरङ्गः ॥ किंच कृतेऽपीनादेशे स्थानिवद्भावेन टात्वमाश्रित्य नाप्रवृत्तेरिति पूर्वपक्षस्योत्तरम् । उत्तरार्थमस्त्रियांग्रहणं सूत्रकृता कृतम् । कथम् मु इति सूत्रान्तरम् । मुशब्दात्परष्टा ना भवति । मुशब्दश्वादस एव गृह्यते नान्यस्य पूर्वसूत्रेणैव सिद्धेः । तथा चात्र सूत्रे पुंसीत्यस्यानुवृत्तौ क्लीबे अमुनेति रूपसिद्धिन कर्तव्येति उत्वस्यासिद्धत्वात् । अस्त्रियामित्यनुवृत्तौ तु नपुंसकेऽप्यस्य प्रवृत्तिरिति ॥ अत्रेदं वक्तव्यम् । मु इति सूत्रान्तरकल्पनापेक्षया अस्त्रियामित्यस्यैव तज्ज्ञापने लाघवात् ॥ इदुद्भयां किम् । गवा ॥ तपरत्वं किम् । हूह्वा ॥ टा किम् । हरिभ्याम् ॥
(ङिति ) इकारान्तस्योकारान्तस्य च ङिति परे एकार ओकारश्च भवति ॥ हरये, हरिभ्याम्, हरिश्यः ॥
(सुबोधिनी)-डिति ॥ इदुदन्तस्य नाम्न एओ स्याताम् । ङ् इत् यस्य स डिन्त तस्मिन् ङिति । डिगत स्यादौ ॥ डिति किम् । हरिभ्याम् ॥स्यादौ किम् । हरिरिवा
Page #98
--------------------------------------------------------------------------
________________
(८२)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः ] चरतीति हरयति। आचारे क्वि । ततः 'प्रत्ययान्तात' इति स्त्रियाम। हर्या ॥नाम्नः किम्। नुतः,नुवन्ति ॥ किंच ङ् चासौ इच्च डिन्त तस्मिन् ङिति इति कर्मधारयकरणे इत्संज्ञकङकारादौ प्रत्यये परे इत्यर्थों भवति। तदा नाम्नः स्यादावित्येतयोरनुवृत्तिर्न कर्तव्यति । 'लित्पुषादेर्ड' इत्यादौ ङप्रत्यये तु परत्वादियुवौ । अशिश्रियत् अदूदुवदित्यादि ॥
(तत्त्वदी०)-डिन्तीति । अत्र 'इदुद्भयाम्' एओ जसि इति चानुवर्तते' । तत्र विभक्तिविपरिणामेन व्याख्यानम् ॥ ङ् इद्यस्य स ङित् तस्मिन्ङिति ॥ ङिति किम् । हरिभ्याम् ।। ङिच्च स्यादिरेव गृह्यते न त्वन्यः॥
(ङस्य) एदोद्भयामुत्तरस्य ङ्सिङसोरकारस्य लोपो भवति ॥ हरेः, होः, हरीणाम् ॥
(सुबोधिनी)-ङस्य ॥ एदोतोऽत इति सूत्रमनुवर्तते लोपश् इति च । एदोतः परस्य डस्याकारस्य लोपश् स्यात् । डकारस्य इत्संज्ञायामकारः परत्वेन लभ्यते ॥ एदोतः इति किम् । रायः । ग्लावः ॥ अस्येति किम् । हरये । भानवे ॥ डस्यातः किम् । हरयः। भानवः॥ (तत्त्वदी०)-ङस्येति ॥ कारग्रहणेन ङसिङसोर्ग्रहणम् ॥ (डेरौ डित् ) इदुद्भयामुत्तरस्य डेरौ भवति स च डित् ॥
(सुबोधिनी)-डेरौ डित् ॥ इदुद्भ्यां परस्य सप्तम्येकवचनस्य औः स्यात्स च डित्संज्ञकः ॥ ननु 'डेडौँ' इत्येव वक्तव्यं किं डिच्छब्देन । उच्यते । डिग्रहणम् 'ऋतो ङ उः' इत्यादौ डिदित्यस्यानुवृत्त्यर्थम् ॥ इदुद्भयां किम् । रायि । गवि ॥ तपरत्वं किम् । वातप्रमी । हूति ॥ __ ( तत्त्वदी०)-डेरौ डिदिति ॥ इदुद्भयां किम् । गवि ॥ तपरत्वं किम् । वातप्रमी ॥ .: किम् । हरिभ्याम् ॥ अमादावित्यादिनिर्देशेन च औ डिदित्ययं नादेशः ॥ अत एव रित्येतेन चतुर्थंकवचनस्य न ग्रहः । न च डिति टेरित्यत्र डिसंज्ञकस्यैव ग्रहणं न तु यौगिकस्य कृत्रिमत्वात् । तथा च सेर्डाऽधेरित्यत्र डकारस्य डिसंज्ञा न प्रयोजनाभावादिति चेत्सत्यम् स्त्रियामिति निर्देशेन 'कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणम्' इत्यस्याप्रवृत्तेः । तथा हि। स्त्यायतेः इटि स्त्रीतिरूपं तच्चैवं न स्यात् ॥ २ वित्येव किमिति न सूत्रितमिति चेन्न उत्तरार्थ डित्करणम् । ऋतो ङ उरित्यादावावश्यकत्वात् । अथ तत्रापि ङो डुरित्येव किमिति न कृत. मिति वाच्यम् । ङावित्यत्र धेररित्यनुवर्तते । तथा च डरि कृते डरित्येवात्रानुवर्तत । तथा च ऋकारस्य डरि कृते टिलोपे पितरीत्यादि रूपं न सिद्धयेत् । अप् कर्तरीति लिङ्गेन तत्र टिलोपः स्यादिति न वाच्यम् । पञ्चस्विति सूत्रेऽपि डरोऽनुवृत्तौ ज्ञापकाभावात् टिलोपे पितरावित्यादिरूपं न सिद्धयेत् इति डिदित्युक्तम् । यदि तु डिति प्रत्यये लोप इति व्याख्यायते तदा न कर्तव्यं भवति ॥
Page #99
--------------------------------------------------------------------------
________________
[ स्वरान्त पुंल्लिंगा: ]
टीकाद्वयोपेता ।
( ८३ )
(डिति टेः ) डिति परे टेर्लोपो भवति ॥ हरौ, हर्योः, हरिषु ॥ एममग्निगिरैिरविकविमुन्यादयः ॥ उकारान्ता विष्णुवायुभानुगुर्वादयोऽप्येवं ज्ञेयाः ॥ भानुः, भानू, मानवः ॥
( सुबोधिनी ) - डिति टेः ॥ नाम्नष्टेर्लोपः स्यात् डिति परतः ॥ अव्ययानां टेर्लोपश्च । तद्धितस्य ये स्वरे च । तथा बहिर्भवो बाह्यः । पुनःपुनरेव पौनःपुन्यम् । ण्यः ॥ कुतः कुत आगतः कौतस्कुतः । कारकादित्यणू ॥
(तदी० ) - डिति टेरिति ॥ डू इत् यस्य स डित् तस्मिन् डिति ॥ अत्राहुः । अत्र वाक्यार्थत्रयम् । नाम्नो लोपो भवति डिति परे इत्येकम् । तथा च विंशतेः पूरण इति वाक्ये अप्रत्यये 'यस्य लोपः' इतीकारलोपेऽतो लोपे विंश इति सिध्यति । ततः टेः । नाम्नः तथा टेर्लोपो भवति यकारे स्वरे चेति द्वितीयम् । तथा च लघिष्ठः बहिर्भवो बाह्य इत्यादिसिद्धिः । ततः टेर्लोपो भवति डितीति तृतीयम् । अत्र तद्धिते यस्वरे इति न सम्बध्यते विश्लेषावधावित्यादिनिर्देशात् । तत्र ङेरौ डिदिति न तद्धित इति । अत्रेदं संप्रधार्यम् । तृतीयवाक्ये नाम्न इति संबन्धे स्त्री तितउरित्यादि न सिध्यति । तथा हि । स्त्यैधातोईटि कृते टिलोपावसरे नामत्वाभावात् । तितउरित्यत्रापि तनोतेर्डउः सवच्चेति उप्रत्यये टिलोपावसरे धातुत्वानपायेन नामत्वाभावात् । तस्मादत्र न नाम न संबध्यते । किंतु डितीति परसप्तम्या पूर्वमात्रमाक्षिप्यते तथा च सर्वत्र निर्वाह इति दिक् ॥
(सेर्डाऽधेः ) सखिशब्दात्तदन्ताच्च परस्यसेर धेर्डा भवति ॥ सखा ॥ ( सुबोधिनी ) - सेर्डाऽधेः ॥ सखिशब्दात्स खिशब्दान्ताच्च नाम्नः परस्य सेर्डा स्यात् । 'ऐ सख्युः' इति सूत्रे विपरीत निर्देशात्तदन्तग्रहणम् ॥ कीदृशस्य से: । न धिः अधिस्तस्याधर्धिभिन्नस्यत्यर्थः ॥ समानं ख्यायते जनैरिति सखा । नीव्यादयः इति निपातनात्ख्याधातोरिप्रत्ययो या इत्यस्य निवृत्तिश्च ॥ तदन्ते तु शोभनः सखा सुखा ॥ धौ तु 'धौ' इत्येकारो न तु डा अधेरिति निषेधात् ॥
(तत्त्वदी ० ) - सेऽधेरिति ॥ अधेरिति छेदः । धिभिन्नस्य सेर्डा भवतीत्यर्थः ॥ ऐ सख्युरित्यतः सख्युरित्यनुवर्तते । तच्च षष्ठयन्तमर्थवशा द्विपरिणम्यते । 'सख्युरै' इति कर्तव्ये विपरीत निर्देशात्तदन्तलाभ इत्यभिपेत्याह- तदन्तादिति ॥ सख्युः किम् । हरिः ॥ सेः किम् । सखिभ्याम् ॥ अधेः किम् । हे सखे ॥
( ऐ सख्युः ) सखिशब्दस्य तदन्तस्याप्यैकारादेशो भवत्यधिष पञ्चसु ॥ सखायौ, सखायः । सखायम्, सखायौ, सखीन् ॥
( सुबोधिनी ) - ऐ सख्युः ॥ तस्मादित्यनुवर्तते । तस्य सखिशब्देन विशेषणात्तदन्तविधिः । सखिशब्दस्य सखिशब्दान्तस्य च नाम्नः ऐः स्यात् । पञ्चसुशब्दः प्राकू
Page #100
--------------------------------------------------------------------------
________________
( ८४ )
सिद्धान्तचन्द्रिका |
[ स्वरान्त पुंलिंगा: ]
स्यादिष्वेव रूढः । सौ तु परेण डादेशेन बाधितत्वादेर्ने | अथवा सेडदेशे प्रकृतेरैत्वे च कृते टिलोपः। विशेषाभावात्तदन्ते सुसखायौ । सख्युरिति षष्ठीनिर्दिष्टत्वेनान्त्यस्कारस्य ऐः । सखायौ ॥
( तत्त्वदी ० ) - ऐ सख्युरिति । अत्राधेरित्युत्तरसूत्रादपकृष्यते । तथा चाधिप्रत्ययान्तस्य सखिशब्दस्यैकारादेशः पञ्चस्विति व्याख्येयम् । अथ औप्रभृतीनि पञ्च वचनानि कुतो न गृहीतानि इति न वाच्यं पञ्चसुशब्दः स्यादिष्वेव रूढ इति व्याख्यानात् ॥ यद्वा अधेरिति पर्युदासात्स्यादिग्रहः॥ ( सखिपत्योरीकू) सखिपतिशब्दयोरीगागमो भवति टाङङि परतः ॥ दीर्घत्वान्ना न भवति ॥ सख्या, सख्ये ॥
(सुबोधिनी) - सखिपत्योरीगिति । एतयोरीक् स्यात् टाङेडिषु || कित्त्वादते । टाप्रत्यये ईका व्यवधानात् टा नाऽस्त्रियामिति न प्रवर्तते । सवर्णे दीर्घे यत्वे च सख्या । सख्ये । ङौ तु औवे टिलोपे च कृते पश्वादेकदेशविकृतमिति न्यायेनेग्यत्वे । सख्यौ ॥ सखिपत्योर्विशेषस्य विवक्षणात् तदन्तविधिर्न । तेनातिसखिना भूपतिना इत्यत्र ने
1
||
( तत्त्वदी ० ) - सखिपत्योरीगिति । अत्र ए टाङ्योरिति पूर्वसूत्रात् ढाङचोरित्यनुवर्तते । तथा च टाब्योरेवानेन ईक् । सख्ये इति सिद्ध्यर्थं तु 'ङ' इति सूत्रान्तरम् । तथा च ङ परे सखिपत्योरीगागमो भवति इति तस्यार्थः ॥ दीर्घविधिर्नात्वादिप्रतिषेधार्थ इत्यभिप्रेत्याह दीर्घत्वादिति ॥ यद्यपि ह्रस्वकरणेऽपि विधानसामर्थ्यान्नात्वादिप्रतिषेधो लभ्यते तथापि ङौ द्विः सवर्णदीर्घे सखी इत्येव स्यादिति दीर्घ करणात्प्रथम मौत्वटिलोपयोः प्रसक्तयोः पश्चादेकदेशविकृतन्यायेन ईगागमे कृते सख्याविति रूपसिद्धयर्थं दीर्घविधानस्यावश्यकत्वात् । अत एव ईदिद्वा न कृतः । ' सखिपत्योर्या' इत्यपि न सूत्रितम् । सख्या सख्ये इति सिद्धावपि ङौः सख्यि इति रूपापत्तेः । अत्र नाम्नो विशेषणत्वाभावान्न तदन्तलाभः ॥
( ऋङ ङे) सखिपतिशब्दयोगागमो भवति ङसिङसोरकारे परे ॥ सख्यृ अस् इति स्थिते ॥
(सुबोधिनी) - ऋङ् ङे । सखिपत्योर्ऋकू स्यात् ङा उपलक्षितः अःङस्तस्मिन् ङे ॥ (तत्त्वदी ० ) - ऋङ् ङे इति ॥ ऋक् इति छेदः । ङे इति सप्तमी । ङोपलक्षितः अः ङः तस्मिन् ॥ तेन ङसिङसोरकारो लभ्यते || 'ङङ:' इति सूत्रणीये ईगनुवृत्त्या ङितीत्येत्वस्य बाधे रूपसिद्धावपि गुरुकरण मागम जस्यानित्यत्वज्ञापनार्थम् । तेन सखिना वानरेन्द्रेणेति अन्यत्र पतिना सहेति च संगच्छते ॥ ङे किम् । सखीन् ! सखिपत्योः किम् । वातप्रम्यः ॥
(ऋतो ङ उः ) ऋकारान्तात्परस्य ङसिङसोरकारस्योकारो भवति । सच डित् ॥ सख्युः । ङेरौ डिदित्यौकारे कृते सखिपत्योरीक् । सख्यौ ||
Page #101
--------------------------------------------------------------------------
________________
[ स्वरान्त पुंलिंगा: ]
टीकाद्वयोपेता ।
(८५)
शोभनः सखा सुसखा, सुसखायौ, सुसखायः । सुसखीन् । सुसखये | सुसखेः । सुसखौ॥अतिशयितः सखा अतिसखा । परमः सखा परमसखा । सखीमतिक्रान्तोऽतिसखिः । इह डावे न । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न्यायात् ॥ पतिः पती, पतयः । पतिमू, पती, पतीन् । पत्या | पत्ये । पत्युः । पत्यौ ॥
(सुबोधिनी) - ऋतो ङ ङः ॥ डिदित्यनुवर्तते । ऋदन्तान्नाम्नः परो ङ उः स्यात् ॥ स च डित् ॥ नाम्नः किम् | आरत् । उरिति लिङ्गात्केवलादपि ऋत उर्भवति । ऋगागमे कृते यत्वात्वटिलोपाः । सख्युः । तदन्ते यथा । शोभनः सखेति प्रादिसमासे तत्पुरुषे राजाहः सखिभ्य इति टप्रत्ययो न पूजार्थोपपदे निषेधात् । इहैडात्वयोः प्रवृत्तिस्तदन्तग्रहणात् । सुसखिशब्दस्य पञ्चसु सखिवद्रूपम् । शेषं हरिवत् ॥ एवमतिशयितः सखेति अतिसखा । प्रादिसमासोऽत्र परमः सखा यस्य स परमसखेति बहुव्रीहिः । कर्मधारये तु टप्रत्ययेन भाव्यम् । गौणत्वेऽप्यैडात्वे भवतः । अतिदध्नेत्यादावच्चास्थ्नामितिवत् ॥ सखीमतिक्रान्तोऽतिसखिः । अत्यादय क्रान्ताद्यर्थेः इति तत्पुरुषः । अन्यार्थे इति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात् टप्रत्यय ऐडात्वे च न । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणं न तु लाक्षणिकस्येति परिभाषणात्। लक्षणं च प्रतिपदं च लक्षणप्रतिपदे लक्षणप्रतिपदाभ्यामुक्तौ लक्षण प्रतिपदोक्तौ तयोः । द्वन्द्वान्ते श्रूयमाणत्वादुक्तशब्दः प्रत्येकं संबध्यते । लक्षणोक्तः प्रतिपदोक्त इति । लक्षणेन सूत्रेणोक्तो लाक्षणिक इकः । प्रतिपदोक्तस्य झटिति बुद्धयारोहो लाक्षणिकस्य तु लक्षणानुसंधानद्वारेण विलम्बितो बुद्धयारोहो भवतीत्यर्थः । क्लीचे तु पूर्वेणापि नुमा परस्यात्वस्य वाधः क्रियते । प्रायशो दृश्यतामित्युक्तत्वात् । यथा प्रियसखिनी, प्रियसखीनि । पतिशब्दस्य टाङेङसिङङिषु सखिवद्रूपम् | शेषं हरिवत् ॥
(तत्त्वदी०)-ऋतोङ उरिति । अत्र नाम्न इति ऋदन्तस्य विशेषणम् । स्यादेरिति ङस्य ॥ तेन आरत् कर्तृ ङवते इत्यादौ नातिप्रसङ्गः । सख्युरित्यादिलिङ्गाच्चतुथ्यैकवचनस्यादेशे लोपे चन निर्देशशंका ॥ ऋतः किम् । ग्लावः ॥ ऋतो उरिति सूत्रणीये नग्रहणं वर्णमात्रविधौ यदादेशस्तद्वद्भवतीति न प्रवर्तते इति ज्ञापनाय । तथा हि ऋतः अः उरिति छेदः । जसमोस्तु परत्वगुण एव स्थानिवद्भावेन प्राप्तोऽपि पञ्च सुग्रहणसामर्थ्यान्न । अन्यथा अवत्येवोच्येत । तथा च शस्यतिप्रसङ्गः। तत्रापि परत्वाच्छसीति दीर्घेण भवितव्यम् । दीर्घे कृतेऽपि यदादेशस्तद्वदित्यनेनोत्वेन भाव्यम् । एवं चोत्वे कृते यदादेशस्तद्वदित्यम्शसोरस्येत्यलोपो भविष्यनि । इत्थं च कृताकृतप्रसङ्गित्वेन नित्यत्वादतः पूर्वमलोपो भविष्यति । तथा च शस्यपि नातिप्रसङ्गनिःशङ्केति तज्ज्ञापनफलकमेव ङकारग्रहणमिति वृद्धाः ॥ अतिसखिरिति ॥ अन्यार्थे इति हस्वः ।
Page #102
--------------------------------------------------------------------------
________________
सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः ] अतिसखेरिति भाष्यप्रयोगादीदन्तस्येत्यादिना स्वीकार्य न । लक्षणप्रतिपदोक्तयोरिति ॥ सूत्रानुसंबन्धद्वारेण कृतं लाक्षणिकम् । झटिति बुद्धयारोहणं प्रतिपदोक्तम् ॥
(पतिः समासे हरिवत् ) भूपतये ॥ (सुबोधिनी )-पतिः समासे हरिवत् ॥पतिशब्दस्य रूपं समासे हरिवत्स्यात्॥ समासाभावे शसादौ सखिवत् । भुवः पतिः भूपतिस्तस्मै भूपतये । समासत्वादत्र नेक् । कथं सीतायाः पतये नमः । पराशरश्चाह । “नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥१॥” इति । उच्यते । पतिशब्दोऽयमाख्यातप्रत्ययान्तः । यथा नाम्नो बिडिदिति जिप्रत्यये टिलोपे धातो रित्यौणादिके इप्रत्यये बेरिति त्रिलोपे च निष्पन्नोऽयं पतिशब्दः ॥ पतिमाचष्टे इति पतयति पतयतीति पतिः। लाक्षणिकत्वादस्य सखिवद्रपम् । एवं 'कृष्णस्य सखिरर्जुनः' इति भारते । 'सखिना वानरेन्द्रेण' इति रामायणे च बोध्यम् ॥
(आगमजमनित्यम् ) संखिना । पतिना ॥ द्विशब्दो नित्यं द्विवचनान्तः॥
(सुबोधिनी)-आगमजमनित्यम् ॥ आगमाज्जातमागमजं कार्यमनित्यमस्ति इति न्यायादा सखिनेत्यादौ नेक् । अथ ऋडे इत्यत्र ङ उरिति सूत्रणीये ईगनुवृत्त्या डिति त्वेत्वस्य बाधे रूपसिद्धावपि गुरुकरणमेतत्सत्त्वे ज्ञापकं बोध्यम् ॥
(त्यदादेष्टेरःस्यादौ ) द्वौ । छौ । द्वान्याम् । द्वाप्याम् । दायाम्। द्वयोः। द्वयोः॥ . (सुबोधिनी)-त्यदादेष्टरः स्यादौ । त्यदादीनां दशानां टैरत्वं भवति स्यादिविभक्तौ ॥ विभक्ताविति किम् । त्यद । तत् ॥स्यादौ किम् । तस्यापत्यं तादः। तमिच्छतीति तद्यति । यः॥टेः किम् । सः य इत्यादावत्वे सवणे दीघे च सा या इति स्यात् ॥ द्विशब्दस्यात्वे सति सर्ववद्रपम् ॥
(तत्त्वदी)-त्यदादेष्टेरः स्यादाविति ॥ त्यदादेः किम् । मरुतौ ॥ स्यादौ किम् । तस्यापत्यं तादः । तमिच्छति तद्यति । अत्र स धातुरित्यादिलिङ्गेनैव टेरेवात्वसिद्धौ टेरिति ग्रहणं टेरपि काचद्विधानार्थम् । तेन किम्शब्दस्याकसहितस्य त्यदाद्यत्वे क इत्येव रूपम् ।
संज्ञोपसर्जनयोनात्वम् ) द्विर्नाम कश्चित् । द्विः, द्वी, दयः॥ द्वावतिक्राम्तोऽतिद्विः । प्राधान्ये तु परमद्वौ ॥ त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः। त्रीन् । त्रिभिः। त्रियः। त्रिीयः॥
(सुबोधिनी)-संज्ञोपसर्जनयो त्वम् ॥ संज्ञायां गौणत्वे च त्यदादेरित्यत्वं न भवति सर्वाद्यन्तर्गणकार्यत्वात् । कस्यचित् पुरुषस्य द्विर्नाम तस्य हरिवद्रूपम् ।
Page #103
--------------------------------------------------------------------------
________________
[ स्वरान्त पुंलिंगा: ]
टीकाद्वयोपेता !
( ८७)
गौणेऽतिद्विस्तस्यापि हरिवद्रूपम् । प्राधान्ये मुख्ये तु परमौ च तौ द्वौ च परमद्वैौ । कर्मधारयः। सर्ववद्रूपम् ॥
(रङ ) त्रिशब्दस्याय आदेशो भवति नामि परे ॥ तदन्तविधिरत्र । ङिदन्तस्यैव वक्तव्यः । त्रयाणाम् । परमत्रयाणाम् । त्रिषु । कतिशब्दो नित्यं बहुवचनान्तः ॥
(सुबोधिनी) - रङ् ॥ आम इत्यनुवर्तते । तच्च सप्तम्या विपरिणम्यते । तस्मादिति च । तस्य नाम्नस्त्रेरिति विशेषणे विशेषणत्वात्तदन्तविधिः । त्रिशब्दस्य त्रिशब्दान्तस्य चायङ्ग स्यादामि । गुरुत्वात्सर्वादेशे प्राप्ते ङिदादेशः अन्तस्य स्थाने भवतीतीकारस्यायङ् । त्रेरित्येकवचननिर्देशस्त्वनुकरणत्वात् । तदन्ते । प्रियाश्च ते त्रयश्च प्रियत्रयस्तेषां प्रियत्रयाणाम् । गौणत्वे नेति केचित् । तरतेरौणादिको ड्रिप्रत्ययः । डित्त्वाट्टिलोपे त्रिशब्दः ॥
( तत्त्वदी ० ) - त्रेरयङिति ॥ ननु त्रिशब्दस्य बहुवचनान्तत्वात् कथं त्रेरिति चेत्सत्यम् । त्रिशब्दस्त्रित्वविशिष्टवाचको बहुवचनान्त: । अयं तु न त्रित्वविशिष्टवाचकः किंतु तदनुकरणेन गृहीतः । अनुकार्यानुकरणयोश्च भेदविवक्षाया इष्टत्वात् । प्रकृतिवदनुकरणमित्यस्य त्वनित्यत्वात् । एवं स्थिते त्रयाणामयङ् इत्युक्तौ त्रिशब्दसमानवचनाशङ्कायां तदुद्धारार्थम् अचतुर्णामित्यादिलिङ्गानुसरणं कृत्वा पुनर्गौरवदोषोद्भावनेन यथान्याससूत्रस्थापनप्रयासो निजपाण्डित्यप्रस्थापनायैवेति दिक् ॥ तदन्तविधिरत्रेति ॥ तस्मादित्यनुवृत्तेः त्रिशब्दान्तस्य नाम्न इति व्याख्यानात् । त्रयाणामित्यत्र तु व्यपदेशिवद्भावादित्यभिप्राय: ॥ ङिदन्तस्येति ॥ गुरुः शिच्चेत्यस्यापवादः ॥
(डतेः) संख्यावाचिनो डत्यन्ताज्जश्श सोर्लुक् ॥ प्रत्ययलोपे प्रत्ययलक्षणम् ॥ ( सुबोधिनी ) - तेः ॥ किमः संख्यापरिमाणे इति चेति इतिः । संख्या परिमाणे विहित इह गृह्यते पातेर्डतिरिति तु न संख्याया इत्यनुवृत्तेः ॥
1
( तत्त्वदी ० ) - डतेरिति ॥ डत्यन्तान्नाम्न इति बोध्यम् । डतिप्रत्ययश्च शेषा निपात्याः कत्यादय इति गृह्यते । संख्याया इत्यनुवृत्तेः संख्यासंबन्धे च डतिर्गृह्यते न तु पातेर्डति: पतिरिति ॥ करिति तु न सूत्रितं पतिततीनां ग्रहणार्थम् ॥ यत्तु कतेरित्येव युक्त पतिततीनां लोकेऽदर्शनादित्युक्तं तत् प्रौढिवादमात्रम् 'पतिते नागशीर्षणि' 'ततिते नाङ्गवेदना' इत्यादिषु दर्शनात् । बहुगणवतुडति संख्येति पाणिनिसूत्रेऽपि डतरेव ग्रहणात् । कतीत्यत्र एओ जसीत्यस्य प्राप्तौ जसोऽत्राभावात् प्रत्ययलोपेऽपि प्रत्ययाश्रितं कार्यं भवतीति तत्प्राप्तिः यदादेशस्तद्वद्भवतीति सिद्धेः प्रत्ययलोप इत्याद्युक्तिर्नियमाथा । तेन यत्र प्रत्ययस्यासाधारणं रूपं प्रयोजकं तदेव प्रत्ययलोपे सति भवति न तु प्रत्ययाप्रत्ययसाधारणम् । तेन शोभना दृषदोऽस्य सुहवत् प्रासाद इत्यत्र अतोः साविति दीर्घो न ॥
Page #104
--------------------------------------------------------------------------
________________
(८८) सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः ]
(लुकि न तनिमित्तम् ) कति । कति । कतीनाम् । कतिषु ॥ औडुलोमिः । औडुलोमी ॥
(सुबोधिनी)-कतीत्यत्र यदादेशस्तद्वदिति जसमाश्रित्य एओ जसीत्येत्वे प्राप्ते सत्याह ॥ लुकि न तन्निमित्तम् ॥ लुक्शब्देन लुप्ते सति लुग्वन्निमित्तमाश्रित्य कार्य न भवतीत्यर्थः ॥ 'शीडो गुणश्चतुर्यु' इत्यनेन ज्ञापितमिदम् । अन्यथा शेते इत्यादावदादे गिति लुप्तस्यापः प्रत्ययलोप प्रत्ययलक्षणम् इति तद्वद्भावेन गुणस्य सिद्धत्वाव्यर्थमिदं सूत्रं ततो ज्ञापयतीति । का संख्या येषां ते कति ॥ उडूनीव लोमानि यस्य स उडुलोमा । उडुलोम्रोऽपत्यमौडलोमिः । बाहादित्वादिञ् ॥
(तत्त्वदी० )-सिद्धान्तमाह ॥ लुकि न तनिमित्तमिति ॥ स प्रत्ययो निमित्तं यस्य तत्कार्यमिति शेषः । लुकि सति प्रत्ययाश्रितं कार्य न भवति इत्यर्थः । एतद्बीजं तु शेते इत्यत्र शीङ इति सूत्रेण गुणकरणम् । अन्यथा अपो लुकि प्रत्ययलक्षणेन पित्त्वाद्गुण इत्यनेनैव गुणे सिद्धे यत्सूत्रान्तरप्रणयनं तज्ज्ञापयति । लुकि न तनिमित्तमिति ॥ औडलोमिरिति ॥ बाहादेश्वेति इन । आदिस्वरस्य णिति चेति वृद्धिः । टिलोपः ॥ __ (लोनोऽपत्येषु बहुष्वकारः) उडुलोमाः। औडुलोमिम् । औडुलोमी, उडुलोमान् ॥ वातप्रमीः, वातप्रम्यौ, वातप्रम्यः। वातप्रमीम्, वातप्रम्यौ, वातप्रमीन् । वातप्रम्या ॥ एवं ययीपप्यादयः। क्विवन्तवातप्रमीशब्दस्यामि शसि डौ च विशेषः । वातप्रम्यम् । वातप्रम्यः । वातप्रम्यि । वौ वेति यः ॥ बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी ॥
(सुबोधिनी)-लोम्रोऽपत्येष बहष्वकारः॥ लोमनशब्दान्तादप्रत्ययो भवति अपत्यानां बहुत्वे वाच्ये ॥ उडुलाम्नोऽपत्यानि उडुलोमाः । नो वेति टिलोपः। बहुस्वाभावे औडुलोमिशब्द इदन्तस्तस्य हरिवद्रपम् । बहुत्वे तु उडुलोमशब्दोऽदन्तोऽन्य एव । तस्य इकारान्तेषु व्युत्पादनं प्रासङ्गिकम् । औडुलोमिशब्दस्य बहुत्वेऽदन्तत्वं भवतीति न भ्रमितव्यमिति ॥ अदन्तस्य तु देववद्रूपम् ॥ इति इदन्ताः ॥ वातं प्रमिमीते इति वातप्रमीः । वातप्रम्यादय इत्युणादिसूत्रणमाङ ईक् प्रत्ययः। आतोऽनपीत्यालोपः। स्वरादिविभक्तौ 'इ यं स्वरे' इति यत्वम् । अमि शसि च परत्वादम्। शसोरित्यलोपः । वातप्रमीम् । वातप्रमीन् । आमि तु दीर्घत्वान्न नुटू । वातप्रम्याम् । ङौ तु सवर्णे दीर्घः वातप्रमी । एवं यान्त्यनेनति ययीर्गिः । पाति लोकमिति पपीः सूर्यः । यापोरीप्रत्ययो द्वित्वं च निपातनात् । यदा वातं. प्रमनिातीत मीञ् हिंसायाम् अस्मात् क्विपि वातप्रमीः। अथवा ईक्प्रत्ययान्ताद्वातप्रमीशब्दादाचार यङतात्कर्तरि क्विए क्रियते तदा क्विवन्तो वातप्रमीशब्दः। धातुत्वाद् यो वेति यः।
Page #105
--------------------------------------------------------------------------
________________
[ स्वरान्त पुंल्लिङ्गाः] टीकाद्वयोपेता।
(८९) स्वरादिविभक्तौ परतः सर्वत्र प्रधीवत् ॥ बवयः श्रेयस्यो यस्य स बहुश्रेयसी पुरुषः। पुंवदेतीपो निवृत्तिः। अतिशयेन प्रशस्य इति ईयसुप्रत्यये प्रशस्यशब्दस्य श्रादेशः। वित इतीप् । अन्यार्थे इति ह्रस्वस्तु न ईयसुप्रत्ययान्तस्य बहुव्रीहौ नेति निषेधात्॥
(तत्त्वदी०)-बहुष्वकार इति ॥ तथा च एकत्वद्वित्वयोरिदं न औडुलोमिशब्दः । बहुत्वे त्वकारान्तो भिन्न उडुलोमशब्दः । इकारान्तस्य बहुत्वेऽदन्तमिति न भ्रमितव्यमिति भावः ॥ ययीपप्यादय इति ॥ यान्त्यनेनेति ययीर्मार्गः । पाति लोकमिति पपीः सूर्यः ।
औणादिकौ ॥ क्विबन्तेत्यादि । तथा च वातं प्रमिमीते इति वातप्रमीरिति क्विबन्तत्वे धातुत्वानपायेन य्वौ वेति य इति भावः । औणादिकस्य तु धातुत्वाभावात् य्वौ वेत्यस्याप्रवृत्तावपि अम्शसोरित्यस्य प्रवृत्तिः । ङौ तु सवर्णे दीर्घः सहेत्यस्येति रूपभेदः ॥ बहुश्रेयसीति ॥ समासाश्रितविधेरनित्यत्वान्न कः ईयसोर्नेति निषेधान्न ह्रस्वः ॥
(ईदूदन्तस्येयुस्थानभिन्नस्य ख्याख्यस्योपसर्जनत्वेऽपि स्त्रीकार्य वक्तव्यम् )
(सुबोधिनी)-ईदूदन्तस्येवस्थानभिन्नस्य ख्याख्यस्योपसर्जनत्वेऽपिस्त्रीकार्य वक्तव्यम् ॥ स्त्रियमाचष्टे इति स्याख्यः।चसिङो मूलविभुजादित्वात्कप्रत्यये ख्याञादेशे चातोऽनपीत्यालोपो रूपम् ॥ स्त्रियामिति वक्तव्ये आख्यग्रहणं नित्यस्त्रीस्खलाभार्थम् । तेन वृत्तेः प्राक् स्याख्यस्य नित्यस्त्रीलिङ्गस्य ईकारोकारान्तस्य नाम्नो गौणेऽपि स्त्रीलिङ्गकार्य भवति ॥ स्याख्यस्योत किम् । ग्रामण्ये ॥
(तत्त्वदी० )-रुयाख्यस्येति ॥ स्त्रियमाख्यातीति स तस्य पूर्व स्त्रीत्ववाचकस्येत्यर्थः । इयुव्स्थानभिन्नस्य किम् । अतिश्रिये ॥
(हसेपः सेलोपः ) हसान्तादीबन्ताच्च परस्य सेर्लोपो भवति ॥ बहुश्रेयसी, बहुश्रेयस्यौ ॥
(सुबोधिनी)-हसेपः सेर्लोपः ॥ हसान्तादीवन्ताच्च नाम्नः सेलोपो भवति । हसश्च ईप् चानयोः समाहारो हसेप तस्मात् ॥ ननु कौशाम्ब्या निष्क्रान्त इति निष्कौशाम्पिरित्यत्रातिव्याप्तिः स्यात् । 'अन्यार्थ' इति ह्रस्वे कृते एकदेशविकृतस्यानन्यत्वात् । उच्यते । ई ईप् इति प्रश्लिष्य दीर्घस्यैवेपो ग्रहणात् ईकाररूपादीपः सेर्लोप इति । ह्रस्वे कृते स्वीचन्तत्वेऽपीकारान्तत्वं नास्तीति ॥ सोरिति किम् । मरुतौ ॥ हसान्तात्प्रयमं सिलोपे पश्चात्कार्यान्तरं भवति । इतोऽदित्यनेनात्वे उपधादीचे नलोपशि स्रोविसर्गे च कृते पन्याः इति सिद्धम् । आ सावित्याकारविधानेन प्रथमं सिलोफ्स्य ज्ञापनात् ॥
(तत्त्वदी०)-हसेपासेर्लोप इति॥हसश्च ईप् च एतयोः समाहारः हसेप तस्मात् हसेपः ॥ ननु हसग्रहणं किमर्थ हसान्तासंयोगान्तलोपे रूपसिद्धेरिति चेन्न वेधा इत्यत्र परत्वादपवादत्वाद्वा
Page #106
--------------------------------------------------------------------------
________________
(९०)
सिद्धान्तचन्द्रिका। [स्वरान्त(लिंगाः] स्कोराद्योरित्यनेन सलोपे अत्वसोः साविति दीर्वासिद्धेः। अथ परं नित्यं च लोपं बाधित्वा निरवकाशत्वादत्वसोरित्यस्यैव प्रवृत्तिरिति चेत् मैवम् । शक्नोतीति शक इत्यस्यासिद्धेः। संयोगान्तलोपं बाधित्वास्कोराद्योरिति कलोपप्राप्तेः। तस्माद्धसग्रहणम् । अथ गङ्गामिच्छति गङ्गीयति । ततःक्विपि अल्लोपयल्लोपौ गङ्गीरिति । तत्रापः भूतपूर्वपकारमाश्रित्य ईपः सिलोऽस्त्विति न वाच्यम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषया तंदग्रहणात् ।। ननु निष्कौशाम्बिरित्यत्र ह्रस्वत्वेऽपि ईपमाश्रित्य सेर्लोपोऽस्त्विति चेन्न । तत्र ई ईबिति प्रश्लिष्य दीर्घस्यैवेपः सर्वत्र ग्रहणात्। अत्र तस्मादित्यनुवृत्त्या स्याद्यनुवृत्त्या वा ईप्साहचर्याद्वा अभैत्सीदित्यादौ न लोपः ॥
(धौ ह्रस्वः) इयुस्थानवर्जितयोरीदूतोः स्त्रीशब्दस्य च स्त्रियां धौ परे ह्रस्वो भवति ह्रस्वविधानसामर्थ्याद्धाविति न । हे बहुश्रेयसि । बहुश्रेयसीम् । बहुश्रेयसीन् ॥
(सुबोधिनी)-धौ ह्रस्वः ॥ स्त्रियां वर्तमानयोरीदूतोः स्त्रीशब्दस्य च हस्तो भवति ॥ वेयुव इत्यपकृष्य व्यवस्थितविकल्पं चाश्रित्य वाक्यभेदेन व्याख्येयम् । तेन इयुव्स्थानिनोरीदूतोधौं न ह्रस्वः ॥ हे बहुश्रेयसि इत्यत्र ह्रस्वे कृते धाविति गुणो न ह्रस्वविधिसामर्थ्यात् ॥ _ (तत्त्वदी०)-धौ हस्व इति ॥ अत्र वेयुव इत्यतो वा इति इयुव इति चानुवर्त्य वा इत्यस्य व्यवस्थितत्वमाश्रित्य सवत्र निर्वाहः । तथा च इयुव्रस्थानवर्जितयोरीदूतोः स्त्रीशब्दस्य च धातुवर्जितस्य चेत्यादिलाभः । तेन हे श्रीः । हे स्त्रि । हे ग्रामणि । हे अतिचमु । इत्यादावव्या'त्यतिन्याप्तिपरिहारः सिद्धयतीति ध्येयम् ॥
(डितामट् ) स्त्रियामीकारान्तादूकारान्ताच्च ङितामडागमो भवति ॥ बहुश्रेयस्यै । बहुश्रेयस्याः। बहुश्रेयसीनाम् ॥
(सुबोधिनी) डितामदायोरित्यनुवर्तते । इदुद्भयामिति परत्वाद्विकल्पेन बाधनादीर्घयोरेव ईदूतोग्रहणमास्त्रियामीदूदन्तात्परेषां डेङसिङस्ङीनामट् स्यात्॥"यदागमास्तद्गुणीभूतास्तद्रहणेन गृह्यन्ते" इति परिभाषया स्याद्यवयव एवाटू । तेन स्वरादौ स्यादौ परतो विधीयमानावियुवौ स्वौ च भवतः । पथा। श्रियै । भुवै । प्रध्यै । वर्षाभ्वै ॥ स्त्रियां किम् । वातप्रम्ये । हूढे । आमि तु नुटू । बहुश्रेयसीनाम् ॥
(तत्त्वदी०)-डितामडिति ङ् इत् येषां ते ङितस्तेषाम् ॥ नन्वटः स्यादित्वाभावन कथं तस्मिन् इयुवौ य्वौ वेति चेत्सत्यम् । 'यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते' इति परिभाषयाऽपि स्यादिग्रहणेन ग्रहणसंभवात्। अत्र स्त्रियामिति निर्देशो मानम् ॥ अत्र च दीघौं ईदतौ ग्राह्यौ इदुद्भयां परत्वाद्विकल्पेन बाधात्। नन्वतिलक्ष्म्यै कथमत्र समासस्य स्त्रियामभावादिति चेन्न अवयवस्य स्त्रियां वर्तमानत्वेनैवेष्टसिद्धेः॥ स्त्रियां किम् । वातप्रम्ये॥य्योः किम् । मात्रे ॥ (स्त्रियां योः ) इवर्णान्तादुवर्णान्ताच स्त्रियां वर्तमानात्परस्य डे
Page #107
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(९१) रामादेशो भवति ॥ बहुश्रेयस्याम् ॥ अनीबन्तत्वान्न सिलोपः । अतिलक्ष्मीः। धौ ह्रस्वः । हे अतिलक्ष्मि । शेष बहुश्रेयसीवत् । सुश्रीः ॥
(सुबोधिनी)-स्त्रियां योः ॥ इश्च उश्चानयोः समाहारो युस्तस्मात् योः। समाहारे नपुंसकत्वस्यानित्यत्वात्पुंलिङ्गनिर्देशः। आगमशास्त्रस्यानित्यत्वादा न नुम् । अथवा इना सहित उरिति युः । शाकपार्थिवादित्वान्मध्यमपदलोपः। स्त्रियामिवोवर्णान्तात्परस्य डेराम् स्यात् ॥ स्त्रियां किम् । वातप्रमी। हाद ॥ योरिति किम् । गवि । किंच अडागमाभावे आमोऽप्यभाव इति यद्वृत्तौ पठ्यते तस्यायमाशयः । तथा हि । मत्यां मतावित्यादिषु स्त्रियां योरित्यनेन नित्यमामि कृते इदुद्भयामित्यादिविकल्पेनाट् क्रियते । अडागमाभावे तु स्थानिवद्भावेनामो ङित्त्वात् डेरौ डिदित्यनेन औत्वटिलोपो भवतः । अट्पक्षे तु तेन व्यवधानादौत्वाभाव इति । तेनाडामोः सहैव प्रवृत्तिर्भवति ॥ बहुश्रेयसी ङि इत्यत्र डेरामादेशे कृते नुट् न परत्वेनाटा बाधनात् । बहुश्रेयस्याम् ॥ लक्षेमुटु चेत्यौणादिक ईप्रत्ययान्तो लक्ष्मीशब्दः । लक्ष्मीमतिक्रान्त इत्यतिलक्ष्मीः । 'अन्याथें' इति ह्रस्वो न स्त्रीप्रत्ययान्तत्वाभावात्। हसेप इति सेर्लोपोऽपि न ईपप्रत्ययान्तत्वाभावात् । सुष्टु श्रीर्यस्येति सुश्रीः । ईबन्तत्वाभावान्न सिलोपः॥
(तत्त्वदी०)-स्त्रियां योरिति ॥ इश्व उश्च एतयोः समाहारः युः तस्मात् योः। आगमजस्यानित्यत्वान्न नुम् ॥ स्त्रियां किम् । वातप्रमीः ॥ योरिति किम् । गवि ॥
( बोर्धातोरियुवौ स्वरे ) धातोरिवर्णोवर्णयोरियुवौ भवतः स्यादौ खरे परे ॥ सुश्रियः । एवं सुधीयवक़्यादयः ॥ सेनानीः ॥
(सुबोधिनी )-य्वोर्धातोरियुवा स्वरे ॥ यत्वाद्यपवादोऽयम् । इश्च उश्च यू तयोर्बोः। व्याख्यानतो विशेषप्रतिपत्तिनहि संदेहादलक्षणमिति परिभाषया वोरिति ह्रस्वयोरिह ग्रहणे सावादीर्घयोश्च ॥ नाम्नो धातोरिवर्णोवर्णयोरियुवौ भवतः स्पादौ स्वरे ॥ धातोः किम् । वातप्रम्यौ । हूतौ ॥ स्यादौ किम् । श्यर्थम् । भ्वर्थम् ॥ ननु सुश्रिये इत्यादौ वेयुव इत्यनेनाट् कथं न क्रियते । ईदूदन्तस्य ख्याख्यस्येत्युक्तत्वादिति चेन्न । इयुवोनिमित्तभूतयोरीदूतोगौंणे स्वीकार्य न वक्तव्यं स्त्रीशब्द विना॥सुष्टु धीर्यस्येति सुधीशब्दस्य च नेति निषेधात् य्वौ वेति न प्रवर्तते ॥ यवं क्रीणातीति यवक्रीः। क्विवन्तः ॥ सेनां नयतीति सेनानीः । क्विवन्तः ॥ __ (तत्त्वदी० )-य्वोर्धातोरियुवौ स्वरे इति ॥धातोः किम् । वातप्रम्यौ ॥ य्वोः किम् । विश्वपौ ॥ स्वरे किम् ॥ सुश्रीभ्याम् ॥ स्यादौ किम् श्यर्थम् । भ्वर्थम् ॥ अत्र इश्व उश्व एतयोः बोरिति व्याख्यानतो विशेषप्रतिपत्तिर्नहि संदेहादलक्षणमिति वचनादिवर्णोवर्णयोरिति व्याख्यास्यामः । अत्राहुः 'नामिनः स्वरे' इति तु स्वरग्रहणमच्चास्नामिति शसादिना
Page #108
--------------------------------------------------------------------------
________________
( ९२ )
सिद्धान्तचन्द्रिका |
[ स्वरान्त पुंलिंगा: ]
संबद्धमिति तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यादिति पुनः स्वरग्रहणमिति । तत्रेदमवधेयय् । न ह्यन्यसूत्रस्थपदसंबद्धस्यानुवृत्तिरिह दृष्टा एकयोगनिर्दिष्टानामेव प्रवृत्तिनिवृत्त्योर्दर्शनात् । किंतु बहुसूत्रव्यवधानादन्यत्र विधानात्तन्निवृत्तौ स्वरग्रहणमित्येव वक्तुमुचितम् । अत्रातो धातोरित्यतो धातोरिति लब्धेऽपि पुनर्धातुग्रहणं योगविभागेनार्थविशेषज्ञापनार्थम् । तत्तु इयेषेत्यादौ स्पष्टतयोपपादयिष्यते ।। अत्राहुः । वोरिति किमर्थम् । परिशेषादेव तल्लाभात् । तथा हि । ऋदन्तस्य तुक् ऋदतस्य तु इरुरौ । लदन्तस्य तु धातोरेव न संभवः । संध्यक्षरान्तस्य त्वात्वमेव । अदन्तस्य 1 यत इति लोप: । आदन्तत्य शसादौ लोपः । पञ्चसु तु आतः पञ्चसु नेति पदत्रयमनुवर्त्य पञ्चसु नेति निषेधः । हसान्तस्य गमामित्यादिनिर्देशान्नेति । श्रीपं कुलमित्यादौ तु अत इति नेति च पदद्वयमनुवर्त्य अतो नेति व्याख्यातुं शक्यत्वान्नेति । परिशेषात् य्वोरिति लब्धे किमर्थं तदितीति । अत्रेदमवधेयम् । आदन्तस्य वारणाय आतः पञ्चसु नेति अदन्तवारणाय अतो नेत्याद्यनुवृत्तिक्लेशतो य्खोरिति ग्रहणस्य स्पष्टप्रतिपत्तितया लघुत्वादिति तदुपेक्षितम् ॥
( खौवा ) अनेकस्वरस्य नाम्नो धातोरिवर्णोवर्णयोर्य कारवकारौ भवतः स्यादौ स्वरे परे ॥ धातोरवयवसंयोगः पूर्वो यस्मात्तस्य तु न । सोपपदस्यानेकस्वरस्य चेदुपसर्गकारकपूर्वस्यैव नान्यपूर्वस्य । वर्षाकरहनपुनर्पूर्वस्य भूशब्दस्य वत्वम् । अन्यभूशब्दस्य सुधीशब्दस्य च यौन ॥ सेनान्यौ | सेनान्यः ॥
( सुबोधिनी ) - वौ वा ॥ इयुवोरपवादोऽयम् । तस्मादितेि खोर्धातोः स्वरे इति चानुवर्तते । अनेकस्वरस्य नाम्नो धातोः संबन्धिनोविर्णोवर्णयोर्यकारवकारौ भवतः स्यादौ स्वरे । धात्ववयवसंयोगपूर्वयोरिवर्णोवर्णयोस्तु य्वौ न । चेद्यदि सोपपदस्य धातोविर्णो वर्णयोव स्यातां तदोपसर्गकारकपूर्वस्य धातोरिवर्णोवर्णयोरेव य्वौ स्तः । न तूपसर्गकार केतरपूर्वस्य धातोरिवर्णोवर्णयोरर्थादुपसर्गकारकपूर्वत्वेन योऽनेकस्वरो धातुस्तस्येवर्णोवर्णयोरेव खौ । उपसर्गकार केतरपूर्वत्वेन योऽनेकस्वरो धातुस्तस्ये
वर्णयोवन ॥ अनेकस्वरस्य किम् । नियौ । लुवौ ॥ धातोः किम् । वातप्रम्यौ । हूौ ॥ स्वरे किम् । सेनानीभ्याम् । सुलूभ्याम् ॥ धात्ववयवसंयोग पूर्वत्वे सुश्रियौ । उपसर्गधात्ववयवसंयोगपूर्वत्वे तु य्वौ भवतः । उन्न्यौ । उल्ल्वौ । धात्ववयवसंयोगोऽत्र न । उपसर्गकारकाभ्यामितरपूर्वत्वे तु खौ न । परमनियौ । शुद्धधियौ । वर्षाकरन् पुनर्पूर्वस्य भुवो वत्वमितरपूर्वस्य भूशब्दस्य सुधीशब्दस्य च खौ न किंतु इव ॥
( तत्त्वदी० ) - वौ वेति । अत्र तस्मात् स्वोर्धातोः स्वरे इति पदचतुष्टयमप्यनुवर्तते इत्यभिप्रेत्याह--नाम्नो धातोरित्यादि ॥ अत्र वाशब्दो व्यवस्थितः । ततश्च सर्वेष्टसिद्धि
Page #109
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंल्लिङ्गाः ]
टीकाद्वयोपेता ।
(९३)
रिति । अनेकस्वरस्य किम् । नियौ ॥ धातोः किम् । वातप्रमीम् ॥ खोः किम् । सोमपौ । स्वरादौ किम् । सेनानीभ्याम् ॥ स्यादौ किम् । सेनान्यर्थम् ॥
1
I
( नियः ) नीशब्दादुत्तरस्य डेरामादेशः || सेनान्याम् । एवं सुनीत्रatraण्यादयः । धातुना संयोगविशेषणात् उन्न्यौ । उपसर्गकारकपूर्वस्थ किम् । परमनियौ । शुद्धधियो || अनेकस्वरस्य किम् । नियौ ॥ कुमारीमिच्छन् कुमारीवाचरन् वा कुमारी । हसेप इति सिलोपः । कुमार्यौ, कुमार्यः | अमि शसि च कुमार्यम् । कुमार्यः । शेषं बहुश्रेयसीवत् । सखायमिच्छति सखीयति । एकदेशविकृतस्यानन्यत्वात् त्वे सखा, सखायौ, सखायः । हे सखीः । सखायम् । सख्यः । सह खेन वर्तते सखस्तमिच्छति सखीः । सख्यौ । सुतमिच्छति सुतीः । सुत्यौ ॥
I
( सुबोधिनी ) - नियः ॥ नीशब्देन नाम्नो विशेषणात्तदन्तविधिः । नीशब्दान्नीशब्दान्ताच्च नाम्नो डेराम् स्यात् ॥ लून्यीत्यत्र तु नातिव्याप्तिः लक्षणप्रतिपदोक्तयोरिति न्यायात् ॥ अर्थवद्ग्रहणे नानर्थकस्येति न्यायाच्च ॥ यत्वे आमादेशे च सेनान्याम् । एवं सुष्ठु नयतीति सुनीः ॥ प्रध्यायतीति प्रधीः । ध्यायतेः क्विपि संप्रसारणे रूपम् ॥ यदा तु प्रकृष्टा धीर्बुद्धिर्यस्येति विग्रहस्तदा धीशब्दस्य नित्यस्त्रीलिङ्गत्वात् ईदूदन्तस्य रुयाख्यस्येति स्त्रीकार्ये बहुश्रेयसीवद्रूपम् ॥ सुष्ठु ध्यायतीति सुधीः । सुधीशब्दस्य च नेति निषेधादिय् । सुधियौ, सुधियः । इत्यादि ॥ ग्रामं नयतीति ग्रामणीः ॥ उन्नयतीत्युन्नीः । धातुना संयोगस्य विशेषणादिह वौ वेति यत्वं स्यादेव ॥ परमश्चासौ नीश्च परमनीः । शुद्धा धीर्यस्य स शुद्धधीः । उपसर्गकार
तर पूर्वत्वादि । यदा तु शुद्धं ब्रह्म ध्यायतीति विगृह्यते तदा य्वौ वेति यत्वं भवत्येव ॥ नयतीति नः । एकस्वरत्वादिहेयु ॥ कुमारी मिच्छतीति कुमारीयति । अथवा कुमारीवाचरतीति कुमारीयते कुमारयति वा । नाम्नो य ई चास्येति यप्रत्ययान्तात् कर्तुर्यङिति नाम्न आचारे क्विव्यगन्ताभ्यां च कर्तरि क्विपि परतः यत इत्यलोपे यवयोर्वसे हकारे चेति यलोपे च कुमारीति रूपम् ॥ ननु कुमारत्यित्रान्यार्थे इत्यनेन ह्रस्वः स्यात् क्विवर्थं प्रतीचन्तस्योपसर्जनत्वात् उच्यते । 'अन्यार्थे' इति सूत्रे कृत्रिम पसर्जनं गृह्यते न त्वप्रधानरूपमिति । कुमारीशब्दे ईदूदन्तस्य रूपाख्यस्थेत स्त्री भवति । तेन धौ परे धौ ह्रस्व इति ह्रस्वः । ङिद्वचनेषु ङितामडित्यट् । स्त्रियांः योरिति ङेराम् । आमि तु नुट् । स्वरे य्वौ वेति यत्वम् । कथं तर्हि दुर्धियः वृश्चिकभिय इत्यादि । उपसर्गकारकपूर्वत्वाद्यत्वेन भाव्यमिति । उच्यते । दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्योपसर्गसंज्ञा नास्ति । यत्क्रियायुक्ताः
Page #110
--------------------------------------------------------------------------
________________
(९४) सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः ] प्रादयस्तं प्रत्येवोपसर्गसंज्ञका इत्युक्तत्वात् । वृश्चिकसंबन्धिनी भीवृश्चिकभीरित्युत्तरपदलोपोऽत्र बोध्यः । भययोगाभावावृश्चिकस्य नापादानत्वमिति भावः ॥ सखायमिच्छतीति सखीयति । नाम्नो य इति यप्रत्ययः । य इति दीर्घः। ततः विपि यत इत्यल्लोपः। यवयोर्वसे इति यलोपः। अल्लोपस्यात्र स्थानिवत्त्वेन यत्वं न भवति । को लुप्तं न स्थानिवदिति निषेधात् । एकदेशविकृतस्यानन्यतया डात्वमैत्वं च भवति । शसादौ स्वरे य्वौ वेति यः॥ सह खेन वर्तते यः स सख इति बहुव्रीहिः । “कं शीर्षे च मुखे खं खः सदिवि व्योमनीन्द्रिये । शून्ये बिन्दौ सुखे खस्तु" इति हैमः ॥ सखमिच्छतीति सखीयति । नाम्नो य ई चास्यति यः ईत्वं च। ततः विपि सखी । लक्षणप्रतिपदोक्तयोरिति न्यायानात्र डात्वम् । स्वरादिविभक्तो वौ वेति यः॥ एवं सुतमिच्छतीति सुतीयति विपि सुतीः॥
( तत्त्वदी० )-निय इति । अत्र ‘णीञ् प्रापणे' इति धातुरेव गृह्यते न त्वन्यः लक्षणप्रतिपदोक्तपरिभाषयाऽतो लून्यि इत्यादौ नातिप्रसङ्गः । क्वचिन्नियश्चेति चकारःस चिन्त्यप्रयोजन इति वृद्धाः ॥ उन्न्याविति ॥ अत्र संयोगपूर्वकत्वेऽपि उपसर्गधात्ववयवसंयोगत्वाद् य्वौ॥ कुमारीमिच्छन्नित्यादि ॥ इ'छार्थयान्तादाचारविबन्ताद्वा कर्तरि किपि कुमारीति रूपम् । नेति पुरुष इत्यर्थः ॥ पुंस्त्वद्योतनायेदम् । कुमामिति ॥ अल्लोपे बाधित्वा । य्वौ वेति यः ।। सखेति ॥ अत्रापि सखायमिच्छतीति वाक्ये अल्लोपयलोपयोः सखीति दीर्घान्तः । सेर्डाऽधेरित्यत्र ऐ सख्युरित्यस्य हस्वान्तस्यानुवृत्तेरिह च ह्रस्वान्तस्य ग्रहणात् कथं दीर्घान्ते कार्यद्वयमित्यत आह-एकदेशेत्यादि । एकदेशेन एकावयवेन विकृतं विकारवत् विपरीताकृत्यपि नान्यवद्भवतीत्यर्थः। यथा छिन्नकर्णोऽपि श्वा श्वैव नाश्व इति भावः ॥ नन्वत्राल्लोपस्य स्थानिवद्भावेन यादेशोऽस्त्विति चेन क्वौ लुप्तं न स्थानिवदिति परिभाषोपस्थानात् । लुप्तेति नपुंसके भावे क्तः । क्वौ लोप इति यावत् ॥ सखायमिति ॥ अत्राम्शसोरिति बाधित्वा य्वौ वेति यः प्राप्तः ततोऽपि परत्वादै सख्युरित्यैत्वमेव तकारस्थानजादिति स्थानिवद्भावेनेति भावः ॥ (खीतीभ्यां कृतयादेशाभ्यां ङसिङसोरकारस्य उ) सख्युःसुत्युः॥
( सुबोधिनी )-खातीभ्यां कृतयादेशाभ्यां ङसिङसोरकारस्य उः ॥ वौ वेति कृतयाभ्यां खीतीवर्णाभ्यां परस्य ङसिङसोरस्य उः स्यात् ॥
(तकारस्थानजाद्वर्णादपि) लूनमिच्छतीति लूनीः । लून्युः । क्षामं प्रस्तीमं वेच्छतीति क्षामीः । क्षाम्युः। प्रस्तीमीः । प्रस्तीम्युः । शुष्कीः। पक्कीः। कृतयादेशत्वाभावान्नोत्वम् । शुष्क्रियः। पक्वियः॥ हूहूः, हूहौ, हूह्वः । हे हूहूः । हूहूम्, हूढौ, हूहून् । वातप्रमीवत् ॥ एवं दृम्भूः । अतिचमूः । बहुश्रेयसीवत् ॥ खलपूः, खलप्वौ, खलप्वः ।
Page #111
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(९५) एवमुल्लूसुल्वादयः ॥ स्वयंभूः स्वयंभुवौ, स्वयंभुवः । एवं लूस्वभूकटधूम्भूकाराभूपरमल्वादयः ॥ वर्षाभूः, वर्षायौ, वर्षाश्वः । वर्षाश्वम् । एवं कारभूपुनर्भून्भूकरभूशब्दाः॥
(सुबोधिनी )-तकारस्थानजाद्वर्णादपि॥कृतयादेशात्तकारस्थानोत्पन्नावर्णात्परस्य ङसिङसोरस्य उः स्यात्॥लूनमिच्छतीति लनीयति विपि लूनीः। ल्वाद्यादितश्चेति क्तस्य नः । क्षाममिच्छतीति सामीयति क्विपि क्षामीः । क्षायो म इति क्तस्य मः॥ प्रस्तीममिच्छतीति प्रस्तीमीयति विपि प्रस्तीमीः । प्रस्त्यायतेः संप्रसारणं क्तस्य नत्वं च निपातनात् । 'क्षामं क्षीणं तु प्रस्तीमं विपरीतं निगद्यते' इति ॥ शुष्कं पक्वं वेच्छति शुष्कीयति । पक्वीयति। क्विपि शुष्कीः। पक्वीः । शुषेः क इति क्तस्य कः। पचो व इति क्तस्य वः। ङसिङसोः परतो वोर्धातोरितीयादेशे कृते वो वेति यादेशस्याभावात् खीतीभ्यामित्युत्वं न ॥ इतीदन्ताः॥ उदन्ता हरिवत् ॥ इत्युदन्ताः॥ गन्धर्वविशेषवाचकोऽव्युत्पन्नो हूहूशब्दः। अमि शसि च अम्शसोरित्यल्लोपः। अन्यत्र स्वरादौ विभक्तौ उ वमिति वत्वम् ॥ दृम्भतीति दृम्भूः । 'अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः' इत्युणादिसूत्रेण कूप्रत्ययो नुमागमश्च निपात्यते । अयमूकारो धातोन । तेन उ वमिति वत्वम् । भी ग्रन्थे । दृम्भूः। ग्रन्थकर्ता ॥ चमूं सेनामतिक्रान्तो यः सोऽतिचमूः। आतिचमूशब्दे तु स्वीकार्य विशेषः। धौ हे अतिचमु । डित अतिचम्वै। अतिचम्बा:आमि अतिचमूनाम्।।ङौ अतिचम्वाम् ॥ खलं पुनातीति खलपूः । पूजः क्विप् । स्वरादौ विभक्तौ य्वौ वेति वत्वम् । स्वयं भवतीति स्वयम्भूः । क्विवन्तः । अन्यभूशब्दस्यति निषधात् वत्वं न ॥लुनातीति लुः । अनेकस्वरत्वाभावात् वत्वं न ॥ स्वेन भवतीति स्वभूः । अन्यभूशब्दस्यति निषेधावत्वं न॥ कटं प्रवत इति कटप्रूः । धातोरवयवसंयोगपूर्वकत्वाद्वत्वं न ॥ दृन्भ्यां भवती ति दृम्भूः कारायां भवतीति काराभूः । अन्यभूशब्दस्यति वत्वं न ॥ परमश्चासौ लूश्च परमलूः । उपसर्गकारकेतरपूर्वत्वाद्वत्वं न ॥ वर्षासु भवतीति वर्षाभूः । य्वौ वेति वत्वं स्वरे । 'भक मण्डूकवर्षाभूशालूरप्लवदर्दुराः' इत्यमरः ॥ 'भेक्यां पुनर्नवायां स्त्री वर्षाभूर्ददुरे पुमान् ' इति यादवः ॥ कर एव कारः स्वार्थिकोऽण । कार भवतीति कारभूः वत्वम् । पुनर्भवतीति पुनर्भूरिति । क्रियाशब्दः। 'पुनर्भूदिधिषूरूढा दिः' इत्यमरः ॥ पुनर्भूशब्दस्तु नित्यस्त्रीलिङ्ग एव ॥ निति नान्ते हिंसाव्यिये पूर्वपदे भुवः क्विम् । दृन्भूः। तरुः सर्पजातिः कपिश्च ॥ करे भवतीति करभूः । वत्वम् ॥ इत्यूदन्ताः ॥
(तत्त्वदी० )-कृतयादेशेत्यादि ॥ धात्ववयवसंयोगपूर्वत्वान्न यत्वं तदभावानोत्वमित्यर्थः॥
(सेरा) कारान्तात्परस्य मेरा भवति स च डित् ॥ पिता ॥
Page #112
--------------------------------------------------------------------------
________________
(९६)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः] (सुबोधिनी)-सेरा ॥ ऋतो ङ उरित्यत ऋत इत्यनुवृत्तम् । ऋदन्तान्नाम्नः सेरा स्यात् स च डिद्वत् ॥ पितृ सि इत्यत्र पञ्चसु इत्यर् प्राप्तः सेरा इत्यात्वं च प्राप्तम् । तत्र येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इति न्यायेनार इत्यस्य बाधकोऽयमाकारः प्रथमं प्रवर्तते।ततस्तस्य स्थानिवत्त्वेन आ इत्यस्य सित्वात्तस्मिन् परे अर टिलोपश्चति द्वयं प्राप्तम् । तत्र परत्वान्नित्यत्वाच्च टिलोपः ॥ "पिता माता ननान्दा नप्तृत्वष्टभ्रातृयातरः । जामाता दुहिता देवा न हि त्रन्ता इमे दश ॥१॥" अव्युत्पत्तिपक्षमाश्रित्येदमुक्तम् ॥ _(तत्त्वदी०)-सरेति ॥ अत्र ऋतो ङ उरित्यत ऋत इत्यनुवर्तते ॥ सेः किम् ।पितृभ्याम्। ऋतः किम् । हूहूः॥ तपरत्वं किम् । तृः ॥ अत्र पितृ सि इति स्थिते पञ्चस्वित्यरिप्राप्तेऽप्यल्पविषयत्वात् सेरेत्यादौ प्रवर्तते । ततः स्थानिवद्भावाडिलोपेऽरि च प्राप्ते परत्वाट्टिलोप एव ।। अत्राहुः । अन् सावित्येव सूत्रयितुमुचितम् । तथा च अनि सति नोपधाया इति दीर्घ हसेप इति लोपे सिद्धयतीष्टमिति । अत्रेदमवधेयम् । अन् साविति कृतेऽईमात्रालाघवेऽपि सूत्रद्वयापेक्षत्वेन प्रक्रियागौरवमित्युपेक्षितम् ।
(:पञ्चसु) ऋकारस्यार भवति पञ्चसु ॥ पितरौ, पितरः ॥
(सुबोधिनी )-पञ्चसु ॥ नाम्न ऋतोऽर् स्यात् स्यादिषु पञ्चसु ॥ स्यादौ किम् । विभृतः ॥
(तत्त्वदी० )-पञ्चस्विति ॥ अरित्यनुवर्तते । तच्च ऋत एव न तु तदन्तस्य निर्दिश्यमानस्यादेशा भवन्तीति वचनात् ॥ ऋतः किम् । हूतौ ॥ तपरत्वं किम् । त्रौ॥ पञ्चसु किम् । पितृभ्याम् । अत्र लाघवात् ङिपञ्चस्वित्येकयोगः समुचितः। पृथग्योगकरणमरोऽनित्यत्वज्ञापनायेति कश्चित् । तेन प्रियतिस्रौ, प्रियतिस्रेत्यादौ नेति भावः।।
(धेरर् ) ऋकारान्तात्परस्य धरेर् भवति स च डित् ॥ हे पितः । पितरम्, पितरौ, पितॄन् ॥ __ (सुबोधिनी)-धेरर् ॥ पञ्चसु इत्यस्य स्तुरार इत्यस्य चापवादोऽयम् । ऋदन्ताद्धेरर स्यात् स च डिद्वत् ॥
(तत्त्वदी०)-धेररिति ॥ अत्र वृद्धाः। माऽस्त्विदं संत्रं पञ्चस्वित्यनेनारि कृते हसेप इति संयोगान्त इति वा सिलोपे रूपसिद्धेः । अथ सेरेत्यस्य प्रवृत्तौ रूपासिद्धिरिति न वाच्यम् । तत्राधेरिति योजनीयमतो न हानिः॥ अथ ङावित्यत्रानुवृत्त्यर्थमिति चेत् तत्र 'अौँ इत्यस्यैव सुवचत्वात् । लाघवे विशेषाभाव इति चेत् एकवाक्येनार्थलाघवसद्भावात् । न चैवं हे कर्तरित्यत्राप्यप्रसङ्ग इति वाच्यं तत्रापि सेराऽधेररित्यतोऽधेरित्यनुवर्त्य विभक्तिविपरिणामेनाधाविति व्याख्येयमित्यतो धावरः प्रतिषेधात् । अत्रोच्यते । सूत्रं विना हे कर्तरिति न सिद्धयेत् । तथा हि । प्रथमं पञ्चस्विति अर् प्राप्तः तदपवादः स्तुरारिति आर् प्राप्तः स चाधा
Page #113
--------------------------------------------------------------------------
________________
[ स्वरान्तपुंलिंगाः] टीकाद्वयोपेता।
(९७) विति प्रतिषिद्धः। दवदत्तस्य हन्तरि हते न हि देवदत्तो जीवतीति न्यायेनारि निषिद्धेऽप्यर न स्यात् । सूत्रारम्भे तु धेररिति टिलोपे च सिद्धम् ह कर्तरिति । यदि त्वपवादे पुनरुत्सर्गस्य प्रवृत्तिरिति न्याय आश्रीयते यथा वासिष्ठ इत्यादौ तदद सूत्रं व्यर्थमित्याहुः ॥ ... (ऋतो ङ उः ) पितुः॥
(ङ) ऋकारस्यार भवति ङौ परे ॥ पितरि ॥ एवं जामातृधात्रादयः॥
(सुबाधिना)-डी ॥ नाम्न ऋतोऽर स्यात् डौ परे ॥ ङौ किम् । पित्रे । नयतेडिच्चेति ऋप्रत्ययान्तो नृशब्दः । ना, नगै, नरः ॥
(तत्त्वदी०)-डाविति ॥ अत्र डिदिति निवृत्तं डिस्कार्यस्यासंभवात्। ऋत इत्यनुवृत्त पञ्चम्यन्तमर्थवशाषष्ठया विपरिणम्यते । अत्रापि कर्तरीति निर्देशान्निर्दिश्यमानस्यैव ग्रहणम् । न तु तदन्तस्य । डिपरत्वमप्यत एव । तेन ग्रन्थकृतीत्यादौ नातिप्रसंगः । ऋतः किम् । वातप्रमी ॥ तपरः किम् । क्रि॥
(नुर्वा नामि दीर्घः) नृणाम्-नृणाम् । शेषं पितृवत्॥ (सुबोधिनी )-तुर्वा नामि दीर्घः ॥ नृशब्दस्य वा दीर्घो भवति नामि परे ॥
(स्तुरार् ) सकारतृप्रत्ययसम्बन्धिनः कारस्यार् भवति पञ्चसु ॥ कर्ता, कर्तारौ, कर्तारः । हे कर्तः । कर्तारम्, कर्तारौ, कर्तृन् ॥
( सुबोधिनी)-स्तुरार् ॥ स् च ता चानयोः समाहारस्तु तस्य स्तुः । स्तोरितिवद्धोध्यम् । सकारसहितस्ता तस्य स्तुरिति वा । सकारात् परस्य तृप्रत्ययावयवस्य च ऋत आर् स्यात् पञ्चसु ॥ कर्तृ सि इत्यत्र आग्पक्षया सेरेत्यस्यैव प्रथम. प्रवर्तनस्यौचित्यं नित्यत्वात् । ततष्टि लोपः । वस्तुतः पूर्वमारि कृते तु वर्णमात्रविधौ यदादेश इत्यस्याभावात् 'सेरा' इत्यात्वं न स्यादिति आत्वमेव पूर्व विधयमिति । स्तुरिति किम् । ना, नरौ, नरः॥
(तत्त्वदी०)-स्तुरारिति ॥ स च तृ च स्तृ तस्य स्तुः। स्रोरिति केचित् । सात्परत्वं तृशब्दस्यावयवत्वमृकारे बोध्यम् । न तु संयोगसमवायौ ऋकारस्य वर्णत्वेन शब्दत्वात् संयोगसमवाययोरभावात् ज्ञब्दस्य गुणत्वेन संयोगाभावः तस्य द्रव्यमात्रधर्मत्वात् । शब्दस्याकाशमात्रसमवेतत्वेन समवायाभावश्च ॥ ननु तृ इत्युक्त तृणो न ग्रहणं निरनुबन्धकग्रहणे न सानुबन्धकस्येति न्यायात् इति चेन्न परिभाषाया अनित्यत्वात् । प्रभातृशब्दस्यैव तृशब्दस्य ग्रहण व्याख्यानात् । लक्ष्यानुरोधो व्याकरणान्तं चात्र मूलम् । नप्त्रादीनां मातृपित्रादीनां तु नेति व्याख्यायां व्याख्यानमेव शरणम् । उभयेषामपि व्युत्पत्त्यव्युत्पत्तिपक्षयोः समत्वात् ॥
(उद्गातृनप्तनेष्टुत्वष्टक्षत्तहोतृपोतृप्रशास्तृणां च) उद्गाता । नप्ता ।
Page #114
--------------------------------------------------------------------------
________________
(९८) सिद्धान्तचन्द्रिका। [स्वरान्तपुंल्लिंगाः ] कोष्टुशब्दस्य पुंसि पञ्चसु स्यादिषु स्त्रियां च तृवद्रूपम् ॥ कोष्टा, क्रोष्टारी, कोष्टारः । हे क्रोष्टो । क्रोष्टारम्, क्रोष्टारौ, क्रोष्ट्रन् ॥
(सुबोधिनी) उद्गातृनप्तृनेष्टुत्वष्टक्षत्तहोतृपोतृप्रशास्तृणां च ॥ एषामप्यार स्यात् पञ्चसु॥किं च उद्गात्रादीनां वन्तानामारिष्टः। पितृमातृभ्रातृजामातृयातृदुहितशब्दानांत्रान्तानामरिष्टस्तत्र किंप्रमाणम्।व्युत्पत्तिपक्षे उद्गात्रादयःपित्रादयश्च उणादौचन्ता व्युत्पादिताः । अव्युत्पत्तिपक्षे तूद्गात्रादयः पित्रादयश्चाव्युत्पन्ना न तृप्रत्ययान्ता इति । उच्यते। व्युत्पत्तिपक्षे तृप्रत्ययान्तत्वादेवारि सिद्धे उद्गात्रादिग्रहणं व्यर्थम्। व्यर्थे सति नियम्यते। औणादिकानामुद्गात्रादीनामेव जन्तानामार् न तु औणादिकानां जन्तानां संज्ञाशब्दानामन्येषां पितृप्रभृतीनामिति । अव्युत्पत्तिपक्ष तृद्गात्रादिग्रहणं विध्यर्थमिति पितृमातृध्रा प्रभृतीनामार् इत्यस्य शंकैव नास्तीति ॥क्रोष्टुशब्दस्य पुसि पञ्चसु स्यादिषु स्त्रियां च तद्रूपम् । कोष्टुशब्दस्य स्थाने क्रोष्ट्र इति तृप्रत्ययान्तं रूपं भवति पुंसि पञ्चसु परेषु स्त्रीलिङ्गे च । 'क्रुश आह्वाने'अस्मादौणादिके तुप्रत्यये क्रोष्टशब्दः तृवुणाविति तृप्रत्यये तु क्रोष्ट्रशब्दः द्वावपि शृगालवाचिनौ । तत्राविशेषण द्वयोः प्रयोगे प्राप्ते पञ्चसु स्यादिषु स्त्रियां च तृप्रत्ययान्त एव । तृतीयादी स्वरे उभयम् । अन्यत्र तुप्रत्ययान्त एवेति नियमार्थमिदमारम्भणीयम् । निमित्तव्यपदेशतादात्म्यशास्त्रकार्यरूपविषयकत्वेनातिदेशस्य षड्विधत्वेऽपि प्राधान्यादिह रूपमेवातिदिश्यते तच्च क्रुशेरेव । उपस्थितत्वादर्थतः सादृश्याच ॥ - (टादौ स्वरे क्रोष्टुशब्दस्य तृवद्वा) क्रोष्ट्रा-क्रोष्टुना।क्रोष्टे-कोष्टवे। क्रोष्टुः-कोष्टोः । कोष्टुः-क्रोष्टोः। कोष्ट्रो:-क्रोष्ट्रोः । कताकतप्रसंगी यो विधिः स नित्यः । नित्य नित्ययोर्मध्ये नित्यविधिर्बलवान् । क्रोष्ट्रनाम् । कोष्टीर--कोष्टौ ॥ सह इ । कामेन वर्तते सेः, सयौ, सयः । स्मृता ईलक्ष्मीर्येन स स्मृतेः, स्मृ गो, स्मृतयः॥
(सुबोधिनी)-टादौ स्वरे क्रोष्टुशब्दस्य तृवद्वा ॥ क्रोष्टशब्दो वा तृप्रययान्तः प्रयोज्यष्टादौ स्वरे ॥तृप्रत्ययान्तकोष्टशब्दस्य कर्तृवद्रपमुकारान्तकोष्टुशब्दस्य भानुवत्। आमि तु तृवद्भावे नुडागमे च प्राप्त मत्याह । कृतं चाकृतं च कृताकृते कृताकृतयोः प्रसङ्गोऽस्यास्तीति कृताकृतप्रसङ्गी या शिवः स नित्यो विधिर्भवति । तृवद्भावे कृतेऽकृते चनुडविधिनित्यः तृवद्भावस्त्वनित्यः । नित्यश्चानित्यश्च नित्यानित्यौ तयोनित्यानित्ययोर्विध्योर्मध्ये नित्यो विधिबलवान्वलिष्ठः।।कौमुद्यां तु आमि परत्वात् तृज्वद्भावे प्राप्ते नुमचिरतज्वद्भावेभ्यो नुट् पूर्वविप्रतिषधेनेति नुङेबातेन वारीणाम्तिसृणाम् । क्रोष्ट्रनामिति॥इत्युदन्ताः। कृ विक्षेपो।"तृ प्लवनकरणयोः। अनयोरनुकरणे कृतृ इति॥प्रकृ
Page #115
--------------------------------------------------------------------------
________________
[स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(९९) तिवदनुकरणमिति वैकल्पिकातिदेशात् ऋत इर्' इति इरिथ्यो वि हसे' इति दीर्धे च कीः, किरौ, किरः। तीः तिरौः, तिरः । इत्यादि गीर्वत् । इरभावपक्षे तु कृः,की,क्रः। क्रम्, क्रौ, कृन् । का।के । ङसिङसोः कः। दीर्घान्तत्वादामो न नुटू । काम् । ङी तु कि॥ इत्यदन्ताः ॥ 'गम्ल गतौ ।' 'शक्ल शक्तौ ।' अनयोरनुकरणे गम्ल शक्ल इति। ऋवर्णलवणौ चेति सावया॑त् सेरेत्यात्वम् ।गमा । शकापञ्चस्वित्यल् ॥ गमलो, गमलः । गमलम्, गमलौ । शसि तु गम्लेन् । लकारस्य दीर्घावाभावाच्छसीति न दीर्घः। ल लमिति लः । गम्ला । गम्ले । ङसिङसोस्तु ऋतो ङ उरि. त्युत्वम् । गमुल । शकुल । ङौ तु गमलि । शकलि || इति लदन्ताः ॥ अस्यापत्यमिः कामः । अस्य कृष्णस्य स्त्री ईर्लक्ष्मीः । तेन तया वा सह वर्तते यः स सेः। सहादेरिति सहस्य सस्तत एत्वम् । स्वरादौ विभक्तावय । सयौ॥इत्येदन्ताः ॥ __ (रै स्भि) रैशब्दस्याकारादेशो भवति सकारभकारादौ स्यादौ विभक्तौ ॥ सुराः, सुरायौ, सुरायः । सुराज्याम् । सुरासु ॥
(सुबोधिनी )-रै स्भि ॥ इत्यविभक्तिको निर्देशः। रायः आत्वं स्यात् स्भादौ विभक्तौ ॥ स्भीति किम् । रायौ ॥ स्यादौ किम् । रैभारः। रैसहायः । 'अर्थरैविभवा अपि' इत्यमरः ॥ इत्यैदन्ताः ॥ __ (तत्त्वदी० )-रे स्भीति ॥ स च भू च स्भ तस्मिन् । स्भादौ स्यादावित्यर्थः ॥ स्मादौ किम् । रायौ ॥ स्यादौ किम् । रैभारः। रैसहायः॥ ऐ स्भीति न सूत्रितम् । 'ऐकारः स्यान्महेश्वरः' इत्येकाक्षरकोशादिस्थैकारान्तेऽतिप्रसङ्गात् ॥ (ओरौ)ओकारस्यौकारादेशो भवति पञ्चसु ॥ गौः,गावौ,गावः। हे गौः॥ (सुबोधिनी)-ओरौ ॥ ओकारस्यौकारो भवति ओकारान्तादिहितेषु पञ्चसु परेषु ॥ पञ्चसु किम् । गवा ॥ विहितविशेषणं किम् । हे भानो । हे भानवः ।धौ एओ जसीत्योकारे कृते औत्वं प्राप्तं विहितविशेषणाद्वार्यते ॥
(तत्वदी०)-ओराविति ॥ ओकारान्ताद्विहितेषु पञ्चसु स्यादिष्विति बोध्यम् । तेन हे भानो, हे भानव इत्यादौ नातेप्रमङ्गः। उकारान्ताद्विहितौ सिजसावत्र न त्वोकारान्तात् ॥ नन्धोरित्युक्ते उवर्णस्य कुतो न ग्रहणमिति चेन्न द्विगुः उत ऊरित्यादिनिर्देशेन ओकारस्यैव ग्रहणात् ।
(आऽम्शसि)आंकारस्थात्वं भवति अमिशसि च ॥गाम्,गावौ,गाः। गवा, गोश्याम् । ङस्य । गाः। एवं सुद्यौः। स्मृत उः शम्भु येन स स्मृतौः, स्मृतावो, स्मृतावः । ग्लौः, ग्लावौ, ग्लावः ॥ इति स्वरान्ताः पुंल्लिङ्गाः ॥
१ लकारस्य दीघाभावऽपि सावीत् ऋकार इति युक्तम् ।
Page #116
--------------------------------------------------------------------------
________________
(१००) सिद्धान्तचन्द्रिका। [ स्वरान्तस्त्रीलिङ्गाः]
(सुबोधिनी)-आऽम्शसि ॥ ओत आत्वं स्यात् ॥ शसा साहचर्यात् स्यादीनामेवाम् गृह्यते । नेह । अचिनवम् । असुनवम् । औतोऽपवादोऽयम् । अम् च शश्चानयो समाहारोऽमशस् तस्मिन् अम्शास। गाः इत्यत्र न त्वाम्शसीत्यावे इत्युक्तेः 'सो नः पुंसः' इत्यनेन सस्य नकारो न । सुष्टु द्यौर्यस्मिन् दिवसे स मुद्यौः । • द्योदिवौ दे स्त्रियामभ्रम्' इत्यमरः ॥ उः शम्भुः स्मृतो येन सः स्मृतौः। बहुव्रीहाविति क्तान्तस्य पूर्वनिपातः ॥ इत्योदन्ताः ॥ 'ग्लौमूंगाङ्कः कलानिधिः' इत्यमरः॥ स्वरे आत् । ग्लाबो, ग्लावः॥ इत्यौदन्ताः॥ इति सुबोधिन्यां स्वरान्ताः पुंल्लिङ्गाः॥
(तत्त्वदी.)-आऽम्शसीति ।। आ अम्शसीति च्छेदः । अम् च शय च अनयोः समाहारोऽम्शस् तस्मिन् ॥ अम्शसीति किम् । गावौ । वसोर्व उरित्यादिनिर्देशान्नोवर्णशङ्का । स्याद्यधिकारादचिनवमित्यत्रातिप्रसङ्गोऽपि न ॥ ओतः किम् । ग्लावम् ॥ श्रीविद्यानगरस्थायिलोकेशकरशर्मणा । कृतायामिह टीकायां पुंलिङ्गोऽगात्स्वरान्तकः॥
इति तत्त्वदीपिकायां स्वरान्ताः पुल्लिङ्गाः।
अथ स्वरान्ताः स्त्रीलिङ्गाः। (आपः) आदन्तादाबन्तात्परस्य सेर्लोपो भवति ॥ गङ्गा ॥ (सुबोधिनी० )-आपः॥ आ आप इत्याकारप्रश्लेषादाकारान्तादावन्तान्नानः परस्य सेौपः स्यात् ॥ आवन्तारिकम् । सोमपाः ॥ आदन्तारिकम् । खट्वामतिकान्तोऽतिखट्वाएकदेशविकृतस्यानन्यत्वादावन्तत्वेऽपि न सिलोपः आदन्ताबन्ताभावात्॥
(तत्त्वदी० )-आप इति॥अत्र आ आबिति प्रश्लेषादाकाररूपस्यैवापो ग्रहणादतिगङ्ग इत्यादौ नातिप्रसङ्गः । न चात्र गौणमुख्यन्यायादेव नेति वाच्यं तस्य विशिष्टरूपोपादानविषयत्वात् । अत्र तु आप इति प्रत्ययग्रहणं न तु किंचिद्विशिष्टरूपम् ॥ अत्राहुः ॥ आप इति सानुबन्धग्रहणं व्यर्थं विशेषयहणं त्वर्थविशेषादेवेति । अत्रेदमवधेयम् । अर्थविशेषानुशरणानुधावनतः सानुबन्धनिर्देशस्य लघुत्वात् ॥ न चाप इति सूत्रं व्यर्थ हसेपः सेलौंप इत्यत्रैव हस आ ईबिति प्रश्लेषेण पकारस्योभययोजनेनैवेष्टसिद्धेः । उत्तरत्रोभयानुवृत्तिस्तु स्त्रीभुवोरित्यस्याम्शसीत्यत्रैव निरसनायेति चेत् । न । त्रिद्वन्द्वे सति पश्चात्पकारेण संबन्धे अन्तरङ्गत्वाद इ ए इति कृते हसैप इति स्यात्। त्रिपदे द्वन्द्वे तु पकारस्याकारेण संबन्धो न लभ्यते । अतः सूत्रारम्भ एवोचित इत्युक्तं वृद्वैः । तत्रेदमवधेयम् । अइएसवर्णदीर्घयोरन्तरङ्गबहिरङ्गत्वविशेष मानाभावः । किं च हसैप इति जातेऽपि मात्रागौरवाभावः । किं च त्रिपदेऽपि द्वन्द्वे पकारानन्वये न कापि क्षतिः ।लूनः शान्तिः सोममालभतेत्यत्रेव अर्थविशेषस्यैव निश्चायकत्वमिति स्वयमेवास्याभ्युपगमादित्यूहनीयमायुष्मता ॥
(औ) आदन्तादाबन्तात्पर औ ईर्भवति ॥ गङ्गे, । गङ्गाः ॥
Page #117
--------------------------------------------------------------------------
________________
[ स्वरान्तस्त्रीलिंगाः] टीकाद्वयोपेता।
(१०१) (सुबोधिनी )-औ ॥ औ इत्यविभक्तिको निर्देशः। आप इत्यनुवर्तते । धिरीरित्यत ई इति च ॥
(तत्त्वदी०)-औ इति ॥ अविभक्तिकमौकारविभक्तेरनुकरणम् ॥ आप इति किम् । सोमपौ ॥ आदन्तात्किम् । गङ्गियौ । दीर्घग्रहणं तु 'वे द्वित्वे' इत्येतदर्थम् । जरसी इति तु सन्निपातपरिभाषयैव ॥ तद्धस्वत्वेऽपि न क्षतिः ॥
(धिरीः) आदन्तादाबन्वात्परो धिरीभवति ॥ हे गङ्गे। गंगाम,गंगे,गंगाः॥ (सुबोधिनी)-धिरीः ॥ आप इत्यनुवर्तते । दीविधानमौ इति सूत्रेऽनुवृत्त्यर्थम् । वस्तुतस्तु ह्रस्व एव युक्तः। शसि तु स्त्रीत्वान्नत्वाभावः। गङ्गाः॥
( तत्त्वदी०)-धिरीरिति ॥ दीर्घविधानमुत्तरार्थम् । जराशब्दस्य तूक्तरीत्यैव निरासः ॥ आपः किम् । हे हाहाः ॥ आदन्तात्किम् । हे अतिगङ्गे । हे अतिगङ्गे इत्यत्र स्थानिवद्भावेन धेर्लोपस्तु न सूत्रारम्भसामर्थ्यात् ॥ . (टोसोरेः) आदन्तस्याबन्तस्य टौसोः परयोरेत्वं भवति ॥ गङ्गया ॥
(सुबोधिनी )-टौसोरेः॥ टाश्च ओश्च टोसौ तयोष्टौसोः परतः आदन्तस्यावन्तस्यैत्वं स्यात् ॥
(तत्त्वदी०)-टौसोरेरिति ॥ टाश्च ओश्च टौसौ तयोः ॥आपः किम् । हाहाहाहौः। अत्राप्याकारं प्रश्लिष्य पूर्ववदादन्तस्याबन्तस्येति व्याख्यानादतिगङ्गया इत्यादौ नातिप्रसङ्गः॥
(डितां यद् ) आदन्तादावन्तात्परेषां डेङसिङस्ङीनां यडागमो भवति ॥ गङ्गायै । गङ्गायाः । गङ्गायाः, गंगयोः, गङ्गानाम् ॥
(सुबोधिनी) डितां यट् ॥ ङ् इद्येषां तानि तेषां ङिताम् । वचनापेक्षया क्लीवत्वम् । ङ् इत् यासां ता तिस्तासाम् । विभक्त्यपेक्षया स्त्रीत्वं वा । ङ् इत् येषां ते डितस्तेषाम् । प्रत्ययापेक्षया पुंस्त्वं वा। आदन्तादावन्तात् ङितां यः स्यात॥टित्त्वादादौ ऐत्वम् ॥ गङ्गायै । सवर्णदीर्धे । गङ्गायाः॥
(तत्त्वदी०)-डितां य डिति ॥ ङ् इद्येषां यासां वेति वचनविभक्तिप्रत्ययानामन्यतम. स्यान्यपदार्थत्वेन विग्रहः ॥ आप इति किम् । हाहै ॥ आदन्तादिति किम् । अतिगङ्गाय ॥ डितां किम् । गङ्गा ॥ अतिगङ्गायेत्यत्र तु आकारस्य श्रूयमाणत्वात्स्थानिवत्त्वेनाबन्तत्वाच्च यट् तु न । लाक्षणिकत्वात् । अवयवशो व्युत्पादितत्वादिति स्वीकारात् ॥
(आम्डे) आदन्तादाबन्तात्परस्य डेरामादेशो भवति ॥ गङ्गायाम्, गङ्गयोः, गङ्गासु ॥ एवं श्रद्धामेधादुर्गादयः ॥
(सुबोधिनी) आम्डेः ॥ तिप्तवलियायामित्यादिनिर्देशात् सप्तम्बेकवचनस्यैव ग्रहणं न तु चतुर्थंकवचनस्य ॥ ननु गङ्गायामित्यादौ डेरामादेशे कृते नुडाम इति
Page #118
--------------------------------------------------------------------------
________________
(१०२) सिद्धान्तचन्द्रिका। [स्वरान्तस्त्रीलिंगाः] नुट स्यादिति चेन्न । परत्वात डिन्तामिति यटा बाधनात् ॥ ननु डितां यडागमो विधीयते आमादेशस्तु न डिदिति कथं तस्य यडिति चेन्न । आदेशः स्थानिकार्य लभते इति स्वीकारात् । अत्र क्रियायामिति निर्देशो मानम् ॥ श्रद्धा प्रतीतिः । मेधा बुद्धिः। दुर्गा पार्वती ॥
(तत्त्वदी०)-आम्डेरिति । अत्र डेरिति सप्तम्येकवचनम् । न तु चतुर्येकवचनं व्या. ख्यानात् । अत्रार्थे क्रियायामित्यादिनिर्देशोऽप्यनुकूलः ॥ ननु गङ्गाया मत्यादौ नुडाम इति नुडस्तु इति चेत् न परत्वाघटा बाधात् । न चामि कृते ङित्त्वाभावाद्यडेव कथमिति वाच्यम्। आदेशः स्थानिकार्य लभत इत्यभ्युपगमात् । अत्रापि क्रियायामिति निर्देशो मानम् ॥
(अम्बार्थानां द्विस्वराणां धौ ह्रस्वः) हे अम्ब । हे अक्क । हे अल्ल । शेषं गङ्गावत् । द्विस्वराणामिति किम्। हे अम्बाडे । हे अम्बाले । हे अम्बिके ॥
(सुबोधिनी)-अम्बार्थानां द्विस्वराणां धौ द्वस्वः ॥ अम्बार्थानां द्विस्वराणां ह्रस्वः स्याद्धौ परे ॥ 'अम्बा माताऽथ बाला स्यात्' इत्यमरः ॥
(तत्त्वदी०)-अम्बार्थानामिति ॥ एतन्मूलं तु यटोऽच्चेत्यतोऽनुक्तसमुच्चयार्थचकारानुवृत्तिस्ततोऽस्यार्थस्य संग्रह इति वृद्धाः॥
(यटोऽच्च) सर्वादेः परस्य यटः सुडागमो भवति पूर्वस्य चापोऽकारः॥ सर्वस्यै । सर्वस्याः । सर्वस्याः, सर्वयोः, सर्वासाम् । सर्वस्याम् । एवं विश्वादयोऽप्याबन्ताः ॥ जरा, जरसौ-जरे, जरसः- जराः॥
(सुबोधिनी)-पटोऽच्च ॥ आप इत्यनुवर्तते । आबन्तसर्वादेर्यडागमस्य सुट् स्यात् आपः स्थानेऽच्च ॥ सर्वोदेः किम् । गङ्गाय ॥ यटः किम् । सर्वोभ्याम् ॥ जष् वयोहानावित्यस्मात् 'षिद्भिदामङ्' इत्याङि 'ऋतोऽङि गुणः' इति गुणे कृते आप।जरा। जरायाः स्वरादी जरसिति स्वरादिविभक्तो जरस् । औं परतः औ इतीत्वं न नित्यवाज्जरस् । जरसौ। आमि तु जरसामिति । जराया इति वचनसामर्थ्यात् ॥ पक्षे हसादौ च गङ्गावत् ॥
(तत्त्वदी.)-यटोऽच्चेति ॥ यटः अत् चेति छेदः ॥ अत्राहुः । ननु यटः सर्वादेः परत्वं नास्ति आपा व्यवधानात् इति चेत्सत्यम् । वचनसामर्थ्यात्तेन व्यवधानं सह्यते । आपं विना हि यट एव दुर्लभत्वात् । अड्विधावपि सर्वादेरिति पञ्चमीति पक्षे सवर्णदीर्धे कृते एकदेशविकृतन्यायेन सर्वादेः परस्य विधीयमानो यडाप एव भवतिः अन्यस्यासंभवात् । षष्ठीपक्ष एकदेशविकृतन्यायेन सर्वादेरकारो भवति ऊनाधिकभावेन विकारस्य द्वैविध्यादिति । अत्रेदमवधेयम् । अत्राबन्तात्सर्वादेरिति व्याख्याने आपो व्यवधायकत्वाभावेन तद्ध्यवधानशङ्का निर्मूलैव तदन्त
Page #119
--------------------------------------------------------------------------
________________
[ स्वरान्तस्त्रीलिङ्गाः ] टीकाद्वयोपेता। (१०३) ग्रहणे वाऽऽप इत्यादावाकारप्रश्लेष एव लिङ्गम् । किंच केवलस्यापः प्रत्ययत्वेन तत्परविभक्तेरभावात्तत्कार्यासंभव इति दिक् ॥
(दिक्समासे बहुव्रीही सर्वादेर्वा सर्वकार्यम्) दक्षिणपूर्वस्यै-दक्षिणपूर्वायै । उत्तरपूर्वस्याः-उत्तरपूर्वायाः ॥ अन्तरस्यै शालायै बाह्याय इत्यर्थः ॥ अपुरीत्युक्तेर्नेह । अन्तरायै नगएँ । द्वितीयस्यै-द्वितीयायै । तृतीयस्यै-तृतीयायै । नासिका, नासिके, नासिकाः। नासिकाम्,नासिके । नासिकायाः नस् । नसा-नासिकाः । नसा-नासिकया । नोभ्याम्-नासिकाभ्याम् ।। पक्षे पञ्चसु गङ्गावत् ॥ पृतनायाः पृत् । पृतः । पृता । पृद्भयाम् ॥ निशायाः निश् । निशः । निशा॥
(सुबोधिनी )-दिक्समासे बहुव्रीही सर्वादेर्वा सर्वकार्यम् ॥ गौणत्वादप्राप्त विभाषेयम् । दिशां समासो दिकसमासस्तस्मिन् । बहुव्रीही सर्वादेः सर्वादिकार्य वा वाच्यम् ॥ दक्षिणस्याः पूर्वस्याश्च अन्तराले मध्ये या दिक् सा दक्षिणपूर्वा । तस्यै ॥ उत्तरस्याः पूर्वस्याश्च अन्तराले या दिक् सा उत्तरपूर्वा तस्याः ॥ अन्यपदाथोऽपि दिकशब्दवाच्य एव ग्राह्यस्तेन नेह । योत्तरा सा पूर्वा यस्या उन्मत्तायाः सा उत्तरपूर्वा । तस्यै उत्तरपूर्वायै ॥ अन्तरोऽपुरि परिधाने बहियोगे इत्युक्तत्वादन्तरशब्दस्य बहिर) सर्वकार्यम् । अन्तरस्यै शालायै । नगरवाह्यायै इत्यर्थः। अन्तरस्य न पुरि सर्वकार्यम् । अन्तरायै । न सुटू ॥ द्वितीयातृतीययोस्तीयस्य ङित्सु वा सर्ववादत्युक्तत्वात् डेङसिङडिषु वा सर्ववत् । शेषं गङ्गावद्रूपम्॥ पाददन्तेति नासिकाशब्दस्य शसादौ नम् । सस्य विसर्गे हवे इत्युत्वे ओत्वे च नोभ्याम् ॥ पृतना सेना॥
(तत्त्वदी० )-दिकसमासे इति ॥ दिशां दिग्वाचकानां शब्दानां समास इत्यर्थः । एतन्मूलं तु यटोऽच्चेत्यत्र चेत्यनुवृत्तेर्व्यवस्थित्याश्रयणम् ॥
(छशषराजादेःषः) छकारान्तस्य शकारान्तस्य षकारान्तस्य राजयज्मृज्मृजनस्जवश्वनाजां च षकारो भवति धातोझसे परे नाम्नश्च रसे पदान्ते च ॥
(सुबोधिनी )-छशषराजादेः षः॥ छान्तस्य शान्तस्य षान्तस्य राजादेश्व नाम्नः षः स्यात् रसे पदान्ते च । छान्तस्य शान्तस्य षान्तस्य राजादेव धातोः षः स्यात् झसे पदान्ते च ॥ छान्तस्य नाम्नो यथा । तत्त्वप्राट्-तत्त्वप्राड् । भजां विणितिविण्प्रत्यये अकृतव्यूहपरिभाषया द्वित्वं न प्रवर्तेत । ततोऽसिद्धपरिभाषया न वृद्धिः। वृद्धेविणनिमित्तत्वेन षत्वं प्रति बाहिरङ्गत्वात् ॥ धातोश्च यथा । प्रष्टा । अपाप्रट् ॥
Page #120
--------------------------------------------------------------------------
________________
( १०४ )
सिद्धान्तचन्द्रिका
[ स्वरान्तस्त्रीलिंगा: ] शान्तस्य नाम्नो यथा । विट् । विड्भ्याम् ॥ धातोश्च यथा । वेष्टा । अवेवेट् ॥ पान्तस्थ नाम्नो यथा । द्विट् । द्विड्भ्याम् || धातोश्च यथा । द्वेष्टा । अद्वेट् ॥ षस्य षविधानमादेशान्तरनिवृत्त्यर्थम् । ततः पुरस्तादपवादन्यायेन खसे चपा एव बाध्यो न तु व्यवहितो 'झबे झचाः' इति च । अयं च निषेधः स्यादौ न लक्ष्यानुरोधात् । तेन षट्सु इत्यादिसिद्धिः । द्विड्वे । अत्र 'झबे जचा:' । अंद्वट् - अद्वेडन 'वाऽवसाने' च स्यादेव । व्यवहितविधित्वात् ॥ राजादयस्तु ' राज दीप्तौ । यज देवपूजादौ । सृज विसर्गे । मृजूष शुद्धौ । भ्रस्ज पाके । ओवश्चू छेदने ॥ भ्राज दीप्तौ ।' आदिशब्दात् परिव्राज् शब्दो विन्तो ग्राह्यः । दिशामिति सूत्रे स्रगृत्विजोः पाठस्तु पत्वबाधनार्थः । असधातोरौणादिके ऋजप्रत्यये सिद्धोऽसृजशब्दो न गृह्यते लाक्षणिकत्वात् ॥
( तत्त्वदी ० ) - छशषराजादेः ष इति ॥ यद्यपि छान्तस्य नान्नोऽसंभवः क्विपि छ शविधानात् तथापि विणि तत्त्वप्राट्छब्दस्य तत्त्वप्राडिति रूपं मन्वानैः सूत्रे छग्रहणमङ्गीकृतम् । अकृतव्यूहपरिभाषया द्वित्वाभावः । असिद्धपरिभाषया वृद्ध्यभावः । वृद्धेर्विनिमित्तकत्वेन षत्वं प्रति बहिरङ्गत्वात् । अत्र षस्य षविधानमन्यविधिबाधनार्थम् । पुरस्तादपवादन्यायेन खसे चपा एव बाध्यः न तु व्यवहितो झबे जबा इति वाऽवसान इति वा । अयं निषेधो न स्यादौ लक्ष्यानुरोधादिति वृद्धाः । तेन षट्स्वित्यादिसिद्धिः । द्विडूडि । अत्र 'झवे जबा: । अद्वेट्-अद्वे । अत्र च ‘वाऽवसाने'च भवत्येव व्यवहितविधित्वात् ॥ राज्यज्सृज् मृज्वरज्वश्च्भ्राजपरिवाजोऽष्टौ राजादयः । स्रजृत्विजोस्तु दिशादिषु पाठः षत्वबाधनार्थः । असृज् शब्दस्तु न सृजेः किंतु असेरौणादिक ऋजप्रत्यये बोध्यः। लाक्षणिकत्वान्न गृहीतः । भ्राजिस्तु राजसाहचर्यादेनृसहचरितोनगृहीतः।
( पो डः ) निड्भ्याम् । निभिः । निट्त्सु निट्सु - निशासु । कोचितु धातोरेव षत्वमाहुः । तन्मते तु झबे जबा इति जकारः निज्ज्याम् निभिः । श्चुत्वम् । निच्सु - निशासु ॥ गोपाः सोमपावत् ॥ बुद्धि:, बुद्धी, बुद्धयः । हे बुद्धे । बुद्धिम् | बुद्धीः । बुद्धया ॥
"
( सुबोधिनी ) - षोडः ॥ षस्य नाम्नो विशेषणात्तदन्तविधिः । षान्तस्य नाम्नोSन्तस्य डः स्यात् रसे पदान्ते च ॥ षष्ठीति निर्देशात् थट्प्रत्यये न षस्य डः षष्ठः। ननु ' वाऽवसाने' 'झवे जवाः खसे चपा झसानामित्यन्तैः स्त्रैष्टडयोर्लाभान्मास्त्विदं सूत्रम् । उच्यते । षाण्मातुर इत्यादिसिद्ध्यर्थमिदमावश्यकम् । यथा पाष् मातुर इति स्थिते षोड इति डत्वे कृते ' त्वन्मदेकत्वे' इति निर्देशाज्जवस्यापि नमो भवतीति ॥ अष्टनो डौ वेति निर्देशाच्च द्वेष्टीत्यादावपि न डत्वम् ॥ शस्य पत्वे डत्वम् । निड्भ्याम् । सुपि डस्य खसे चपा इति चपत्वे टनात्सस्य वेति वा धुट् । धस्य चपत्वम् । धुडभावे टस्य धुट्पक्षे च तकारस्य शसे चपस्येत्यनेन ठथौ न, कुकटुकवर्जितस्यति निषेधात् । स्यादीनां सस्येति न ष्टुत्वम् । निट्सु - नित्सु ॥ परिशिष्टकारादयः छशषराजादेरिति सूत्रे
Page #121
--------------------------------------------------------------------------
________________
[ स्वरान्तस्त्रीलिंगाः] टीकाद्वयोपेता।
(१०५) धातोश्च इति सूत्राद्धातोरित्येवानुवर्तयन्ति न तु नाम्न इति । तन्मते झबे जवा इत्यनेन शस्य जकारेनिज्भ्यामिति । सुपिखसे चपा इति शस्य चः।स्तोः श्चुभिरिति शत्वम् । 'चपाच्छः शः' इति पक्षे शस्य छत्वमपि बोध्यम् । निच्शु ॥ चोः कुरिति कुत्वं न चपस्यासिद्धत्वात् ॥इत्यावन्ताः॥ गोपाशब्द आकारान्तः।।बुद्धिःप्रायेण हरिवत्। स्त्रीत्वात्सा नः पुंस इति न नत्वम् । बुद्धीः अस्त्रियामित्युक्तत्वाट्टा नेति नात्वं नोबुद्धया॥
(तत्त्वदी०)-षोड इति॥ ननु इदं सूत्रं किमर्थम् ‘झबेजबाः' 'वाऽवसाने' इति सूत्राभ्यां कार्यसिद्धेरव्याहतत्वात् । अथ कथं षडानन इत्यादाविति चेत्सत्यं वाऽवसान इत्यस्या प्रवृत्तेः । अत्रावसानत्वाभावात्कथमिति चेत् । शृणु । अवसीयत इत्यवसानपदेन नहवसीयतेऽतः पदान्ततैवावसानम अन्यथा पाण्मातुर इति न सिद्धयेत् । तथा हि षामातुर इति स्थिते षो ड इति डत्वे चपाभावाद् ञमत्वाभावः । अस्मन्मते तु 'वाऽवसाने' इत्यनेनैव रूपसिद्धिः। अथ त्वन्मदेकत्व इति निर्देशन जबस्यापि ञमत्वमिति न वाच्यम् । तत्र 'वाऽवसाने' इत्यनेनैव तत्त्वे तस्य जमत्वाद्रूपसिद्धर्ज्ञापकानुसरणक्लेशस्य व्यर्थत्वात् । षण्णामित्यपि ड्ण इत्यस्य षो णो नामीत्यर्थस्यैव वक्तुमुचितत्वेन षशब्दस्यैव प्रथमैकवचनम् ड् इति रूपत्वात् । द्वष्टीत्यादौ त्वष्टन इति निर्देशेन 'षो डः' 'खसे चपा' इत्युभयोरपि निवृत्तिरिति सूत्रं व्यर्थम् । वस्तुतस्तु 'झबे जबाः' इति सत्रेण विधास्यमानस्य षस्थाने डस्यव विधानानुवादार्थमिदं सूत्रमिति ध्येयम् ॥ अस्मिन् ग्रन्थे समानवर्गजस्यैव सावण्यस्योक्तत्वेन षडयोस्तदभावात्तुल्यास्यप्रयत्नं सवर्णमित्यस्याप्रणयनात्कथं षस्य डत्वमित्याशङ्कायां षो ड इत्यस्य विहितत्वादिति दिक ॥ निभ्यामिति ॥ प्रथमातिक्रमे कारणाभावात्प्रथम इति न्यायेन जकार इति भावः ॥ निशिवति ॥ खसे चपा इति शस्य चर्वे तद्योगे स्तोः श्चुभिः श्चुरिति सोः सस्य शत्वमित्यर्थः॥
(इदुद्याम् ) स्त्रियां वर्तमानास्यामिकारोकारात्यां परेषां ङितां वचनानां वाऽडागमो भवति ॥ बुद्ध्यै-बुद्धये । बुद्ध्याः-बुद्धेः । बुद्ध्याःबुद्धः। बुद्धीनाम् । स्त्रियां योः। बुद्ध्याम् । अडागमाभावे आमोऽप्यभावः । बुद्धौ ॥ एवं मतिभूतिधृतिरुच्यादयः॥ धेनुरज्जुदनुचञ्च्वादयोऽप्येवम् ॥
(सुबोधिनी )-इदुद्भयाम् ॥ इच्च उच्च इदुतौ ताभ्यामिदुद्भ्याम् । वेयुद इत्यतो वेत्यनुवर्तत । ङितामडिति च । स्रियां ङितां वाट् स्यात् ॥ ङितामडिति नित्ये प्राप्त विभाषेयम् ॥ स्त्रियामिति किम् । सख्ये । पत्ये ॥ तितामिति किम् । मतिभ्यः।। तपरत्व किम् । नये ॥ अट् । बुद्धये। अडभावे ङितीत्येत्वम् । बुद्धये । ङौ तु अडामोः सहैव प्रवृत्त्यप्रवृत्ती। सन्नियोगशिष्टानां सह वा प्रवृत्तिःसह वा निवृत्तिरित न्यायात्॥
(तत्त्वदी० )-इदुद्भयामिति ॥ इच्च उच्च इदुतौ ताभ्याम् । सन्नियोगशिष्टन्यायादडामोः सहैव प्रवृत्त्यप्रवृत्ती । यद्वा आमोऽभावे परत्वात् उरौ डिदित्यौकारः । न च नित्यत्वादट् ।
Page #122
--------------------------------------------------------------------------
________________
(१०६)
सिद्धान्तचन्द्रिका। . [स्वरान्तस्त्रीलिंगाः ] औकारे टिलोपे च इकारान्तत्वाभावात् । परत्वादटा बाधादामि कृते नुडभावः । वेयुव इत्यत्र ह्रस्वानुवृत्तेईस्वाद्वेति सिद्धेऽपि मात्रे इत्यादौ ह्रस्वत्वाविशेषेणातिव्याप्तिवारणायेदं सूत्रमिति वृद्धाः । तपरत्वमपि नित्यविकल्पयोर्व्यवस्थार्थम् । अन्यथा उभयोर्विकल्पो नित्यो वा स्यात् । दीर्घस्य विकल्पः हस्वस्यैव नित्य इति विपर्ययो वा स्यादिति ॥ स्त्रियामिति किम् । सख्ये॥ ङिनामितिकिम् मतिभ्याम् ॥ इदुद्भयामिति किम् । मात्रे ॥ तपरत्वं किम् । नद्यै ।। इदुद्भयामित्यस्यैव तन्त्राश्रयणात् इदुद्भयां ङितामना । अटि सति डेरामिति । एतेनाटि सति अटो डिद्विभक्तित्वेन डेरिदुदन्तात्परत्वानपायादौत्वं स्यादित्यादिकमपास्तन् । अडामोः सहैव प्रवृत्तत्वात् ॥
(त्रिचतुरोः स्त्रियां तिसृचतसृवत् ) स्त्रियां वर्तमानयोस्त्रिचतुरशब्दयोस्तिमृ चतसृ इत्येतावादशौ भवतो विभक्तौ । ऋकारश्च कारवत् । ततोऽरारुकारा न भवन्ति । सेरा धेरर् तु भवति ॥ तिस्रः । तिस्रः। तिसृभिः । तिमृत्यः । तिसृश्यः ॥
(सुबोधिनी )-त्रिचतुरोः स्त्रियां तिसृचतमृवत् ॥त्यदादेरित्यतः स्यादावनकृष्यते । स्यर्थवाचकयोरेतयोरेतावादेशौ स्तो विभक्तौ । रा ऋकारेण तुल्यम् ऋवदिति वाक्यान्तरम् । ऋ ऋवदिति पदच्छेदः । बोरित्यतः स्वरे इत्यनुवर्तते । स्वरे परे तिसृचतसृशब्दयोः ऋकार ऋकारकार्य लभते तच्च रत्वम् । तेन पञ्चसु इति डाविति चार स्तुरारित्यार् ऋतो ङ उरित्युकारः एते विधयो न । अम्शसोरल्लोपोऽपि न । सेरेत्यात्वम् । धेररित्यर् तु भवत्येव । स्वरपरत्वाभावात् ॥ तिस इत्यत्र किलादिति षत्वाभावप्रदर्शनेनादेशावयवे षत्वं नेति ज्ञापितम् । सैषादिति षत्वनिदैशेन समात्रादेशस्य पत्वं भवतीति ज्ञापितं च ।। विभक्तौ किम् । तिस्रः प्रिया यस्य स त्रिप्रियः इत्यत्र तु न । लुकि न तन्निमित्तभित्युक्तत्वात् ॥ स्त्रियां किम् । त्रयः । चत्वारः॥
(तत्त्वदी०)-त्रिचतुरोः स्त्रियां तिमृचतसृवदिति ॥ अत्र त्यदादेरित्यतः त्यादावित्यनुकृष्यते । स्यर्थवाचकत्रिचतुरन्तनाम्नस्तिमृचतसृ आदेशावित्यर्थः ॥ अनेकाक्षरत्वात्संपूर्णस्य प्राप्तौ निर्दिश्यमानस्यादेशा भवन्तीति त्रिचतुरोरेव केवलयोस्तु व्यपदेशिवद्भावात् ॥ ऋकारश्चेति ॥ अत्र य्वोरित्यतः स्वरे इत्यनुवर्त्य वाक्यभेदेन व्याख्ययम् । तेन ऋकारः स्वरे ऋवद्भवतीत्यर्थः॥ रा तुल्यम् ऋवत् अतोऽरारुकाराणां स्वरकार्यत्वादभावः। सेरा धेरर् हसकार्यत्वात्प्रवृत्तिरिति भावः ॥
(न तिसृचतस्रो मि दीर्घः ) तिसृणाम् । स्त्रियामिति त्रिचतुरोविशेषणान्नेह । प्रियास्त्रयः प्रियाणि त्रीणि वा यस्याः सा प्रियत्रिः । बुद्धिवत् । आमि प्रियत्रयाणाम् । यदा स्त्रियां मुख्या लिंगान्तरे गौणौ
Page #123
--------------------------------------------------------------------------
________________
[ स्वरान्त स्त्रीलिंगाः ]
टीकाद्वयोपेता ।
( १०७ )
,
तदैतौ स्तः । प्रियास्तिस्रो यस्य स प्रियतिसा, प्रियतिस्रौ प्रियतिस्रः । हे प्रियतिसः । नाम्शसोरल्लोपः । प्रियतिस्रम् । प्रियास्तिस्रो यस्य कुलस्य तत् कुलं प्रियत्रि || प्रियतिसृणी, प्रियतिसृणि ॥ वृणां नपुंसके धौ गुणो वा । हे प्रियतिसः - हे प्रियतिसृ । टादौ स्वरे टादाविति पुंवत् । नामिनः स्वरे । प्रियतिसृणा - प्रियतिस्त्रा । रत्वे सत्याप् । द्वे । द्वे । द्वाभ्याम् । द्वाभ्याम् । द्वाभ्याम् । द्वयोः । द्वयोः ॥ हसे पः सेर्लोपः । नदी, नयौ, नयः । हे नदि । नदीम्, नयौ, नदीः । नद्या । ङितामट् । नयै । नयाः । नदीनाम् । नद्याम् ॥ एवं ब्राह्मणीसखीकुमारी - गौर्यादयः || लक्ष्मीः | अनीबन्तत्वान्न सिलोपः । धौ ह्रस्वः । हे लक्ष्मि । शेषं नदीवत् ॥ एवमवीतन्त्रीतरी प्रभृतयः ॥ ईबन्तत्वात्सिलोपः स्त्री ॥
( सुबोधिनी ) - न तिसृचतस्त्रोर्नामि दीर्घः ॥ एतयोर्दीर्घो न स्यान्नामि ॥ आमि तु नुटु । तिसृणाम् । श्रुतत्वात् त्रिचतुरोरित्यस्यैव स्त्रियामिति विशेषणं नानुवृत्तस्य नाम्नः । प्रियास्त्रयः पुरुषाः प्रियाणि त्रीणि कुलानि वा यस्याः सा प्रियत्रिः । तस्य बुद्धिवद्रूपम् । समासस्य रुयर्थाभिधायकत्वेऽपि त्रिचतुरोःरुयर्थाभिधायकत्वाभवात् । आमि तु 'त्रेरयङ्' इत्ययङ् । प्रियत्रयाणामिति विशेषः । यदा स्त्रियां मुख्यौ लिङ्गान्तरे गौणी तदेतौ स्तः । यदा विग्रहे त्रिचतुरशब्दौ रुपयेवाचको मुख्यौ । तिसृचतसृरूपावित्यर्थः । यस्य यस्याः वेत्यादिसमासार्थरूपे लिङ्गान्तरे तु तौ गौणौ स्तः । तदा त्रिचतुरोस्तिसृ चतसृ इत्येतौ भवतः । यथा प्रियाः तिस्रो यस्य पुंसः स इत्यत्र प्रिया जस् त्रि जम् इति स्थिते 'अन्तरंगाना विधीन् बहिरंगो लुकू बाधते' इत्यकृत्वैव तिस्रादेशं सिपो लुकि कृते समासात्स्यादिविभक्तिस्तस्यां परतस्तिस्रादेशः । पुंवद्वेति प्रियाशब्दस्य पुंवद्भावः । सेरेत्यात्वम् । प्रियतिसतेि । यद्यपीह जहत्स्वार्थावृत्तिपक्षे त्रिशब्दस्य निरर्थकत्वेन स्त्रीवाचित्वं दुर्लभं तथापि भूतपूर्वगत्या स्त्रियां वृत्तिर्बोध्या । उत्तरपदार्थप्रधानस्तत्पुरुष इत्यादिसिद्धान्तस्यैवमेव निर्वाह्यत्वात् । अजहत्स्वाथावृत्तिपक्षे तु स्त्रीनिष्ठसंख्यासमर्पकयोस्त्रिचतुरोोरीत विवक्षितोऽर्थः । प्रियतिस्रौ, प्रियतिस्रः । प्रियतिस्रम्, प्रियतिस्रौ, प्रियतिस्रः । प्रियतित्रा, प्रियतिसृभ्याम्, प्रियतिसृभिः। प्रियति । प्रियतिस्रः, प्रियतिस्रोः, प्रियतिसृणाम् । प्रियतिखि, प्रियतेिस्रोः प्रियतिसृषु । हे प्रियतिसः ॥ प्रियाः तिस्रो यस्य कुलस्येत्यत्र स्यमोलुका लुप्तत्वेन प्रत्ययलक्षणाभावान्न तिस्रादेशः। प्रिया । लुकेि न तन्निमित्तमित्यस्यानित्यत्वात्पक्षे प्रियतिसृ । एतद्रूपद्वयं कैटेन स्वीकृतम् । इदमोऽयं पुंसीत्यनेनानित्यत्वं ज्ञापितम् । नामिनः स्वरे' इति
Page #124
--------------------------------------------------------------------------
________________
(१०८)
सिद्धान्तचन्द्रिका। [स्वरान्तस्त्रीलिंगाः] नुम् । ईमावितीत्वम् । प्रियतिसृणी। नोपधाया इति दीर्घः । प्रियतिसृणि ॥ तृतीयादिषु वक्ष्यमाणेन टादावित्यनेन पुंवद्भावविकल्पात् पर्यायेण नुमरत्वे । प्रियतिस्राप्रियतिसृणा । प्रियतिरे-प्रियतिसृणे । प्रियतिस्रः-प्रियतिसणः। आमि रत्वं बाधि त्वा परत्वान्नुम् प्राप्तः । तं च बाधित्वा विप्रतिषेधे परमिति नुट् । प्रियतिसृणाम् । वृणामिति वा गुणः । हे प्रियतिसः । हे प्रियतिस् । द्विशब्दस्य त्यदादेरित्यकारे कृते सन्निपातपरिभाषाया आनित्यत्वादावत इत्याप् ॥ इतीदन्ताः ॥ नदादेरितीपू । नदी । धौ ह्रस्व इति ह्रस्वे हे नदि ॥ प्रातिपदिकग्रहणे लिंगविशिष्टस्यापि ग्रहणमिति से ऽधेरिति डावे ऐ सख्युरित्यत्वे च प्राप्ते विभक्तौ लिंगविशिष्टाग्रहणामिति न। सखी। लक्षेर्मुट चेति ईप्रत्ययः।लक्ष्मीः केचिदिह कृदिकारादिति पाक्षिकमीपमिच्छन्ति । तन्मते पक्षे सिलोपः स्यादेव । वातप्रमी श्री लक्ष्मीति पक्षे ड्यन्ताः सुसाधवः' इति रक्षितः । 'लक्ष्मीर्लक्ष्मी हरिप्रिया' इति द्विरूपकोशश्च ॥ अवी रजस्वला स्त्री। तन्त्रीवर्वीणा। स्तरीधूमः। स्तरीडॉ। स्त्यायते डिति इट्प्रत्यये 'यवयोर्वसे इति यलोपः। वित इतीप् । स्त्यायेते अस्यां शुक्रशोणिते इति स्त्री ॥
(तत्त्वदी०)-स्त्रियामिति त्रिचतुरोविशेषणादिति ॥ श्रुतत्वात् तयोरिति भावः । नामविशेषणं नेति बोध्यम् । तद्विशेषणे तु विपरीतं स्यात् । अत्रेदं तत्वम् । जहत्स्वार्थैव वृत्तिरिहाभिमता लक्ष्यानुरोधात् । तेन नाम्नः स्त्रियामिति सम्यगेव । त्रिशब्दस्य पुनपुंसकवाचित्वं तु भूतपूर्वगत्या । अजहत्स्वार्था वृत्तिरिति पक्षे तु स्त्रीनिष्ठसंख्यासमर्पकयोस्त्रिचतुरोरिति विवक्षितोऽर्थः । ननु स्त्रियां प्रियतिसेति कथम् । ऋकारान्तत्वादीपः प्रवृत्तरिति चेत्सत्यं सन्निपातपरिभाषाविरोधात् ॥ विभक्त्यानन्तर्येण प्रवृत्ते आदेशे स न विहितः ॥ विभक्तौ किम् । तिस्रो भार्या अस्येति त्रिभार्य इत्यादौ न । लुकि न तन्निमित्तमिति प्रत्ययलक्षणनिषेधात् ॥ स्त्रियां किम् । त्रयः ॥ तिस्र इत्यत्र षत्वं तु षः सः कृतस्येति व्याख्याने सस्य कृतत्वाभावान्न । अत एव संधिसंपदन्धिश्चति द्विवचनादेशे तुप्रकृतेऽपि न षत्वम्।देवेषु एधिष्यते इत्यादौ तु चतुर्यु भविष्यतीत्यादिनिर्देशात् प्रत्ययावयवस्य षत्वं भवतीति ज्ञापकात् । व्यधिकरणषष्ठीपक्षे तु प्रत्ययावयवस्य भवत्येव । आदेशावयवस्य तु तिसृ इति निर्देशादेव न। अन्यथा तिष चतसृ इत्येव ब्रूयात् । सैषादिति निर्देशेन सकारमात्रादेशस्य षत्वं भवतीति ज्ञापितम् ॥ दूरत्व इति ॥ स्यादिसन्निपातकृतमपि त्यदायत्वमापो निमित्तम् । सन्निपातपरिभाषाया अनित्यत्वात् ॥
(स्त्रीभ्रुवोः) स्त्रीशब्दस्य भ्रूशब्दस्य चेयुवौ भवतः स्यादौ स्वरे परे॥ स्त्रियौ, स्त्रियः। हे स्त्रि॥
(सुबोधिनी )-स्त्रीभ्रुवोः ॥ अप्राप्ते विधिरयम् । यत्ववत्वयोरपवादः । एत
१ नौका' इति हेमचन्द्रः।
Page #125
--------------------------------------------------------------------------
________________
[ स्वरान्तस्त्रीलिंगाः] टीकाद्वयोपेता। (१०९) योरिवोवर्णयोरियुवौ भवतः स्वरादौ ॥ स्यादौ किम् । रूयर्थम् । वर्थम् ॥ धौ हस्व इति ह्रस्वे हे स्त्रि ॥ __ (तत्त्वदी० )-स्त्रीभ्रुवोरिति ॥ अधातुत्वात् य्वोरित्यतदप्राप्तौ विधिरयम् । यत्ववत्वयोरपवादोऽयम् ॥ स्यादौ किम् । स्यर्थम् । भ्वर्थम् ॥ अत्र य्बोरित्यनुवर्तते । अनेकवर्णत्वासर्वादेशबाधनाय ।।
(वाऽम्शसि ) अमि शसि च परे स्त्रीशब्दस्य वा इय् भवति ॥ स्त्रियम्-स्त्रीम् । स्त्रियः-स्त्रीः। स्त्रियाम् । स्त्रीणाम् । स्त्रियमतिक्रान्तोऽतिस्त्रिः। अन्यार्थे अतिस्त्रियौ । " एओनाभावौत्वनुभिः पूर्वस्थैः पुंसि बाध्यते । क्लीबे नुमा च स्त्रीशब्दस्येय् त्वयेत्यवधार्यताम् ॥” अतिस्त्रयः। हे अतिस्ने । अतिस्त्रियम्-अतिस्त्रिम्, अतिस्त्रियौ । अतिस्त्रियः-अतिस्त्रीन् । अतिस्त्रिणा । अतित्रये । अतिस्वेः, अतिस्त्रियोः, अतिस्त्रीणाम् । अतिस्त्रौ, अतिस्त्रियोः, अतिस्त्रिषु । "ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया । इयादेशस्तु नान्यत्र स्त्रियाः पुंस्युपर्जने ॥” क्लीबे तु नुम् । अतिस्त्रि, अतिस्त्रिणी, अतिस्त्रीणि । अतिस्त्रिणा । अतिस्वये-अतिस्त्रिणे । अतिस्रः-अतिस्त्रिणः। अतिस्रः-अतित्रिणः, अतिस्त्रियोः-अतिस्त्रिणोः अतिस्त्रीणाम् । अतिस्त्री, अतिनिणि ॥ वृणां नपुंसके धौ गुणो वा वक्तव्यः। हे अतिने हे अतिस्त्रि॥ स्त्रियां तु प्रायेण पुंवत् । अतिस्त्रिः अतिस्त्रियौ,अतिस्त्रयः । शसि अतिस्वीः। अतिस्त्रिया । इदुद्भयाम् । अतिस्त्रिय--अतिस्त्रये । अतिस्त्रियाः-अतिस्त्रेः । अतिस्त्रियाः-अतिस्रः; अतिस्त्रियोः, अतिस्त्रीणाम् । अतिस्त्रियाम् । अतिस्त्रौ ॥ श्रीः, श्रियौ, श्रियः। हे श्रीः ॥
(सुबोधिनी)-वाऽम्शसि । पूर्वेण नित्ये प्राप्ते विकल्योऽयम् । कचिदेकदेशोऽप्यनुवर्तते इति स्त्रीभुवोरित्यतः स्त्रीशब्दस्यानुवृत्तिः॥ डिन्तामडित्यट। स्त्रियै। आमि स्त्रियास्तु नित्यमिति वक्ष्यमाणेन नुट् । स्त्रीणाम् । डौ स्त्रियां योरित्याम् । स्त्रियाम् । गौणे तु स्त्रियमतिकान्तः पुमान् अतिस्त्रिः । अन्यार्थे इति ह्रस्वः॥ एओनेत्यादि। एओनाभावौत्वनुभिः पुंसि स्त्रीशब्दस्य इय् बाध्यते इति त्वयाऽवधार्यतां ज्ञायताम् । एश्चआश्च नाश्च ते एओनाः एओनानां भावःएओनाभावः एओनाभावश्च औत्वं च नुट् च ते एओनाभागैत्वनुटस्तैः । एओजसि डितीत्येत्वौत्वे । टानाऽस्त्रियामिति ना। डेरौ डिदित्यौत्वम् । नुडाम इति नुट् । कीदृशैः । पूर्वस्मिन् तिष्ठन्तीति पूर्वस्थास्तैश्च ।।
Til
Page #126
--------------------------------------------------------------------------
________________
( ११०
सिद्धान्तचन्द्रिका |
[ स्वरान्त स्त्रीलिंगा: ]
पुनः क्लीवे 'नामिनः स्वरे' इवि नुगागमेन स्त्रीशब्दस्येय् वाध्यते ॥ ओसीत्यादि ॥ स्त्रियाः स्त्रीशब्दस्य पुंस्युपसर्जने विद्यमानस्य ओसादिषु चतुष्वैव परेषु स्त्रीभ्रुवोरितीयादेशो भवति । यथा ओसि औकारप्रत्यये च परतः इय् नित्यम् । तु पुनरम्शसोः परतो विकल्पेनेय्। अन्यस्मिन् प्रत्यये इय् न । एओनाभावौत्वनुभिः पूर्वोक्तैर्वाधितत्वादित्यर्थः ॥ क्लीवे तु नुम् । ईमावितीत्वम् । अतित्रिणी । जइशसोरिति शिः । नोपधाया इति दीर्घः अतिस्त्रीणि । टादिस्वरे तु टादावुक्तपुंस्कमिति वक्ष्यमाणेन पुंवद्भावपक्षे हरिद्रपम्॥ स्त्रियमतिक्रान्ता या स्त्री सा अतिस्त्रिः। शसि स्त्रीत्वात् सो नः पुंस इति न नत्वम् । अतिस्त्रीः स्वरादिविभक्तौ स्त्रीभ्रुवोरितीय् ङिद्वचनेषु इदुद्ध्यामिति वाट् । अतिस्त्रियै । ङितीत्येत्वपक्षे अतिस्त्रये । आमि नुट् अतिस्त्रीणाम् । ङौं स्त्रियां योरित्याम् अतिस्त्रियाम्। पक्षे डेरौ डिदित्यत्वे अतिस्त्रौ । क्विपि वचिप्रच्छयायतस्तुकटप्रुजुश्रीणामिति क्विपि दीर्घः । अनीबन्तत्वान्न सिलोपः । श्रीः ॥ य्वोर्धातोरितीय। श्रियो । इयुवस्थानिवजितयोरित्युक्तत्वात् धाविति ह्रस्वो न । हे श्रीः ।
1
(तत्त्वदी ० ) - वाम्शसीति ॥ वा अम्शसीति च्छेदः । क्वचिदेकदेशोऽप्यनुवर्तते इति स्त्रीशब्देस्यैवानुवृत्तिरित्यभिप्रेत्याह- स्त्रीशब्दस्येति ॥ वार्तिकमिदं लेखकैर्भ्रमात् सूत्ररीत्या लिखितमिति केचित् । स्थानसादृश्यात् एरिय् ओरुव् ॥ एओनाभावेति ॥ एओइत्यनेन एओविधायकं सूत्रं गृह्यते ॥ तथा च 'एओ जसि' इति सूत्रं गृह्यते ॥ इयादेशस्त्विति । स्वरादौ य इयादेशो विहितः उपसर्जनत्वे पुंसि विद्यमानस्य स्त्रीशब्दस्य स्यादिषु चतुर्ध्वेव न त्वन्यत्र । एओनाभावादिभिः पूर्वोक्तैर्बाधितत्वादित्यर्थः ॥
( वेयुवः ॥ ) इयुवन्तात् ङितामड् वा स्त्रीं विना ॥ श्रिये - श्रिये । श्रियाः- श्रियः । इयुवन्तादामो नुड् वा । स्त्रियास्तु नित्यम् । श्रीणाम् - श्रियाम् । श्रियि - श्रियाम् ॥ एवं ह्रीधीप्रभृतयः । एवं भूभ्रप्रभृतयः ॥ प्रधीशब्दस्य तु लक्ष्मीशब्दवद्रूपम् । केषांचिन्मते तु पुंवत् । प्रकृष्टा धीरिति विग्रहे तु लक्ष्मीवत् । अमि शनिच प्रध्यम् । प्रध्यः । सुष्ठु धीर्यस्याः सुष्ठु ध्यायति वेति विग्रहे सुधीः श्रीवत् । केषांचिन्मतेतु पुंवत् सुष्ठु धीरिति विग्रहे तु श्रीवदेव || मणीः पुंवत् ॥ एवं खलप्वादिः ॥
( सुबोधिनी ० ) - वेयुवः ॥ ङिन्तामडित्यनेन नित्यं प्राप्त विकल्पोऽयम् । स च व्यवस्थितः । तेन स्त्रियां नित्यमेवाद् । इयू च उब् चानयोः समाहारः इयुक् तस्मादियुवः । वोरित्यनुवर्तते । स्त्रियामियुवस्थानिभ्यमिवर्णोवर्णाभ्यां परेषां ङितामडू वा स्यात् ॥ स्त्रियामिति किम् । सुधिये । स्वयंभुवः । इयुव इति किम् । मध्यै । वर्षाभ्यै ।
1
Page #127
--------------------------------------------------------------------------
________________
[ स्वरान्तस्त्रीलिंगाः] टीकाद्वयोपेता।
(१११) इयुवन्तादामो नुड वा । स्त्रियास्तु नित्यम् । स्त्रियामियुत्स्थानिभ्यामिवर्गोवर्णाभ्यां परस्यामो नुड् वा स्यात्॥स्त्रीशब्दात्परस्यामो नित्यमेव नुट्॥ धीःप्रज्ञा शेमुषी मतिः' इत्यमरः॥हीर्लज्जा ॥ 'भूर्भूमिरचलाउनन्ता'इत्यमरः॥भ्रमतीति भ्रमेरिति भ्रमतेईप्रत्ययः । डित्त्वाहिलोपः। नेत्रयोरुपरि रोमपद्धतिर्धः ॥ पदान्तरं विनापि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वदतां वृत्तिकारादीनां मते प्रधीशब्दवद्रपम् । अमि शसि च प्रध्यम्, प्रध्यः इति विशेषः। धातुत्वात् स्वौ वेति स्वरे यत्वम् । लिङ्गान्तरानमिधायकत्वं नित्यस्त्रीत्वामिति वदतः कैयटस्य मते, प्रकष्टा धीर्यस्याः सा प्रकर्षण ध्यायतीति वा विग्रहे प्रधीशब्दस्य पुंवद्रपम्॥अयं मतभेदः । प्रकृष्टा धीरिति विग्रहण तत्पुरुषतु मतद्वयेपि लक्ष्मीवत्प्रधीशब्दस्य स्याद्रूपम् । सुष्ठु धीर्यस्याः सा सुष्टु ध्यायति वेति विग्रहे वृत्तिकारमत सुधीशब्दस्य श्रीशब्दवद्रपम् । कैयटमते तु नित्यस्त्रीत्वाभावात्पुंवद्रपम् । सुष्टु धीरिति विग्रहेण तत्पुरुषे तु मतद्वयेपि श्रीवदेव बुद्धिवाचकधीशब्दस्य नित्यस्त्रीत्वात् ॥ ग्रामणीशब्दः पुंवत् । नामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तेः।एवं खलप्वादेरपि पुंधर्मत्वमौत्सर्गिकं बोध्यम् ॥
(तत्त्वदी० )-वेयुव इति ॥ इय् च उव् चानयोः समाहारः इयुव् तस्मात् इयुवः । अत्र य्वोरित्यनुवर्तते तयोरभेदस्य बाधितत्वादियुवस्थानिनो वोरित्यर्थों लभ्यते । विकल्पश्चायं व्यवस्थितः । तेन स्त्रियां नित्यम् । आमो नुड्डा स्त्रियां नित्यमित्येव सर्व लब्धम् ॥ लक्ष्मीवदिति । पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वदतां वृत्तिकारादीनां मते प्रधीशब्दस्य तथात्वादिति भावः ॥केषांचिदिति ॥ लिङ्गान्तरानभिधायित्वं नित्यस्त्रीत्वमिति वदतां कैयटादीनां मते इत्यर्थः ॥ ग्रामणीरिति ॥ ग्रामनयनस्योत्सर्गतः पुंधर्मतया पदान्तरं विना स्त्रियामप्रवृत्तः ॥ एवं खलपवनादेरपि पुंधर्मस्वमौत्सर्गिक बोध्यम् ॥
(व्रण ईए) नकारान्ताहकारान्तादणन्ताच्च स्त्रियामीप् प्रत्ययो भवति ।। क्राष्ट्री । क्रोष्ट्रयो नदीवत् ॥ वधूजम्ब्वादयो नदीवत् ॥ पुर्नभूः। य्चो वा । पुनाौं । हे पुनर्भु । पुनार्वा । पुनर्भृणाम् । पुनाम् । 'भक्यां पुनर्नवायां स्वः वर्षाभर्ददुरे पुमान् ।' हे वर्षाभु । वर्षात्यौ । स्वयंभूः पुंवत् ॥ (सुबोधिनी -व्रण ईप् ॥ न च आ च अणू च एषां समाहारो व्रण तस्मान्त्रणः। अणित प्रत्ययो न तु विवन्तोऽणिति गृह्यत प्रत्ययाप्रत्यययोरिति न्यायात् । अस्य व्याख्यानं स्व त्यय द्रष्टव्यम् ॥ क्रोष्टुशब्दस्य पुसि पञ्चस्वधिषु स्त्रियां वेति तृवद्भावः । क्रोष्ट्री ॥ धादित हस्वः । हे पुनर्भु । स्त्रियां योरिति डेराम् । पुनर्वाम् । कैयटमते भेकजागी नित्यस्त्रीत्वाभावात् हे वर्षाभूः। वृत्तिकारमते तु हे वर्षाभु । पुननवानां तु हे वर्षाशु । उक्तं च । शेक्यां पुनर्नवायां स्त्री वर्षाभूर्द१रे पुमान्' इति
Page #128
--------------------------------------------------------------------------
________________
(११२) सिद्धान्तचन्द्रिका। [स्वरान्तस्त्रीलिंगाः] यादवेन ॥ भेक्यां मण्डूक्यां तथा पुनर्नवा ओषधी तस्यां वाच्यायां वर्षाभूशब्दः स्त्रीलिङ्गः। द१रवाची तु पुँल्लिङ्गः। ङौ वर्षाभ्याम् ॥ स्वयंभूशब्दे स्वरे परतो य्वोर्धातोरित्युत् । मतद्वयेऽपि नित्यस्त्रीत्वाभात् ङितामाडित्यादि न ॥
(तत्त्वदी०)-व्रण ईप् इति ॥न् च आ च अण् च एतेषां समाहारः व्रण तस्मात् व्रणः। अत्र मध्ये रेफभूत ऋकारो गृह्यते न रेफः व्याख्यानात् ।मध्यपाठस्य लाघवार्थत्वाच। अत्राण् प्रत्ययः न तु क्विबन्तोऽणिति । प्रत्ययाप्रत्यययोरिति न्यायात् । तथा च तदन्तं नाम गृहीतम् प्रत्ययग्रहणे यस्मात्स विहित इति परिभाषया तदन्तं लब्धम् । नाम्नो विशेषणात्तदन्तान्तमप्यायातम् ॥
( नकारन्तसंख्यायाः स्वसृतिसूचतसृननान्दुहितृयातृमातृभ्यश्च नेबापौ) माता,पितृवत् ॥स्वसा, कर्तृवत् ॥ शसि मातृः । स्वसः॥ राः पुम्वत् ॥ गौः पुम्वत् ॥ नौग्लौंवत् ॥ इति स्वरान्ताः स्त्रीलिंगाः ।।
(सुबोधिनी )-नकारान्तसंख्यायाः स्वसृतिसूचतसृनानान्दृदुहित्यातृमातृभ्यश्च नेबायौ ॥ स्वस्रादीनामीप प्राप्तो नकारान्तसंख्यायास्तूभौ प्राप्तावनेन निषिध्यते । सावसेक्रः इति ऋप्रत्ययः स्वसा । स्तुरारित्यार। स्वसारौ । शसि स्वसः। स्त्रीत्वात्सा नः पुंस इति न नत्वम् ॥ 'ननान्दा तु स्वसा पत्युः' इत्यमरः ॥ 'भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम्' इति च ॥ यद्यपि पुंल्लिङ्ग एव रैशब्द: अर्थ विभवा अपि ।' इत्यमरे भिन्नलिङ्गानां न इन्द्व इति परिभाषितत्वात् तथापि रात्येनामिति राः। स्त्रीत्येके ॥ नुदतेलानुदिभ्यांडाविति डोप्रत्ययः।डित्त्वाहिलोपः। नौः। 'स्त्रियां नौस्तरणिस्तरिः इत्यमरः ॥ इति सुबोधिन्यां स्वरान्ताः स्त्रीलिङ्गाः॥
(तत्त्वदी०)-नकरान्तेत्यादि ॥ एतबीजं तु व्रण ईबित्यत्र न संधीत्यतो न इत्यनुवर्त्य लक्ष्यानुरोधात्तस्य व्यवस्थितत्वमाश्रित्य कचिन्नेति व्याख्यानात् । तेन क्वचिदणन्तादपि न कामिका । यथा अणन्तान्तात् नगरकारी । अणन्तादेवानेबिति तु न । तथा सतीबन्तादेयणि तद्धितप्रकृतिभूतस्यादेः स्वरस्य वृद्धौ नगरकारेय इत्येव स्यात् ।। ननु परमनगरकार्या अपत्यमित्यर्थे एयणि कस्य वृद्धिरिति चेत्सत्यम् । समुदायादेरेव प्रत्ययग्रहणे आदरन्तस्य च नियमोऽस्त्विति यत्र विधौ स्त्रीप्रत्ययो गृह्यते तत्र तदादिनियमो नास्ति स्त्रीप्रत्ययेऽनुपसर्जने तदादिनियमो नेति वचनात् । पारमनगरकारेय इति भवति अनुपसर्जने किम् । अतिनगरकारेरपत्यमित्यर्थे तदादिनियमाभावे एयण् स्यात् स मा भूत किं त्वणेव । अतिनगरकार इति । प्रियौपगवत्यत्र नत्वमाश्रित्य नेप् गौणत्वात् । गौणमुख्ययोर्मुख्य कार्यसंप्रत्यय इति न्यायात् ॥ श्रीविद्यानगरस्थायलोकेशकरशर्मणा । कृतायामिह टीकायां स्त्रीलिङ्गोऽगात्स्वरान्तकः ॥
इति तत्त्वदीपिकायां स्वरान्ताः स्त्रीलिङ्गाः ।
Page #129
--------------------------------------------------------------------------
________________
[ स्वरान्तनपुंसकलिङ्गाः ] टीकाद्वयोपेता।
(११३) अथ स्वरान्ता नपुंसकलिङ्गाः। (अतोऽम्) अकारान्तान्नपुंसकलिंगात्परयोः स्यमोरम् भवत्यधौ ॥कुलम्॥
(सुबोधिनी )-अतोऽम् अदन्तानपुंसकान्नाम्नः परयोः स्यमोरम् स्यात् ॥ नपुंसकात्स्यमाटुंगित्यस्यापवादोऽयम् ॥ अतः किम् । पयः ॥ तपरकरणं मुखसुखार्थम् । नपुंसकस्येति ह्रस्वे कृते दीर्घत्वाभावात् । केचित्तु म् इत्येव पदच्छेदं कुर्वन्ति लाघवात् । तत्र सेमें कृते कुलमिति सिद्धम् । द्वितीयैकवचने तु मस्यैव मे कृते अम्शसोरित्यल्लोपे सिद्धमिष्टम् । यत्त्वाहुः। अतिजरसमिति सिद्धयर्थमम् विधानं तन्न द्वितीयकवचने लुकोऽपवादे अतोऽमिति म्भावे कृते अम्शसोरित्यल्लोपं बाधित्वा जरसू ततः सन्निपातपरिभाषया लुकोऽप्रवृत्तौ रूपसिद्धिरिति ॥ हे कुलेत्यत्र धेरमि कृते अल्लोपे च समानाद्धेरिति मलोपः। यद्वाऽतोऽमिति सूत्रे न्सम्महत इत्यतो मण्डूकप्लुत्याऽधावित्यनुवर्त्य षष्ठया विपरिणम्यते । अमादेशनिषेधार्लोप एव विधेयः॥
(तत्त्वदी०)-अतोऽमिति ॥ अत्र अतः म् इति छेदः । तथा च सेमादश कुलमिति सिद्धम् । द्वितीयैकवचने मस्यैव मादशोऽस्य अम्शसोरिति लोपे रूपसिद्धेः । न चातिजरसमिति सिद्धयर्थ तदिति वाच्यम् । लुकोऽपवादमम्भावं बाधित्वा जरसि कृते ततः सन्निपातपरिभाषाविरोधादमोऽलुकि सिद्धत्वादिष्टस्य । सौतु सन्निपातपरिभाषयैव जरसादेशो नेति मूल एव स्फुटीकरिष्यति । यत्त्वाहुः । अत्राकारविधानं सन्निपातपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेनामि जरसादेशेऽतिजरसमिति । अत्रेद वक्तव्यम् । अमि अनित्यं सौ नेत्यत्र विनिगमनाविरहः। इष्टासिद्धेरेव विनिगमकत्वमिति चेत् अन्यथापीष्टसिद्धेव्याहतत्वात् । यदपि मत इति सूत्रणीये म् च अच्चेति समासे मान्ताददन्तात्स्यमो गित्यर्थः स्यात् । क्लीवे पूर्वेण सिद्धेऽक्लीवार्थमेतत्स्यात्। तथा च किम् इदम् शब्दयोर्दोषशङ्काव्यावृत्तये तत्तज्ज्ञापकानुसरणे लाघवाभावः। किंतु आत्मित्येव वक्तुमुचितमित्युक्तम् । अत्राप्यनिष्टशङ्काया अनिवार्यत्वात् । अच्च मचेति समासे क्लीबाद्यथाक्रमं स्यमोरामौ स्यातामिति । तस्मान्म इत्यत्र निष्कारणमुद्देश्यविधेयक्रमबाधस्यैव दुष्टत्वात्॥
(ईमौ) नपुंसकलिंगात्पर औरीकारमापद्यते ॥ कुले ॥ (सुबोधिनी )-ईमौ ॥ नपुंसकान्नाम्नः पर औरीत्वं प्रामोति ॥ दीर्घोच्चारणं तु मधुनी इत्यादौ श्रवणार्थम् । विपरीतनिर्देशो नित्यादपि नुमः पूर्वमीविधानार्थः ॥
(तत्त्वदी०)-ईमाविति ॥ अत इति नानुवर्तते। दीर्घोच्चारणं तु वारिणी इत्यादौ श्रवणार्थम् । विपरीतनिर्देशो नित्यादपि नुमः पूर्वमीविधानार्थः । सत्यपि च प्रथम नुम्प्रवृत्यभावात् ॥
(जशसोः शिः) नपुंसकलिंगात्परयोर्जश्शसोः शिर्भवति ॥ (सुबोधिनी)-जश्सोः शिः॥ नपुंसकानाम्नः परयोजश्शसोः शिः स्यात् ॥ नपुंसकात्किम् । देवाः ॥ जसा सहचरितस्य शसो ग्रहणान्नेह । शतशो ददाति । शकारः सर्वादेशार्थः॥
Page #130
--------------------------------------------------------------------------
________________
(११४)
सिद्धान्तचन्द्रिका। [स्वरान्तनपुंसकलिंगाः ] ( तत्त्वदी० )-जश्सोः शिरिति ॥ जस! सहचरितस्य शसो ग्रहणात् शतशो ददातीत्यादौ नातिप्रसङ्गः । शकारः सर्वादेशार्थों न तु श्रवणार्थः। पराणीत्यादिनिर्देशात । अत्राहुः । अत्रासेरित्येव वक्तुमुचितम् । पराणीत्यादिनिर्देशात् स्याद्यधिकाराच्च जश्शसोः शिरित्येव ग्रहणं न तु ङसिङसोः नपुंसकात् नपुंसकस्येति निर्देशात् । अर्थस्य नियामकत्वाद्वैपरीत्यशङ्काऽपि नेति । अत्रेदमवधेयम् । लाघवार्थमसेरिति सूत्रिते ज्ञापकानुसरणस्य वैपरीत्यशवानिवृत्त्यर्थम् अर्थनियामकत्वानुसरणस्य चातिगौरवेण ततोऽस्यैव लघुत्वात् ॥
(नुमयमः) नपुंसकस्य नुमागमो भवति शौ परे । यमप्रत्याहारान्तस्य न । मिदन्त्यात्स्वरात्परः ॥
(सुबोधिनी)-नुमयमः॥ अयमप्रत्याहारान्तस्य नपुंसकस्य नुम् स्यात् शौ परतः। नपुंसकादिति षष्ठया विपरिणम्यते शिरिति सप्तम्या च । अयम इति षष्ठी। मकारादकारस्योच्चारणार्थत्वात् । मित्त्वादन्त्यात्स्वरात्परो नुम् ॥ अयमः किम् । विमलदिवि । चत्वारि । वारि । फलि । सुगणि । ब्रह्माणि । प्रशामि॥
(तत्त्वदी०)-तुमयम इति ॥ पत्र नपुंसकादित्यनुवृत्तस्यार्थवशाद्विभक्तिविपरिणामः । एवं शिरित्यपि सप्तम्या विपरिणम्यते इत्यभिप्रेत्याह-नपुंसकस्य शाविति च ॥ अयम इति षष्ठी अकारस्योच्चारणार्थत्वात् । षष्ठयर्थे प्रथमा वा ॥ मिदन्त्यादिति ॥ अत्र च संध्यक्षराणीति ज्ञापकमिति भावः॥
(नोपधायाः) नान्तस्योपधाया दीर्घो भवति शौ पञ्चस्वधिषु । नामि च । ईति न । कुलानि । हे कुल । शेषं देववत् ॥ एवं मूलफलादयः ॥
( सुबोधिनी )-नोपधायाः ॥ नेत्यविभक्तिको निर्देशः । नाम्नो विशेषणम् । तेन नान्तस्य नाम्न उपधाया दीर्घः स्यात् शौ परे पञ्चस्वाधिषु । ईमाविति ईकारे तु न ब्रह्मणी इति । वाऽदीपोरित्यत ईकारस्य अनुक्तसमुच्चयार्थस्य निषेधार्थस्य वा वाशब्दस्य चानुवर्तनात् । नामीत्यस्यापकर्षणान्नाम्यपि उपधाया दीर्घः । विदो नवानामिति निर्देशात् । भवन्नित्यादौ संयोगान्तलोपस्यासिद्धत्वान्न दीर्घः ॥
(तत्त्वदी०)-नोपधाया इति ॥ न उपधायाः इति छेदः । नेति लुप्तषष्ठीकं तदन्तखं च बोध्यम् । विशेष्यस्य नाम्न उपस्थितत्वात् इत्यत आह-नान्तस्येति ॥ अत्र वाऽऽदीपोरित्यत ईकार इत्यनुवर्त्य नेति वेत्यत आह-ईति ॥ नेति ॥ तेन ब्रह्मणी इत्यादि च सिद्धम् । अत्र नामीत्यस्यापकर्षणमित्याह॥नामीति-यदि तु ज्ञापकसिद्धस्यासार्वत्रिकत्वात् पञ्चानामिति निर्देशाद्वा नलोपश्यपि दीर्घस्तदा नामीति नापकर्षणीयम् ॥ हे कुलेति ॥ अकारस्य लोपे मकारस्य समानाद्धेरिति लोपः। अधेरित्यनुवृत्तेर्वा ॥
(श्त्वन्यादेः) अन्यादेः क्लीवात्परयोः स्यमोः तुर्भवति ॥ अन्यत् ॥
Page #131
--------------------------------------------------------------------------
________________
[ स्वरान्तनपुंसकलिङ्गाः ] टीकाद्वयोपेता। (११५)
(सुबोधिनी)-श्त्वन्यादेः ॥ क्लीवादन्यादेर्नाम्नः परयोः स्यमोः इतुः स्यात् ॥ अतोऽमित्यस्यापवादः ॥ अन्य अन्यतर इतर डतर डतमेति पञ्चात्मकोऽन्यादिः। सर्वाद्यन्तर्गणः। डतरडतमौ प्रत्ययौ । ततस्तदन्ताः कतरकतमादयो ग्राह्याः ॥ क्लीवादिति किम् । अन्यः । अन्यम् ॥ शकारः सर्वादेशार्थः । उकार उच्चारणार्थः॥
(तत्त्वदी० )-श्त्वन्यादेरिति ॥ श्तु अन्यादेरिति छेदः । शः सर्वादेशार्थः। उकार उच्चारणार्थः । सेरेकवर्णत्वादेव सर्वादेशः सिद्धः । द्वितीयैकवचने तु मस्य तादेशे कृते एकदेशविकृतन्यायेनाम्शसोरस्येत्यलोपे कृते सिद्धमिष्टमिति शकारो व्यर्थ इति चेत्सत्यम् । स्वविपये प्राप्तस्य सर्वस्य स्थाने तुर्यथा स्यात् । सिलोपबाधनार्थ शकार इति फलितम् । इत्याशयेनाह-शन्यादेरिति॥
(वाऽवसाने ) अवसाने वर्तमानानां झसानां जबा भवन्ति चपा वा ॥ अन्यत्-अन्यद्, अन्ये, अन्यानि ॥
(सुबोधिनी )-वाऽवसाने ॥ अवसातिरवसानम् । षोऽन्तकर्माण । अस्माद्भावे युट् । समाप्तिरन्त इति यावत् । पदस्यान्ते वर्तमानानां झसानां जबाश्चपाश्च वा स्युः ॥ पदस्य किम् । मरुतौ ॥ अन्ते किम् । गतः ॥ झसानां किम् । राजन् ॥
(तत्त्वदी०)-वाऽवसान इति ॥ अत्रावसातिरवसानम् । षोऽन्तकर्मणि । भावे युट्। समाप्तिरन्त इति यावत् । अत्रावसानशब्दस्यान्तावयवार्थस्यावयविनि साकाङ्क्षस्य पदस्येत्यवयवी संबध्यते । यदि तु 'खसे चपा झसानाम्' 'झबे जबाः ' इति सूत्रद्वये पदान्त इत्यनुत्यै वाक्यभेदेन व्याख्यायते पदान्ते झसानां जबाश्चपाश्च भवन्तीति तदेदं सूत्रं व्यर्थमेव ॥
(अन्यादेधैर्लोपोन) हे अन्यत् । अन्यतरत् । इतरत् । कतरत् । कतमत् ॥
( सुबोधिनी)-अन्यादेधैर्लोपो न ॥ अन्यादेः परस्य धेोपो न ॥ समानाहेरिति प्राप्ते निषेधः ॥
( एकतरस्य श्तुन ) एकतरम् । शेषं सर्ववत् ॥ सेरमादेशे संनिपातपरिभाषया न जरस् । अजरम्, अजरसी-अजरे, अजराणि ॥
( सुबोधिनी)-एकतरस्य श्तुन ॥ एकतरात्परयोः स्यमोः इतुर्न स्यात् । डतरप्रत्ययान्तत्वात्प्राप्ते निषेधः । अविद्यमाना जरा यस्य तत् । अन्याथें इति हस्यें कृते अतोऽमित्यम् । अजरमित्यत्राजरशब्दमाश्रित्य सिस्थानेऽम् उत्पन्नः तेनाजरशब्दस्याविधिः सन्निपातः। अतः सन्निपातोऽविधिर्जरसादेशविधानेनाजरशब्दस्य विघातको नेति । अजरमित्येकमेव रूपं प्रथमैकवचने । अजर शि इति स्थिते परत्वाजरसि कृते नुमयम इति नुम् ॥
Page #132
--------------------------------------------------------------------------
________________
(११६) सिद्धान्तचन्द्रिका। [स्वरान्तनपुंसकलिंगाः]
(तत्त्वदी० )-सेरमादेशे इति ॥ यो यमाश्रित्योत्पद्यते स तं प्रति सन्निपातः । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' ॥
(नसम्महतोऽधौ दीर्घःशौ च) सन्तस्यापशब्दस्य महच्छब्दस्य च दीर्घो भवति पञ्चस्वधिषु शौ च ॥ अजरांसि । अमि लुकोऽपवादमम्भावं बाधित्वा परत्वाज्जरस् । ततः सन्निपातपरिभाषया न लुक् । अजरसम्, अजरसी-अजरे, अजरांसि- अजराणि । शेषं निर्जरवत् ॥ हृदयोदकास्यमांसानाम् हृद् उदन आसन् मांस् । हन्दि । हृदा । हृद्भ्याम् ॥ उदानि । उदा । उदायाम् । आसानि । आना। आसन्याम् ॥ मांसि । मांसा । मान्न्याम् ॥
(सुबोधिनी)-सम्महतोऽधौ दीर्घः शो च॥न्स् च अपू च महच्च एषां समाहारो सम्महत् तस्य सम्महतः। 'जमे ञमा वा' इत्यनेन पस्य मादेशं कृत्वा अपू शब्दोऽत्र निर्दिश्यते । अधिकाराल्लब्धस्य नानो विशेषणमिदम् । विशेषणेन च तदन्तविधिरिति तदन्तस्यापि दीर्घो भवतीत्यर्थः ॥ अधाविति छेदो न तु धाविति । पञ्चस्वित्यनुवर्तते । तद्विशेषणं चेदम् । अत्र पूर्ववत् ई इत्यनुवर्तते । चकारोऽस्त्येव । तेन स्वपी इत्यादौ ईति नेत्यर्थः ॥ अत्राम्महत्साहचर्यादधातोरेव न्स् गृह्यते । तेन सुहिन इत्यादौ न दीर्थों धातुत्वात् । सन्तत्वादीघे अजरांसि। नोपधाया इति दीर्धे अजराणि । अजर अमित्यत्र नपुंसकात्स्यमोटुंगित्यस्यापवादमतोऽमित्यम्भावं बाधित्वा परत्वाजरस् । ततो यो यमाश्रित्योत्पद्यते स तं प्रति सन्निपातः । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषया नामोलुक्।अजरसम्-अजरम् ।। पाददन्तेत्यनेन हृद् उदन् आसन् मांस आदेशाः । 'अल्लोपः स्वरे' इत्यकारलोपे उगा। नानो नो लोपशिति नलोपे उदभ्याम् । संयोगान्तस्यति सलोपे मान्भ्यामिति ॥
(तत्त्वदी०)-सम्महतोऽधौ दीर्घः शौ चेति ॥ स च अप् च महच्च एतेषां समाहारः सम्महत् तस्य । पस्य अमे जमा वेति मः। अत्राधाविति छेदः। तच्च पञ्चस्वित्यनुवृत्तस्य विशेषणम् । तेन धिवार्जितेषु पञ्चस्वित्यर्थः । केवलस्य न्सोऽसंभवात्तदन्तस्य ग्रहः । अत्र नोपधाया इत्यत उपधामात्रमपकृष्य तच्च पूर्वमात्रोपलक्षकं पारिभाषिकार्थस्येहासंभवात् । एवं स्थिते दीर्घग्रहणस्य सामर्थ्यकल्पनादिकमनर्थकमित्युपेक्षितम् ॥ शसः पञ्चस्वनन्तर्भावात् शाविति ॥ स्वपीत्यत्र तु न दीर्घः वेति ईकारं चानुवर्त्यवाकारस्य निषेधार्थत्वं परिकल्पनीयम् इतिव्याख्यानात्।
(नपुंसकस्य द्वस्वः) नपुंसकस्य ह्रस्वो भवति॥श्रीपम् ॥ कुलवत् ॥ (सुबोधिनी)-नपुंसकस्य हस्वः ॥ अत्र हस्वश्रुत्या स्वरस्येत्युपस्थितम् । तच्च नपुंसकस्य विशेषणम् । नाम्न इत्यनुवृत्तमधिकारात् । तत्र स्वरान्तस्य नपुंसकस्य
Page #133
--------------------------------------------------------------------------
________________
[ स्वरान्तनपुंसकलिंगाः ] टीकाद्वयोपेता ।
(११७) नाम्न इति सामानाधिकरण्येन व्याख्यानम्। लिंगस्य नामार्थत्वाभ्युपगमात् । तस्य ह्रस्वः स्यादित्यर्थः। श्रियं पाति यत् कुलं तत् श्रीपम् । अत्र ह्रस्वे कृतेऽतोऽमित्यम् ॥
(तत्त्वदी० )-नपुंसकस्येति ह्रस्वश्रुत्या स्वर इत्युपस्थितम् । तच्च नाम्नो विशेषणम्। तेन स्वरान्तस्य नाम्नो नपुंसकस्येत्यर्थः । न तु नपुंसकस्य स्वरस्य ह्रस्व इत्यर्थः । सुवाक् कुल: मित्यादावतिव्याप्तेः ॥
(नपुंसकात्स्यमोलक् ) अस्थि ॥ (सुबोधिनी० ) नपुंसकात् स्यमोठेक् ॥ नपुंसकानाम्नः परयोः स्यमोहूंक स्यात् ॥ त्यदित्यादौ लुका त्यदायत्वं बाध्यते । क्वचित्पूर्वेणापि परस्य बाधस्वीकारात् नित्यत्वाद्वा । कृताकृतप्रसंगित्वाल्लुङ् नित्यः। त्यदायत्वं विभक्तावुच्यमानं कृते लुकि विभक्त्यभावान्न ॥ __ (तत्त्वदी०)-नपुंसकात्स्यमोटुंगिति ॥ तत्कुलमित्यत्र तु त्यदाद्यत्वमेतेन बाध्यते । नित्यत्वाद्वा कृताकृतप्रसङ्गित्वात् । न च कृते त्यदाद्यत्वे लुकोऽपि न प्राप्तिः अतोऽमित्यनेन बाधात इति चेत् । लुको निमित्तस्य लक्षणान्तरेण बाधात् । न पुनस्त्यदाद्यत्वेनैव । यस्य लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति ॥
(य्वृणां नपुंसके धौ गुणो वा) हे अस्थ-हे अस्थि ॥ (सुबोधिनी )-रवृणां नपुंसके धौ गुणों वा ॥ इश्च उश्च आ च ते स्वरस्तेषां रवृणामिकारोकारऋकारान्तानां नपुंसकानां गुणो वा स्यात् धौ ॥ (तत्त्वदी०)-वृणामिति ॥ इश्च उश्च आ च य्वरस्तेषां वृणाम् ॥
(नामिनः स्वरे) नाम्यन्तस्य नपुंसकस्य नुमागमो भवति स्यादौ स्वरे ॥ अस्थिनी॥
(सुबोधिनी )-नामिनः स्वरे ॥ नाम्यन्तस्य नपुंसकस्य नाम्नो नुम् स्यात् स्वरादौ स्यादौ ॥ नाम्यन्तस्य किम् । जगते ॥ नपुंसकस्य किम् । वातप्रम्ये ॥ स्वरादौ किम् । वारिभ्याम् ॥ स्यादौ किम् । दध्यत्र ॥
(तत्त्वदी०)-नामिनः स्वर इति ॥ नाम्यन्तस्य किम् । जगता । नपुंसकस्य किम् । चातप्रम्या । स्वरादौ किम् । वारिभ्याम् ॥ स्यादौ किम् । दध्यत्र ॥ ननु स्वरग्रहणं किमर्थम् । वारिभ्यामित्यादौ वारणार्थमिति चेन्न । तत्र लोपशा रूपसिद्धेः । अथ सुराभ्यामित्यत्र नुमा जातेन व्यवधानादात्वं न स्यात् । नलोपे कृतेऽपि विभक्तिविधौ तस्यासिद्धत्वाद्वयवधानमेव । सुरेत्यस्य व्यवधायकत्वानैशब्दस्य व्यवधायकत्वं भवत्येव । अथ तस्माद्वैशब्दान्तनाम्न एव नुमा व्यवधानमिति न वाच्यम् । तथा सति पूर्वस्य ये कृतेऽतिर्याभ्यामिति स्यात् । मैवम् । राय आत्वं नुमा व्यवधानं प्राप्यापि भवति विभक्तिविधानदशायामानन्तर्याश्रयणात् । अथ नुडबा. धनार्थ स्वरग्रहणम् अन्यथा नित्यत्वान्नुमेव स्यादिति चेन्न नुडर्थ यत्नान्तरस्यावश्यकत्वात् । अथ
Page #134
--------------------------------------------------------------------------
________________
( ११८ )
सिद्धान्तचन्द्रिका |
[ स्वरान्तनपुंसकलिंगा: ]
नुटि कृते नुम्बाधनार्थमिति चेन्न किं ततो लोपेनेष्टसिद्धेः । अथ लोपशि नामीत्यस्याप्रसङ्ग इति न वाच्यम् । नोपधाया इत्यनेनैव निर्वाहसत्त्वात् । अथ शुचीनामित्यादौ इनां शौ सावित्यनेन नियमः स्यादिति न वाच्यं प्रतिपदोक्तस्यैवेनो ग्रहणात् । उत्तरार्थमित्यपि न तथा सति तत्रैव कृतं स्यात् । तेन इह करणं ज्ञापयति । आगमजस्य लोपश् नेति । तेन भवानित्यादि सिद्धम् ।
(अच्चास्थनां शसादौ ) शसादौ स्वरेऽस्थ्यादीनां नुमागम इकारस्य चाकारः । अल्लोपः स्वरेऽम्वयुक्ताच्छसादौ ॥ अथना । अथ | अस्थ्नः, अस्थ्नोः, अस्थ्नाम् । वेङयोः । अस्थि - अस्थान | एवं दधिसक्थ्यक्षिशब्दाः । तदन्तस्यापीष्टः । प्रियास्थना । अतिदध्ना । वारि, वारिणी, वारीणि । आमि नुट् । वारीणाम् । नपुंसकस्य ह्रस्वः । ग्रामणि ||
( सुबोधिनी) - अच्चास्थानां शसादौ ॥ अत्राधिकृतस्य नाम्नोऽस्थ्यादिभिविशेषणात्तदन्तविधिः । तेनानपुंसकस्याप्यस्थ्याद्यन्तस्य नाम्नो नुम् स्यादेषामितो Sकारश्च । शम् आदिर्यस्येत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन शसि न अस्थीनीति । अस्थ्नामिनि बहुवचनमाद्यर्थम् । तेनास्थिदधिसक्थ्यक्षिशब्दा ग्राह्याः । अलोप इत्यनेनोपधाकारलोपे अस्थमा । वेङयोरित्युपधाया वा लोपे अस्थिन - अस्थानि । तदन्ते तु प्रियमस्थि यस्य स प्रियास्थि: । तेन प्रियास्थ्ना शुना ॥ दधि अतिक्रान्तमतिदधि । तेनातिना व्यञ्जनेन ॥ स्त्रियामप्यतिदध्नेत्येव । सन्निपातपरिभापया बहिरङ्ग परिभाषया चेपोऽप्रवृत्तेः ॥ वृणामिति वा गुणे हे वारि- हे वारे | टा नाऽस्त्रियामिति नाभावे वारिणा । ङयि ङितीत्येत्वे प्राप्ते ऐत्वौत्वतृवद्भावैत्वानेि बाधि-त्वा 'नामिनः स्वरे' इति नुम् । 'परेण पूर्वबाधो वा' इत्याद्युक्तत्वात् । अतिसखिनीत्यत्र ऐसख्युरित्यैवे प्राप्ते नुम् । वारिणीत्यत्र ङेरौ डिदित्यत्वे प्राप्ते नुम् । प्रियक्रोष्ट्रनिइत्यत्र क्रोष्टुशब्दस्येति तृवद्भावे प्राप्ते नुम् । वारिणे । एत्वे प्राप्ते नुम् । आमि 'प्रायश:' इत्युक्तत्वात्पूर्वेण परस्य बाधनात् नुडेव ॥ ननु नुम्नुटोः को विशेषः । उच्यते । नामिति दीर्घत्वामति । वारीणाम् । हसादौ हरिवत् ॥ ग्रामं नयति यत् कुलमिति नपुंसकस्येति हस्वे ग्रामणि ॥
( तत्वदी ० ) - अच्चास्नां शसादाविति ॥ शस् आदिर्यस्येत्यतद्गुणसंविज्ञानबहुव्रीह्याश्रयणात् टादिर्गृह्यते । अथैवं टादावित्येव कथं नोक्तमुत्तरसूत्रेऽपि तदनुवृत्त्यैव सिद्धेः टादावित्यस्यैव वक्तुमुचितत्वादिति चेत्सत्यम् । वसोवं उरित्युत्तरसूत्रे शसादावित्यस्योपयोगित्वात् । बहुवचनादेवास्थ्यादिग्रहः । अत्वं चेकारस्यैव । वाप्यनुवृत्तेः तपरत्वविपरीत निर्देशयोस्तु वैयर्थ्यमेव ॥ तदन्तेति ॥ तस्मादित्यधिकारान्नामलाभः । तच्चास्थ्यादीनां विशेषणम् । विशेषणेन च तदन्तविधिरित्यतस्तदन्तत्वलाभः । यत्तु उत्तरार्थमनुवृत्तं नपुंसकग्रहणमस्थ्यादीनां
1
Page #135
--------------------------------------------------------------------------
________________
[ स्वरान्तनपुंसकलिंगाः] टीकाद्वयोपेता।
( ११९) विशेषणम् । तेन यदृच्छाशब्दानां पुँल्लिङ्गानां वारणम् । दधिर्नाम कश्चित्तदनुकरणस्य दधिनेत्येव यथा स्यादित्युक्तं तन्न । "अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु" इत्युक्तरेव तद्वारणसंभवात् ॥
(टादावुक्तपुंस्कं पुंवदा ) उक्तपुंस्कं नाम्यन्तं नपुंसकलिंगं टादौ स्वरे परे पुंवद्वा भवति ॥ ग्रामण्या-ग्रामणिना । ग्रामणीनाम्-ग्रामण्याम् । ग्रामणिनि-ग्रामण्याम् ॥ प्रधि । प्रध्या--प्रधिना ॥ सुधि। सुधिया--सुधिना॥ मधु । हे मधो--हे मधु ॥ एवमम्वादयः ॥ सानु, सानुनी,स्नूनि-सानूनि । स्नुना--सानुना, स्नुभ्याम् ॥ प्रियकोष्टु, प्रियक्रोष्टुनी, प्रियकोष्टूनि । प्रियक्रोष्ट्रा--प्रियकोष्टुना । प्रियकोष्ट्रे--प्रियक्रोष्टवे--प्रियकोष्टुने । प्रियकोष्टुः--प्रियकोष्टोः--प्रियक्रोष्टुनः ॥ सुलु, सुलुनी,सुलूनि । सुल्वा-सुलुना ॥ एवं खलप्वादयः ॥ धातृ, धातृणी, धातृणि । हे धातः-हे धातृ ॥ एवं ज्ञातृकादयः ।।
(सुबोधिनी ) टादावुक्तपुंस्कं पुंवद्वा ॥ प्रवृत्तिनिमित्तैक्ये उक्तपुंस्कं नाम्यन्तं नपुंसकं पुंवदा भवति टादौ स्वरे ॥ नपुंसकादित्युक्तपुंस्कमित्यनेन सह प्रथमान्तं सम्बध्यते । पुंवदिति पुंशब्देन तुल्यमित्यर्थः । केन प्रकारेण पुंशब्देन तुल्यं नुम्हस्वयोरभावात् । तेन नुम्हस्वयोरभावोऽतिदिश्यते । नपुंसके वर्तमानस्य यस्य शब्दस्य प्रवृत्तिनिमित्तं भिद्यते तस्य टादौ स्वरे न पुंवत् । यथा। मधुशब्दो मद्ये नपुंसकः। चैत्रदैत्ययोः पुंल्लिङ्गः । नात्र पुंवत् । प्रवृत्तिनिमित्तभेदात् । उक्तः पुमान् यस्मिन्नर्थे तद्भाषितपुंस्कं प्रवृत्तिनिमित्तं तदस्यास्तीति उक्तपुंस्कम् । अइको चेत्यप्रत्ययः । उक्तं हि । “शब्दप्रवृत्तर्निमित्तं यत् क्लीव तच्च पुंसि चेत् ॥ तदा भाषितपुस्कत्वं पटुने पटुवे यथा ॥ १॥" पुंल्लिङ्गपक्षे ग्रामणीशब्दो दीर्घान्त एव । ततो य्वौ वेति यः।निय इत्याम्। ग्रामण्याम्। नपुंसकपक्षे ह्रस्वः। ततो 'नामिनः स्वरे' इति नुम् ॥ पुनरुक्तं च एक एवेत्यादि । तन्नाम उक्तपुंस्कमाचार्येणोच्यते । तत्किम् । एक एव यः शब्दः हीति निश्चयेन त्रिषु लिङ्गेषु वर्तते यः शब्दः त्रिषु लिङ्गेषु एकमेवार्थमाख्याति कथयति । अर्थशब्देन प्रवृत्तिनिमित्तमुच्यते ॥१॥ प्रकृष्टा धीर्यस्य तत्प्रधि । प्रधिनी इत्यत्र पूर्वेणापि नुमा परमपि यत्वं बाध्यते प्रायश इत्युक्तत्वात् । अत्रापि प्रकृष्टज्ञानवत्त्वं पुनपुंसकयोरेकमेवेति उक्तपुंस्कत्वात्पुंवत्पक्षे य्वौ वेति यः। नपुंसकपक्षे नुम् ॥ सुष्टु धीर्यस्य तत् सुधि । सुधिनी इत्यत्र इयं वाधित्वा प्राग्वन्नुम् । शोभनज्ञानवत्त्वं प्रवृत्तिनिमित्तं पुन्नपुंसकयोरेकमेव । उक्तपुंस्कत्वात् पुंवत्पक्षे सुधीशब्दस्य च नेति निषेधादिय् । सुधिया ॥ मधु मद्ये पुष्परसे । मधुर्वसन्ते चैत्रे चेति
Page #136
--------------------------------------------------------------------------
________________
(१२०) __ सिद्धान्तचन्द्रिका। [स्वरान्तनपुंसकलिंगाः ] पुंनपुंसकयोरेकप्रवृत्तिनिमित्तं नास्त्यत्र । किं तु मद्यत्ववसन्तत्वादिरूपं भिन्न भिन्नमेव । उक्तपुंस्कत्वाभावान्मधुने । मधुन इत्येव । न तु मधवे मधोरित्यादि । वृणामिति वा गुणे हे मधु-हे मधो ॥ सानुशब्दस्य शसादौ पाददन्तेत्यनेन वा स्नुरादेशः। 'स्नुः प्रस्थः सानुरस्त्रियाम्' इत्युभयलिङ्गः सानुशब्दः। स्नूनि-सानूनि इत्यादि । प्रियः क्रोष्टा यस्य तत् प्रियक्रोष्टु । टादौ स्वरे पुवत्पक्षे रत्वम् । प्रियक्रोष्ट्रा । टा नाऽस्त्रियामिति नाभावे प्रियक्रोष्ट्रना इति रूपदयम् । क्लीवे तु नुमेव । प्रियक्रोष्टुने । एवमन्यत्रापि । आमि नुडेव नित्यत्वात् ॥ सुष्टु लुनाति तत्सुलु । नपुंसकस्येति ह्रस्वः । शोभनलवनकर्तृत्वं पुनपुंसकयारेकमेव । पुंवत्पक्षे य्वौ वेति वा । क्लीबे नुम् । सुल्वा, सुलुना ॥ दधाति तत् धातृ धारणकर्तृत्वं पुनपुंसकयोरेकमेव । पुंवत्पक्षे रत्वम् । क्लीवे नुम् । ङसिङसोतो ङ उरित्युत्वम् धातुः। आमि नुटू । धातॄणाम् । ङाविति गुणे धातरि । बृणामिति वा गुणे हे धातः हे धात ॥
(तत्त्वदी० )-टादावुक्तपुंस्कं पुंवद्वेति ॥ पुंशब्देन तुल्यं पुवत् । तेन नुम्हस्वयोरभावोऽतिदिश्यते । अतिदेशसामर्थ्याघ्रस्वोऽपि । अन्यथा प्रकृतत्वान्नुम एव ग्रहणं स्यात् । तथा च स्वाश्रयनाभावादि स्यात् ॥ उक्तपुंस्कमिति ॥ उक्तः पुमान्यस्मिन्नर्थे प्रवृत्तिनिमित्तरूपे तदुक्तपुंस्कं प्रवृत्तिनिमित्तं तदस्यास्तीति मत्वर्थीयाकारेण क्लीबं नामोच्यते । तेन पीलुर्वृक्षस्तत्फलं पील । पीलने न तु पीलवे । प्रवृत्तिनिमित्तभेदात् । वृक्षे वृक्षत्वव्याप्यजातिः फले तु फलत्वव्याप्यजातिरिति भेदः । उक्तं च । "शब्दप्रवृत्तौ यत् क्लीबे निमित्तं तच्च पुंसि चेत् । तदा भाषितपुस्कत्वं पटुने पटवे यथा' इति । उक्तः पुमान् येन शब्देनेति वाक्ये तु स्वप्रवृत्ति. निमित्तभेदेऽपि स्यात् । प्रध्यति ॥ पुम्वत्त्वे य्वौ वेति यत्वम् । बह्वयः श्रेयस्यो यस्येति तद्बहुश्रेयसी कुलम् । अत्र नपुंसकाद्धस्वत्वं न ईयसोनेति हस्वमात्रनिषेधादिति श्रीपत्यादयः । अन्ये तु उपर्जनहस्व एव निषिध्यते नपुंसकहस्वत्वं स्यादेव बहुश्रेयसि बहुश्रेयसिनी इत्याहुः । प्रद्युनेति माधवमते । मतान्तरे पुंवद्वा प्रद्यवेत्यपि ||
(ह्रस्वादेश सन्ध्यक्षराणामिकारोकारौ ) अतिरि । अतिरायाअतिरिणा । अतिराये-अतिरिणे । अतिराज्याम् । अतिरिणि । अतिरासु॥ प्रयु । प्रधुना-प्रयवा । उपगुना-उपगवा ॥ अतिनु । अतिनुना--अतिनावा ॥ इति स्वरान्ता नपुंसकलिंगाः॥ । (सुबोधिनी) हस्वादेशे सन्ध्यक्षराणामिकारोकारौ ॥ आदिश्यते इत्यादेशः। ह्रस्वश्वासावादेशश्च हस्वादेशः। निर्धारणे सप्तमी।जातावेकवचनम् । आदिश्यमानेषु ह्रस्वेषु मध्ये संध्यक्षराणामिकारोकारौ भवतः ॥ एकारान्तस्योदाहरणम् । इ. कामः स्मृतो येन सः स्मृतेः। शोभनः स्मृतेर्यस्य तत् सुस्मृति ॥ रायमतिक्रान्तं यत् कुलं तदतिरि । 'अत्यादयः कान्ताद्यर्थे' इति तत्पुरुषः। अतिरिणा । इह न पुंवत ।
Page #137
--------------------------------------------------------------------------
________________
[हसान्तपुंल्लिंगाः ] टीकाद्वयोपेता।
(१२१) उक्तपुंस्कत्वाभावात् । पुंसि त्वैदन्तोऽस्तीति । एवमग्रेऽपि । एकदेशविकृतस्यानन्यत्वातू रैस्मीत्यात्वम् । अतिराभ्याम् । आमि नुट् नामीति दीर्घः । अतिरीणाम् ॥ प्रकृष्टाः द्यौर्यस्मिन् तत् प्रद्यु । प्रकृष्टस्वर्गवत्त्वादिप्रवृत्तिनिमित्तैक्यात् प्रद्योशब्द उक्तपुंस्कः। स एवंदानी हस्वत्वे इति प्राशब्दोऽपि उक्तपुंस्क एव एकदेशविकृतस्यानन्यत्वात् । अतः पुंवद्भावो भवतीत्यके वदन्ति ॥ माधवमते तु सन्ध्यक्षरान्तेषु क्लीवेषु पुंवद्भावो नास्तीति बोध्यम् ॥ नावमतिक्रान्तं यत्तदतिनु ॥ इति सुबोधिन्यां स्वान्ता नपुंसकलिङ्गाः॥ (तत्त्वदी०)-लोकेशकरसंज्ञेन श्रीक्षेमङ्करसूनुना। विहितायां हि टीकायां क्लीबलिङ्गोऽगमच्छुभः।।
इति तत्त्वदीपिकयां स्वरान्तनपुंसकलिङ्गाः॥
अथ हसान्ताः पुंल्लिङ्गाः। (अनडुहश्च ) पुंसि पञ्चसु शौ चानडुह आमागम ईपि वा ॥ (सुबोधिनी )-अनडुहश्च ॥ अनडुशब्दस्यामागमः स्यात् । अत्र चतुराम् शौ चेत्यत आम् शाविति पदद्वयमनुवृत्तं पञ्चस्विति च । अत्र हिचकारोऽनुक्तसमुचयार्थः । तेन ईकारे नाम् । ईप्याम् वाः ॥ ईकारे बहनडुही । ईपि अनडुही-अनड्वाही । पत्न्यादित्वान्नदादित्वादीप् । तदन्तविधिरत्र । प्रियानड्वान् ॥
(तत्त्वदी० )-अनडुहश्चेति ॥ अत्र चतुराम् शौ चेत्यत आम् शौ इति पदद्वयमनुवर्तते । अत्राहुः । अनडुहश्चेत्यत्रामादेरनुवृत्त्यैव लाभात्तदर्थों न चकारः किंतु योगविभागार्थः। तथा च चेति सूत्रेऽनडुह इति साविति नुमिति च पदद्वयमनुर्त्यानडुहः सौ नुमिति व्याख्येयम् । अत्रार्थे चतुराम् शौ चेत्यतः पृथग्योगकरणं लिङ्गम् । एवं चानडुह इति सूत्रेऽनुक्तसमुच्चयार्थो भिन्नश्वकारोऽनुवर्त्य इति । तत्रेदमवधेयम् । योगविभागानुवृत्तिक्लेशगौरवतः सूत्रस्यैव लघुत्वात्। पुनस्तत्र चकारान्तरस्याश्रयणे आश्रितत्यागे वाऽतिगौरवमित्यालोच्योपेक्षितम्।यदप्युक्तम्। नन्वल्पविषयेन नुमा बहुविषय आम् बाध्यताम् यथा च नुमेवेति चेत्सत्यम् । अप्ययोरादित्यतो मण्डूकप्लुत्या आदित्यनुवृत्तेरवर्णात्परतो नुम्विधानात् । कथमनुवृत्तावप्याममोः कृतयोरेव नुम् प्रथमाकारादेव किमिति न स्यादिति चेच्छृणु एवं सति मिदन्त्यादिति परिभाषा बाध्येत । तथा न बाध्येतानुवृत्तिश्च सार्थिका भवति तथा कर्तव्यम् । यदि वाऽऽममोरकृतयोर्नुम् स्यात् नेदमुभवमनुगृहीत स्यादिति कृतयोरेव तयोर्नुम् भविष्यतीति । अत्रापीदं विचार्यम् । प्रथमतो नुम्यमि कृते न कापि क्षतिः । आम्करणं उकारस्यैवान्त्यस्वरत्वात्ततः परस्यैवामो विधानात् । असंभवत्वादबाधाच्च बाध्यबाधकभावाभावः ॥
(सावनडुहः ) अनडुहः सौ नुम् ॥ (सुबोधिनी )-सावनडुहः ॥ अस्य नुम् स्यात् सौ परे ॥ नुमयम इत्यतो नुमि
Page #138
--------------------------------------------------------------------------
________________
(१२२)
सिद्धान्तचन्द्रिका। [हसान्तपुंलिंगाः] त्यनुवृत्तमप्ययोरान्नित्यमिति सूत्रान्मण्डकप्लुत्या आदित्यनुवर्तते । तेनावर्णात्परोऽयं नुम् । अतो विशेषविहितेनापि नुमाऽऽम् न बाध्यते । अमा च नुम् न वाध्यते ॥
(संयोगान्तस्य लोपः) स्यादौ रसे पदान्ते च ॥ (सुबोधिनी)-संयोगान्तस्य लोपः ॥ संयोगेति अन्तस्येति च छेदः । अनुकरणाद्विभक्तेर्वैकल्पिकत्वादविभक्तिको निर्देशः। नाम्न इति विशेष्यम् । संयोगेति विशेषणम् । विशेषणेन च तदन्तविधिः । तेन संयोगान्तस्य नाम्नोऽन्तस्य लोपो भवति स्यादौ रसे च । पुनः पदान्ते वर्तमानो नाम्नो धातोश्च यः संयोगस्तस्यान्तस्य लोप इति ॥ पदान्ते यथाऽयमर्थः। अचोस्कुन् ॥ संयोगान्तस्यति किम् । रुत् । संयागस्य नाम्नो विशेषणत्वादादेर्न त्वट् ॥ अनः शकटं वहतीति विग्रहे अनसि वहे. विप् । अनसो डश्च । यजामिति संप्रसारणम् । अनडुह सि इति स्थिते । आमनुमौ। परत्वात् संयोगान्तलोपे कृते सिलोपः । अनड्वान् । ' वसां रसे' इत्यनेन नुमो दत्वं न नुम् विधिसामर्थ्यात् ॥
(तत्त्वदी.)-संयोगान्तस्य लोप इति ॥ संयोग अन्तस्येति छेदः । अनुकरणाद्विभक्तवैकल्पिकत्वादविभक्तिको निर्देशः। तच्च नाम्नो विशेषणम् । तस्मात्तदन्तलाभः। तेन संयो. गान्तस्य नाम्नोऽन्त्यस्य लोपो रसे । पदान्ते वर्तमानो यः संयोग इत्येव न तु नाम्नस्तेन धातोः संयोगान्तस्यापि पदान्ते भवति । नाम्नो विशेषणत्वादादेर्न स्तः । संयोगावन्ते यस्येति विग्रहलाभार्थमन्तग्रहणम् । अन्यथा सोमसुत्स्थानेत्यत्रापि लोपः प्रसज्येत इति तु प्रत्येकं संयोगसंज्ञेति पक्षे । समुदायसंज्ञापक्षे तु संयोगोऽन्तो यस्येति विग्रहेऽपि व्यर्थम् । विशेषणत्वेनैव तदन्तलाभात् । लोपशोऽनुवृत्तावपि लोपग्रहण सन्नच्युत इत्यादौ द्वित्वार्थम् । अन्यथा लोपशि पुनर्न संधिरिति निषेधः प्रवर्तत ।।
(सभिन्नस्य रान ) अनड्वान्, अनड्वाही, अनड्वाहः ॥ (सुबोधिनी)-सभिन्नस्य रान॥रात्परस्य सस्यैव लोपः स्यान्नान्यस्य वर्णस्य॥ चतुरो वारान् इति चतुः । सुप्रत्ययस्य लोपोन्त्र । सस्येति किम् । ऊर्छ । अमाई ॥ - ( तत्त्वदी०)-सभिन्नस्येति ॥ रात्परस्य सकारमात्रस्य लोपो न तु सभिन्नवर्णान्तरस्येत्यर्थः । तेन ऊ इत्यादि सिद्धम् ॥
(धावम् ) चतुरनडुहोर्धावमागमो भवति आम्न । हे अनड्वन् ॥ (सुबोधिनी )-धावम् ॥ चतुरनडुहोरमागमः स्यादौ परे। आमोऽपवादः । चतुरशब्दात्तु गौणे । हे प्रियचत्वः ॥
(तत्त्वदी० )-धावमिति ॥ चतुरनडुहोरनुवृत्तेराह-चतुरेत्यादि ॥ चतुरस्तु गौणत्वे हे प्रियचत्वः । नुविधिसामर्थ्याद्वित्वं न ॥
Page #139
--------------------------------------------------------------------------
________________
[ हसान्तपुंल्लिंगाः ] टीकाद्वयोपेता।
(१२३) (वसां रसे ) वसुलंसुध्वंसुसुअनडुहां दत्वं भवति रसे पदान्ते च ॥ अनडुद्भयाम् । अनडुत्सु ॥ __ (सुबोधिनी)-वसां रसे । बहुवचनमाद्यर्थम् । वसु चात्र प्रत्ययो गृह्यते न धातुाख्यानात् । उत्सृष्टानुबन्धत्वेन वसुक्वस्वोः सामान्यग्रहणम्। सौ स इत्यतःस इत्यनुवर्त्य षष्ठयन्तं व्याख्येयम् । तच्च वसोविशेषणं न स्रसादेरव्यभिचारात् । नाप्यनड्डहोऽसंभवात् । सान्तवस्वन्तस्य ख्रसादेश्च नाम्नोऽनडुहशब्दस्य च दः स्यात्॥ सान्तति किम् । विद्वान् ॥ नाम्न इति किम् । स्रस्तम् । ध्वस्तम् । खसे चपा इति तः। अनडुत्सु ॥
( तत्त्वदी०)-वसां रस इति ॥ बहुवचनमाद्यर्थ लक्ष्यदर्शनात् । ग्रन्थान्तरसंवादाच्च । वसुरत्र प्रत्यय एव न धातुः साहचर्यस्य सर्वत्र नियामकत्वात् । सौ स इत्यतः स इत्यनुवये तच्च वसोर्विशेषणं कार्य नान्येषामभिचारासंभवात्। तेन सान्तवस्वन्तस्येति व्याख्येयमतो विद्वानित्यत्र न दत्वम् । नाम्नोऽधिकारात्स्रस्तमित्यादौ न । स्मीत्यधिकारेऽपि स्यादिनिरासाय रसग्रहणम् । तेन विद्वद्रूप इत्यादिसिद्धिः । रत्वबाधनार्थमनडुहो रस इत्येव न सूत्रितम् । विद्व. द्यामित्यत्र झबे जबा इत्यनेन स्थानसाम्याइत्वम् । विद्वस्वित्यत्र खसे चपा इति तः । सदि. त्यत्र 'वाऽवसाने' इति तदौ । एवं स्थितेऽपि सकारे रूपासिद्धर्वसादिग्रहणम् । तत्र परत्वाप्रतिपदोक्तत्वाच्च स्रोर्विसर्ग इत्यनेन बाधनात् । अन्यथा विसर्जनीयस्य स इति सूत्रवैयर्थ्यप्रसङ्गात् ॥ वसां किम् । हरिभ्याम् ॥ रसे किम् । स्रसौ ॥ पदान्ते किम् । विदुष्मान् ॥
(दादेर्घः) आयोचारणे दादेहकारस्य घत्वं भवति धातोझसे नानश्च रसे पदान्ते च ॥
( सुबोधिनी)-दादेर्घः ॥ द् आदिर्यस्य स दादिस्तस्य दादेः । अत्र धातुग्रह णयमनुवर्त्य तत्रैकमाद्योच्चारणप्रतिपत्त्यर्थम्। आयोच्चारणे दादेर्धातोर्हस्य घः स्यात् झसे पदान्ते च । दादेर्नाम्नश्च हस्य घो रसे पदान्ते च ॥ ढस्यापवादोऽयम् ॥ धातो यथा । दोग्धि । अधेोकू ॥ आद्योच्चारणे किम् । अधोगित्यत्र यथा स्यात् ॥ दाम लिहमात्मन इच्छतीति दामलिह्यति । नाम्नो य इति यप्रत्ययः। ततः क्विपि दामलिट् अत्र मा भूदिति ॥ ___ ( तत्त्वदी० )-दादेर्घ इति ॥ द् आदिर्यस्य स दादिस्तस्य धातोइस इति । तेन द्रुह्या दित्यत्र न । ननु अधोक् दामलिहमिच्छन् दामलिडित्यत्राव्याप्त्यतिव्याप्ती इति चेत्सत्यम् । धातु ग्रहणद्वयमत्रानुवर्तते । एकमायुच्चारणलाभार्थम् । तेनाद्युच्चारणे दादित्वादधोगित्यत्र घत्वम् तत्र स्वभावान्न घत्वम् । कखगानामन्यतमस्तु दोग्ध्रीत्यसिद्धेर्न कृतः॥
(आदिजबानां झभान्तस्य झभाश्च स्ध्वोः) धातोझभान्तस्याव यवस्यादौ वर्तमानानां जबानां झभा भवन्ति सकारे ध्वशब्दे नाम्नश्च र
Page #140
--------------------------------------------------------------------------
________________
( १२४ )
सिद्धान्तचन्द्रिका |
[ हसान्तपुल्लिंगा: ]
पदान्ते च ॥ धुक्-धुग्, दुहौ, दुहः । धुभ्याम् । धुक्षु ॥ आयोच्चारणे किम् । दाम लिह्यतीति दामलिटू - दामलिड् । दामलिड्याम् । दामलिट्सु-दामलिट्त्सु || अवयवस्य किम् । गर्दभमाचष्टे गर्दभयतीति गर्धप् । गर्दभ । गर्धयाम् । गर्धप्सु ॥
( सुबोधिनी) -- आदिजबानां झभान्तस्य झभाश्च स्ध्वोः ॥ मण्डूकप्लुत्या भिदपामित्यतो भि इत्यनुवर्तते । पदान्ते इति च । आदिशब्दस्यावयववाचित्वादवयव्याकाङ्क्षायां धातोर्नाम्नश्चेत्याक्षिप्यते । झभान्तस्येति न धातोर्विशेषणं किंत्ववयवस्य । झभान्तस्य धातोरवयवस्यादौ स्थिता जबा झभाः स्युः सादौ भादौ पदान्ते च । ध्वेति ध्वेध्वमोः सामान्यग्रहणम् । धातोर्यया । धक्ष्यते । धुग्ध्वे । अधुग्ध्वम् । अधो || जवानामिति किम् । योत्स्यते ॥ झभान्तस्येति किम् । दास्यति । जवानां सभा इत्यत्र दबानां धभा इत्यपेक्षितमाद्ययोरदर्शनात् ॥ अवयवस्येति किम् । गर्दभमाचष्टे इति गर्दभयति । नाम्नो ञिर्डिदिति त्रिप्रत्ययः ततः क्विपूञिलोपौ । गर्धप् अवयवग्रहणाभावे गकारस्थानेऽत्र घः स्यादित्यर्थः ॥ दुह प्रपूरणे । क्विप् । 'दादेर्घः" इति घत्वे झभान्तत्वाद्धः । वाऽवसान इति जबचपौ । धुग् - धुक् । झवे जचा इति जबत्वम् । धुग्भ्याम् । घत्वचपत्वे धुक्षु ॥
( तत्त्वदी ० ) - आदिजबानां झभान्तस्य झभाश्च स्ध्वोरिति ॥ अत्र धातोर्झस इति निवृत्तं स्ध्वोर्ग्रहणसामर्थ्यात् । झभान्तस्येति न धातोर्विशेषणं किंत्ववयवस्य । तेन गर्दभ- माचक्षाण: गर्धविति सिद्धम् || आदिजबानामिति ॥ आदयो जबाः आदेः परा आदावु - पदेशावस्थायां जबा इति पक्षत्रयमपि न । गर्द्धबित्यत्र गकारेऽतिव्याप्तैर्न प्रथमः । धुगित्यत्रा - व्याप्तेन द्वितीयः । पुनर्गर्द्धनित्यत्राव्याप्तेर्न तृतीयः । किंतु आदौ धातुसंज्ञाप्रवृत्तिकाले इति स्थिते दामलिडित्यत्र दकारे गर्द्धबित्यत्र गकारे चातिव्याप्तिरिति चेन्न । अन्त्यबाधेऽन्त्यसदेशस्येति परिभाषाश्रयणात् । भि दपामित्यतो मण्डूकप्लुत्या भीत्यनुवृत्तेराह - भकारे चेति ॥
( हो ढः ) हकारस्य त्वं भवति धातोर्झ से परे नाम्नश्च रसे पदान्ते च ॥ लिट्-लिडू, लिहौ लिहः । लिट्सु - लिट्त्सु ॥
(सुबोधिनी ) - हो डः ॥ धातोर्हस्य ढः स्यात् झसे पदान्ते च ॥ नाम्नो हस्य ढः स्याद्रसे पदान्ते च । धातोर्यथा । लेक्ष्यति । अलेट् । 'लिह आस्वादने' क्विप् । सौ परत्वात् ढत्वे सिलोपः । जबत्वचपत्वे । लिट्-लिड् । सुपि ढस्य चपत्वे कृते नात्सस्य वेति । धुटः चपत्वेन ततः शसे चपस्य द्वितीयो वेति तस्य थो न । कुक्टुक्वर्जितस्येत्युक्तत्वात् । ष्टुत्वं तु न शङ्खयमेव ' टोरन्यात् ' ' सुपो न' इति च
Page #141
--------------------------------------------------------------------------
________________
[हसान्त पुंल्लिङ्गाः ]
टीकाद्वयोपेता ।
( १२५ )
निषेधात् । लिट्त्सु । धुडभावेऽपि शसे चपस्येति टस्य ठो न पूर्ववत् । टुत्वं तु स्यादीनामिति निषिद्धमेव ॥
( तत्त्वदी ० ) - हो ढ इति ॥ टठडानामन्यतमस्तु लेढीत्यायसिद्धेर्न कृतः । तथा झभान्तत्वाभावात्तथोर्ध इत्यस्याप्रवृत्तेः ॥
(दुहादेव) हमुहस्नुहस्तिहां वा घत्वम् ॥ ध्रुक् - ध्रुग्--ध्रुट्-ध्रुडू, हौ, द्रुहः । ध्रुग्भ्याम् - धुड्भ्याम् - धुक्षु ध्रुट्स-घुट्सु ॥ एवं मुहस्नुहस्निहः || विश्ववाट् -- विश्ववाड् ॥
( सुबोधिनी) -हादेव ॥ द्रुहमुहस्नुहस्निहां घत्वं वा ॥ द्रुह, जिघांसायाम् । मुह, वैविये । ष्णुह, अर्द्धरणे । ष्णिह, प्रीतौ । दुहेर्दादित्वान्नित्यं प्राप्ते अन्येषामप्राप्ते विभाषेयम् । द्रुहादीनां हस्य वा घः स्यात् धातोर्झसे पदान्ते च । नाम्नो रसे पदान्ते च । पक्षे ढः । धातोर्यथा । द्रोढा-द्रोग्धा । अदोघोटू-अदोधोक | विश्व वहतीति विग्रहे ari विणिति विण् प्रत्ययः । विश्वं वाहयतीति ज्ञ्यन्तात् तु वा विणुप्रत्ययो बोध्यः ॥ ( तत्त्वदी ० ) हा देवैति ॥ ननु द्रुहादेर्गण निर्दिष्टत्वादस्य तिपेति निषेधाद्यङि लुकि दोधु गित्यत्र न प्रवृत्तिरिति चेन्न । तस्यानित्यत्वाभ्युपगमात् ॥
0
1
( वाहो वो शसादौ स्वरे ) वाहो वकारस्यौ भवति शसादौ स्वरे परे तद्धितस्वरयोपकारे च ॥ विश्वौहः । विश्वौहा । विश्ववाभ्याम् । विश्ववाट्सु - विश्ववाट्त्सु ॥
( सुबोधिनी ) - वाहो वौ शसादौ स्वरे ॥ वकाराकार विशिष्टस्य वाशब्दस्येत्यर्थः ॥ नादिति धुट् । चपत्वम् । विश्वावाद्वत्सु ॥
( तत्त्वदी ० ) - वाहो वो शसादौ स्वरे इति ॥ वाहो वा औ इति च्छेदः । वाहो वा गृहीतोऽत्र न तु निपातो व्याख्यानात् इत्यभिप्रेत्याह ॥ वा शब्दस्येति ॥ वा इत्यादिप्रयोगास्तूहतेः क्विपि । वहस्त्वनकारान्ते उपपदे विणोऽसंभवः । फणीन्द्रेणानङ्गीकृतत्वात् ॥
( सदेः साढि ) सॉढरूपे सति सहेः सस्य षो भवति ॥ तुराषाटू - तुराषाड्, तुरासाहौ, तुरासाहः । तुराषाड्भ्याम् । तुराषाट्सु ॥ इति हान्ताः ॥
(सुबोधिनी ) - सहे : साठि ॥ षत्वमनुवर्तते । तुरं दैत्यवेगं सहते इति विग्रहे विणू | तुरं त्वरितं साहयत्यभिभवत्यरीनिति विग्रहे तु ञ्यन्तात् क्विप् । सहादित्वात् पूर्वपदस्य दीर्घः । तुराषाट् ॥
( तत्त्वदी ० ) - सहेः साढीति ॥ सहेरिति किम् । सह ढेन वर्तत इति सढः यस्य नाम्नि शब्दोऽस्ति । यथा षण्ढ इति । सदस्यापत्यं साढिरित्यत्र मा भूत् ॥
(दिव औ) दिवो नाम्न औकारादेशो भवति सौ परे ॥ सुद्यौः, सुदिव ॥
Page #142
--------------------------------------------------------------------------
________________
( १२६ )
सिद्धान्तचन्द्रिका |
[ इसान्तपुलिंगाः ]
( सुबोधिनी ) - दिव औ ॥ समानादेलोप इत्यतो मण्डूकप्लुत्या अधातोरित्यनुवर्तते तेन धातोर्न भवति । अक्षैदव्यतीति अक्षद्यूरिति क्विवन्तात् । दिवेडिविर्ति डिव् प्रत्ययः । वर्णमात्रविधित्वेन स्थानिवत्त्वाभावाद्धसेप इति सिलोपो न । सुष्ठु स्मिन् सौः ॥
( तत्वदी० ) दिव औ ॥ निरनुबन्धकग्रहणे सानुबन्धकस्य ग्रहणं नेति परिभाषया दिवु क्रीडादावित्यस्य धातोर्न ग्रहणम् । तेनाक्षरित्यादौ परत्वाद्वस्योत्वे एकदेशविकृतन्यायेन प्राप्तमप्यौत्वं न ॥
( ऊ रसे) दिव उदादेशो भवति रसे पदान्ते च ॥ सुद्युभ्याम् । सुद्युषु ॥ इति वान्ताः ॥ चतुरशब्दो नित्यं बहुवचनान्तः ॥
( सुबोधिनी ) - ऊ रसें ॥ अधिकृतस्य नाम्नी दिवशब्देन विशेषणात्तदन्तविधिः । दिवो नाम्नः उः स्यात् रसे पदान्ते च । तदन्ते विमलघु ॥ इति वान्ताः ॥
( तत्त्वदी ० ) - ऊ रसे ॥ उ: रसे इति छेदः । पदान्ते चेति ॥ ब्रूनों ण इति सूत्रादन्त इत्यनुवृत्तमत्र पदान्तपरतया व्याख्येयमित्याशयः । विपरीतनिर्देशस्तु प्रयोजनान्तरार्थः । तदग्रे स्फुटीकरिष्यते । वाऽभ्या इति सूत्र तु व्यर्थमेव योशब्दादेव द्यामिति सिद्धेः ॥
( चतुराम्शौ च ) चतुरशब्दस्यामांगमो भवति पञ्चसु शौच न त्वीति ॥ चत्वारः । चतुरः । चतुर्भिः ॥
( सुबोधिनी ) - चतुराम शौच ॥ नाम्नश्चतुरशब्देन विशेषणात्तदन्तविधिः । चकारेण पञ्चस्विति संबध्यते । चतुरित्यविभक्तिको निर्देशः । तदन्ते प्रियचत्वाः । चतेरुरित्युरूप्रत्यये चतुशब्दः । ईमावितीकारे तु न ॥
( तत्त्वदी० ) - चतुराम्शौ चेति ॥ चतुः आम् शौ चेति छेदः ॥ चतुरिति लुप्तषष्ठीक पदम् । चकारेण पश्चस्विति लब्धम् । नाम्नश्वतुरो विशेषणात्तदन्तलाभः ॥
1
(रः संख्यायाः ) रेफान्तसंख्यायाः परस्यामो नुडागमो भवति णत्वं द्वित्वं च चतुर्णाम् । चतुर्षु ॥ प्रियाश्वत्वारः प्रियाणि वा चत्वारि यस्याः सा प्रियचत्वाः । हे प्रियचत्वः । प्रियचत्वारौ, प्रियचत्वारः । प्रियचतुरः । गौणत्वे नुट् न । स्वार्थावच्छिन्नपरार्थावलम्बनं गौणत्वम् । प्रियचतुराम ॥ कमलं कमलां वाऽऽचक्षाणः कमल, कमलौ, कमलः । फल् फलौ । फल्भ्याम् ॥ इति लान्ताः ॥
(सुबोधिनी) रः संख्यायाः ॥ नाम्नो नकारेण विशेषणात्तदन्तविधिस्तेनान्तग्रहणम् । णत्वम् । रहाद्यपो द्विरिति द्वित्वम् । चतुर्णाम् । यक् चतुर्विति सूत्रे
Page #143
--------------------------------------------------------------------------
________________
[ हसान्तपुंल्लिंगाः ] टीकाद्वयोपेता।
(१२७) रकारपठनान्न विसर्गः। प्रियाश्चत्वारः पुरुषाः प्रियाणि चत्वारि कुलानि वा यस्याः सा स्त्री प्रियचत्वाः । तदन्तत्वादाम् । हे प्रियचत्वः इत्यत्र धावमित्यम् । गौणत्वे तु तुट नेति ॥ गौणत्वे रेफान्तसंख्याया आमो नुड् न । अन्यपदार्थवृत्तित्वेन संख्याभिधायित्वाभावात् । प्राधान्ये भवत्येव । परमचतुर्णाम् ॥ इति रान्ताः॥ 'कमलं जलपद्मयोः' इति विश्वः । 'कमला श्रीहरिप्रिया' इत्यमरः ॥ कमलं कमलां वाऽऽचक्षाण इति नाम्नो जिडिदिति जिप्रत्ययः । ज्यन्तात् विपि जरिति जिलोपः। कमल । षत्वं कमल्षु ॥ फलमाचक्षाण इति फल् । तोयमाचक्षाण इत्यादौ तु 'यवयोर्वसे' इति यलोपे तो इति स्यादतो यान्तो नोक्तः॥ इति लान्ताः॥
(तत्त्वदी० )-रः संख्याया इति ॥ र इति किम् । त्रिंशताम् । 'विंशत्याद्याः सदैकत्वे' इति नियमेऽपि संख्यार्थे द्विबहुत्वेस्त इत्यनेन संख्याया द्विबहुत्वयोरपि संभवात् ॥ संख्याया इति किम् । वाराम् । रेफान्तसंख्याया विहितस्यामो नुडिति व्याख्यानादित्याशयेनाह-गौणत्व इति ॥ गौणत्वे चान्यपदार्थवृत्तित्वेन संख्याभिधायित्वाभावात् । ड्रणः संख्याया इत्येकयोगस्तु न कृतो रेफान्ततोऽपि जश्शसोर्लक् स्यात् । यदि त्वेकदेशोऽप्यनुवर्तते इत्याश्रीयते तदैकयोगोऽपि साधुरेव ॥ कमला लक्ष्मीः ॥
(मो नो धातोः) मान्तस्य धातोर्मस्य नो भवति झसे पदान्ते च ॥ (सुबोधिनी)-मो नो धातोः ॥मान्तस्य धातोनः स्यात् झसे पदान्ते च ॥
(वमयोश्च ) प्रशान् । प्रशामौ । प्रशामः । प्रशान्याम् । प्रशान्सु ॥ कः, को, के । शेषं सर्ववत् ॥
(सुबोधिनी ) वमयोश्च ॥ मान्तस्य धातोर्नकारादेशः स्यात् वकारे भकारे च परे ॥ षष्ठया निर्दिष्टत्वादन्त्यस्यादेशः। सिप्रत्यये परत्वान्नकारे कृते सिलोपः । प्रशानित्यत्र नाम्ना नो लोपशिति नलोपो न नत्वस्यासिद्धत्वात् । यद्वा नाम्नो न इति सूत्रे पूर्वमेवोपपादितत्वात् । शमु उपशमे । विप् । अमान्तस्येति दीर्घः । प्रशाम्यतीति प्रशान् । वमयोस्तु । चक्षण्वहे, चक्षण्महे । पदान्ते च।अशंशन । अचंस्कन्॥ पदान्ते किम् । प्रशामौ । धात्वधिकारादेव धातोरिति लभ्यमाने पुनर्धातुग्रहणानामधातोर्ने । अयमिवाचरन् इदाम् । प्रशान्भ्यामित्यादौ नश्चेति नकारस्यानुस्वारे विशेपाभावात्सामर्थ्याच्च नानुस्वारः ॥ कायतेडिमिति डिम्प्रत्यये निष्पन्नः किम्शब्दः। त्यदादेरित्यत्वे कृते सर्वशब्दवद्रूपम् ॥
(तत्त्वदी० )-नस्य लोपो नोति नाम्नो नो लोपशधावित्यत्र नान्न इत्यस्यानुवृत्तावपि पुनर्नामग्रहणान्नामसंज्ञाप्रवृत्तिकाले नान्तार्थमित्याशयः ।
(इदमोऽयम्पुंसि ) इदमः पुंसि सावयं भवति ॥ अयम् ॥
Page #144
--------------------------------------------------------------------------
________________
( १२८ )
सिद्धान्तचन्द्रिका |
[हसान्तपुल्लिंगा: ]
( सुबोधिनी ) - इदमोऽयम्पुंसि ॥ सो स इत्यतः सावित्यनुवर्तते ॥ सिलोपे अयम् । पुंसि किम् । इदम् ॥ नन्वत्र लुकि न तन्निमित्तमिति परिभाषया न भवि - ष्यति । सत्यम् । तस्या अनित्यत्वज्ञापनार्थ पुंसीति । तेन प्रियतिसृ इत्यादि सिद्धयति ॥ इन्देः कमिर्नलोपश्चेति कमिप्रत्यये इदमुशब्दः ॥
(तत्त्वदी ० ) - इदमोऽयम् पुंसीति ॥ इदमः किम् । यः ॥ पुंसीति । किम् । इदम् || न चात्र लुकि न तन्निमित्तमित्येव भविष्यतीति चेत्सत्यम् । तस्य अनित्यत्वज्ञापनार्थम् । तेन हैं प्रियतिसृ इत्यादि सिद्धम् ॥ अयमिति ॥ हसेप इति सेर्लोपः ॥
( दस्य मः ) त्यदादेर्दकारस्य मत्वं भवति स्यादौ । इमौ इमे ॥ त्यदादेः संबोधनाभावः । इमम्, इमौ, इमान् ॥
( सुबोधिनी ) - दस्य मः ॥ त्यदादेर्दस्य मः स्यात्स्यादौ विभक्तौ ॥ स्याद किम् । अस्यापत्यमैदमः । अमुमिच्छतीत्यदस्याते ॥ ननु द्वावित्यत्र कस्मान्मत्वं न। णु । स्यादाविति दस्य विशेषणम् । अर्थवशाद्विभक्तिविपरिणाम इत्युक्तत्वात् स्थादिपरस्य दस्येत्यर्थः ॥ येन नाव्यवधानं तेन व्यवहितेऽपि इत्युक्तत्वादकारव्यवधाने सति भवति न च द्विव्यवधाने । क्वचिद् द्वयोरित निर्देशाद्वा न । त्यदाद्यत्वे मत्वे औत्वे च इमौ । त्यदादेः संबोधनं नास्तीत्युत्सर्गः । प्रचुरप्रयोगादर्शनमेवात्र मूलम् । भाष्ये तु हे स इत्युक्तम् ॥
( तत्त्वदी ० ) - दस्य म इति ॥ ननु द्वावित्यत्र किमु न मत्वमिति चेन्न । दो म इति वक्तव्ये अकारोच्चारणमकारपरस्यैव दस्य मत्वार्थम् । अत्राहुः । अत एव त्यदिति त्यदादेः । न चात्र त्य - दाद्यत्वं बाधकम् । परत्वान्मत्वप्रसङ्गात् । अत्वावकाशो द्वौ । मत्ववान् इमौ । स्य इत्यत्रोभयप्रसङ्गे परत्वान्मत्वम् । न चात्वविधौ त्यदादिग्रहणं व्यर्थम् । इदमादेरिति वक्तुं युक्तम् । उत्तरत्र चरितार्थत्वादिति । अत्रेदं वक्तव्यम् । स्य इत्यादौ कृतेऽपि मत्वे पश्चात्त्यदाद्यत्वेन रूपसिद्धेरनिवार्यत्वात् । न च मत्वविधिसामर्थ्यादेवात्वं नेति वाच्यं मत्वविधेरिमावित्यादौ चरितार्थत्वेन ज्ञापनायोगात् । पर्जन्यवल्लक्षण प्रवृत्तेरिष्टत्वाच्च । स नपुंसकमित्यादिनिर्देशाच्चेति ॥ त्यदादेः संबोधनाभाव इति ॥ औत्सर्गिकश्चायम् । हे स इति भाष्यप्रयोगात् । अभावस्तु प्रचुरप्रयोगे संबोधनाभाव इत्येवंपरतया व्याख्येयः । यत्त्वाहुः । " इदमस्तु संनिकृष्टे समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात्" इति वचनादेवंविधस्यार्थस्याभिमुखीकरणानर्हत्वादिति तदापाततः । सन्निकृष्टादिशब्दानामिव इदमादीनामपि संबोध्यसमर्पकत्वे बाघकाभावात् । विप्रकृष्टस्यापि बुद्धया सन्निधापितस्य बहुशः संबोधनदर्शनाच्च ॥ तथा च भट्टिः । 'हापितः क्वासि हे सुख बह्वेवं विकालाप सा ॥' इति ॥
( अन टौसोः ) इदमोsनादेशो भवति टौसोः परयोः ॥ अनेन ॥
Page #145
--------------------------------------------------------------------------
________________
[ हसान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(१२९) (सुबोधिनी)-अन टौसोः ॥ इदमोऽयमित्यत इदम इत्यनुवर्तते । टेनेतीनादेशः । अनेन ॥
(तत्त्वदी० )-अन टोसोरिति ॥ अनाऽपीति तु लाघवेऽपि प्रतिपत्तिगौरवादुपेक्षितम् । तथा हि । टा इत्याकारमारभ्य सुपः पकारेण प्रत्याहाराश्रयणे इतरविभक्तावन्यविधानात्परिशेषाहौसोरेव लाभः । आपोऽपि स्यादाविति विशेषणेन वारणम् इत्यादिप्रतिपत्तिगौरवम् । तस्माद्यथान्यासमेव ॥
(स्भ्यः ) सकारे भकारे च परे इदमोऽकारो भवति कृत्स्नस्य ।। अदि । आभ्याम् ॥
(सुबोधिनी)-स्भ्यः ॥ स च भू च अनयोः समाहारः स्भ् तस्मिन् स्भि । सकारभकारादौ स्यादौ इदमशब्दस्य अः स्यात् । स्भ्यशिति सुवचम् । यतः सर्वस्य स्यात् ॥ अद्भीत्यावे आभ्याम् ॥
( तत्त्वदी०)-स्भ्यः ॥ स् च भ् चानयोः समाहारः स्भ तस्मिन् स्भि अ इति च्छेदः।। यस्मिन्विधिस्तदादौ वर्णग्रहणे इति सादिभादिग्रहः॥ न च षष्ठीनिर्दिष्टस्येत्यन्तस्य भविष्यति । तस्यानित्यत्वात् स्भ्यशित्यस्यैव सुवचत्वात् ।।
(भिस् भिस् ) इदमदसोर्भिस् भिसेव भवति न भकारस्याकारः ॥ एभिः। अस्मै । अस्मात् । अस्य, अनयोः, एषाम् । अस्मिन्, एषु ॥
(सुबोधिनी)-भिम् भिस् ॥ इदमोऽदसश्च भिस् भिसेव भवति ॥ भिसो भिविधानं ब्भ्य इत्यत्वबाधनार्थम् । ए स्भीत्येत्वे एभिः । अदसस्तु अमीभिः ॥ .
(तत्त्वदी० )-भिस् भिसिति ॥ फलं किमित्याह--न भकारस्येति ।। ह्रस्वो वेत्यतो वेत्यनुवर्त्य तस्य व्यवस्थितत्वादिह न । इमकेन, इमकाभ्याम्, इमकैः ॥
(इदमेतदोरन्वादेशे द्वितीयाटौस्स्वेनद्वा) एनम्, एनौ, एनान् । एनेन । एनयोः । किंचित्कार्य विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतम् । एनं छन्दोऽध्यापय ॥ नोपधायाः नाम्नो नो लोपशधौ । राजा, राजानौ, राजानः । हे राजन् । अल्लोपः स्वरेऽम्वयुक्ताच्छसादौ श्चुत्वम् ॥
( मुबोधिनी )-इदमेतदोरन्वादेशे द्वितीयाटौस्स्वेनद्वा ॥ द्वितीयायां टौसोश्च परतोऽन्वादेशे इदमेतदोरेनदादेशो वा स्यात् ॥ अन्वादेशमाह । किंचित्कार्य विधातुमुपात्तस्य गृहीतस्य शब्दस्य कार्यान्तरं विधातुं बोधयितुं पुनरुपादानं ग्रहणम् । सोऽन्वादेश उच्यते । “ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं
Page #146
--------------------------------------------------------------------------
________________
(१३०) सिद्धान्तचन्द्रिका [हसान्तपुंल्लिंगाः) डित विद्यात्" इत्यत्र तु ईषदर्थादयो न विधीयन्ते किंत्वनूद्यन्ते इति नात्रैनदादेशः॥ एवम् 'नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय' इत्यत्रापि भीरुत्वस्यानुवाद्यत्वं बोध्यम् । यथा । अनेन पुरुषेण व्याकरणमधीतं पठितम् एनं पुरुषं त्वं छन्दोऽध्या। पय पाठय॥इतिमान्तागराजते इति राजा। 'कन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः इति कन्प्रत्ययः। परत्वान्नोपधाया इत्युपधादीर्घः । 'हसेपः' इति सिलोपः । ततो नाम्नो नो लोपशिति न लोपः॥ शसि तु 'अल्लोपः स्वरे' इत्यल्लोपे कृते श्चुत्वम् ॥ (तत्त्वदी०)-व्यवस्थितत्वादपरमिह फलमित्याह-इदमेतदोरिति॥किंचित्कार्य विधातुमिति।। कर्तुम् अपूर्व बोधयितुमित्यर्थः । उपात्तस्य गृहीतस्येत्यर्थः। कार्यान्तरमन्यत्कार्यमित्यर्थः । पुनरुपादानं ग्रहणमित्यर्थः॥ 'ईषदर्थे क्रियायोगे' इति श्लोके तु ईषदर्थादयो न विधीयन्ते किंतु अनूद्यन्ते । तेन एनदादेशो न । एतेन 'नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय' इत्यपि व्याख्यातम् ॥ भीरुत्वस्यानुवाद्यत्वेन विवक्षितत्वात् न तु विधेयत्वेन ॥
(जोः ) जकारत्रकारयोर्योगे ज्ञो भवति ॥ राज्ञः। राज्ञा । राजायाम् । नलोपशि न विभक्तिकार्यम् । पञ्चस्विति ज्ञापकात् । राजभिः । वेङयोः । राज्ञि--राजनि । राज्ञोः, राजसु ॥ एवं वृषादयः ॥ यज्वनः । यज्वना ॥ आत्मनः । आत्मना ॥ प्रविदिवा, प्रतिदिवानौ । अल्लोपे कते ॥
(सुबोधिनी)-जञोर्जः॥उभयोोंगे ज्ञ इत्यक्षरं भवति ।। राज्ञः । नस्य लोपशि न विभक्तिकार्यम् । पञ्चस्विति ज्ञापकात् । अतो राजभ्यामित्यत्राद्भीत्यात्वम्, राजभिरित्यत्र भ्य इत्यत्वम्, राजभ्य इत्यत्र एस्भीत्यत्वं च न । वेङयोरिति वोपधालोपे राज्ञि-राजनि ॥ वृषा इन्द्रः । कन्नन्तः ॥ इष्टवानिति यज्वा । किब्बनिब्डा इति वनिप्प्रत्ययः। अम्वयुक्तादित्युक्तत्वान्नोपधालोपः । यज्वनः॥ अततीत्यात्मा। अततेर्मनिण इति मनिण प्रत्ययः । अम्वयुक्तादित्युक्तत्वान्नोपधालोपः।आत्मनः ॥ सुष्ठु धर्मो यस्यासौ सुधर्मा । धर्मादित्यन् । अम्वयुक्तादित्युक्तत्वान्नोपधालोपः ॥ सुधर्मणः ॥ प्रतिदीव्यतीति प्रतिदिवा। कन्नन्तः। शसि 'अल्लोपःस्वरे' इत्यल्लोपे कृते॥ (तत्त्वदी०)-यज्वन इति ॥ वान्तसंयोगत्वान्नाल्लोपः॥ आत्मन इति॥मान्तसंयोगोऽत्र।।
(य्वोवि हसे ) धातोरिदुतो| भवति रेफवकारयोर्हसपरयोः ॥ प्रतिदीनः । प्रतिदीना। प्रतिदिवायाम् ॥ - (सुबोधिनी )-य्वोर्वि हसे ॥ रच व् च अनयोः समाहारो व् तस्मिन् वि । रेफवकारयोः परतः पदान्ते च धातोरिकारोकारयोदीर्घः स्यात् । कीदृशयोः । हसः परोययोस्तौ हसपरौतयोर्हसपरयोः। प्रतिदीनः॥नाम्नो न इति नलापे प्रतिदिवभ्याम् ॥
Page #147
--------------------------------------------------------------------------
________________
[ हसान्तपुंल्लिंगाः ] टीकाद्वयोपेता।
(१३१) (तत्त्वदी०)-य्वो वि हस इति ॥ य्वोः विं हस इति च्छेदः । इश्व उश्च यू तयोः य्योः । र च व् च एतयोः समाहारः तस्मिन् वि । हस इति रेफवकारयोविशेषणमित्याशयेनाह-हसपरयोरिति ॥ __ (श्वादेः ) श्वादेर्व उत्वं प्रामोति शसादौ स्वरे ईपीकारे च ॥ शुनः । शुना, श्वायाम् ॥ यूनः। यूना, युवायाम् ॥ मघवा, मघवानौ, मघवानः। मघोना॥ - (सुबोधिनी)-श्वादेः॥ श्वयुवमघोनां व उः स्यात् शसादौ स्वरे ईपि प्रत्यये ईभावितीकारे च ॥ प्रातिपदिकग्रहणे लिङ्गाभिधायिस्त्रीप्रत्ययविशिष्टस्यापि ग्रहणमिति परिभाषा विभक्तिनिमित्त कार्य न प्रवर्त्तते । अतो युवतीः पश्येत्यादौ नोत्वम् । अकारसहितस्य वस्योत्वम् ॥ श्वा कुक्कुरः॥ युवा तरुणः। युवनशब्दे वस्योत्वे कृते दीर्घत्वम् । यूनः ॥ मघवा इन्द्रः। वस्योत्वे ओत्वे च कृते मघोनः॥ . ( तत्त्वदी०)-श्वादेरिति । ननु युवतीः पश्येत्यत्र कथं नोत्वं नामग्रहणे लिङ्गाभिधायकप्रत्ययविशिष्टस्य ग्रहणमिति परिभाषाश्रयणादिति चेत्सत्यम् । विभक्तिनिमित्त कार्ये लिङ्गविशिष्टग्रहणं नेति निषेधात् । सस्वरस्य वस्योत्वन् । अल्लोपेऽपि सिद्धे डौ विकल्पात् ॥
(अर्वणस्त्रसावनञः) नत्रा रहितस्यावन्नन्तस्य तृ इत्यन्तादेशः स्यान्न तु सौ ॥
(सुबोधिनी)-अर्वणस्त्रसावनमः ॥ ननु ऋधातोविच्प्रत्यये गुणे च अरिति रूपं तस्मादतुप्रत्यये अर्वन्तावित्यादि सेत्स्यति ऋधातोरेव वनिप्प्रत्यये त्वनर्वेति सेत्स्यति । रूढिशब्दश्चायम् । 'वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः' इत्यमरोक्तत्वात्ततश्चार्थोऽपि न भिद्यते । किमनेन सूत्रेणेति चेत् उच्यते । नान्ततान्तयोः सर्वत्र प्रयोगे प्राप्त सौ परे नञ्युपपदे च नान्तस्य प्रयोगोऽन्यत्र तु तान्तस्य प्रयोगो भवतीति व्यवस्थार्थ सूत्रम् ॥
(तत्त्वदी० )-अर्वणस्त्रसावनञ इति ॥ ऋधातोर्विचि गुणे च अरिति रूपं तस्माद्गतौ अर्वन्ताविति । रूढिशब्दश्चायम् । 'वाजिवाहार्वगन्धर्वयसैन्धवसप्तयः" इत्यमरकोशात् । तथा च श्रीहर्षः। 'वाहैरलुप्यत सहस्रहगर्वगर्वः' इति प्रायुक्त ॥ __ (वितो नुम् ) उकारानुबन्धस्य ऋकारानुबन्धस्य च नुमागमो भवति पुंसि पञ्चसु ॥ अर्वन्तौ, अन्तिः । अन्तिम्, अर्वन्तौ, अर्वतः । अर्बता, अर्वद्याम् ॥ अननः किम् । अनर्वाणौ ॥ असौ किम् । अर्वा ॥
(सुबोधिनी)-वितो नुम् ॥ उश्च आ च नौ व्रावितौ यस्य स वित् तस्य व्रितः। उदितः ऋदितश्च नुम् स्यात् । ‘मो नः पुंसः' इत्यतो मण्डूकप्लुत्या पुस इत्यनुवर्तते ।
Page #148
--------------------------------------------------------------------------
________________
(१३२) सिद्धान्तचन्द्रिका। [हसान्तपुंल्लिङ्गाः] तेन पुंसि पञ्चस्वित्यर्थः। धातोर्नलोपिनोऽञ्चतेरेव। अञ्चेर्दीर्घश्चेत्यतोऽश्चरित्यपकृष्यते । तत्रैव वाऽश्चेरिति विभज्य पञ्चस्विति नुमिति चानुवर्तते । अञ्चेरिति निर्देशात् नलोपिनो ग्रहणम् । धाताश्चेद् बित्कार्य तर्हि अञ्चतेरेवेति नियमार्थमिदम् । तेन संसादीनामीबनुमौ न । ऋदित्त्वान्नुम् । अर्वन्तौ । नञ्तत्पुरुषे तु न अर्वा । अना । यज्ववत्॥
(तत्त्वदी०)-वितो नुमिति ॥ उश्च आ च वौ तौ इतौ यस्य स बित् तस्य त्रितः। अत्राधातोरेव अञ्चतेर्नुविधानात् । अन्यथा वित्त्वादवाञ्चतेरपि सिद्धे नुविधानं व्यर्थम् । अतः सिद्धे सति पुनर्नुविधानं ज्ञापकम् । धातोश्चेद्वित्कार्य तीञ्चतेरेव । तेन सदित्यादौ न॥
( इतोऽत्पञ्चसु) पथिन्मथिन्क्रभुक्षिन्शब्दानामिकारस्याकारादेशो भवति पुंसि पञ्चसु शौ च ॥
(सुबोधिनी)-इतोऽत्पञ्चसु ॥ पथां टेरित्यतः पथामित्यनुवृत्तम् । पथ्यांदरितोऽत् स्यात् पुंसि पञ्चसु शौ च ॥ शौ सुपन्थानि । पुंसि किम् । सुपथि । पतेस्थश्चेति चादिनिप्रत्ययः । पथिन् ॥ मन्थतेः किन्प्रत्यये मथिन्शब्दः ॥ ऋभुक्षाः स्वर्गवज्रयोः ।' ततोऽस्त्यर्थे इन्प्रत्यये ऋभुक्षिन् ॥
(तत्त्वदी०)-इतोऽत्पञ्चसु ॥ पथां टेरित्यतः पथामित्यनुवृत्तेबहुवचननिर्देशात्तत्रैव पथ्यादिलाभः । अत्राद्वचनं तु चिन्त्यम् । इत आ पञ्चस्वित्येव सुवचम् । तथा च आ साविति सूत्रमपि न कर्तव्यं भवति । तपरकरणं तु दीर्घनिवृत्त्यर्थम् । तथा च पन्थानमिच्छतीति वाक्ये पथीयतीति । ततः विपि यत इत्यकारलोपः । एकदेशविकृतस्यानन्यत्वादा सावित्यात्वम् । नट पन्थाः । इतोऽत्पञ्चस्वित्यत्वं न भवति इत इति तपरत्वात् । यवौ वेति बाधित्वा नित्यत्वात् थो नुट् ततः संयोगपूर्वत्वादिय् । पंथियौ । शसादौ पथा टेः । पथः । पथा। भ्यामादौ पथिभ्यामित्यादि । एवं चावचनमा साविति सूत्रं च सार्थकं भवति। अन्ये तुपथी पथ्यौ ऋभुक्षीः ऋभुक्षियावित्यादि उदाजहुः । गौणत्वादात्वादि नेति । एकदेशविकृतन्यायोऽपि मुख्य चरितार्थत्वान्न । अन्यथा सर्वमिच्छन्सर्वीरित्यत्राप्यकः स्यात् । तपरत्वं तु मुखसुखार्थमित्याहुः । अत्र कचित् । पदकार्ये गौणमुख्यन्यायो न नामकायें । अन्यथा गां वाहीक पश्येत्यादावात्वं न स्यात् । अकस्तु सर्वादिपाठाभावान्न । तपरस्यापि सार्थक्यमेव । अन्यथा इरदित्यवावक्ष्यत । तपरे तु पथामिति निर्देशेन नान्तप्रकृत्यनुकरणान्नान्तानामेव पथ्यादीनामात्वादि प्रकृते नान्तत्वाभावान्नेति । नचैकदेशविकृतन्याय एवमपि दुर्वार इति वाच्यम् । नान्तत्वविवक्षासामार्थ्यादेव प्रथमं नुटि तहाधनात् । एवं च पंथा इत्यत्रापि नान्तत्वविवक्षासामर्थ्यादेव नुटू तत आत्वम् । अन्यथा नित्यत्वाद्विशेषविहितत्वाच्च पूर्वमात्वेऽनान्तत्वात् न्थादेशो न स्यात् ।
(थो नुटू) पथिमथोस्थस्य नुट् स्यात् पुंसि पञ्चसु शौ च ॥ ( सुगेधिनी० )-थो तुट् ॥ पथ्यादस्थस्य नुट् स्यात पुंसि पञ्चसु शौ च ॥ थस्येति किम् । ऋभुक्षाः ॥ पुंसि किम् । सुपथि ॥
Page #149
--------------------------------------------------------------------------
________________
[ हसान्तपुंलिंगाः] टीकाद्वयोपेता।
(१३३) (तत्त्वदी० )-थो नुडिति ॥ अत्र द्वयोरेवानुवृत्तिः तृतीये थस्यासंभवात् ॥ ननु थस्य नुडिति सूत्र्यताम् । थस्येति निर्देशादकारोऽपि । तथा च किमिति सूत्रेणेति चेत्सत्यम् । ऋभुक्षा इति न सिद्धयेत् ॥
(आ सौ) पथिमथिऋभुक्षां टेरात्वं भवति सौ ॥ पन्थाः, पन्थानौ पन्थानः । हे पन्थाः । पन्यानम् ॥
(सुबोधिनी)-आ सौ ॥ पयां टेरिति पदद्वयमनुवर्तते । पथ्यादेष्टेरात्स्यात् सिप्रत्यये॥ सौ किम् । पथिभ्याम् ॥ __ (तत्त्वदी० )-आ साविति ॥ अत्र पथां टेरिति पदद्वयमप्यनुवर्तत इत्यतआह-टेरात्वमिति ॥ अत्राहुः । पथ्यादीनामन्त्यस्यात्वं भवति । अन्त्यस्येति षष्ठीनिर्दिष्टस्यति परिभाषया लभ्यते इति । अत्र साक्षादनुवृत्तं टेरिति त्यक्त्वा परिभाषालब्धस्यान्त्यस्येत्यस्यानुकरणे गौरवात् । आ आ इति प्रश्लेषादनुनासिकस्यापि स्थाने विहितो नानुनासिकः ॥ ननु किमर्थमात्वम् । इतोऽदित्यत्वे नोपधाया इति दीर्घत्वे सौ रसे नलोपशि पश्चाद्विसर्गे पन्था इति रूपसिद्धेरिति चेन्न धौ नलोपशोऽभावे हे पंथा इति न सिद्धयेत् । राजेत्यत्रानिष्टापत्तेश्च । अ सावित्येव तु न कृतं नकारमात्रस्यात्वे सवर्णदीर्वत्वेन सिद्धेऽपि पथीशब्दस्य पंथा इत्यसिद्धेः। टेरनुवृत्तौ तु मुख्येऽपि रूपासिद्धेश्च ॥
( पथां टेः पथिमथिऋभुक्षां टेलोंपो भवति शसादौ स्वरे ईपीकारे च ॥ पथः । पथा। पथिषु ॥ एवं मन्थाः । ऋभुक्षाः ॥ स्त्रियां नान्तत्वादीप् । सुपथी । सुमथी । अनृभुक्षी सेना ॥ क्लीबे शोभनः पन्थाः यस्मिन् वने तत्सुपथि वनम् ॥
(सुबोधिनी)-पथा टेः ॥ पथ्यादेष्टेलोपः स्यात् शसादौ स्वरे ईपीकारे च ॥ पथामिति बहुवचनमाद्यर्थम । स्त्रियां व्रण इतीप् । ततष्टिलोपः। सुष्ठु पन्थाः यस्याः सा सुपथी रथ्या । ऋकपूरित्यप्रत्ययो न न पूजने' इति निषेधात् । कप्रत्ययस्तु समासान्तविधेरनित्यत्वान्न ॥ सुष्ठु मन्थाः यस्यां सा सुमथी नगरी ॥ न विद्यते ऋभुक्षाः इन्द्रो यस्यां सा अनुभुक्षी सेना ॥ क्लीचे सुष्टु पन्थाः यस्मिन् तत् सुपथि। आत्वं त्वत्रन । लुकि न तन्निमित्तमिति निषेधात ॥
(तत्त्वदी० )-स्त्रियामिति ॥ सुपथीति ॥ आ सावित्यात्वं थो नुडिति च लिङ्गविशिष्टपरिभाषया प्राप्तमपि विभक्तौ लिङ्गविशिष्टाग्रहणमिति निषेधान्न भवति ॥
(धौ नपुंसकानां नस्य लोपो वा )हे सुपथिन-हे सुपथि । सुपथी। सुपन्थानि ॥
Page #150
--------------------------------------------------------------------------
________________
(१३४)
सिद्धान्तचन्द्रिका। [हसान्तपुंल्लिंगाः] ( सुबोधिनी)-धौ नपुंसकानां नस्य लोपो वा ॥ हे सुपथि इत्यत्र नलोपस्यासिद्धयत्वाद् वृणामिति गुणो न । द्विवचने पथामिति टिलोपः। सुपथी । शौ त्वत्वे नुटि च दीर्घत्वम् । सुपन्थानि ॥ किंच पन्थानमात्मन इच्छतीति पथीयति । ततः विप्। यत इत्यल्लोपः । यवयोरिति यलोपः। एकदेशविकृतस्यानन्यत्वादा सावित्वात्वम् । थो नुडिति नुट् । पन्थाः । अत्वं तु न इत इति तपकरणात् । य्यार्धातोरितीय । पन्थियौ ॥ एवम् ऋभुक्षाः, ऋभुक्षियौ ॥
(इनां शौ सौ ) इन् हन् पूषन् अर्यमन् इत्येतेषां शौ सौ चाधौ परे उपधाया दीर्घो भवति नान्यत्र ॥ दण्डी । हे दण्डिन् । दण्डिनौ, दण्डिनः ॥ एवं कलिन्हलिन्यशस्विन्वाग्ग्मिन्प्रभृतयः ॥ वृत्रहा, वृत्रहणौ, वृत्रहणः ॥
(सुबोधिनी)-इनां शौ सौ॥ बहुवचनमाद्यर्थम् । अर्थवत्परिभाषाया आनत्यत्वादर्थवतोऽनर्थकस्यापीनोऽत्र ग्रहणम् । उपधाया इत्यनुवर्तते । अधाविति च । नोपधाया इत्यनेनैव सिद्ध नियमामिदम् । तदाह । इनादीनामुपधायाः शावेव दीघः स्यान्नान्यत्रेति । उपधादीर्घस्यैवायं नियमः । तेन वृत्रहेवाचरतीति वृत्रहायते । कर्तुये । इत्यत्र ये इति दीर्घो भवत्येव । वृत्रहणी इत्यत्र 'अमस्य काडिति झसे' इति यो दीर्घः सोऽपि नियमेन व्यावय॑ते । उपधादीर्घमात्रापेक्षया नियमविधानादिति । सावितु तु विध्यर्थम् । पूर्वेण नियमात् सावप्राप्तः । योगविभागाभिप्रायेणेव शो साविति निर्देशोऽस्ति अन्यथा शिस्योरित्येवावक्ष्यत् ॥ ननु पन्था इवाचरतीति पथीनात । किप् । इत्यादौ ञमान्तस्येत्युपधादी? न प्राप्नोति । पथ्यादीनामिन्नन्तत्वात् । इन्नादीनां शौ सावेवेत्युपधादीघस्य नियमादिति चेत् । उच्यते । यत्र इनामिति सूत्रं प्रवर्तते तत्रैवायं नियमः । यथा दण्डीवाचरतीति दण्डीयति । क्विप् । वृत्रहणति । पूषणति। अर्यमणति इति ॥ दण्डोऽस्यास्तीति दण्डी । मान्तोपधादितीन् । शौ बहवो दण्डिनः सन्ति येषां तानि बहुदण्डीनि ॥ मुसलमस्यास्तीति मुसली । हलमस्यास्तीति हली । 'तालाङ्को मुसली हली' इत्यमरः ॥ यशोऽस्यास्तीति यशस्वी। विन्॥ वागस्यास्तीति वागग्मी । ग्मिन् ॥ वृत्रं हतवानिति वृत्रहा । क्विवन्तः । 'वासवो वृत्रहा वृषा' इत्यमरः ॥ अवकुप्वन्तरेऽपीति णत्वम् । वृत्रहणौ ॥ __ (तत्त्वदी०)-इनां शौ साविति ॥ बहुवचनादिनादिलाभः । अनिनस्मिन्समुदायेऽनिनोऽपि इन्त्वमारोप्यते छत्रिणो यान्तीतिवत् । अर्थवत्परिभाषाया अनित्यत्वादनर्थकस्यापीनो ग्रहणम् । साविति ग्रहणात्तदन्तं गृह्यते पूषार्यम्णोः केवलयोः पुंस्त्वात् शेरभावात् । नोपधाया इति सिद्धे विधिरारभ्यमाणो नियमाय । तेन इन्नादीनामुपधाया दीर्घः शावेव नान्यत्रेति नियमः । नियमश्वोपधादीर्घस्यैव नान्यस्य । तेन दण्डीयति दण्डीभूत इत्यादौ भवत्येव दीर्घः।
Page #151
--------------------------------------------------------------------------
________________
[ हसान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(१३५) ये च्वावित्यत्रोपधाग्रहणाभावात् ॥ ननु पन्था इवाचरन् पथीनतीत्यत्रापि जमान्तस्येत्युपधादी. |ऽपि कथं पथ्यादीनामिन्नन्तत्वादिति चेत्सत्यम् । यत्र इनां शौ साविति सूत्रप्रवृत्तिस्तत्रैवायं नियमः । पथ्यादिषु तु इतोऽदित्यादेः प्रवृत्तिसंभवान्न नियमः॥
(हनो ने ) हनो हकारस्य घो भवत्यव्यवधाने नकारे निति णिति च परे ॥
(सुबोधिनी )-हनोध्ने ॥ हनःप्ने इति च्छेदः । आदिस्वरस्येत्यतो णितीत्यनुवृत्तम् । जिति णिति प्रत्यये नकारे च परे हन्तेर्हस्य घः स्यात् ॥ ( तत्त्वदी० )-हनोन्ने इति ॥ हनःप्ने इति च्छेदः। आदिस्वरस्येत्यतो ब्णितीत्यनुवर्तते ॥
घसंयोगे णत्वं न ) वृत्रघ्नः । वृत्रना । वृत्रहायाम् ॥ एवं पूषन् । अर्यमन् ॥ संख्याशब्दाः पञ्चनप्रभृतयो बहुवचनान्तास्त्रिषु सरूपाः ॥ .. (सुबोधिनी )-'अल्लोपः स्वरे' इत्यल्लोपे घत्वे च कृते अवकुप्वन्तर इति णत्वे प्राप्ते आह-घसंयोगे णत्वं न ॥ धकारात्परस्य णत्वं न भवति । वृत्रघ्नः । वृत्रना॥ पूषा सूर्यः ॥ अर्यमा रविः ॥
(तत्त्वदी०)-घ्ने इत्यत्र तन्त्रादिना न इत्यत्र नस्यादेशो नेति व्याख्यानमपीत्याशयेनाहघ-संयोग णत्वं नेति ॥
(जश्शसोलुक् ) षकारनकारान्तसंख्यायाः परयोर्जश्शसोर्लक् ॥ पञ्च । पञ्च । पञ्चभिः । पञ्चायः। पञ्चायः॥
(सुबोधिनी)-जश्शसोलक् ॥संख्याया इति ष्ण इति चानुवर्तते ॥ संख्यायाः किम् । विपुषः । पामानः ॥ ष्ण इति किम् । चत्वारः ॥ शतानि सहस्राणीत्यत्र संनिपातपरिभाषया जश्शसोलुंग् न । तथा हि । मनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य । संनिपतनं सन्निपातः आनन्तर्यम् संनिपातो लक्षणं कारणं यस्य स संनिपातलक्षणो विधिस्तद्विघातस्य कारणविघातस्यानिमित्तं न प्रयोजकः । यमुपजीव्य यो विधिः प्रवृत्तः स तस्योपजीव्यस्य विरोधं न करोतीति परिभाषार्थः। शिमाश्रित्य प्रवृत्तो नुम् शेर्विघातको न ॥
(तत्त्वदी०)-जश्श्सोलु गति ॥ संख्याया इति ष्ण इति चानुवर्तते । ननु शतानि सहस्राणीत्यादौ कथं न लुगिति चेत्सत्यम् । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति परिभाषया तन्निषेधात्। सन्निपतन सन्निपातः आनन्तर्य लक्षणं कारणं यस्य स सन्निपातलक्षणो विधिः तद्विघातस्य अनिमित्तं न प्रयोजकः । यमुपजीव्य यो विधिः प्रवृत्तः स तस्योपजीव्यस्य विरोधं न करोतीत्यर्थः । शिमाश्रित्य प्रवृत्तो नुम् शेर्विघातको न भवति ॥ लोप इत्यनुवृत्तावपि लुग्ग्रहणं षष्ठीनिर्दिष्टस्येति परिभाषां ज्ञापयति । लुकस्तु प्रत्ययादर्शनत्वेन सर्वलोपाभावे दर्शनासंभ
Page #152
--------------------------------------------------------------------------
________________
(१३६] सिद्धान्तचन्द्रिका। [हसान्तपुंल्लिंगाः] वात्सर्वलोप एव नान्त्यस्य । लोपापवादो लुरुशब्दादेशस्तु न भवति नव पमित्यादिनिर्देशात् । नहि लुक्शब्दोऽत्र श्रूयते । क्विपः कित्त्वेन प्रत्ययादर्शनेऽपि प्रत्ययाश्रितं कार्य भवतीति ॥ पञ्चत्यत्र लुक्यपि नोपधाया इति दीर्घो न । नव पमिति लिङ्गनैव लुकि सति तन्निमित्त कार्य न भवतीति ज्ञायते । एतदर्थमेव शब्दभेदेन व्यवहारः । अन्यथा लुक्लोपयोरन्यतरेणैव सर्वत्र व्यवहरेत् । अथ लुग्ग्रहण विनैव रूपसिद्धौ ज्ञापकं स्यात् असति तस्मिन्ननन्तरस्येति न्यायेनायडादिरेव प्रसज्येतेति चेत्सत्यं नव पमिति निर्देशनैव तद्वारणसंभवात् ॥
(ष्णः) षकारनकारान्तसंख्यायाः परस्यामो नुडागमो भवति ॥ पञ्चानाम् । परमपञ्चानाम् । गौणत्वे न लुग्नुटौ । प्रियपञ्चा, प्रियपश्चानौ, प्रियपञ्चानः । प्रियपञ्चः। प्रियपञ्च्चा ॥ एवं सप्तन्नवन्दशन्प्रभृतयः॥
(सुबोधिनी)-ष्णः । ष् च न चानयोः समाहारः ष्ण तस्मात् ष्णः। संख्याया इत्यनुवर्तते । ष्णः इति तस्या विशेषणम् । विशेषणेन तदन्तविधिः ॥ संख्याया इति किम् । त्विषाम् । यज्वनाम् ॥ष्ण इति किम् । त्रिशताम् । पञ्चाशताम् ॥ नलोपे नोपधाया इति दीर्घ च पश्चानाम् ॥ प्राधान्ये परमाश्च ते पञ्च च परमपञ्च । तेषां परमपञ्चानाम् ॥ गौणत्वे न लुग्नुटौ । गौणे ष्णान्तसंख्यायाः जश्शसोलक नामि तु नुट् च न । संख्यावाचित्वाभावात् । प्रियाः पञ्च यस्य स प्रियपञ्चा । आमि प्रियपञ्जाम् । कारद्वयमध्ये चकारः॥
(तत्त्वदी०)-ष्ण इति॥ ष् च न च अनयोः समाहारः ष्णू तस्मात् ष्णः। अत्र संख्याया इत्यनुवर्ततेष्ण इति तद्विशेषणं ततस्तदन्तलाभः इत्याशयेनाह-षकारनकारान्तेत्यादि । नस्य ष्टुत्वनिर्देशे विशेषणम् । णस्य संख्यावाचिनोऽभावान्नान्तमेव गृह्यते ॥ संख्याया इति किम् । त्विषाम् ॥ ष्ण इति किम् । त्रिंशताम् ॥ गौणत्वे नेति ॥ संख्यावाचित्वाभावादित्यर्थः॥
(अष्टनो डौ ) अष्टन्शब्दात्परयोर्जश्शसोर्वा डौ भवति ॥ अष्टौअष्ट । अष्टौ-अष्ट ॥
(सुबोधिनी)-अष्टनो डौ ॥ अष्टन इत्येकवचनं तु वेरितिवत् । अल्लोपः स्वरे इत्यस्याप्रवृत्तिश्चिन्त्या । जश्शसोग्त्यिनुर्वते । वाऽऽस्विति वाशब्द उभयत्र संवध्यते काकासिगोलकन्यायेनेति ॥ ननु षष्ठीनिर्दिष्टत्वादन्त्यस्य डौ भवति।न चानेकवर्णत्वासादेशः स्यात् । नानुबन्धकृतमनेकवर्णत्वमित्युक्तत्वात् । उच्यते । डित्त्वसामर्थ्यानोक्तदोषः । तथा हि। अन्त्यादेशे सति जसि अष्टनाविति शसि अष्टनाविति प्राप्नोति तच्चान्तरेण डित्त्वं सिद्धम् । अतो डित्करणसामर्थ्यात् सर्वादेशः। लुकोऽपवादोऽयमिति सर्वादेश इति वा। डौशिति सुवचम् । डोत्वं हि लुग्नुटाविव प्राधान्ये एव भवति न तु गौणत्वे । सप्यशूभ्यां तुटू चेत्यनेन सप्तन्अष्टन्शब्दो निष्पन्नौ ॥
Page #153
--------------------------------------------------------------------------
________________
[ हसान्तपुंलिंगाः] टीकाद्वयोपेता।
(१३७) ( तत्त्वदी०)-अष्टनो डाविति ॥ एकवचनं तुत्रेरितिवत् । सौत्रत्वादलोपोऽपि न । 'अल्लोपः स्वरे' इत्यस्याप्रवृत्तिश्चिन्त्यति कैश्चिदुक्तम् । अत्र अष्टाभ्य औशिति सूत्रव्याख्यावसरे अन्यथा अष्टन इत्येव ब्रूयात् इति भाष्यकारोक्त्याऽपि चिन्ताया अपसारणीयत्वात् । वाऽऽस्विति वाशब्दः काकाक्षिन्यायेनोभयत्रान्वति । संख्याया इत्यनुवृत्तेर्नेह । प्रियाप्टूनः।। अनुबन्धैरनेकवर्णत्वस्यासंभवादन्त्यादेशोऽस्तीति न शङ्कनीयम् षष्ठीनिर्दिष्टस्येति परिभाषाया अनित्यत्वात्॥
(वाऽऽसु ) अष्टनः सकारभकारादिषु विभक्तिषु वाऽऽत्वं भवति । अष्टाभिः-अष्टभिः । अष्टाभ्यः-अष्टायः। अष्टास्यः। अष्टायः । अष्टानाम् । अष्टासु । अष्टसु ॥ प्रिया अष्टौ यस्यासौ प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टानः । प्रियाष्ट्रनः । प्रियाष्ट्ना, प्रियाष्टायाम् । “प्रियाष्ट्नो राजवसर्व हाहावच्चापरं हसे ।” सुगण, सुगणौ, सुगणः। सुगणम्, सुगणौ, सुगणः । सुगण्ट्सु ॥ भुत्-भुद्, बुधौ, बुधः । भुट्याम् । भुत्सु । राक् राग्, राघौ, राघः । राग्याम् । राक्षु ॥ सुककुप्--सुककुब्, सुककुभौ, सुककुभः । सुककुभम् । सुककुप्सु ॥
(सुबोधिनी)-वाऽसु॥स्भीत्यपकृष्यते। तेन स्यादयो विशेष्यन्ते। वाआ आसु इति च्छेदः। सकारभकारादौ स्यादौ परे अष्टन आत्वं वा भवतीति फलितोऽर्थः ॥ इत आरभ्य संख्याया इति निवृत्तं व्याख्यानात् । तेन गौणत्वेऽपि स्यादावात्वम् ॥ स्यादाविति किम् । अष्टभार्यः अष्टसेवकः ॥ स्भीति किम् । प्रियाष्टानौ ॥ प्राधान्ये परमाष्टौ ॥ गौणत्वे प्रिया अष्टौ यस्य स प्रियाष्टा । आत्माभावे राजवत् । शसि 'अल्लोपः स्वरे' इत्यकारलोपे कृते ष्टुभिः टुरिति णत्वं प्राप्तमसिद्धं बहिरङ्गमन्तरङ्गे इति परिभाषया न शनिमित्तकत्वेन बहिरङ्गस्याल्लोपस्यासिद्धत्वात् । पूर्वं पूर्वमन्तरंगमिति स्वीकारात् ॥ आत्वपक्षे प्रथमैकवचने प्रियाष्टाः। हाहाशब्दवत् । प्रियाष्टन्शब्दस्यात्वाभावपक्षे सर्व रूपं राजवत् । आत्वपक्षे तु हसादावपरं रूपं हाहावत् ॥ इति नान्ताः ॥ सुष्ठु गणयतीति सुगण गणयतेर्विणप्रत्ययः। शसे पारिति टुकि सुगण्ट्सु । शसे चपस्येति द्वितीये सुगण्ठ्सु । टनादिति धुटि सुगण्ट्त्सु । क्विप्प्रत्यये तु सुगाण् । ञमस्य विङति इति दीर्धे कर्तव्ये अल्लोपजिलोपयोः स्थानिवद्भावो न शङ्कयः । दीर्घविधौ तन्निषेधात् ॥ इति णान्ताः ॥ बुध्यतेः क्विप् । आदिजबानामिति भः। जवत्वचपत्वे । भुत्-भुन् । जबत्वे भुयाम् । चपत्वे भुत्सु ॥ इति धान्ताः ॥राघू, सामर्थ्ये । राघते इति राक् । विवन्तः ॥ इति घान्ताः ॥ सुष्टु ककुप यस्मिन् स सुककुप् । 'दिशस्तु ककुभः काष्ठाः' इत्यमरः ॥ इति भान्ताः॥
Page #154
--------------------------------------------------------------------------
________________
( १३८) सिद्धान्तचन्द्रिका। [हसान्तपुंल्लिंगाः ]
(तत्त्वदी० )-वाऽऽस्विति ॥ वा आ आसु इति च्छेदः । इत आरभ्य संख्याया इति निवृत्तं व्याख्यानात् । तेन गौणत्वेऽप्यात्वम् ॥ अत्र स्मीत्युत्तरसूत्रात् स्भीत्यपकृष्यते इत्यभिप्रेत्याह-सकारेत्यादि ॥ प्रियाष्ट्न इति ॥ ष्टुत्वं न । 'असिद्धं बहिरङ्गमन्तरंगे' इति परिभाषया अल्लोपस्यासिद्धत्वात् ॥
(युजेः पञ्चसु नुम् न समासे ईति च ) ॥ (सुबोधिनी)-युजेः पञ्चसु नुम् न समासे ईति च ॥ 'युजिर् योगे' इत्यस्य धातोः पञ्चसु स्यादिषु नुम् स्यान्न तु समासे ॥ युजेरिति धातुपाठपठितेकारविशिष्टस्य ग्रहणं न तु निर्देशे य इक् तस्य । तेनेह नुम् न । युज्यते समाधत्ते इति युक् । 'युज समाधी' देवादिक आत्मनेपदी॥ (तत्त्वदी०)-युजेः पञ्चस्विति॥समासे ईति च न इति च संबन्धः। युञ्जी कुले इह न॥
(दिशाम् ) दिश्स्पृशदधृष्ऋत्विज्क्रुञ्च्युस्रअञ्च्उष्णिहादीनां कुत्वं स्यादौ रसे पदान्ते च ॥ संयोगान्तस्य लोपः । युङ्, युऔ, युञ्जः। युअम्, युजः । युजा, युग्न्याम् । समासे तु ॥
(सुबोधिनी)-दिशाम् ॥ बहुवचनमाद्यर्थम् । तेन दिशू १ दृशू २ स्पृशू ३ दधृष् ४ ऋत्विज् ५ कुञ्च ६ यु ७ स्रज ८ अञ्च् ९ उष्णिहो १० गृह्यन्ते । दिशदृशस्पृशदधृष्ऋत्विज्स्रजां षत्वे प्राप्तेः क्रुच्युअञ्चामप्राप्ते उष्णिहो ढत्वे प्राप्ते अयं कुत्वविधिः॥ चोः कुरित्यतः कुरित्यनुवर्तते । युनक्तीति सिलोपे संयोगान्तलोपे च नस्य कुत्वेनानुनासिको ङकारः। युङ् । नश्चापदान्ते इति नुमोऽनुस्वारे परसवर्णः । तस्यासिद्धत्वाच्चोः कुरिति कुत्वं न युऔ । समासे तु सुष्ठु युनक्तीति क्विप् । अत्र न नुम् ॥
(तत्त्वदी० )-दिशामिति ॥ बहुवचनमाद्यर्थम् । अत्र रसग्रहणादिक्पाशेत्यादावपि । युञ्जाविति ॥ नकारस्य कुत्वं तु न यमस्यासिद्धत्वात् ॥ . ( चोः कुः ) चवर्गस्य कवर्गों भवति धातोसे नाम्नश्च रसे पदान्ते च ॥ सुयुक् ॥ समाध्यर्थस्य नुम् युक् न ॥ खन्, खऔ । खन्न्याम् । खन्सु ॥ छशपराजादेः षः । सम्राट्-सम्राइ, सम्राजौ, सम्राजः ॥ देवेट्देवेड्, देवेजौ, देवेजः । परिमृट्-परिमृड्, परिमृजौ, परिमृजः॥ विश्वसृट्विश्वसृड्, विश्वसृजौ ॥ __ (सुबोधिनी० )-चोः कुः ॥ रसे किम् । त्वचौ ॥ नाम्नः किम्। वच्मि ॥ पदान्ते किम् । वाचि ॥ धातोर्शसे यथा । वक्ता ॥ झसे किम् । वच्मि ॥ कुत्वे सुयुक् । समा
Page #155
--------------------------------------------------------------------------
________________
[ हसान्त पुंलिङ्गाः ]
टीकाद्वयोपेता ।
( १३९ )
व्यर्थस्य युजेर्नुम्न । युक् ॥ खञ्जतीति । खजि गतिवैकल्ये । क्विवन्तः । संयोगान्तलोपे खन् । संराजते इति षत्वे जबत्वचपत्वे च सम्राट् ॥ देवान् यजतीति क्विपि यजादित्वात्संप्रसारणे एत्वे च देवेद्र || विश्वं सृजतीति विश्वसृट् क्विवन्तः । दिशामिति कुत्वं न सृजिति सूत्रे रज्जुसृइभ्यामिति भाष्यप्रयोगात् । यद्वा सृजियज्योः कुत्वापवादः षत्वविधिरेव ॥ ऋत्विक्शब्दयोस्तु दिशामित्यनेन कुत्वमेव ॥ परिमाष्टीति परिमृट् ॥
( तत्त्वदी ० ) - चोः कुरिति ॥ अत्र तदन्तग्रहणम् । तेन चवर्गान्तस्येति व्याख्येयम् । एवं चासिद्धत्वानुसरणेन युञ्जावित्यादौ कुत्वाभाव इति समाधानमपि नाश्रयणीयम् । ञकारस्यान्तेऽभावात् जकारसत्त्वेऽपि तस्य रसपरत्वाभावात् ॥ समाध्यर्थस्येति ॥ युजेरिति धातुपाठपठितेकारविशिष्टस्यानुकरण न त्विका निर्देश इत्याशयः ॥ युगिति ॥ युज्यते समाध इति युक् । युज समाधौ । दैवादिकः । आत्मनेपदी ॥ खन् इति ॥ खञ्जतीति खन् । खजि गतिवैकल्ये । संयोगान्तस्येति जलोपः । देवेडिति ॥ देवं यजतीति । क्विपि संप्रासारणे रूपम् ॥
( विश्वस्य वसुराोर्दीर्घः ) विश्वावसुः । विश्वाराट्, विश्वराजौ । विश्वारायाम् । विश्वाराट्सु - विश्वराट्त्सु ॥
(सुबोधिनी) - विश्वस्य वसुराटोदीर्घः ॥ विश्वशब्दस्य दीर्घः स्यात् वसुशब्दे राशब्दे च परे ॥ विश्वं वसु द्रव्यं यस्य स विश्वावसुः । राटिति डशब्दस्यापि स्वरूपोपलक्षणमविवक्षितं टत्वम् । विश्वस्मिन् राजते इति विश्वाराट् ॥
( तत्त्वदी ० ) - वसुराटोरिति ॥ टत्वमविवक्षितं षत्वविषयोपलक्षकम् || विश्वावसुरिति ॥ विश्वं वसु यस्येति विग्रहः ॥
(स्कोराद्योश्च ) संयोगायोः सकारककारयोर्लोपो भवति धातोईझसे नाम्नश्च रसे पदान्ते च ॥ भृटू--भृड्, भृज्जौ, भृज्जः ॥ वृक्षवृट्-वृक्षवृड्, वृक्षवृश्वौ ॥ विभ्राट् - विश्वाडू, विभ्राजौ । विभाभ्याम् । विश्वासु ॥ ऋत्विक्--ऋत्विग्, ऋत्विजौ । ऋत्विक्षु ॥ ऊर्क - ऊर्ग, ऊर्जा । ऊक्षु ॥
(सुबोधिनी) - स्कोराद्योश्च || आदिशब्दस्यावयववाचित्वेन ससंबन्धित्वादवयव्याकाङ्क्षायां संयोगति सम्बध्यते । संयोगशब्दस्यापीह समुदायवाचित्वादवयवार्थकत्वेनावयव्याकाङ्क्षायां नाम्नो धातोश्चेति संबध्यते । संयोगान्तलोपापवादः । झसे त्वपूर्वो विधिः । झसे भ्रष्टा । पदान्ते अवाभ्रट् ॥ आद्योः किम् । धक्ष्यति । नक्ष्यति ॥ भृज्जतीति क्विप् । ग्रहामिति संप्रसारणम् । सौ परत्वात् षत्वे स्कोरिति सलोपे च सिलोपः । भ्रट् । सस्य श्चुत्वेन शः । शस्य झचे जवा इति जः । भृज्जौ ॥ वृक्षं वृश्चतीति क्विपि ग्रहामिति संप्रसारणं छशषेति षत्वं स्कोरिति सलोपः जबत्वचपत्वे । वृक्षवृट् - वृक्षवृड् । सुपि टनादिति धुट् । तस्य च अत्वम् । वृक्षवृत्सु । चान्तेषु
Page #156
--------------------------------------------------------------------------
________________
(१४०)
सिद्धान्तचन्द्रिका। [हसान्तपुंल्लिंगाः] वक्तुमुचितः ॥ विशेषेण भ्राजते इति विभ्राट् । षत्वविधौ राजिसाहचर्यात् भ्रातृ दीप्ताविति फणादिरेव गृह्यते । यस्तु राज भ्राज़ दीप्ताविति तस्य कुत्वमेव । विभ्राक्-वि. भ्रागू । विभ्राग्भ्यामित्यादि ॥ ऋतौ यजतीति ऋतावुपपदे यजेः क्विप् । यजादित्वात्संप्रसारणम् । कुत्वम् ऋत्विक ॥ ऊर्ज बलप्राणनयोः । अस्माच्चुरादिश्यन्तात् विपि जिलोपः। ऊर्जयतीति । सभिन्नस्येति नियमात् न संयोगान्तलोपः। ऊर्छ । इति जान्ताः॥ __ (तत्त्वदी० )-स्कोराद्योश्चेति ॥ स् च कू चेति स्कौ तयोः स्कोः । आदिशब्दस्याचयविनि साकाङ्क्षत्वेन संयोगशब्देन संबन्धः। संयोगशब्दोऽपि नामधातुभ्यां संबध्यते । अत्र रसे झसे पदान्ते इति पदत्रयमपि संयोगस्यैव विशेषणम् । न तु नामधात्वोः । स्कोरिति द्विर्वचननिर्देशात्स्कुब्धातोः स्वरूपस्य वा न ग्रहणम् ॥ ऋत्विगिति ॥ ऋतौ यजते इति वाक्ये ऋतावुपपदे यजतेः क्विपि संप्रसारेण च रूपम् ॥ ऊळ इति ॥ ऊर्ज बलप्राणनयोः। चुरादिव्यन्तात्क्विपि जिलोपे च रूपम् ॥
(तः) त्यदादेस्तस्य सत्वं भवति सौ परे ॥ स्यः, त्यौ, त्ये ॥ सः, तौ, ते ॥ परमसः । संज्ञायां गौणत्वे चात्वसत्वे न ॥ त्यत्-त्यद् , त्यदौ ॥ अतित्यत्, अतित्यद्, अतित्यदौ ॥ यः, यौ, ये ॥ एषः, एतौ, एते । अन्वादेशे एनम्, एनौ, एनान् । एनेन । एनयोः । अनिमत्अमिमद्, अग्निमथौ । अग्निमायाम् । अनिमत्सु । प्रत्यञ्चतीति विपि कृते॥
(सुबोधिनी)-तः॥त्यदादेरित्यतः त्यदादेरिति सौ स इत्यतः स इति साविति चानुवृत्तम् ॥ त्यदादेः किम् । तातः ॥ प्राधान्ये परमसः ॥ संज्ञायां गौणत्वे चात्वसत्वे न ॥ अत्वसत्वयोः सर्वाद्यन्तर्गणकार्यत्वादत्वं सत्वं च संज्ञायां गौणे च न प्रवर्तते । संज्ञायां त्यत्, त्यदौ । गौणे त्यमतिक्रान्तोऽतित्यद् ॥ इदमेतदोरित्यन्वादेशे एनदादेशः । एनमित्यादि ॥ इति दान्ताः ॥ अग्निं मन्थतीति क्विपि नलोप इति नलोपः। अग्निमत् ॥ इति थान्ताः ॥ प्रत्यञ्चतीत्यत्राश्चेः विपि कृते ॥
(तत्त्वदी०)-त इति ॥ त्यदादेष्टेरित्यतस्त्यदादेरिति सौ स इत्यतः स इति सौ इति च पदद्वयमनुवर्तत इत्याशयेनाह । त्यदादेरित्यादि । त्यदादेः किम् । तातः ॥ त इति किम् । यः ॥ सौ इति किम् । तौ ॥ ननु त्यमित्यत्र सत्वात्वे कुतो नेति चेत्सत्यम् । तकारोच्चारणसामर्थ्यात् । अथातित्वमित्यत्र गौणत्वे सिपरत्वाभावात् तस्य चरितार्थत्वमिति चेदोम् । साविति वक्तव्ये सिनेति गुरूकरणं वस्नसोरिव विभागसंमोहार्थम् । अत एव मितावागमौ न ।
(नो लोपः) धातोर्हसान्तस्योपधाभूतस्य नकरास्य लोपः किङति परे।
(सुबोधिनी)-नो लोपः ॥ हसान्तस्येति किम् । नीयते ॥ उपधाभूतस्येति किम् । हन्यते ॥
Page #157
--------------------------------------------------------------------------
________________
[ हसान्तपुंलिंगाः ] टीकाद्वयोपेता। (१४१)
(पूजार्थाञ्चतेन ) निरुपपदात् कुञ्चेः विपि कुङ् क्रुञ्चौ । क्रुङ्क्याम् । क्रुषु-कुक्षु-कुलषु ॥
(सुबोधिनी)-पूजार्थाश्चतेन ॥ पूजार्थवाचिनोऽश्चतरुपधाभूतस्य नस्य लोपो न भवति किति डिति च ॥ निरुपपदात् क्रुश्चेः किपि न । निर्गत उपपदेभ्यःनिरुपपदस्तस्मात् । उपपदरहितस्य क्रुश्चेरुपधाभूतस्य नस्य लोपो न भवति विपि । क्रुञ्च कौटिल्याल्लीभावयोः॥ __ (तत्त्वदी० )-निरुपपदादिति ॥ निर्गत उपपदेभ्यः निरुपपदः तस्मात् । क्रुञ्चेः क्विपि परे तस्यैव नलोपो नेत्यर्थः । __ (अञ्चेः पुंसि पञ्चसु नुम् ) दिशाम् ॥ प्रत्यङ्, प्रत्यञ्चौ, प्रत्यञ्चः। प्रत्यञ्चम्, प्रत्यञ्चौ ॥
(सुबोधिनी)-अञ्चेः पुंसि पञ्चसु नुम् ॥ गत्यर्थस्याञ्चतेर्नुमागमः स्यात् पुंसि पश्चसु ॥ नलोपे पुनर्नुमि कृते प्रत्यन् च सि इति स्थिते संयोगान्तलोपे सिलोपे च नुमो नकारस्य दिशामिति कुत्वेन डकारः। प्रत्यङ् । अनुस्वारसवौँ । प्रत्यञ्चौ ॥
(तत्त्वदी० )-अञ्चेरिति ॥ न इका निर्देशस्तथा सति कित्त्वान्नलोपे अचेरित्येव स्यात् ॥ किं तूच्चारणार्थ इकारः ॥प्रत्यङिति ॥ प्रत्यञ्चतीति किपि नो लोप इति नलोपे सौ नुमि कृते प्रथमं संयोगान्तलोपः । न तु श्चुत्वम् अकृतव्यूहपरिभाषया श्चुत्वाप्रवृत्तेः । नित्यत्वात्संयोगान्तलोप एव । तथा च लोपे नस्यैव उकारः पञ्चमत्वेन साम्यात् । प्रथमं चुत्वे खन्नित्यसिद्धयापत्तेश्च ॥
(अचेर्दीर्घश्च ) नलोप्यञ्चतेरकारस्य लोपः पूर्वस्य च दीर्घः शसादौ स्वरे परे तद्धितयस्वरयोरीपीकारे च ॥ प्रतीचः। प्रतीचा । प्रत्यग्भ्याम् । प्रत्यक्षु । तिर्यङ्, तिर्यञ्चौ, तिर्यञ्चः॥
(सुबोधिनी)-अचेर्दीघश्च ॥ लुप्तनकारस्याञ्चतेरतो लोपो भवति ईपि ईकारे च ॥ प्रतीची । तद्धितयस्वरयोः प्रतीच्यः। प्रतीचीनः । अचेरिति नायमिक्प्रत्ययः। किंतूच्चारणार्थोऽयामिकारः नलोपिनिर्देशे ज्ञापकः । इकः कित्त्वान्नलोपे कृतेऽचेरित्यस्योक्तार्थेऽज्ञापनात् ॥ ननु पूर्वस्येति कस्माल्लब्धम् । उच्यते । दीर्घश्रुत्योपस्थितः स्वर एवात्र स्थानी । शसादौ स्वरे इति लोपदीर्घयोनिमित्तम् । सप्तमीनिर्देशात् पूर्वस्याव्यवहितस्य स्वरस्य दीर्घ प्राप्ते येन नाव्यवधानं तेन व्यवहितेऽपीति वचनप्रामाण्यात चकारेण व्यवहितस्याप्यत्र दीर्घः । अचेरिति लोपस्य विषयेऽन्तरङ्गोऽपीयमिति यकारो न । अकृतव्यूहा इति परिभाषया । प्रतीचः । तिरोऽश्चतीति सहादेरिति तिरसस्तिरिः । तिर्यक ॥
Page #158
--------------------------------------------------------------------------
________________
( १४२ )
सिद्धान्तचन्द्रिका |
[हसान्त पुंलिंगाः ]
( तत्त्वदी०) - अर्दीर्घश्चेति ॥ लुप्तनकारनिर्देशात्पूजार्थासंग्रह इत्याशयेनाह - नलोपिन इत्यादि ॥ अचेरिति पाठे तु ज्ञापनासंभवः इकः कित्त्वेन सर्वथैव नलोपात् । उच्चार - णार्थ इकार इत्याद्याश्रयणे तु भवत्येव ॥ पूर्वस्य चेति शसादाविति परसप्तम्या निमित्तत्वेन पूर्वलाभात् । न च चकारेण व्यवधानान्नेति वाच्यं येन नाव्यवधानं तेन व्यवहितेऽपि ' इतिवचनप्रामाण्यात् चकारैकवर्णव्यवधानेऽपि भवत्येव । अकृतव्यूहपरिभाषया पूर्वं न यत्वम् ।
( तिरश्चादयः ) तिरश्वादयो निपात्यन्ते शसादौ स्वरे तद्वितयस्वरयोरीपीकारे च ॥ तिरश्वा । तिर्यग्भ्याम् । तिर्यक्षु ॥ उदीचः । उद्ग्भ्यामू । उदक्षु । पितरमञ्चतीति । पित्र, पित्रञ्च ॥
( सुबोधिनी ) - तिरश्चादयः ॥ सिद्धरूपनिर्देशो निपातनम् । एते निपात्यन्ते ईपि ईकारे च ॥ तिरश्च । तद्धितस्य स्वरे यकारे च तिरचीनः उदीच्यः ॥ तिरश्चादिरिति सूत्रणीयम् | आदिशब्दादुदीच इति । बहुवचनं तु व्यर्थम् । तृतीयस्याभावात् । पदादयः षोडशादेशाः न तु पृथक्शब्दा इतेि पक्षाश्रयणे तु वचनस्य सार्थक्यं बोध्यम् ॥ उदञ्चतीति उदङ् ॥
( तत्त्वदी ० ) - तिरश्चादय इति ॥ ननु मास्तु निपातनम् । अञ्चतौ सहादेः सादिरिति सूत्रेण तिर्यादेशः । स तु अल्लोपे निमित्ताभावे नैमित्तिकाभावादेव रूपसिद्धेरिति चेत्सत्यम् । अञ्चतेर्निमित्तत्वेन अल्लोपेऽप्येकदेश विकृतन्यायेन तत्सत्त्वान्निमित्ताभावत्वाभावात् । तिरश्चादिरिति तु युक्त तिरश्च उदीच इति शब्दद्वय प्रवृत्तिदर्शनात् । तृतीयस्यादर्शनात् बहुवचनं व्यर्थमिति वृद्धाः ॥
I
( ऋतो दीर्घो न ) पितृचः । पित्रग्भ्याम् । पित्रग्भिः । पित्रक्षु ॥ सध्यङ् । सध्रीचः ॥ सम्यङ् । समीचः || प्राङ् । प्राचः ॥ पूजायां तु प्रत्यञ्चः । प्रत्यञ्चा | प्रत्ययाम् । प्रत्यक्षु – प्रत्यङ्खषु – प्रत्यषु ॥ उदञ्चः । उदङ्ग्याम् ॥ तिर्यञ्चः । तिर्ययाम् ॥ सम्यञ्चः । सध्यञ्चः । प्राञ्चः । प्राञ्चा । सहादेः सादिः || अमुमञ्चतीति अमुमुयङ् । अमुमुईचः । अमुमुयग्भ्याम् । अदमुयङ् । अदद्रयङ् ॥ पूजायां तु अमुमुयञ्चः । अमु मुयद्भ्याम् । अदमुयञ्चः | अदद्रयञ्चः ॥ मरुतः । मरुद्भ्याम् || बितो नुम् । न्सम्महतोऽधौ दीर्घः शौ च । महानू, महान्तौ महान्तः । हे महन् ॥
(सुबोधिनी) - ऋतो दीर्घो न ॥ ऋकारस्य दीर्घो न भवति । लुप्ताकारनकारेsञ्चतौ परेsपि । पितृचः । सहाञ्चतीति सहादेरिति सहस्य सधिः । सध्यङ् ॥ समश्चतीति सहादेरिति समः समिः । सम्यङ् ॥ प्रकर्षेणाञ्चतीति प्राङ् । पूजार्थस्याञ्च
Page #159
--------------------------------------------------------------------------
________________
[ हसान्तपुंल्लिंगाः ] टीकाद्वयोपेता।
(१४३) तेस्तु प्रत्यश्चति पूजयतीति विपि पूजाञ्चितेरिति नलोपाभावः अत एव नुम् न । प्रत्यङ् । शसि नलोपाभावादकारलोपो न । प्रत्यञ्चः । सुपि प्रत्यञ्च सु इति स्थिते दिशामिति कुत्वात् प्राक् संयोगान्तस्यति चलोपे नस्य कुत्वेन डकारे च कृत शस
पोरिति कुक पत्वम् । प्रत्यक्षु । शसे चपस्यति पक्ष खकारः। प्रत्यङ्जवषु । कुग. भावे प्रत्यषु ॥ एवं पूजार्थे तिर्यादयः॥ विष्वग्देवयाश्च टेरद्रयञ्चतावप्रत्यय। चाददसो ग्रहणम् । अनयोरदसश्च टेरद्रयादेशः स्यात् अप्रत्ययान्तेऽञ्चतौ परे ॥ अमुमञ्चतीति विग्रह अदम् अञ्च इति स्थिते अद्रयादेश अदद्रि। अच इति यत्वम्। अदसोऽसेर्दादु दो मः । असेरिति इकार उच्चारणार्थः। असकारान्तस्यादसो दात्परस्य उदूतौ भवतः दस्य मश्च । उ इति ह्रस्वदीर्घयोः समाहारः। ह्रस्वव्यञ्जनयोह्रस्वो दीर्घस्य च दीयों भवति ॥ असान्तस्येति किम् । अमुमात्मनः इच्छति अदस्यति ॥ दात्परस्येति किम् । अमुया इत्यत्रान्त्यस्य यस्य मा भूत् । दकाराकारयोर्दकाररकारयोश्च मुत्वे अमुमुयङ्। शसि अचेरित्यतो लोपे दीर्धे च अमुमुईचः। मुत्वस्यासिद्धत्वान्न वत्वम्। अन्त्यबाधेऽन्त्यसदेशस्येति परिभाषां वदतां मते परस्य दकाररकारस्यैव मुत्वम् । अदस इति स्थाने षष्ठी । एवं हि षष्ठीनिर्दिष्टस्येति परिभाषोपतिष्ठते । अदसो योऽन्त्यः स दात् परो यः सोऽदसोऽन्त्यः। एवमन्त्यवाधेऽन्त्यसमीपस्य भवतीति दकाररकारयोमुत्वे अदमुयङ्। अ: अकारः सेः सकारस्य स्थाने यस्य स असिरिति व्याख्याने त्यदाद्यत्वविषये एव मुत्वं नान्यत्रेति पक्षे उभयत्र मुत्वं न अदद्रयङ् । वार्तिककृतोक्तं च । "अदसोऽद्रेः पृथङ मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येके सेहि दृश्यते ॥ १॥" अदसो दकाराकारयोरद्रयादेर्दकाररकारयोश्च पृथङ् मुत्वं केचिदाचार्या इच्छन्ति लत्ववत् । यङन्तस्य चलीक्लप्यते इत्यस्योभयोः कृपो रो ल इत्यनेन यथा लत्वं तथेत्यर्थः ॥ अन्त्यसदेशस्य दकाररकारस्य मुत्वं केचिदिच्छन्ति । अः अकारः सेः सकारस्य स्थाने यस्य सोसिस्तस्य असेः। त्यदायत्वविशिष्टस्यादसो हि मुलं दृश्यते इति केचिद्वदन्ति । तन्मते उभयोमुत्वं न त्यदाद्यत्वाभावात् । एवं चामु. द्रयङ् इति केषांचिदुदाहरणं तद्भाष्येऽनुक्तत्वादुपेक्ष्यमिति भावः॥ इति चान्ताः॥ 'मरुती पवनामरौ' इत्यमरः ॥ मह पूजायाम् । मह्यते पूज्यते इति महान् । कर्मणि तृप्रत्ययः।ऋदित्त्वान्नुम् । सम्महत इति दीर्घः। सिलोपे संयोगान्तलोपे च महान्॥
( तत्त्वदी०)-ऋतइति ॥ एतद्वीजंतु दीर्घग्रहणात संज्ञापूर्वको विधिर नित्य इति ऋतांन दीर्घः॥अनुमुयङिति ॥ अमुमश्चतीति वाक्ये क्विपि अदसअम्अञ्च् क्विप् इति स्थिते किपां लोप वेरिति वलोपे समासप्रत्यययोरित अम्लोपे नामसंज्ञायां स्यादौ अदस अञ्च सि इति स्थिते । अध्यादेशमुत्वे नलोपे नुमागमे सिलोपे नस्य ङत्वेन रूपसिद्धिः। अदमुयङ् । अदद्यङ् इति विकल्पस्त्वित्थन् । उभयत्र मुत्वं लत्ववत् । यथा चलीक्लप्यते इत्यत्र लत्वम् । 'दस्य मः' इत्यत्र अवस्य तस्येति व्याख्यानेऽन्त्यबाधऽन्त्यसदेशस्येति परिभाषामाश्रित्य परस्यैवोत्वम् । तत्रैवोक्तम् ।
Page #160
--------------------------------------------------------------------------
________________
(१४४) सिद्धान्तचन्द्रिका। [हसान्तपुंल्लिंगाः] केचित्तु दो म इति वक्तव्ये दस्येति सस्वरदकारोक्तिीपयति त्यदाद्यविषय एव मत्वं प्रकृते तदभावान्नेति । उक्तं च । “अदसोऽद्रेः पृथग मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येकेऽसेहि दृश्यते॥"अमुमुईच इति॥ संज्ञापूर्वस्य विधेरनित्यत्वान्न वत्वम् । यद्वा मुत्वस्यासिद्धत्वात्॥
(द्विरुक्तानां जक्षादीनां च शतुर्नुम् न शौ वा ) ददत् । एवं जक्षत् । जायत् । चकासत् । शासत् ।
(सुबोधिनी)-द्विरुक्तानां जक्षादीनां च शतुर्नुम् न शौ वा ॥ द्विरुक्तधातुभ्यो जक्षादिभ्यश्च परस्य शतुर्नुम् न स्यात् शौ परे तु वा । ददातीति दाञः शतृप्रत्यये अप् । द्वादेरित्यपो लुक् द्वित्वं च ह्रस्व इति पूर्वस्य हस्वः । दादेरित्यालोपः ॥ ददत् । एवं जक्षतीति जक्षत् ॥ जागीति जाग्रत ॥ दरिद्रातीति दरिद्रत् । दरिद्रातेरित्यालोपः ॥ चकास्तीति चकासत् ॥ शास्तीति शासत् ॥ (तत्त्वदी)-द्विरुक्तानामिति ॥ आगमशास्त्रस्यानित्यत्वादिति भावः ॥
(अत्वसो सौ )अत्वन्तस्य धातुभिन्नासन्तस्य चोपधाया दीर्घो भवति सावधौ ॥ भवान्, भवन्तौ भवन्तः । हे भवन् ॥ चन्द्रमाः, चन्द्रमसौ ॥ अधात्वसन्तस्य किम् । चीवराणि वस्तेऽसौ चीवरवः॥ शत्रन्तस्य तु अत्वन्तत्वाभावान दीर्घः । भवन्, भवन्तौ ॥ पचन् ॥ दीव्यन् ॥ धीमान् । हे धीमन् । धीमन्तौ ॥ मघवान् मघवन्तौ । मघवद्भयाम् ॥ गुप्-गुब् , गुपौ गुपः । गुल्याम् । तादृक्, तादृशौ, तादृशः। तादृक्षु ॥ एवं याहगादयः ॥
(सुबोधिनी)-अत्वसो सौ॥ अतुश्च अस् च तो अत्वसौ तयोः। नोपधाया इत्यत उपधाया इत्यनुवर्तते । अतुरिति मतुवतुक्तवत्वादीनामवयवो गृह्यते केवलस्य प्रत्ययस्याभावात् । अस्त्वर्थवाननर्थकोऽपि । अतु इत्युकारानुबन्धस्यानुकरणाच्छत्रन्तस्य दीर्थो न । अत्वन्तस्य धातोर्दीर्घः । गोमन्तमिच्छति गोमानिवाचरति इति वा इच्छार्थञ्यन्तात्, आचारक्विन्ताद्वा कर्तरि क्विप् । ततोऽल्लोपयलोपौ । गोमान् । अधातोरित्यनुवर्त्य असन्ते योज्यम् । तेनासन्तस्य नाम्न उपधाया दीर्घोऽधौ सौ । अत एव चानर्थकस्याप्यसो ग्रहणम् । भातर्डवतुरिति डवतुप्रत्ययान्तो भवच्छब्दः। नित्यमपि नुमं बाधित्वा वचनसामर्थ्यादादौ दीर्घः ततो नुम् । भवान् । शसादौ महद्वत् । असन्तस्तु चन्द्रमसूशब्दः । धात्वसन्तस्यापधाया दी| न । यथा । वस आच्छादने विप् चीवरवः । भवतीति शतृप्रत्ययान्तस्यातु इत्युकागनुबन्धत्वाभावादी? न । वितो नुमिति नुम् । भवन एवं पचतीति पचन् । दीव्यतीति दीव्यन् ॥ अत्वन्तस्याधातोयथा धीरस्यति धीमान् । अस्त्यर्थे मतुरिति मतुः॥ मघशब्दादतुप्रत्यये मघवच्छब्दः । उपधादीर्घादि प्राग्वत् । “हविर्जनिति निःशंका मखेषु मघवानसौ" इति
Page #161
--------------------------------------------------------------------------
________________
[ हसान्तपुंल्लिङ्गाः] टीकाद्वयोपेता।
(१४५) भट्टिः॥ मत्वन्तत्वाभावे महेर्हस्य घो वुगागमः कन्प्रत्ययश्चेत्येतत्रितये निपातनास्कृते मघवनशब्दः श्वादेरित्यत्रोक्त एव ॥ इति तान्ताः ॥ गोपायतीति गुप् । किवन्तः । आयादयोऽनपीति वैकल्पिकत्वादिहायप्रत्ययाभावः । आयप्रत्ययपक्षे तु यत इत्यल्लोपे अलोपे च गोपा इति रूपं बोध्यम्॥ इति पान्ताः॥ तमिव पश्यतीति दृशेष्टक्सकाविति चकारात् कि । आ सर्वादेरित्यात्वम् । दिशामिति कुत्वम् । तादृक्॥
(तत्त्वदी०)-अत्वसोः साविति ॥ अतुश्च अस् च अवसौ तयोः । अतुरत्र प्रत्ययावयवः केवलस्यासंभवात् । असतुवन्निरर्थकोऽपि । अतुग्रहणसामर्थ्यात्प्रथमं दीर्घः पश्चान्नुम् । अन्यथाऽतुग्रहणं व्यर्थ स्यात् । अत्यन्तस्य धातोरपि । गोमन्तमिच्छन् गोमानित्यत्र यथा । अधातोरित्यनुवृत्तं तु अनन्तरत्वादस् इत्यनेनान्वेति इत्यभिप्रेत्याह-अधात्वसन्तस्येति ॥ धातुभिन्नासन्तायेत्यर्थः ॥
( नशः) को वा पदान्ते स्यादौ झसे च ॥ नक्-नग् नटू-नड्, नशा, नशः । नग्गयाम्-नायाम् । नक्षु-नट्सु ॥ विट्--विड्, विशौ, विशः ॥ स्पृक्-स्पृग्, स्पृशौ, स्पृशः ॥ घृतस्पृक् ॥ उदकपूर्वस्य न कुत्वम् । उदकस्मृट्, उदकस्पृड्, उदकस्पृशौ ॥ दधृक्-दधृग्, दधृषौ । दधृक्षु ॥ रत्नमुट्--रत्नमुड्, रत्नमुषौ । रत्नमुक्याम् ॥ षष्शब्दो नित्यं बहुवचनान्तस्त्रिषु सरूपः। जशशसालकूषट-पड़ ॥
(सुबोधिनी )-नशेः ॥ नशेः कवर्गान्तादेशो वा स्यात् स्यादौ झसे पदान्ते च । णश अदर्शने । क्विप् षत्वं जबत्वचपत्वे । नट-नड्। कत्वे तु नक्-नग ॥ "विश प्रवेशने, विषप् । पत्वं जब त्वचपले विट्-विड् ॥ घृतं घृतेन वा स्पृशतीति घृतस्पृक् ॥ उदकपूर्वस्य न कुत्वम् । उदकपूर्वस्य स्पृशेस्तु दिशामिति कुतं न उदकं स्पृशतीति षत्वम् । उदकस्पृट् ॥ इति शान्ताः ॥ जिधृषा प्रागल्भ्ये । अस्मात् क्विप् द्वित्वम् । निपातनात् दिशामिति कुत्वम् । धृष्णोतीति दधृत ॥ मुष स्तेये। रत्नानि मुष्णातीति रत्नमुट् ॥ जश्शसोरिति जश्शसोर्लक् डत्वम् । जबत्वचपत्वे । षट-पड़ । डत्वे षड्भिः । आमि ष्ण इति नुष्टि कृते षस्य डत्वं नस्य च ष्टुत्वम् ।।
(ड्णः ) डकारस्य णो भवति नामि परे ॥ षण्णाम् । षट्स-षटूत्सु परमषटू-परमषड् । परमषण्णाम् । गौणत्वे तु प्रियषट् ॥ प्रियषषः। प्रियषषाम्॥
(सुबोधिनी)-ड् णः॥ डकारस्य चपेष्वनन्तर्भूतत्वादपदान्तत्वाच्च अमे जमा वेत्यस्याप्राप्ती सत्यामारम्भः। आगमा यद्गुणीभूता इति परिभाषया नुटः प्रत्ययावयवत्वात् । प्रत्ययजमे इत्यनेन जमत्वस्वीकारे व्यर्थमिदम् । टनादिति धुटि षट्त्यु। तदन्तेऽप्ययं विधिर्वाञ्छितः। परमाश्च ते षटु च परमषट् तेषां परमषण्णाम् । षड
Page #162
--------------------------------------------------------------------------
________________
(१४६) सिद्धान्तचन्द्रिका। [हसान्तपुंल्लिंगाः ] र्थप्राधान्ये एव लुग्नुटौ न तु गौणत्वे । प्रियाः प्रियाणि वा षट् येषां ते प्रियषषः तेषां प्रियषषाम् ॥
( तत्त्वदी०)-द् ण इति ॥ ड् ण इति छेदः । पशब्दस्य डत्वे प्रथमैकवचनमित्याशयेनाह-ड् इति ॥ संख्याया इत्यनुवृत्तेः । षष्ठीनिर्दिष्टत्वादन्त्यस्यैव नाद्यस्येति भावः ॥ संख्यायाः किम् । सजुषाम् ॥
( दोषाम् ) दोषादीनां रो भवति रसे पदान्ते च ॥ दोः, दोषौ । शसादौ वा दोषन् ॥ दोष्णः । दोर्याम्-दोषायाम् ॥ (सुबोधिनी) दोषाम् ॥ जबचपविसर्गाणामपवादः। बहुवचनमाद्यर्थम् । दाम्यतीति दोः। दमेडौँसिति डोस् प्रत्ययः। डित्त्वाहिलोपः । भुजबाहू प्रवेष्टो दोः' इत्यमरः॥ पाददन्तेति वा दोषन्नादेशः । शसादौ अल्लोप इत्युपधालोपः। णत्वम् । दोष्णः ॥
(तत्त्वदी.)-दोषामिति ॥ बहुवचनमाद्यर्थम् ॥ व्युत्पत्तिपक्षे ओसि सुप्रत्ययान्तानां स्रोविसर्ग इति विसर्गेणैव सिद्धिस्तथापि सजुष्शब्दस्य रत्वदीर्घार्थम् । तुस्पिसोस्तु रत्वे दीर्घार्थ सूत्रकरणम् ॥
(विसर्गनुम्स्थानिकानुस्वारव्यवधानेऽपि) किलात्परस्य सस्य षः॥ दोःषु-दोष्षु-दोषसु ॥वो र्वि हसे । पिपठी, पिपठिषौ । पिपठीर्याम् । पिपठीःषु ॥ विविट्--विविडू, विविक्षौ, विविक्षः॥ तटू-तड्, तक्षौ, तक्षः ॥ गोरट्र--गोरड्, गोरक्षौ, गोरक्षः ॥ तक्षिरक्ष्योः संयोगान्तलोपे इत्येके । तक तग् ॥ गोरक्--गोरग् ॥
(सुबोधिनी)-विसर्गनुमस्थानिकानुस्वारव्यवधानेऽपि ॥ किलात्परस्य सस्य षः॥ क्विलादिति पञ्चमीनिर्देशाव्यवहितस्याप्राप्तौ वचनम् । एतदयवधानेऽपि आभ्यां परस्य सस्य षः स्यात् । सुपि रत्वविसर्गयोः कृतयोः शसे वेति विकल्पात पक्षे सकारस्तस्य षत्वम् । सुपः सस्य तु ष्टुत्वम् । दोष्षु । विसर्गपक्षे विसर्गनुमिति षत्वम् । दोःषु । नाम्नो न इति नलोपे दोषसु ॥ नुम्स्थानिकानुस्वारेति व्याख्यानान्नेह । सुहिन्सु ॥ पुंसु । पिपठिषतेः क्विपि यत इत्यल्लोपे कृत्तद्धितेति स्यायत्पत्तौ पिपठिष सि इति स्थिते परत्वाद्रफे कृते सिलोपे च दीर्घः। पिपठीः ॥ विश प्रवेशने अस्मात्सः । 'नानिटि से ' इति गुणाभावः । द्वित्वादि । विवक्षते । विप स्कोरिति कलोपः। जबत्वचपत्वे । विविट-विविड् ॥ तच तनूकरणे। अस्मात् क्विप् । स्कोरिति कलोपे तट्-तड् ॥ गांरक्षतीति क्वि । स्कोरिति कलोपे गोरट् । गोरड् ॥ तक्षिरक्ष्योः संयोगान्तलोप इत्येके । स्कोरिति कलोपो न । किंतु संयोगातिलार इत्यर्थः ॥
Page #163
--------------------------------------------------------------------------
________________
[ हसान्त पुंलिंगा: ]
टीकाद्वयोपेता ।
( १४७ )
0
(तत्त्वदी ० ) - पपठीरिति ॥ पठितुमिच्छति पिपठिषति पिपठिषतीति क्विपि र दीर्घे च पिपठीरिति ॥
( कलोपे कुत्वमसिद्धम् ) पिपक्- पिपग्, पिपक्षौ, पिपक्षः । पिपक्षु ॥ एवं विवक् । दिधक् ॥ सुपीः सुपिसौ । सुपीःषु ॥ एवं सुतः ॥ विद्वान्, विद्वांसौ, विद्वांसः । हे विद्वन् ॥
( सुबोधिनी ) - कलोपे कुत्वमसिद्धम् || स्कोरिति कलोपे कर्तव्ये चोः कुरिति कुत्वस्यासिद्धत्वं वक्तव्यम् । अन्यथा स्कोरिति कलोपः स्यादित्यर्थः ॥ पक्तुमिच्छतीति पिपक् ॥ संयोगान्तलोपः । वक्तुमिच्छतीति विवक् ॥ दह भस्मीकरणे | दादेरिति घः । आदिजवानामिति धः । दग्धुमिच्छतीति दिधक् ॥ इति षान्ताः ॥ पिस गतौ ॥ सुष्ठु पेसतीति सुपीः ॥ तुस खण्डने । सुष्ठु तोसतीति सुतः । क्विवन्तः ॥ वेत्तीति । विदेर्वा वसुरिति शतृस्थाने वसुः । अदादित्वादपो लुक् । अपित्तादिडिदिति ङित्त्वान्नोपधागुणः । उदित्त्वान्नुम् । न्सम्महत इति दीर्घः । संयोगान्तलोपस्यासिद्धत्वान्नलोपो न । विद्वान् ॥
1
( वसोर्व उः ) वसोर्वकारस्य उत्वं भवति शतादौ स्त्ररे तद्वितयस्वर - मतुष्वीपीकारे च ॥ विदुषः । विद्वद्भ्याम् । विद्वत्सु । सेदिवान् । वस्योत्वे इडभावः । सेदुषः । सदिवद्भयाम् ॥ ऊषिवान् । ऊषुषः । ऊषिवद्भयाम् ॥ शुश्रुवान् । नुधातोः । शुश्रुवुषः । शुश्रुवद्धयाम् || महच्छन्दसाहचर्यादधातो गृह्यते । नेह | हिन्, सुहिन्सी । सुहिन्भ्याम् । सुहिन्सु ॥ ध्वत् । | वसां रसे । वाम् || एवं स्रत् ॥
-
( सुबोधिनी ) - वसोर्व उः ॥ अञ्च्चास्थ्नामित्यतः शसादाविति वाऽऽदीपोरित्यत ईईपोरिति चानुवर्तते तद्वितयस्वरमतुष्विति च व्याख्यानात् । वसुक्वस्वोर्वकार उकारः स्यात् ॥ तद्धिते वैदुषः । अण || वैदुष्यम् । यण् ॥ मतौ विदुष्मान् ॥ ईईपोर्विदुषी || सस्वरस्य वस्योत्वम् । यवराणामिति पृथङ् निर्देशात् । वसामिति दत्वम् । विद्वद्भयाम् || ससादेति सदः क्वसुः । द्विश्चेति द्वित्वम् । पूर्वस्येति हसादिः शेषः । लोपः पचामित्येत्व पूर्व लोपौ । द्वित्वे सत्येकस्वरादिती । उदित्वान्नुम् । सम्महत इति दीर्घः । सेदिवान् ॥ वस्योत्वे इडभावः । निमित्ताभावे नैमित्तिकस्याव्यावइत्युक्तत्वात् वकाराभावे इडभावः ॥ एवमुवासेति । यजामिति संप्रसारणं
वादी पूर्वस्येति पूर्वस्य संप्रसारणं दीर्घत्वं घसादेरिति षः । ऊषिवान् ॥ शुश्राबेति शुद्धवान् । धातोरित्युव । शुश्रुवुषः ॥ सुष्ठु निस्तीति । न्सम्महत इति सूत्रे
Page #164
--------------------------------------------------------------------------
________________
( १४८ )
सिद्धान्तचन्द्रिका |
[हस्रान्त पुंल्लिंगा: ] महत्साहचर्याद्धातोर्न्सन्द न्तिस्य न दीर्घः । अधातोरित्यनुवृत्तेर्वा । ततश्च संयोगान्तलोपस्यासिद्धत्वान्नोपधादीर्घः । सुंहिन् । टनादिति वा घुट् । सुहिन्त्सु ॥ ध्वंसते इति ध्वत् । स्रंसु ध्वंसु अवस्रंसने । ध्वंसु गतौ च । आभ्यां क्विपू । नो लोप इति नलोपः । वसामिति दत्वम् । ध्वद्भचाम् ॥
(तत्त्वदी ० ) -- वसोर्व उरिति ॥ अत्र वसुकस्वोः सामान्यग्रहणम् । एकानुबन्धग्रहणे धनुबन्धस्य ग्रहणं नेति परिभाषा तु नेहाश्रीयते उकारसहितस्य विधानात् । तथा हि विदेर्वसु रिति सूत्रेण शत्रुर्वसुरादेशो विधीयते । तत्र स्थानिनः शतुः ऋत्वादेव वित्कार्ये सिद्धे पुनरादेशे उदित्करणं व्यर्थमिति ज्ञापयति । वसुग्रहणेन कसोरपि ग्रहणे यथा स्यादिति । अल्लोप इति सूत्राच्छसादाविति लभ्यते । तत्रादिशब्दः प्रकारे । तेन यादिग्रहोऽपीत्याह ॥ तद्धितेत्यादि ॥
(पुंसोऽसुङ् ) पुंसोऽसुङादेशः पुंसि पञ्चसु शौच ॥ पुमान्, पुमांसौ, पुमांसः । हे पुमन् । पुंसः । । पुंभ्याम् । पुंसु ॥ वेधाः, वेधसौ हे वेधः । वेधोभ्याम् ॥
( सुबोधिनी ) - पुंसोऽसुङ् ॥ सो नः पुंस इत्यतो मण्डूकप्लुत्या पुंस इत्यनुवर्तते । सम्मत इत्यतः सिंहावलोकितन्यायेन शावित्यपकृष्यते । पुंल्लिङ्गस्य पुम्सशब्दस्य अमुङ् स्यात् पञ्चसु । ङित्त्वादन्तादेशः । पातेडुम्मुरित्यौणादिक डुम्मुप्रत्ययस्योदित्वात् तेनैव नुमि सिद्धे असुङ उकार उच्चारणार्थः । शौ प्रियपुमांसि ॥ अधावित्युक्तत्वात् न्सम्महत इति न दीर्घः । हे पुमन् ॥ सुपि संयोगान्तलोपे मोऽनुस्वारः । नुम्स्थानिकानुस्वारव्यवधानेऽपीत्युक्तत्वान्न षत्वम् । पुंसु ॥ विधाञो वेध चेत्य सुप्रत्ययः । अत्वसोरिति दीर्घः । वेधाः विश्वसृट् ॥
( तत्त्वदी ० ) - पुंसोऽखुङिति ॥ अत्र सम्मत इति सूत्रात्सिंहावलोकितन शौ चेत्यपकृष्यते । सो नः पुंस इत्यतो मण्डूकप्लुत्या पुंस इत्यनुवर्तते ॥ उकारस्तूच्चारणार्थः । 'पातेडुमसुः' इति प्रत्यये उदित्त्वेन नुमसिद्धेः । पुंसः पुंसीति सिद्धेऽसुङ्करणमन्यतोऽपि विधानार्थम् । तेन जराशब्दे सिद्धम् । पुंस्विति ॥ संयोगान्सलोपे मोऽनुस्वारः । विसर्गनुमिति न षत्वं नुम् - स्थानिकानुस्वारस्यैव ग्रहणात् ॥
(उशनसाम् ) उशनस्पुरुदंशम् अनेहसां सेरधेड | उशनाः, उशनसौ, उशनसः ॥
( उशनसो धौ नान्तता अदन्तता वा वाच्या ) हे उशनन् - हे उशन - हे उशनः । उशनोभ्याम् । उशनस्सु ||
(सुबोधिनी ) - उशनसाम् ॥ बहुवचनमाद्यर्थम् ॥ सेऽधेरित्यनुवर्तते । 'उशना भार्गवः कविः' इत्यमरः ॥ धौ नान्तत्वेऽदन्तत्वे सान्तत्वे च रूपत्रयं भवति । उक्तं
Page #165
--------------------------------------------------------------------------
________________
[ हसान्तपुंल्लिंगाः] टीकाद्वयोपेता। (१४९) च । 'सम्बोधने' इत्यादि । सान्तम् । सस्थ नकारादेशे नान्तम् । सस्य लोपेऽदन्तम्। इगन्ते इदन्ते उदन्ते ऋदन्ते च क्लीवे धौ गुणमिति ॥ पुरु बहु दंशतीति पुरुदंशा इन्द्रः ॥ नजि हन एह चेत्यसुप्रत्यये अनेहाः कालः॥
(तत्त्वदी०)-उशनसामिति ॥ बहुवचनमाद्यर्थम् ॥ अत्राहुः । उशनेत्यत्र संज्ञापूर्वकस्वान्नोपधाया इति दीर्घो नेति । अत्रेदमवधेयम् । इयं शङ्का सिलोपेऽकृते कृते वा । नाद्यः। तत्र नान्तत्वाभावात्सान्तस्यैव दर्शनात् । द्वितीयेऽपि नान्तस्य नाम्न इति व्याख्यानात् । तत्र नित्यमिति सम्बन्धात् नित्यं नान्तस्य इति लाभात् । प्रकृते तदभावादेव नेति विचारः ॥ (सौ सः) अदसो दस्य सः सौ ॥
(सुबोधिनी)-सौ सः ॥ मत्वापवादः॥
(तत्त्वदी० )-सौ स इति ॥ अत्र त्यदादेष्टेरिति सूत्रात्त्यदादेरित्यस्यानुवृत्तर्विवरणेत्यदादेर्दस्येत्येवोचितं न त्वदस इति । यदि तु त्यदादेरदस इति व्याख्यायते तदा न दोषः ॥ त्यदादेः किम् । वन्दः । नन्दः ॥ दस्य किम् । यः ॥ सौ किम् । अमूनि ॥ स इत्यकारसहितवान्नान्यस्य ॥
(सेरौः) अदसः सेरौर्भवति ॥ असौ । दस्यःमः॥ (सुबोधिनी )-सेरौः ॥ अदसः परस्य सेरौः स्यात् ॥ असौ । अत्र वाशब्दमनुवर्त्य व्यवस्थितविकल्प आश्रयणीयस्तेन अकसहितस्यादसः सेवौत्वमौत्वाभावे सात्परस्य उत्वं च वक्तव्यम् । असको असुक इति । स्त्रियाम् असकौ । औत्वाभावे असुका ॥ अमुक इति अमुकी इति च प्रयोगोऽसाधुरेव । अथ कथममुकगोत्रस्याऽमुकशर्मण इति अपभ्रंश एवायमिति प्राञ्चः । अमुकशब्दोऽव्युत्पन्नं नाम वृत्तिविषये एव प्रयुज्यते इत्यन्ये ॥
(तत्त्वदी० )-सेरोरिति ॥ ननु स्त्रियामकान्तस्यासकाविति कथम् । काप्यत इतीत्वेन भवितव्यमिति चेत्सत्यम् । डेरौ डिदित्यतो डिदित्यनुवृत्तेर्डित्त्वाहिलोपे रूपसिद्धः । अत्र वेत्यनुवृत्तेस्तस्य व्यवस्थितत्वाश्रयणात् साकाददसः सेरौत्वं वा । औत्वाभावे सादुत्वं च । असुकः। तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात् साकस्यापि त्यदादिकार्यम् । कथममुकगोत्रस्य अमुकगोत्र इति चेत् । अपभ्रंश एवायमिति दीक्षिताः ॥ रामाश्रमास्तु । अमुकशब्दोऽव्युत्पन्ननाम वृत्तिविषये प्रयुज्यते । केवलस्य तु अदकसूशब्दस्यैव प्रयोगः। अमुक इत्येकवचने तु यदि शिष्टप्रयोगस्तदा साधुः । नो चेत् असाधुरेव । अमुकशब्दस्य तु वृत्तिविषये प्रयोगाभ्युपगमो युक्त एवेति । यद्यपि सामान्येऽकः स्यादित्यकश्चेति व्युत्पादितस्तथाऽपि तस्य प्रयोगः समास एव न स्वतन्त्रस्येत्याहुः । तत्रेदमवधेयम् । इत्थं हि महानिबन्धानामृषिवाक्यानां च गतौ सत्यां नाप्रामाण्यमापादनीयमिति स्वोक्त्यैव शिष्टप्रयोगनिष्पत्तिश्चेत्पुनर्यदि विशिष्टप्रयोग इत्यादिसंशयोक्तिविरुद्धेति ॥
(मादू) अदसो मात्परस्य उश्च ऊश्च भवति ॥ अमू ॥
Page #166
--------------------------------------------------------------------------
________________
(१५०) . सिद्धान्तचन्द्रिका। [हसान्तस्त्रीलिंगाः ] (सुबोधिनी )-मादू ॥ उश्च ऊश्चानयोः समाहार ऊ । संज्ञापूर्वकत्वान्न ह्रस्वः॥ (तत्त्वदी०)-मादू इति ॥ मात् उ ऊ इति च्छेदः । समाहारे ह्रस्वत्वापत्तेः । यद्वाऽस्तु समाहारः। ह्रस्वस्तु न संज्ञापूर्वकत्वेनानित्यत्वात् । अत्राहुः । मादिति पञ्चमीनिर्देशात्परः स्थानी लभ्यते । स च हसः स्वरश्च । मात्परस्य हसस्यासंभवात्स्वर एवं गृह्यत इति । अत्रेदमवधेयम् । अमुमुयङ् इत्यत्र मात्परस्य रेफरूपहसस्योत्वदर्शनात् हसस्यासंभवात्स्वर एव गृह्यते इत्युक्तिनिर्मूला । तथा चोक्त दीक्षितैः । ह्रस्वव्यञ्जनयोईस्वः दीर्घस्य तु दीर्घ इति । व्यञ्जनस्यासंभवे कथमिदं संगच्छते इति ॥
(एरी बहुत्वे) अदस एकारस्यर्भवति बहुत्वे सति ॥ जसि अमी । अमुम्, अमू, अमून्, । अमुना, अमूल्याम्, अमीभिः । अमुष्मै । अमुप्मात् । अमुष्य, अमुयोः, अमीषाम् । अमुष्मिन्, अमुयोः, अमीषु ॥ इति हसान्ताः पुंल्लिङ्गाः ॥
(सुबोधिनी)-एरी बहुत्वे ॥ अदसः किम् । ते ॥ एः किम् ॥ अमून् ॥ बहुत्वे किम् । अमुयोः ॥ इति सुबोधिन्यां हसान्ताः पुंल्लिङ्गाः ॥
(तत्त्वदी० )-एरी बहुत्वे इति ॥ बहुत्वे किम् । अमुयोः ॥ ... श्रीरामकरपौत्रेण लोकेशकरशर्मणा । कृतायामिह टीकायां पुल्लिङ्गोऽगाद्धसान्तकः ॥
___ इति तत्त्वदीपिकायां हसान्ताः पुल्लिङ्गाः ।
अथ हसान्ताः स्त्रीलिङ्गाः। (नहो धः ) नहो हस्य धो भवति धातोझसे परे नाम्नश्च रसे पदान्ते च ॥ उपानत्-उपानद् । उपानद्याम् । उपानत्सु ॥ उष्णिक्-उष्णिग्, उष्णिहौ, उष्णिहः । उष्णिायाम् । उष्णिक्षु ॥ यौः, दिवौ । युट्याम् । धुषु ॥ गीः, गिरौ । गीर्याम् । गीर्षु ॥ एवं पुर्धरादयः॥ चतस्रः ॥ प्रियचत्वाः, प्रियचत्वारी, प्रियचत्वारः । हे प्रियचत्वः ॥ __ (सुबोधिनी)-नहो धः॥ ढस्यापवादः । हो ढ इत्यतो हस्येत्यनुवर्तते । उपपूर्वान्नहेः विप् । नहिवृतीति पूर्वपदस्य दीर्घः । उपनह्यते इति उपानत् ॥ उत्पूति णिह प्रीतावित्यस्मात् किप् ॥ निपातनादलोपषत्वे । दिशामिति हस्व घः। जवत्वचपत्वे । उष्णिक्-उष्णिम् ॥ 'दिव औ' इत्यौत्वे द्यौः । 'ऊ रसे' इत्युत्वे धुभ्याम् ॥ 'गृ-निगरणे ।' अस्मात् 'गृ शब्दे' इत्यस्मादा किप् । ऋत इरितीर् । 'वो वि हसे' इति दीर्घः । गीः ॥ एवं 'पृ पालनपूरणयोः।' पोरुरित्युर् । पूः॥
Page #167
--------------------------------------------------------------------------
________________
[हसान्तस्त्रीलिंगा:- ]
टीकाद्वयोपेता ।
( १५१ )
'धुवीं हिंसायाम् । 'क्विपि यवयोरिति वलोपः । धूः ॥ त्रिचतुरोरिति चतस्त्रादेशः न तिसृचतत्रोरिति न दीर्घः । चतसृणाम् ॥ प्रियाश्चत्वारो यस्याः सेति । यदा । स्त्रियां मुख्यावित्युक्तत्वान्न चतस्त्रादेशः । चतुरामित्याम् । प्रियचत्वाः । धावमित्यम् | हे प्रियचः ॥
1
( तत्त्वदी ० ) - नहो धः इति ॥ तथदानामन्यतमस्तु नोक्तः नद्ध इत्यसिद्धेः ॥ उपानदिति ॥ उपपूर्वान्नहेः क्विपि नहिवृतीत्यादिना पूर्वस्यात्वम् । अत्रेदं विभाव्यम् ॥ सुष्टु अनड्वानस्यामिति बहुव्रीहौ स्वनवानित्येव न तु नदादित्वादपि स्वनड्डाहीति । अनुपसर्जनादिति तन्निषेधात् ॥ उष्णिगिति । उत्पूर्वाणिह प्रीतावित्यस्मात्स्विपि निपातनाद्दलोपषवे ॥ गीरिति । गृ निगरणे शब्दे च । क्विपि । ऋत इरिति ईत्वम् । य्वोर्वि हस इति दीर्घः ॥ पूरिति ॥ पृ पालनपूरणयोः । क्विपि पोरुरित्युत्वम् ॥
I
( इयं स्त्रियाम् ) इदमः स्त्रियामियं सौ । इयम् इमे इमाः । अनया, आभ्याम्, आभिः । अस्यै । अस्याः । अनयोः आसाम् । अस्याम् । आसु ॥ अन्वादेशे । एनाम्, एने एनाः । एनया । एनयोः ॥ स्रक्–स्रग्, स्रजौ । स्रग्भ्याम् । स्रक्षु । समित्-समिद्, समिधौ, समिधः । । समिद्याम् । समित्सु || स्या, त्ये, त्याः ॥ एवम् । तद् । यद् । एतद् । किम् ॥ वाक्-- वाग्, बाचौ । वाग्भ्याम् । वाक्षु ॥ ककुप्-- ककुब्, कक्कुभौ । ककुब्भ्याम् । ककुप्सु । त्वक्-त्वग्, त्वचौ, त्वचः । त्वचम् । त्वग्भ्याम् ॥ ऋक् –ऋग्, ऋचौ, ऋचः । ऋचम् । ऋग्भ्याम् । ऋक्षु ॥ अप्शब्दो नित्यं बहुवचनान्तः । आपः । अपः ॥
1
( सुबोधिनी ) - इयं स्त्रियाम् ॥ इदमोऽयमित्यतः इदम इत्यनुवर्तते । सौ सः इत्यतः साविति च । त्यदाद्यत्वे आपू मत्वम् औरितीत्वम् । इमे । अन टौसोरित्यनादेशः । टौसोरित्येत्वम् । अनया । सभ्य इत्यत्वम् । आभ्याम् । अन्वादेशे इदमेतदोरित्येनत् । शेषं सर्ववत् ॥ सृजेः क्विपू अमागमश्च निपातितः । दिशामिति कुत्वम् । स्रक्-स्रग् ॥ 'इध्ममेधः समित् स्त्रियाम्' इत्यमरः ॥ त्यदाद्यत्वे आप् । त इति सः ॥ स्या ॥ वचेः क्विपि वचीति क्विपि परे दीर्घोऽसंप्रसारणं च । चोः कुरिति कः । वाक् ॥ आमो तेर्हस्वश्चेति हस्वश्चात् क्विपि । न्सम्महत इति दीर्घः । आपः॥
O
( तत्वदी ० ) - इयं स्त्रियामिति ॥ अत्रापि स्त्रियामिति ग्रहणं लुकि न तन्निमित्तमित्यस्यानित्यत्वे लिङ्गम् । अन्यथा इदमित्यत्र सेरभावादेवाप्राप्तौ स्त्रियांग्रहणमनर्थकं स्यात् ॥
Page #168
--------------------------------------------------------------------------
________________
( १५२ )
सिद्धान्तचन्द्रिका |
[हसान्तस्त्रीलिंगा: ]
,
,
,
( भिदपाम् ) अपशब्दस्य दत्वं भवति भकारादौ विभक्तौ ॥ अद्भिः । अद्भयः । अपाम् । अप्सु ॥ दिक्-दिग् दिशौ दिशः । दिग्भ्याम् । दिक्षु ॥ विट् -विड्, त्विषौ, त्विषः ॥ दृक्- हग् दृशौ हराः ॥ सह जुषत इति सजः, सजुषौ, सजुषः । सजर्भ्याम् । सजःषु ॥ आशीः, आशिषौं । आशीर्भ्याम् । आशीःषु । असैौ, अमू, अमूः । अमूम् । अभूः । अमुया, अमूक्याम्, अमूभिः । अमुष्यै । अमुष्याः । अमूषाम्, अमूषु ॥ इति हसान्ताः स्त्रीलिङ्गनः ॥
1
7
( सुबोधिनी ) - भिदपाम् || अपामिति बहुवचनं चिन्त्यम् ॥ अष्टनः त्रेरितिवदेकवचनमेव युक्तम् । दिशेः क्विप् । दिशामिति कुत्वम् । दिक्-दिग् ॥ त्विष दीप्तावित्यस्मात् कि । षो ड इति डत्वम् । त्विट् ॥ दृशेः क्विप् । दिशामिति । कुत्वम् | दृक् ।। जुषी प्रीतिसेवनयोरित्यस्मात् क्विप् । दोषामिति रः । खोरिति दीर्घः । सर्मित्रम् । शसे वेति वासः । विसर्गनुम्स्थानिकेति षत्वम् । सजःषु । ष्टुत्वम् । सजूषषु || आशासः क्वावित्युपधाया इत्वम् । घसादेरिति षः । आशीः । त्यदाद्यत्वे आप् । सौ स इति दस्य सः । 'सेरौः' इत्यौत्वम् । असौ । दस्य म इति मत्वम् । औ इतीम् । एवं मादू इत्यूलम् । अमू ॥ इति सुवोधिन्यां हसान्ताः स्त्रीलिङ्गाः ॥
1
ܢ
(तत्त्वदी ० ) दिपामिति ॥ भि द् अपाम् इति च्छेदः । बहुवचनं चिन्त्यम् ॥ सुष्ठु आपो यस्मिन्स स्वाप् स्वद्भयामित्यत्रेष्टत्वात् प्राधान्यद्योतनायेत्यपि न । स्ववसूस्वतवस्मास वैदिकानां संग्रहार्थमाद्यर्थ बहुवचनमिति माधवः । तन्नेति रामाश्रमः । अत्र लौकिकानामेव प्रतिपाद्यत्वेन वैदिकप्रतिपादनस्यायुक्तत्वात् । अन्यथा अन्येषामपि व्युत्पाद्यत्वमिति न । नहि वैदिकव्युत्पादने यवनभाषायामिवापराधः । यदपि अन्यथेत्यादि तत्रापि देवासः देवेभिः गोनामित्यादीनां व्युत्पादनदर्शनात् । कथं न व्युत्पाद्यत्वम् । यदपि लौकिकप्रयोगनिष्पत्तये इति मूलविरोधाच्चेति तत्रापि न मात्रपदं न वा एवपदं वैदिकव्यवच्छेदकं दृष्टमस्ति । न च लौकिकपदाद्वैदिकनिरास इति वाच्यं लौकिकानां बहूनां व्युत्पादनेन तद्ग्रहणस्योचितत्वात् । छत्रिणी गच्छन्तीतिवत् । यदि माघवमत खंडने आग्रह एव तदा इत्यम् । संज्ञिनिर्देशे प्रथममुचिते विपरीतनिर्देशादन्यत्रापीति वैदिकानां सिद्धिः । वस्तुतस्तु भ्यपो दिति सूत्रणीयम् लाघवात् । वैदिकानां तु छन्दसि दृष्टानुविधिरित्येव सिद्धिरिति दिक् ॥ आशिषाविति ॥ आशासः क्वावुपधाया इतीत्वे घसादेरिति षत्वम् ॥
श्रीविद्यानगर स्थायि लोकेशकरशर्मणा । विहितायां हि टीकायां स्त्रीलिङ्गोऽगाद्धसान्तकः ॥ इति तत्त्वदीपिकायां हसान्तस्त्रीलिङ्गाः ॥
Page #169
--------------------------------------------------------------------------
________________
[ हसान्तनपुंसकलिङ्गाः] टीकाद्वयोपेता। (१५३)
अथ हसान्ता नपुंसकलिङ्गाः। स्वनडुत्-स्वनडुद्, स्वनडुही, स्वनवांहि । पुनस्तद्वत् । शेषं पुंवत् ॥ वाः, वारी, वारि । वार्याम् । वार्ष ॥ ऊ रसे । विमला, विमलदिवी, विमलदिवि ॥ किम्, के, कानि ॥ इदम्, इमे, इमानि । अन्वादेशे एनत्, एने, एनानि ॥ ब्रह्म, ब्रह्मणी, ब्रह्माणि । हे ब्रह्मन्-हे ब्रह्म ॥
(सुबोधिनी )-सुष्टु अनड्वान् यस्मिन् तत् । वसामिति दत्वम् । स्वनडुत् । शौ अनडुहश्चेत्याम् । नुमयम इति नुम् । स्वनडांहि । टादौ पुंवद्रपम् ॥ यमान्तत्वान्न नुम् । वारि ॥ विमला द्यौर्यस्मिन् तद्विमला । औं परतोऽन्तर्वर्तिनी विभक्तिमाश्रित्य पूर्वपदस्येवोत्तरखण्डस्यापि पदसंज्ञायां प्राप्तायामाह-उत्तरपदत्वे चापदादिविधी प्रत्ययलक्षणं नेति । उत्तरशब्देनोत्तरपदमुच्यते । उत्तरपदस्य पदत्वव्यपदेशे कर्तव्ये प्रत्ययलक्षणं न भवतीत्यर्थः । पदादिविधौ तु प्रत्ययलक्षणं भवति। पदत्वाभावादुत्वं न । विमलदिवी ॥ लुकि नति त्यदाद्यत्वं न । किम् ॥ एवमिदम् । इममेतदोरित्येनदादेशे एनत् ।। वेङयोरित्यल्लोपो न । वकारमकारान्तसंयोगादुत्तरस्य नेति निषेधात् । ब्रह्मणी । धौ नपुंसकानामिति वा नस्य लोपः । हे ब्रह्मन्-हे ब्रह्म ॥
( अह्नः )अहन्शब्दस्य सो भवति रसे पदान्ते च ॥ अहः । अह्नीअहनी, अहानि । अह्ना । अहोभ्याम् ॥ कर्म, कर्मणी, कर्माणि ॥ एवं चर्मन्वर्मन्धन्वन्नादयः ॥ दण्डि, दण्डिनी, दण्डीनि ॥ स्रग्वि, स्रग्विणी, स्त्रग्वीणि । वाग्रिम, वाग्ग्मिनी, वाग्ग्मीनि ॥ बहुवृत्रह, बहुवृत्रघ्नी-बहुवृत्रहणी, बहुवृत्रहाणि ॥ बहुपूष, बहुपूष्णी-बहुपूषणी, बहुपूषाणि ॥ बह्वर्यम, बह्वयम्णी-बह्वयमणी, बह्वर्यमाणि ॥ अमृक् अमृग्, असृजी; असृञ्जि । शसादौ वाऽसन् । असानि । अस्ना। असभ्याम् । ऊ-ऊर्ग, ऊर्जी, ऊर्जि॥
(सुबोधिनी)-अतःानस्य विसर्गविधानं युक्तम्। सस्यापि विसर्गविधानावश्यकत्वात् । तदन्तेऽपीष्टं सत्वम् । दीर्घाणि अहानि यस्मिन् स दीर्घाहाः निदाघः । दीर्घाहन सि इत्यत्र हसेप इति सिलोपे नोपधाया इति दीर्घ च कृते ततः सकारः ॥ वेङयोरिति वाऽल्लोपः अह्नी-अहनी । 'अल्लोपः स्वरे' इत्यलोपः । अतः । भ्यामि सत्वे कृते विसर्गः । 'हबे' इत्युत्वम् ओत्वं च । अहोभ्याम् ॥ दण्डोऽस्यास्तीति । मान्तोपधादितीन् । नाम्नो न इति नलोपः। दण्डिनी। इनामिति दीर्घः। दण्डीन ।
Page #170
--------------------------------------------------------------------------
________________
(१५४) सिद्धान्तचन्द्रिका। [हसान्तनपुंसकलिंगाः] स्रगस्यास्तीति विन् । स्रग्वि ॥ वागस्यास्तीति ग्मिन् । वारिग्म । बहवो वृत्रहणो यस्मिन् ततः । नानो न इति नलोपः। बहुवृत्रह । वेङयोरित्युपधालोपे हनोन इति घः। बहुवृत्रनी। अल्लोपाभाव बहुवृत्रहणी । इनामिति दीर्घः। बहुवृत्रहाणि ॥ बहवः पूषाणो यस्मिन् तत् बहुपूष ॥ बहवोऽयम्णो यस्मिन् तत् बह्वर्यम ॥ अस्यतेरोणादिके ऋजप्रत्यये । अमृज् । चोः कुरिति कुत्वम् । अमृक् । पाददन्तेत्यसन् । 'अल्लोपःस्वरे' इत्यल्लोपे अस्ना ॥ ऊर्जेतीति ऊ। शो ऊर्जि। नरजानां संयोगः। बहव ऊर्जी यस्मिन् तत् बहू ॥
(तत्त्वदी० )-अह्न इति ॥ स्रोर्विसर्ग इत्यतो विसर्ग इत्यनुवर्तते । कश्चित्तु सस्तावित्यतः समनुवर्त्य समेव व्यधित तन्नेति रामाश्रमः । सस्यापि विसर्गविधानावश्यकत्वेन विसर्गविधानस्यौचित्यात्। वस्तुतस्तु सस्यैवाव्यवहितत्वेन तदनुवृत्तरेवौचित्यं युक्तं क्षत्यभावात् ॥ दीर्घान्यहानि यस्मिन्निदाघे इति विग्रहे दीर्घाहन सि इति स्थिते हसेप इति सिलोपे नोपधाया इति दीर्घ पश्चादह्न इति विसर्गः । दीर्घाहाः ।धौ त्वधाविति निषेधादीर्घाभावे विसर्ग एव । हे दीर्घाहः॥
(बहूजों नुम्प्रतिषेधः) अन्त्ययापूर्वो वा नुम् ॥ बहूर्जि-बहार्ज ॥ त्यत्-त्यद्, त्ये, त्यानि ॥ तत्-तद्, ते, तानि ॥ यत्-यद्, ये, यानि ॥ एतत्-एतद्, एते, एतानि ॥ अन्वादेशे एनत्-एनद्, एने, एनानि ॥ बेभित्-बेभिद्, बेभिदी ॥
(सुबोधिनी)-बहूजों नुम्प्रतिषेधः ॥अन्त्यात्पूर्वो वा नुम् । बहूशब्दस्य भाष्यमते नुम्॥इदमेतदोरित्येनदादेशः।एनत् ।वेभिद्यते इति बेभित् ।यङन्तात् क्विप।
( तत्त्वदी०)-बहूर्ज इति ॥ बहाल इति ॥ ब्रजानां संयोगः ॥ शौ न नुमिति । वाऽनुवृत्तेर्व्यवस्थितत्वादिति भावः ॥
(सयङन्तस्य शौ नुम्न )बेभिदि ॥ चेच्छित्-चेच्छिद । चेच्छिदी। चेच्छिदि । “गवाक्शब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः । असन्ध्यगागमाल्लोपैनवाधिकशतं मतम् ॥ स्यम्सुप्सु नव षड् भादौ षट्के स्युस्त्रीणि जश्शसोः । चत्वारि शेषे दशके रूपाणीति विभावय ॥" गवाक्--गवान्, गोअक्-गोअग्-गोक्-गोग्, गवाङ्-गोअङ्-गोङ् । गोची-गवाञ्ची-गोअञ्चा-गोञ्ची । गवाञ्चि-गोअश्चि-गोश्चि । गवाक्षु-गोअक्षुगोक्षु-गवाक्षु-गोअक्षु-गोक्षु-गवाझ्षु-गोअवषु-
गोषु ॥ तिर्यक्तिर्यग्, तिरश्ची, तिर्यञ्चि । तिर्यङ्, तिर्यश्ची, तिर्याश्च ॥ यकत्, यकृती,
Page #171
--------------------------------------------------------------------------
________________
[ हसान्तनपुंसकलिंगाः] टीकाद्वयोपेता। यन्ति -यकानि । यका-यकता, यकायाम्-यकायाम् ॥ एवं शरुत् ॥ ददत, ददती, ददति-ददन्ति ॥ एवं जायदादयः ॥ तुदत् ॥
(सुबोधिनी)-सयङन्तस्य शौ नुम्न ॥ सश्च यङ् च सयडौ सयङावन्ते यस्य स सयङन्तस्तस्य सयङन्तस्य नाम्नो नुम् न शौ परे ॥ बभिदि ॥ चेच्छिद्यते इति चेच्छित् । शौ चेच्छिदि ॥ सप्रत्ययान्तस्य शौ पिपठिषि ॥ "जायन्ते नव सौ तथाऽमि च नव भ्याभिस्भ्यसां संगमे षट्संख्यानि नवैव सुप्यथ जसि त्रीण्येव तद्वच्छसि ॥ चत्वार्यन्यवचस्सु कस्य विबुधाः शब्दस्य रूपाणि तज्जानन्तु प्रतिभाऽस्ति चनिगदितुं पाण्मासिकोऽत्रावधिः ॥ १॥" राजसभायामिति श्लोकः केनचित् कविनोक्तस्तदा कश्चित्पण्डितः श्लोकद्वयेन तदुत्तरमाह । श्लोकः। "गवाक्शब्दस्य रूपाणि क्लीवेऽर्चागतिभेदतः ॥ असंध्यगागमाल्लोपैर्नवाधिकशतं मतम् ॥१॥" व्याख्या। गवाक्शब्दस्य रूपाणि अर्चागतिभेदतः पूजागत्यर्थभेदेन नवाधिकशतं बोध्यानि । विंशत्यायाः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्युक्तत्वादेकत्वं शते॥ अश्चर्गतौ नस्य लोपः। पूजायां तु नेत्याशयः । कीदृशम् । असंध्यगागमाल्लोपैर्मतं गोरग् वेत्यगागमेन गार्वेति प्रकृतिभावाल्लोपाभ्यां वाऽऽचार्याणां मननविषयीभूतम् ॥१॥ उक्तसंख्यामाह। स्यममुप्सु इति ॥ प्रत्येक स्यम्मुप्सु नव रूपाणि स्युः। भादौ षट्क षट् । जशूशसास्त्रीणि । शेषे दशके प्रत्येकं चत्वारि । इति नवाधिकशतं रूपाणि त्वं विभावय जानीहि । शसे चपस्येति वार्तिकमनाश्रित्योक्तम् । अन्यथा त्रीणि रूपाणि वर्द्धन्ते इत्यर्थः ॥२॥ गामञ्चतीति विग्रहे क्विप गतौ नोलोप इति नलोपःगो अच् सि इति स्थिते अगागमे चोः कुरिति कुत्वम् । गवाक् १ गवाग २ प्रकृतिभावे गोअक् ३ गोअग ४ अल्लोप गोक् ५ गोग ६ पूजायां नस्य कुत्वेन ङः। गवाङ्७ प्रकृतिभावे गोअङ्८ लोपे गोङ् ९ । अम्यप्येतानि रूपाणि । औ परतः अचेरित्यल्लोपे गोची १ पूजायां तु गवाञ्ची २ गोअञ्ची ३ गोञ्ची ४ । शौ नुमयम इति नुम् । गतिपूजनयोस्त्रीण्येव सादृश्यात् । गवाश्चि १ गोआश्चि २ गोश्चि ३ । टापरतः अचेरित्यल्लोपः। गोचा १ पूजायाम् गवाञ्चा २ गोअञ्च( ३ गोवा ४ । भ्यामि गवाग्भ्याम् १ गोअग्भ्याम् २ गोग्भ्याम् ३ पूजायाम गवाभ्याम् ४ गोअभ्याम् ५ गोभ्याम् ६। भिसि पर गवाग्भिः १ गोअगाभिः २ गोग्भिः ३ पूजायाम् गवाभिः ४ गोअभिः ५ गोङ्भिः६ । उपरतः अचेरित्यल्लोपः। गोचे १ पूजायाम गवाञ्चे २ गोअञ्चे ३ गोश्च ४। भ्यामि प्राग्वत् । भ्यसि गवाग्भ्यः १ गोअग्भ्यः २ गोग्भ्यः ३ पूजायाम् गवाङ्भ्यः ४ गोअङ्भ्यः ५ गोभ्यः ६ ङसौ गोचः १ पूजायाम् गवाञ्चः २ गोअञ्चः३ गोञ्चः ४ । भ्यामि भ्यसि च प्राग्वत् । ङसपरतो ङसिवत् । ओसि गोचोः१ पूजायाम् गवाञ्चोः २ गोअञ्चोः ३ गोञ्चोः ४ । आमि गोचाम् १ पूजायाम् गवाञ्चाम् २
Page #172
--------------------------------------------------------------------------
________________
सिद्धान्तचन्द्रिका। [हसान्तनपुंसकलिंगाः) गोअञ्चाम् ३ गोश्वाम् ४ । ङौ गोचि १ पूजायाम् गवाञ्चि २ गोअश्चि ३ गाश्चि ।
ओसि च गोचोः १ पूजायाम् गवाञ्चोः २ गोअञ्चोः ३ गोश्चोः ४ । सुपि गवाक्षु १ गोअक्षु २ गोक्षु३ पूजायाम् शसे णोरिति ङान्तानां कुपक्षे गवाक्षु ४। गोअक्षु ५ गोक्षु ६ कुगभावे गवाक्षु ७ गोअङ्घ ८ गोऽङ्घ ९ । एवं नवाधिकशतं रूपाणि । कुपक्षे शसे चपस्यति ककारस्य खकारेण त्रयाणामाधिक्यं ज्ञेयम् । अन्यत्र तु कुत्वस्यासिद्धत्वान्न खकारः । एवं द्वादशाधिकम् ॥ तिरोश्चतीति । नो लोप इति नलोपः । चोः कुरिति कुः । तिर्यक् । सहादित्वात्तिरिः। औपरतः तिरश्चादय इति तिरश्चः । शौ नुमयम इति नुम् । तिर्यश्चि । पूजायां तिर्यङ् ॥ यकृत्कालखण्डम् । शकृत् पुरीषम् ॥ शसादौ पाददन्तेति यकन्शकन्नादेशौ वा ॥ दददिति पुल्लिङ्गे उक्त एव । द्विरुक्तानां जक्षादीनां चेति वा नुम् । ददन्ति-ददति वा ॥
(तत्त्वदी०)-सयङन्तस्येति ॥ सध यङ् च सयौ तौ अन्तौ यस्य तस्येत्यर्थः । एतन्मूलं त्वनुवर्तितवाग्रहणस्य व्यवस्थितत्वम् ॥ गवाक्शब्दस्येत्यादि । अागतीत्यादि ॥ अर्चा पूजा गतिर्गमनं तयोर्भेदस्तस्मात् ॥ असंध्यगागमाल्लोपैरिति ॥ गोर्वा गोरग्वेति विकल्पद्वयेन रूपत्रयमिति भावः॥ स्यम्सुप्स्विति ॥प्रत्येक नवनवेत्यर्थः॥भादाविति ॥ भकारादौ इत्यर्थः । तथा हि । सौ गत्यर्थतायामनलोपे असंधौ अगागमे च पर्यायेण रूपत्रयम् । तत्रैव वाऽवसान इति कगयोर्विकल्पाद्रूपषट्कम् । पूजायां त्वसंध्यादिविकल्पे रूपत्रयमिति संकलनया नव । एवमम्यपि। औद्वये तु गत्यर्थतायाम् अचेदर्दीर्घ इत्यकारलोपे तन्निमितासंध्यादिरूपद्वयाभावादेकमेव । पूजार्थतायां तु नलोपाभावादलोपस्याभावेऽसंध्यादिविकल्पेन रूपत्रयम् । संकलनया प्रत्येकं रूपचतुष्टयम् । एवं टाप्रभृतौ स्वरादौ सर्वत्र प्रत्येक रूपचतुष्टयं बोध्यम् । जश्शसोस्तु गत्यर्थतायां नलोपेऽपि पुनर्नुमा विशेषाभावात् प्रत्येकं त्रीण्येव । भ्यामादौ तु त्रीणि गतौ त्रीण्यर्चायामिति षट्पट् । सुपि तु पूजार्थतायां शसे णोः कुकुटुकाविति कुग्विकल्पेन षट् । गतौ तु त्रयमेवेति नव । कुपक्षे शसे चपस्येति विकल्पेन यदि खकारस्तदा रूपत्रयाधिक्यं भवत्येव ॥
(वाऽऽदीपोः शतुः) अवर्णान्तात्परस्य शतुर्वा नुमीकारे ईपि च ।। तुदती-तुदन्ती,तुदन्ति ॥ भात् । भाती-भान्ती, भान्ति ।।
(सुबोधिनी)-वाऽऽदीपोः शतुः ॥ वा आत् ईपोरिति पदच्छेदः। आदिति पञ्चमी न तु तपरत्वम् । ईश्च ईप च ईपी तयोरीपोः। शतुरित्यवयवषष्ठी॥ ननु तुदती इत्यत्र शिति चतुर्वदित्यनेन कृतस्य तुदादेरित्यप्रत्ययस्य अदे इत्यनेनान्तरङ्गत्वाल्लोपे कृतेऽवर्णात्परत्वाभावान्नुम् न स्यात् । उच्यते । प्रत्ययलक्षणेन तत्परत्वमस्त्येव । न चैवं नन्तीत्यादावतिप्रसङ्ग लुकि न तन्निमित्तमित्यनेन प्रत्ययलक्षणप्रतिषे. धात् ॥ भातीति भात् । भा दीप्तौ शतप्रत्यये शित्त्वादप् । अदादित्वादपो लुक् ॥
Page #173
--------------------------------------------------------------------------
________________
[हसान्तनपुंसकलिंगा : ]
टीकाद्वयोपेता ।
( १५७ )
( तवदी ० ) - वाssदीपोः शत्रुरिति ॥ वा आत् ईपोः शतुरिति च्छेदः । आदित पञ्चमी । न तपरत्वम् । ईव ईपू च ईपौ तयोः ईपोरित्यत्र जबाभावेन उत्तरपदस्यान्तर्वर्तिविभक्त्या पदत्वं नेति ज्ञापितम् । तेन परमवाचावित्यत्र कुत्वाद्यभावः । अदीपोरादीपोरित तु न च्छेदः । उत्तरसूत्रे नित्यग्रहणसामर्थ्यात् । तुदन्ती इत्यत्रावर्णस्य 'अदे' इत्यनेन लोपे कथमात्परत्वमिति चेत्सत्यम् । प्रत्ययलक्षणत्वेनेति गृहाण । अथ नन्तीत्यत्रातिव्याप्तिरिति चेत् न । लुकि न तन्निमित्तमिति निषेधात् । अथ कथमग्रहणेन सानुबन्धकावर्णसामान्यस्य ग्रहणं यवर्णसामान्यस्य ग्रहणं च “निरनुबन्धकग्रहणे न सानुबन्धकस्य ।" "अर्थवद्ग्रहणे नानर्थकस्य । " “प्रत्ययाप्रत्यययोः प्रत्ययस्यैव । " इति परिभाषात्रयेण निषेधादिति वाच्यम् । अप्याभ्यां नित्यविधानेन परिभाषात्रयस्यात्रा प्रवृत्तिज्ञापनात् । न ह्यन्यथाऽप्याभ्यामनेन विकल्पः प्राप्तो येन नित्यमित्यर्थवद्भवेत्। ईब्ग्रहणं तु सानुबन्धकस्य ग्रहणे निरनुबन्धकस्य ग्रहणं नेति ज्ञापनार्थम् ॥
( अन्ययोरान्नित्यम्) अप्प्रत्यययप्रत्ययसंबन्धिनोऽवर्णात्परस्य शतुर्नुम् नित्यमीकारे ईपि च ॥ पचत्, पचन्ती, पचन्ति ॥ दीव्यत्, दीव्यन्ती, दीव्यन्ति ॥ स्वप्, स्वब्, स्वपी । न्सम्महत इति दीर्घः । स्वाम्पि । दीर्घा नेत्येके स्वम्प | स्वपा । भिदपाम् । स्वदुद्भ्याम् । स्वद्भिः ॥ जगत् जगती, जगन्ति ॥ महत्, महती, महान्ति ॥ धनुः, धनुषी ॥
1
.
(सुबोधिनी) - अप्ययोरान्नित्यम् ॥ वाऽऽदीपोरित्यत ईपोरित्यनुवृत्तम् । विकल्पे प्राप्ते नित्यविधानार्थमिदम् । अपू च यश्चाप्यौ तयोरात्परस्य शत्रुर्नित्यं नुम् । भवति ईईपोः ॥ ननु अप्ययोरित्यत्र 'चपा अवे' इति जब वक्तुं युक्तम् । उच्यते । ज्ञापनार्थमेवं निर्देशः । प्रत्यये परतः क्वचित्पदत्वं नेति । तेन तडित्वानित्यादि सिद्धम् ॥ पचतीति पचत् । अप् कर्तरीत्यप् । अदे इत्यलोपः ॥ दीव्यतीति दीव्यत् । दिवादेरिति यः ॥ सुष्ठु आपो यस्मिन् सरसि तत् स्वप् । ऋक्पूरित्यप्रत्ययो न 'न पूजने' इति निषेधात् । शौ नित्यत्वात् नुमः प्राक् दीर्घः । स्वापि । तदन्ते दीर्घौऽस्य नेत्येके । स्वपि । अतिपूवयियजितनिधनितायिभ्यः इत्यौणादिकः धनेरुम् । धनुः॥
( तत्त्वदी ० ) - अप्ययोरान्नित्यमिति ॥ अप् च यश्च अप्यौ तयोः । अब्ययोरिति वक्तव्ये जबाकरणं ज्ञापकं यकारे क्वचिदन्तर्वर्तिविभक्त्या पदान्तं नेत्यस्य । तेन वैदुष्यमित्यत्र ' वसां रसे इति दत्वं न । अप्यान्नित्यमिति सुवचम् | आदित्यस्यानुवृत्तेः । आरम्भसामर्थ्यान्नित्यत्वे लब्धेऽपि अदीपोरादीपोरिति संदेहनिरासार्थं नित्यग्रहणम् ॥
( न्पपूर्वस्य शौ दीर्घः ) धनूंषि ॥ हविः, हविषी, हवींषि ॥ पयः पयसी, पयांसि ॥ तेजः, तेजसी, तेजांसि ॥ वचः, वचसी, वचांसि ॥
Page #174
--------------------------------------------------------------------------
________________
(१५८) सिद्धान्तचन्द्रिका। [युष्मदस्मत्प्रक्रिया ] पिपठीः, पिपठिषी । सयङन्तस्य शौ नुम्न । पिपठिषि ॥ सुपुम्, सुपुंसी, सुपुमांसि ॥ अदः, अमू, अमूनि । शेषं पुंवत् ॥ इति हसान्ता नपुंसकलिंगाः॥
(सुबोधिनी )-षपूर्वस्य शो दीर्घः ॥ सम्महत इत्यस्यैव प्रपञ्चः शौ सम्महत इति दीर्घः । विसर्गनुमिति पत्वम् ॥ धषि । धनुर्ध्याम् । अत्र 'य्वो वि हसे' इति न दीर्घोऽधातुत्वात् ॥ अर्चिशुचिहुसृपीत्यादिना जुहोतेरिस । हविः ॥ पिपठिपतेः विप् । 'यो वि हसे' इत्यनेन दीर्घत्वम् । पिपठीः ॥ सुष्टु पुमांसो यस्मिन् तत् सुपुम् । शौ पुंसोऽसुङित्यसुङ् । नुमयम इति नुम् । सम्महत इति दीर्घः । सुपुमांसि ॥ त्यदायत्वं विभक्तिकार्य मत्वोले अमू । शौ नुम्दीधौं । अमूनि । शेष पुंवत् ॥ इति मुबोधिन्यां हसान्ता नपुंसकलिङ्गाः॥
(तत्त्वदी० )-श्रीविद्यानगरस्थायिलोकेशकरशर्मणा । कृतायामिह टीकायां क्लीवलिङ्गो हसान्तकः ॥
इति तत्त्वदीपिकायां हसान्तनपुंसकलिङ्गाः ॥
समाप्ते इमे षड्लिङ्गव्याख्ये ॥
अथ युष्मदस्मत्प्रक्रिया। ( त्वमहं सिना ) सिना सहितयोर्युष्मदस्मदोस्त्वमहमित्येतावादशौ भवतो यथासंख्येन ॥ त्वम् । अहम् ॥
( सुबोधिनी )- त्वमहं सिना ॥ युष्मदस्मदोः स्थाने त्वमहमित्येतौ यथाक्रम स्तः । सिनेति सहादियोगे तृतीया । सिप्रत्ययेन सहितयोरित्यर्थः ॥ ननु त्वमहमोहेसान्तत्वादेव सिलोपे सिद्ध साविति वाच्यं व्यर्थं सिनेति । उच्यते । मान्तत्वस्य यथा तकारोच्चारणस्य गौणेऽतित्वमित्यादौ चरितार्थत्वात् सिलोपात्परत्वात्त्यदादेरित्यत्वं तत आऽम्स्भावित्यात्वम् त इति तकारस्य सत्वं च स्यात् । अतः सिनेत्युक्तम् ॥ इह तदन्तविधिरपि इष्टोऽस्ति । परमत्वम् । परमाहम् । गौणत्वे तु त्वां मां युवामावां युष्मान् अस्मान् वाऽतिक्रान्त इत्यत्रापि अतित्वमत्यहमित्येव । इह युष्मदस्मदोः ष्णान्तसंख्यावाचिनां चालिङ्गत्वमेव । ' अलिङ्गे युष्मदस्मदी' इत्युक्तत्वात् । अत एव त्रिषु लिङ्गेष्वेषां समान रूपम् । लिङ्गनिमित्तमीबादिकमनयो
लिंगत्वात् । त्वं ब्राह्मणः। अहं ब्राह्मणः । त्वं ब्राह्मणी । अहं ब्राह्मणी । त्वं ब्राह्मणकुलम् । अहं ब्राह्मणकुलमिति ॥
Page #175
--------------------------------------------------------------------------
________________
[ युष्मदस्मत्प्रक्रिया ] टीकाद्वयोपेता।
(१५९) (तत्त्वदी० )-त्वमहं सिनेति ॥ त्वम् अहं सिनेति च्छेदः। सिनेति सहयोगे तृतीया। स्वमहं साविति तु नोक्तम् । त इति सकारस्य सौ परेऽनिवार्यत्वात् । तकारोच्चारणस्य तु न सामर्थ्य तस्यातित्वमिति गौणे चरितार्थत्वात् । अत्राहुः । अत्र सावित्युक्ते स्त्रियां त्यदाद्यत्वे परत्वादाम सावित्यात्वं बाधित्वा आप्स्यादिति तन्निरासायेति । अत्रेदमवधेयम् । युष्मदस्मदोरलिगत्वात्स्त्रीत्वाभावादेवापो निवृत्तेस्तनिवृत्त्यर्थत्वस्य व्यर्थत्वात् । अथ लिङ्गयोगोऽस्ति युष्मदस्मदोरिति ब्रूषे तर्हि अस्मिन् ग्रन्थे युष्मदस्मदोः ष्णान्तसंख्यावाचिनां चालिङ्गत्वमेव स्वीकृतमिति स्वोक्त्या विरोधः । तयोश्च वाच्यलिङ्गत्वात्रिष्वपि लिङ्गेषु समानरूपमिति वदता वृत्तिकृताऽपि महानेव विरोधः । चवाच्यलिङ्गत्वादित्येकं पदम् । चस्य वाच्यं लिङ्गमिव लिङ्ग ययोस्ते तयोर्भावस्तत्त्वादव्ययवदलिङ्गत्वादित्याद्यर्थ वर्णयद्भिश्च विरोध एवेत्युपेक्षितम् ॥ (युयावौद्विवचने) व्यर्थवाचिनोयुष्मदस्मदोर्युवावावादेशौ भवतो विभक्तौ।
(सुबोधिनी)-युवावौ द्विवचने ॥ द्वयोरों द्वयर्थस्तं वक्त इति द्वयर्थवाचिनौ तयोर्युष्मदस्मदोर्युवावी स्तः स्यादौ विभक्ती॥त्यदादेरित्यतः स्यादावित्यपकृष्यते। द्वौ वक्त इति द्विवचने कर्तरि युट् । किंच द्विवचने इति प्रत्ययविशेषणे कृतेऽपि युवावौ सिद्ध यतः तथापि युवामतिक्रान्तान् अतियुवानित्यादौ युवावयोरप्रसङ्गवारणाय प्रकृत्यविशेषणं कृतम् ॥
(तत्त्वदी)-गुवावौ द्विवचने इति॥इह त्यदादेष्टेरित्यतःस्यादावित्यपकृष्यते । वक्त इति वचने कतीरे युर । द्वयोरर्थयोर्दिवचने प्रथमान्तम् । तथा च द्विवचने युष्मदस्मदी इति हरदत्तादिमते तयोरित्यध्याहारक्लेशः । कर्मणि युडिति पक्ष द्विवचन इति सप्तम्यन्तं द्वित्वे इत्यर्थकं तद्वाचिनोरित्यर्थः । अत्राहुः ॥ द्वित्वे या स्यादिर्विभक्तिस्तस्यामित्यर्थ इति । अत्रेदं वक्तव्यम् । एवं सति युवामावां वाऽतिक्रान्तानतियुवानत्यावानित्यत्राव्याप्तिः द्वित्वाभिधायिस्याद्यभावात् ॥
(आमौ ) युष्मदस्मयां पर औराम् भवति ॥ युवाम् । आवाम् ॥
(सुबोधिनी)-आमौ ॥ आभ्यामौ आम् स्यात् ॥ अत्र योगविभागाभिप्रायण विपरीतनिर्देशो बोध्यः । विपरीतनिर्देश इत्येतदर्थ व्याख्यानान्तरं क्रियते । अत्र अ अम् औ इतिच्छेदः। अइति योगविभागः कर्तव्यः। लोपः अन्तः युष्मदस्मदोरिति पद
यं चानुवर्तनीयम् । युष्मदस्मदोरकारान्तादेशोऽकारात्परस्याकारस्य लोपश्च स्यादित्येको योगः। युष्मदस्मद्भ्यां पर औकारोऽम् स्यादिति द्वितीयः। औकारस्यामि कृते
आ मस्भावित्यात्वम्। यद्वा सवर्णदीर्घः। न चाभशसोरिति लोपः। अकारोच्चारणसामर्थ्यात् । इति लघुभाष्ये। युवाम् । आवाम् । तदन्ते परमयुवाम् । परमावाम् । गौणत्वे तु त्यदादेरित्यत्वं न भवति । संज्ञोपसर्जनयो त्वमित्युक्तत्वात् । किं तर्हि आमावित्यत्र योगविभागेन।अनयोरन्तस्याकारोऽतो लोपश्च ।औकारस्य अमि कृते आम्स्भावि त्यात्वम्॥अतित्वाम् । अतिमाम्। अतियुवाम् ।अत्यावाम्। अतियुष्माम्। अत्यस्माम्॥
Page #176
--------------------------------------------------------------------------
________________
( १६० )
सिद्धान्तचन्द्रिका |
[ युष्मदस्मत्प्रक्रिया ]
(तत्त्वदी ० ) - आमाविति ॥ आम् औ इति च्छेदः ॥ नन्वमेव क्रियतां किंवाऽऽविधानेनेति चेत् । अत्र माघवः । आ अम् औ इति च्छेदः । युष्मदस्मदोराकारान्तादेशः औकारस्याम् भवतीत्यर्थः । एवं युष्मयतेः क्विपि अल्लोपे औकारस्यामि युष्मामस्मामिति प्राप्नोति युषाम् असाम् इति चेष्यते एवं मस्यात्वे रूपसिद्धिरित्याह । अत्र रामाश्रमः । अम्मात्रविविधानेनैवेष्ट सिद्धेराकारो व्यर्थ इत्युक्त्वा स्वमतमुक्तवान् । अ अम् औ इति च्छेदः । अ इति योगो विभज्यते । अत्र लोपः अत् युष्मदस्मदोरित्येतत्सर्वमनुवर्तते । तथा च युष्मदस्मदोरका - रोऽन्तादेशः स्यात् । तस्य अतः परस्य लोपः स्यात् । द्वितीयस्य तु युष्मदस्मद्भयां पर औ अम् भवति ।। आमस्भावित्यात्वम् । 'सवर्णे दीर्घः' इति वा दीर्घत्वम् । अम्शसोरस्येति तु न अकारोच्चारणासामर्थ्यादिति । अत्रेदमवधेयम् । अ इति छित्वा योभविभागं लोपाद्यनुवृत्तिं च कृत्वा युवामाकामिति रूपं साध्यम् । तत्राधिकक्लेशः । कुत्र आम् औ युष्मदस्मद्भयां पर औकारोऽम् भवति सति तस्मिन् तयोरकारान्तादेश इति । अन्यत्र त्वाम्स्भावित्यनेनैवात्वम् । एवं चातिप्रसङ्गशंकाऽपि नेति अम्मात्रविधाने सुप्रसङ्गोद्भावननिराकरणार्थयत्नक्लेशोऽपि नेति विभाव्यं सूरिभिः। ( यूयं वयं जसा ) जसा सहितयोर्युष्मदस्मदोर्यूयं वयं भवतः ॥ यूयम्, वयम् ॥
( सुबोधिनी ) - यूयं वयं जसा तदन्ते परमयूयम् । परमवयम् । गौणत्वेऽतियूयम् । अतिवयम् ॥
( तत्त्वदी ० ) - यूयं वयं जसेति ॥ जसीति तु पूर्वोक्तयुक्तेर्न कृतं जसीत्यस्य प्रवृत्तेः ॥ ( त्वन्मदेकत्वे ) युष्मदस्मदोस्त्वन्मदौ भवत एकत्वे गम्यमाने ॥ (सुबोधिनी) - रवन्मदेकत्वे ॥ एकत्वे गम्ये । एकस्य भावः एकत्वं तस्मिन् गम्यमाने ज्ञायमाने सति युष्मदस्मदोस्त्वन्मदावादेशौ स्तः । स्यादावित्यत्र न संबध्यते । तेन तव पुत्र इति त्वत्पुत्रः । तवापत्यमिति त्वादः । त्वं पुत्रो यस्य सः त्वपुत्रः । इत्यादौ विभक्त्यभावेऽपि त्वन्मदौ भवतः । न चान्तर्वर्तिनीं विभक्तिमाश्रित्याप्येतौ स्यातामिति वाच्यं युवयोः पुत्रः इति युष्मत्पुत्र इत्यादौ युवावयोरपि प्रसङ्गात् । लुकि न तन्निमित्तमिति निषेधाच्च । दान्तादेशावेतौ । तेन त्वादयति । मादयति । त्वदीयम् । मदीयमित्यादिरूपसिद्धिः सूत्रे वाडवसाने इति पाक्षिकतकारे कृते अमेजमा वेति मत्वं क्वचिज्जवस्यापि नमो ज्ञाप्यते तेनेति वा बोध्यम् । सिङेङस्सूक्तवक्ष्यमाणा विधयस्त्वन्मदौ बाधन्ते परत्वात् । तदन्ते । परमत्वाम् । परममाम् ॥ गौणत्वे तु अतित्वाम् । अतिमाम् ॥
( तवदी ० ) - त्वन्मदैकत्वे ॥ त्वद् मद् एकत्वे इति च्छेदः । ञमे जमा वेत्यत्र वाशब्दस्य व्यवस्थितत्वात्क्वचिज्झसानामपि मा भवन्तीति मत्वम् । तेन त्वादयतीत्यादि सिद्धम् । तव पुत्र
Page #177
--------------------------------------------------------------------------
________________
[ युष्मदस्मत्प्रक्रिया ]
टीकाद्वयोपेता ।
( १६१ )
स्त्वत्पुत्र इत्यादौ भवत्येव एकत्वाभिधानस्य निमित्तस्य सत्त्वात् । अत्राहुः । युवयोः पुत्रः युष्मत्पुत्र इत्यत्र स्याद्यभावात् कथमिति न वाच्यम् ॥ धातोरित्यन्त्रासंभवात्स्याद्यधिकारस्त्यक्तः सोsपि न संबध्यते । अत एव त्यदादेष्टेरः स्यादावित्यत्र पुनः स्यादिग्रहणं कृतमिति । अत्रेद वक्तव्यम् । ‘वन्मदेकत्वे’ ‘युवावौ द्विवचने' इत्यनयोर्द्वयोरपि नुधातोस्त्यदादेष्टे रित्येतत्सूत्रद्वयमध्यस्थताऽविशेषेण कथमेकत्र स्यादिसंबन्धोऽपरत्र नेति व्याख्यानं संगच्छते विनिगमनाविरहात् । किंतु द्वित्व इति वक्तव्ये द्विवचनग्रहणसामर्थ्यादत्र स्यादियोग इति समाधेयम् ॥
(asit) युष्मदस्मदोष्टेरात्वं भवति अमि सकारे भिसि च परे ॥ त्वाम् । माम् । युवाम् । आवाम् । त्यदाद्यत्वे शसीति दीर्घः ॥
( सुबोधिनी ) - आम्स्भौ ॥ आ अम् इति च्छेदः । युष्मदस्मदोष्टेरात्वं स्यादमि सकारे भिसि च । अम् च स च भिश्च तेषां समाहारोऽस्मि तस्मिन् । आगमजस्यानित्यत्वान्न नुम्भावः । भीत्येकदेशद्वारा समुदायानुकरणम् । अत्र माधव आह । टोरेति नानुवर्तनीयम् प्रयोजनाभावात् । षष्ठीनिर्दिष्टत्वादन्त्यस्यात्वे सवर्णदीर्घे च त्वां मामिति रूपसिद्धेः । युष्मदस्मदोर्म्यन्तयोः क्विपि युष्म् अस्मिति रूपम् आभ्याममि शसि च युपाम् असाम् युषान् असानित्यन्त्यस्य मकारस्यात्वे सिध्यति । अन्यथा न सत्यम् । अतियुष्माभ्यामित्यादावात्वं केन भवति गौणत्वे त्यदाद्यत्वाभावात् । उच्यते । आमावित्यत्र योगविभागेनात्वे कृते रूपसिद्धिरिति । तदा युष्मास्मोरपि योगविभागेनात्वे कृते पश्चारात्वे चामि शसि च युषाम् असाम् युषान् असानिति सिद्धयत्येव किं माधवोत्येति ॥
( तत्त्वदी ० ) - आम्स्भाविति || आ अमस्भाविति च्छेदः । नन्वतियुष्माभ्याम् अतियुष्मान् अत्रात्वं केन गौणत्वे त्यदाद्यत्वाभावात् इति चेत्सत्यम् । केचिदामावित्यत्र योगविभागेन परत्वादाऽम्स्भावित्यविभक्तिनिर्देशेन सात्पूर्वः परोवालुप्तनिर्दिष्टोनकारान्तस्तस्मिन्परेऽप्यात्वम् । अत्र षष्ठीदर्शनादन्तादेशः । टेरित्यवृत्तिस्तु प्रयोजनाभावात् युष्मदस्मदोर्युवामावामित्यसिद्धेश्वोपेक्षितम् ॥
(शसो नो वक्तव्यः ) युष्मान् । अस्मान् | त्वन्मदादेशे कृते ॥ ( सुबोधिनी ) - शसो नो वक्तव्यः ॥ सो नः पुंस इत्यत्र सो न इति योगविभागेनायमर्थो लभ्यते इत्यर्थः ॥
( ए टायोः ) युष्मदस्मदोष्टेरेत्वं भवति टाङयोः ॥ त्वया । मया । युवाभ्याम् । आवाभ्याम् । युष्माभिः । अस्माभिः ॥
(सुबोधिनी) - एटाडयोः ॥ अत्र टेरित्यनुवृत्तं अनयोष्टेरेत्वं स्यात्।टाश्च ङिश्च तयोः परतः । इदन्तत्वात् ङे: पूर्वनिपाते प्राप्ते तस्यानित्यत्वज्ञापनार्थं परनियातः । किंच परत्वात्त्यदादेरित्यत्वे प्राप्तेऽपि आदौ ए टाङोरित्येत्वप्रवृत्तिरेव न्याय्या कृताकृतप्रसङ्गित्वेन तस्य नित्यत्वात् । रेन्वे कृले अयादेशे च त्वया मयेति । अत्र हि
१३
Page #178
--------------------------------------------------------------------------
________________
( १६२ )
सिद्धान्तचन्द्रिका |
[ युष्मदस्मत्प्रक्रिया ]
युष्मदस्मदोर्यन्तयोः क्विपि युष्म् अस्म इति टाडिओस्सु परतः युष्मा । अस्मा । युष्म । अस्मि । युष्मोः । अस्मोरिति रूपाणि । तत्सिद्धयर्थं व्याख्यानान्तरं क्रियते । अत्रैकारात् परो यवयोर्वसे हकारे चेत्यनेन लुप्ता यकारो ज्ञातव्यः । तेनायमर्थः । अदन्तयोरनयोरेत्वं हसान्तयोर्यत्वं च न भवति । ए टाङचोरिति टाङिओ - सां लुप्तसप्तमीको निर्देशः । एषु परत इति ॥
(तत्त्वदी ० ) - ए टाङचोरिति ॥ अत्र टेरित्यनुवर्तते । अन्त्यविधौ रूपासिद्धेः । नित्यत्वात्प्रतिपदोक्तत्वाच्चादावेत्वप्रसक्तेस्त्यदाद्यभावात् । अत्राहुः ॥ ननु युष्मदस्मदोर्म्यन्तयोः किपि युष्म् आ अस्म् आ इति स्थिते टेरेत्वे कृते युष्मया अस्मया इति प्राप्नोति युष्मा अस्मा इति चेष्यते । सत्यम् । एकारोऽप्यनेन विधीयते । लक्ष्यानुसाराच्च व्यवस्था । अत एत्वं ह्रस्वस्य यत्वं च न यवयोर्वसे लोप इत्यनेनैव ज्ञापितवचनेन लुप्तोऽत्र य इति । अत्रेदं तत् म् । अत्रापि टेन तिर्न कर्तव्या षष्ठ्यन्तादेश एव । स च त्यदाद्यत्वे कृते एव परत्वात् । नित्यत्वं तु समानमुभयारपि । तथा च युष्मदस्मदोर्मस्यैत्वे अयादेशे वोर्लोपश्चत्यत्र वा इत्यस्य व्यवस्थितत्वात् य्वोः सबन्धिनोऽवर्णस्य क्वचिल्लोप इत्यलोपे रूपसिद्धिः । एवं युष्मास्मेति सिद्धयर्थे ज्ञापितवचनेन लुप्तयकारनिर्देशक्लेशो नोचितः । किंच अत एवं हसस्य यत्वमिति व्याख्याने एकस्मिन्नेव प्रयोगे दस्य यत्वं मस्यैत्वं च केन वार्यम् । त्यदाद्यत्वेनेति केचित् । नित्यत्वात्प्रतिपदोक्तत्वाच्चादावेव प्रवृत्तेस्त्यदाद्यत्वाभाव इति स्वोक्त्या विरोधात् । किंच लोपेन वचनं ज्ञाप्यते । ज्ञापितेन वचनेन लोप इत्यन्योन्याश्रयोऽपि । किंच अत एत्वमिति कथं त्यदाद्यत्वाभावे टेरत्वे अदसूशब्दस्यैत्वम् । किंच एत्वं टेर्यत्वमन्त्यस्येत्यत्र विनिगमनाविरहः । टाङचोरित्यत्र टकारङकारौ तु स्पष्टप्रतिपत्तये कृताविति नान्यद्बहु जल्पितम् ॥
( तुभ्यं मह्यं ङया ) ङेसहितयोर्युष्मदस्मदोस्तुभ्यं मह्यमेतौ भवतः ॥ तुभ्यम् । मह्यम् ॥
( सुबोधिनी ) - तुभ्यं मह्यं ङया ॥ तदन्ते परमतुभ्यम् । परममह्यम् । गौणत्वे तु अतितुभ्यम् । अतिमह्यम् ॥
( तत्त्वदी ० ) - तुभ्यं मह्यं ङयेति ॥ तृतीया तु पूर्ववत् । अन्यथा डेत्यदाद्यत्वे तुभ्यैइति स्यात् ॥ ( भ्यस् श्भ्यम् ) युष्मदस्मद्भयां परो भ्यस् भ्यं भवति ॥ शकारो भकारादित्वव्यावृत्त्यर्थः। तेनात्वैत्वे न भवतः । युष्मभ्यम् । अस्मभ्यम् ॥
I
( सुबोधिनी ) - भ्यस् इभ्यम् ॥ अत्र भ्यस् चतुर्थीच्हुवचनम् | आभ्यां भ्यस् इभ्यं स्यात् ॥ शकारो न सर्वादेशार्थः भ्यमो गुर्वादेशत्वात् तर्हि किमर्थः भकारादिववारणार्थः ॥ सति शकारे भकारस्यादित्वाभावात् ॥ भादिनिमित्तम् एस्भीत्पेत्वम् अद्भीत्यात्वं च न । आदेर्भाव आदित्वं भकारस्यादित्वं भकारादित्वं भकारादित्वस्य व्यावृत्तिर्निषेधः भकारादित्वव्यावृत्तिः भकारादित्त्वव्यावृत्तिरर्थः प्रयोजनं यस्य सः ॥
Page #179
--------------------------------------------------------------------------
________________
[ युष्मदस्मत्प्रक्रिया ] टीकाद्वयोपेता ।
(१६३) (तत्त्वदी०)-भ्यस् इभ्यमिति ॥ भ्यस इभ्यमिति च्छेदः। नन्वत्र शकारो न श्रवणार्थः। युष्मभ्यमित्यत्राश्रुतेः । सर्वादेशार्थोऽपि न, भ्यमोऽनेकाक्षरादेशत्वादेव तत्सिद्धेरित्याशयेनाहशकार इत्यादि ॥ सर्वैत्वादि व्यावृत्त्यर्थं कृतस्तद्व्यावृत्त्यनन्तरं नोपादीयते । जलानयनानन्तरं जलार्थघटवत् ॥ चतुर्थीबहुवचनमेवात्र भ्यस्। पञ्चम्यास्तु न, ङसिसाहचर्यात्तस्य तत्रैव ग्रहणात्। __ (उसिभ्यसोः श्तुः) ङसिसाहचर्यात्पञ्चम्या यिस् गृह्यते । त्वत् । मत् । युवान्याम् । आवाश्याम् । युष्मत् । अस्मत् । __ (सुबोधिनी)-ङसिभ्यसोःश्तुः॥ युष्मदस्मद्भ्यां परयोङसिभ्यसोः स्तुरादेशः स्यात् ॥ शित्त्वात्सर्वादेशः । उकार उच्चारणार्थः ॥ अत्र ङसिसाहचर्यात्पञ्चम्या एव भ्यस् गृह्यते । किंच अत्र माधवः । ङसिभ्यसः अः इतुरिति पदच्छेदः यः। ततश्च युष्मदस्मद्भयां उसिभ्यतोः इतुर्भवति युष्मदस्मदोरन्त्यस्या ॥.५। जति तेन ञ्यन्तयोर्युष्मास्मोर्युषत् असत् । अयमेवाकारो भ्यम् इभ्यम् सामाकमित्यत्राप्यनुवर्तते । तेन युषभ्यम् । असभ्यम् । युषाकम् । असाकमिति मिद्धयतीति वदति ॥
आमावित्यत्र योगविभागेनात्वे युषदसदित्यादि सिद्धयत्येव किं तत्प्रयासेन । __ (तत्त्वदी० )-ङसिभ्यसोः तुरिति ॥ शकारः सर्वादेशार्थः । उकार उच्चारणार्थः । अत्र उसिभ्यसः अः स्तुरिति च्छदादकारोऽन्तादेशोऽनयोरिति व्याख्यानात युष्मास्मोर्युषदसदिति सिद्धयति ॥
( तवमम ङमा) ङसा सहितयोर्युष्मदस्मदोस्तवममौ भवतः ॥ तव । मम । युवयोः । आवयोः । सुडामः ॥
(सुबोधिनी )--तवमम ङसा ॥ तदन्ते परमतव । परममम ॥ गौणत्वे अतितव । अतिप्रम (तत्त्वदी० )-तवमम ङसेति ॥ तृतीया पूर्ववत् ॥
(सामाकम् ) युष्मदस्मद्भयां परः सामाकं भवति ॥ युष्माकम् । अस्माकम् ॥ त्वयि । मयि । युवयोः । आवयोः । युष्मासु । अस्मासु ॥ "समस्यमाने द्येकत्ववाचिनी युष्मदस्मदी ॥ समासार्थोऽन्यसङ्ख्यश्चेद्युवावौ त्वन्मदावपि ॥ १ ॥ सिजस्ङे ङस्सु परत आदेशाः स्युः सदैव ते । त्वाही यूयवयौ तुल्यमह्यौ तवममावपि ॥ २ ॥ एते परत्वाद्वाधन्ते युवावौ विषये स्वके । त्वन्मदावपि बाधन्ते पूर्ववद्विषये स्वतः ॥ ३॥ येकसंख्यः समासार्थो बह्वर्थे युष्मदस्मदी । तयोरद्दयेकतार्थत्वायुवावौ त्वन्मदौ च न ॥ ४ ॥” त्वां मां वाऽतिक्रान्त इति विग्रहे अतित्वम् । अत्यहम् ॥ गौण
Page #180
--------------------------------------------------------------------------
________________
WETTELIERITIS
(१६४) सिद्धान्तचन्द्रिका। [युष्मदस्मत्प्रक्रिया ] त्वे युष्मदस्मदोस्त्यदायत्वं न भवति । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् । अतिमाम् । त्वन्मदेकत्वे । आऽम्भौ । अतित्वाम् । अतिमाम् । अतित्वान् । अतिमान् । अतित्वया । अतिमया । अतित्वाभ्याम् । अतिमान्याम् । अतित्वाभिः । अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमान्याम् । अतित्वायम् । अतिमायम् । अतित्वत् । अतिमत् । अतितव । अतिमम । अतित्वयोः। अतिमयोः। अतित्वाकम् । अतिमाकम् । अतित्वयि । अतिमयि । अतित्वासु । अतिमासु ॥ युवामावां वाऽतिक्रान्त इति विग्रहे । सिजस्ङ. ङस्सु प्राग्वत् । अन्यत्र युवावो । अतित्वम् । अत्यहम् । अतियुवाम् । अत्यावाम् । अतियूयम् । अतिवयम् । अतियुवाम् । अत्यावाम् । अतियुवान् । आत्यावान् । अतियुवया । आत्यावया। अतितुत्यम् । अतिमह्यम् । अतियुवाश्याम् । अत्यावाभ्याम् । अतियुवायम् । अत्यावश्यम् । अतियुवत् । अत्यावत् । अतियुवाभ्याम् । अत्यावाश्याम् । अतियुवत् । अत्यावत् । अतितव । अतिमम । अतियुवयोः । अत्यावयोः । अतियुवाकम् । अत्यावाकम् । अतियुवयि । अत्यावयि । अतियुवासु । अत्यावासु।। युष्मानस्मान्वाऽतिक्रान्त इति विग्रहे। सिजस्डेङस्सु प्राग्वत् । अतित्वम् । अत्यहम् । अतियुष्माम् । अत्यस्माम् । अतियूयम् । अतिवयम् । अतियुष्माम् । अत्यस्माम् । अतियुष्माम् । अत्यस्माम् । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । अतियुष्मायाम् । अत्यस्मात्याम् । अतियुष्माभिः। अत्यस्माभिः । अतितुश्यम् । अतिमह्यम् । अतियुष्मत् । अत्यस्मत् । अतियुष्माभ्याम् । अत्यस्माभ्याम् । अतियुष्मत् । अत्यस्मत् । अतितव । अतिमम । अतियुष्माकम् । अत्यस्माकम् । अतियुष्मयि । अत्यस्मयि । अतियुष्मासु । अत्यस्मासु ॥
(सुबोधिनी )-सामाकम् ॥ अत्र तन्त्रैकशेषावृत्तिभिः सामिति द्वयं बोध्यम् । सकृदुच्चरितः शब्दोऽनेकार्थगमको भवतीति तन्त्रम् । सरूपाणामित्येकशेषः । विरुवारणमावृत्तिः। एकस्य सुटा सह आम् साम् । द्वितीयस्य तु आमा सह साम इत्यर्थः ।
Page #181
--------------------------------------------------------------------------
________________
[ युष्मदस्मत्प्रक्रिया ] टीकाद्वयोपेता। ( १६५) ततः सुदसहित आम् केवल आम् च आकम् युष्मदस्मदोरन्त्यस्याकारश्च भवतीत्यर्थः।। तेनातियुष्माकम् अत्यस्माकमित्यादि सिद्ध्यतीति लघुभाष्यकर्तुरपि प्रयासो व्यर्थ एवायोगविभागेनात्वे कृते सुडाम इति सुटोऽपि सर्वादिकार्यत्वाद्गौणेऽप्रवृत्तः।तन्त्रादिना सामित्यस्य द्विरुच्चारणात् केवलस्याप्याम् आकमि च विहिते रूपसिद्धेः॥ “समस्यमाने द्वयेकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसंख्यश्चेद्युवावौ त्वन्मदावपि ॥ १॥" 'युवावौ द्विवचने' 'त्वन्मदेकत्वे' इति सत्रव्ये द्विवचनैकत्वशब्दो प्रकृत्यर्थपरौ न तु प्रत्ययपराविति व्याख्यातम् । तत्फलं जातिलिंगव्यक्तिसंख्याकारकात्यकः पञ्चको नामार्य इति पक्षाभिप्रायेण दर्शयति । चेद्यदि युष्मच्चास्मञ्च युष्मदस्मदी शब्दरूपे । समस्यते इति समस्यमाने समासविषयीक्रियमाणे । द्वौ च एकश्च दयेकौ । द्वयेकयार्भावः दयेकत्वं वक्त इति इयेकत्ववाचिनी स्तः। समासस्यार्थः समासार्थः विग्रहः । अन्यसंख्योऽन्यस्य पदार्थस्य संख्या यस्मिन्सोऽन्यसंख्यो युष्मदस्मदर्थगतसंख्येतरसंख्यायुक्तो भवतीत्यर्थः। तदा युष्मदस्मदोः स्थाने युवावौ त्वन्मदावप्यादेशो भवतः। द्विवचनैकत्वयोः प्रत्ययविशेषणत्वे तु न स्यातामित्यव्याप्तिः स्यादिति भावः॥१॥ “सिजसडेङस्सु परत आदेशाः स्युः सदैव ते । त्वाही यूय: वयो तुभ्यमह्यो तवममावपि ॥ २॥" नन्वेंव सिजस्डेङस्स्वपि युष्मदस्मदोर्यर्थवे युवावौ स्यातामेकार्थत्वे तु त्वन्मदावित्याशङ्कायामाह । एतासु विभक्तिषु परतो युष्मदस्मदोः स्थाने ते आदेशाः सदैव स्युः । के ते आदेशा इत्यत आह । त्वाही यूयवयावित्यादि ॥२॥ एते परत्वाद्धाधन्ते युवावो विषये स्वके । त्वन्मदावपि बाधन्ते पूर्ववद्विषये स्वतः॥ ३॥" एते त्वमहं यूयं वयं तुभ्यं मह्यं तव ममेत्यादेशाः स्वके विषये स्वे आत्मीये स्थाने युवावौ बाधन्ते । कस्मात्परत्वाद्विप्रतिषेधे परं कार्यमिति न्यायात् । उभयोस्तुल्यबलविरोधे सति सूत्रापेक्षया त्वमादयः परे त एव भवन्तीत्यर्थः । एते त्वमादयः । स्वतो विषये त्वन्मदावपि बाधन्ते पूर्ववत् उक्तन्यायेन । स्वत इत्यत्र सप्तम्यर्थे तस् ॥३॥" येकसंख्यः समासार्थी बहथं युष्मदस्मदी । तयोरद्वयेकतार्थत्वाावावौ त्वन्मदौ च न ॥ ४ ॥" यदा युष्मदस्मदी बह्वर्थे बहूनामों ययोस्ते बह्वर्थे भवतः। समासार्थों विग्रहः। द्वौ च एकश्च द्वयेको व्येकयोः संख्या यस्मिन् वयेकसंख्यो भवति । तदा युष्मदस्मदोः स्थाने युवावौ त्वन्मदावपि न स्तः । कस्मात् तयोर्युष्मदस्मदोः द्वौ च एकश्च दयेको द्वयेकयोर्भावः दयेकता द्वयेकताया अर्थः दयेकतार्थः दयेकतार्थस्य भावो दयेकतार्थत्वं न द्वयेकतार्थत्वमव्ये कतार्थत्वं तस्मात् दयेकतार्थत्वस्याभावात् ॥ ४॥ त्वां मां वाऽतिक्रान्त इति विग्रहे अपवादौ अतित्वम् अत्यहम् । त्वां मां वाऽतिक्रान्ताविति विग्रहे उत्सर्गत: त्वन्मदादेशे कृते गौणत्वेऽपि युष्मदस्मदोस्त्यदायत्वं भवति । आमावित्यत्र योगविभागेन यद्वयाख्यानान्तरं कृतं तस्यायं निष्कर्षोऽस्ति । गौणत्वेऽप्यनयोस्त्यदायत्वं
Page #182
--------------------------------------------------------------------------
________________
110 H
(१६६) सिद्धान्तचन्द्रिका। [युष्मदस्मत्प्रक्रिया ] भवतीत्यर्थः । इत्यनेनात्वे तल्लोपे औविभक्तेरमि च कृते सवर्णदीर्घः । आतत्वाम् । अतिमाम् । त्वां मां वाऽतिक्रान्ता इति विग्रहे अपवादौ अतियूयमातवयम् । एवमग्रेऽप्यूह्यम् ॥ १॥ अत्वे आम्स्भादित्यात्वे च अम्शसोरित्यल्लोपः । अतित्वाम् । अतिमाम् । शसि अत्वे कृते अम्शसोरित्यल्लोपः, शसीति दीर्घः, शसों न इति नत्वम् । अतित्वान् । अतिमान् ॥ २॥ अत्वे कृते एटाङयोरित्ययादेशे च ! अतित्वया। अतिमया। अत्वे अद्भीत्यात्वं च अतित्वाभ्याम् । अतिमाभ्याम् । आम्स्भावित्यात्वम् अतित्वाभिः। अतिमाभिः।३। अपवादो अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अत्वे इभ्यामि च अतित्वभ्यम् । अतिमभ्यम् । ४ । अत्वे इतुआदेशे च अतित्वत् । अतिमत् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वत् । अतिमत् । ५। अपवादौ अतितव । अतिमम । अत्वे । ओसीत्येत्वे च अतित्वयोः अतिमयोः। अत्वे सुडभावेऽपि प्रागुक्तरीत्या आकमि च अतित्वाकम्। अतिमाकम् । ६ । अत्वे कृते ए टाङयोरित्यत्वे अयादेशः अतित्वयि । अतिमयि। अतित्वयोः। अतिमयोः। अत्वे आत्वे च अतित्वासु। अतिमासु । ७। गुणीभूतयोयुष्मदस्मदोरेकार्थत्वे उदाहरणान्युक्त्वा संप्रति द्वयर्थवाचित्वे उदाहरति । युवामावां वा अतिक्रान्तः अतिक्रान्तौ अतिक्रान्ता वा इति विग्रहे अतित्वम् । अत्यहम् । अतियुवाम् । अत्यावाम् । अतियूयम् । अतिवयम् । १। अतियुवाम् । अत्यावाम् । अतियुवाम् । अत्यावाम् अतियुवान् अत्यावान् । २ । अतियुवया । अत्यावया । अतियुवाभ्याम् । अत्यावाभ्याम् । अतियुवाभिः । अत्यावाभिः। ३ । अतितुभ्यम् । आतिमह्यम् । अतियुवाभ्याम् । अत्यावाभ्याम् । अतियुवभ्यम् । अत्यावभ्यम् । ४। अतियुवत् । अत्यावत् । अतियुवाभ्याम्। अत्यावाभ्याम् । अतियुवत् । अत्यावत् । ५। अतितव । अतिमम । अतियुवयोः। अत्यावयोः। अतियुवाकम् । अत्यावाकम् । ६ । अतियुवयि। अत्यावयि । अतियुवयोः। अत्यावयोः। अतियुवासु । अत्यावासु । ७ । बबर्थयोस्तूदाहरति । युष्मानस्मान्वाऽतिक्रान्तः अतिक्रान्तौ अतिक्रान्ता वेति विग्रहे अतित्वम् । अत्यहम् । अतियुष्माम् । अत्यस्माम् । अतियूयम् । अतिवयम् । १ । अतियुष्माम् । अत्यस्माम् । अतियुष्मान् । अत्यस्मान् । २। अतियुष्मया । अत्यस्मया। अतियुष्माभ्याम् । अत्यस्माभ्याम् । अतियुष्माभिः । अत्यस्माभिः । ३ । अतितुभ्यम् । अतिमह्यम् । अतियुष्माभ्याम् । अत्यस्माभ्याम् । अतियुष्मभ्यम् । अत्यस्मभ्यम् । ४ । अतियुष्मत् । अत्यस्मत् । अतियुष्माभ्याम् । अत्यस्माभ्याम्। अतियुष्मत् । अत्यस्मत् । ५। अतितव । अतिमम । अतियवयोः। अत्यावयोः। अतियष्माकम् । अत्यस्माकम् । ६ । अतियुष्माये । अत्यस्मायि । अतियुष्मयोः । अत्यस्मयोः । अतियुष्मासु । अत्यस्मासु । ७ । पुनाणे रूपान्तरम् । युष्मानस्मान्वा करोतीति औ युष्मयति । अस्मयति । ततः क्किए । रिति जिलोपे कृते युष्म
Page #183
--------------------------------------------------------------------------
________________
[ युष्मदस्मत्प्रक्रिया ] टीकाद्वयोपेता।
(१६७) अस्मिति जातम् । स्यादिषु युष्मस्मोरपि त्वमहमादय आदेशा भवन्ति । एकदेशविकृतमनन्यवादित्युक्तत्वात्। त्वम् अहम् । औविभक्त्यादिषु गौणत्वेऽपि टाङयोस्विभक्तीवर्जयित्वा सर्वत्रात्वे कृते आत्वम् । युषाम् । असाम् । यूयम् । वयम् । १ । युषाम् । असाम् । युषान् । असान् । २ । ए टाङयोरित्यस्य व्याख्या नान्तरेणान्तस्य यत्वम् युष्या । अस्या। युषाभ्याम् । असाभ्याम् । युषाभः। असाभिः ।३। तुभ्यम्। मह्यम् । युषाभ्याम् । असाभ्याम् । युषभ्यम् । असभ्यम् । ४ । युषत् । असत् । युषाभ्याम् । असाभ्याम् । युषत् । असत् ॥५॥ तव । मम । अन्तस्य यत्वे युष्योः। अस्योः। युषाकम् । असाकम ॥ ६ ॥ यत्वे युष्यि। अस्थि । युष्योः । अस्योः । युषासु । असासु ॥ _(तत्त्वदी०)-सामाकमिति साम् आकम् इति छेदः तेन युष्मदस्मद्भयां परः साम् आकम् भवति ॥ अनयोश्वाकारोऽन्तादेशः ॥ अत्राहुः। नन्वतियुष्माकमित्यादौ गौणत्वात्त्यदाद्यत्वाभावादनवर्णान्तत्वात्सुडभावात्कथं सामिति चेत्सत्यम् । तंत्रादिना सामिति द्वयं बोध्यम् । एकस्य तु सुटा सहाम् सामिति । द्वितीयस्य तु आमा सह साम् । ततश्च सुटसहित आम् केवलश्च आकं भवति तयोश्चाकार इत्यर्थों भवतीति । अत्रेदमवधेयम् । गौणत्वात्त्यदाद्यत्वाभावादनवर्णान्तत्वात्सुडभावादिति किमर्थ गौणत्वात् सुडभावादित्यस्यैव वक्तुमुचितत्वात् सुटोऽपि सर्वादिकायत्वात् गौणत्वेऽप्रवृत्तेः । अन्यथा आकारान्तादेशेनावर्णान्तत्वात् तन्त्रादिप्रयासोऽनर्थकः संपघेत ससुनिर्देशस्तु आकम आदेशस्य स्थानिवद्भावेनामत्वमाश्रित्य पश्चादपि सुट् स्यादिति तन्निवृत्तये ॥ अयमेवात्र ग्रन्थे स्थानिवद्भावज्ञापकः ॥ त्वन्मदेकत्वे' 'युवावौ द्विवचने' इति सूत्रद्वयेऽपि एकत्वद्विवचनशब्दौ न प्रत्ययपरौ किंत्वर्थपराविति फलं दर्शयति स्वार्थद्रव्यकारकलिङ्गसंख्येत्यादिपञ्चकं नामार्थ इति पक्षे संख्याया अपि नामार्थत्वादिति भावः । त्रिकपक्षे तु 'धेकार्थवाचिनी' इति पाठयम् । संख्याया विभक्त्यर्थत्वेऽपि संख्येयस्य नामत्वानपायात् । अन्यसंख्यश्चेत् युष्मदस्मदर्थगतसंख्येतरसंख्यायुक्तश्वेदित्यर्थः। समस्यमाने युष्मदस्मदी व्यकत्ववाचिनी चेत् समासार्थः अन्यसंख्यश्चेत् तदा युवावौ त्वन्मदावपि भवत इत्यर्थः ॥ तयोरिति ॥ युष्मदस्मदोरद्वयेकतार्थत्वात् द्वित्वार्थत्वैकार्थत्वाभावादित्यर्थः । संकलितार्थस्त्वयम् । यदा वाक्ये युष्मदस्मदोरेकत्वं तदा त्वन्मदादेशौ भवत एव । त्वन्मदेकत्व इति सूत्रे युष्मदस्मदोरेकत्वाभिधानस्योक्तत्वात् । यदा वाक्ये युष्मदस्मदी द्वित्वे तदा युवावौ भवत एव । युष्मदस्मदोद्वित्वाभिधायित्वात् । यदा तु वाक्ये युष्मदस्मदी बह्वथै समासार्थो द्वित्ववाची एकत्ववाची च तदा युष्मदस्मदोर्द्वित्वार्थत्वैकार्थत्वाभावान्न युवावौ न वा त्वन्मदौ ॥
(युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयाभिस्तेमे वानौ वस्नसौ) युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयासहितयोर्यथासंख्येनामी आदेशा भवन्ति ॥ तत्रैकवचनेन सह तमे । द्विवचनेन वांनौ । बहुवचनेन वस्नसौ ॥
Page #184
--------------------------------------------------------------------------
________________
( १६८ )
सिद्धान्तचन्द्रिका | [ युष्मदस्मत्प्रक्रिया ]
(सुबोधिनी ) - युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयाभिस्तेमे वानौ वस्त्रसौ ! षष्ठी च चतुर्थी च द्वितीया च षष्ठीचतुर्थीद्वितीयास्ताभिः । अल्पस्वरत्वात् षष्ठीत्यस्य पूर्वनिपातः । सहयोगे तृतीया तया साहित्यं बोध्यते । तत् किं साहित्यम् । श्रूयमाणविभक्तिकयोरेवादेशा भवन्ति न लुप्तविभक्तिकयोरिति । तेन समासे युष्माकं पुत्र इति युष्मत्पुत्रो ब्रवीति । अस्माकं पुत्र इत्यस्मत्पुत्रो ब्रवीतीत्यत्र प्रत्ययलक्षणेन षष्ठ्यन्तयोर्युष्मदस्मदोर्वस्नसौ न ॥
(Raदी ० ) - युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयाभिस्तेमे वान्नौ वसूनसौ इति ॥ अत्र व्याख्यानादेकार्थस्यैकार्थी तेमयौ इति ॥ यथाक्रमं तु न त्वर्थतो नापि शब्दतः । अर्थतस्त्वेषां नवत्वम् । आदेशानां त्रित्वमिति वैषम्यम् । शब्दस्तु षष्ठयास्तेमे इत्यादिक्रमप्रसङ्गः स्यात्। द्वितीयास्विति त्यक्त्वा द्वितीयाभिरिति तृतीयोपादानं श्रूयमाणविभक्त्या साहित्यलाभार्थम् । लुप्ततया प्रत्ययलक्षणेन साहित्यासम्भवात् । तेनेति युष्मत्पुत्रो ब्रवीतीत्यादौ न । तृतीया तु सहयोगे । अल्पस्वरत्वात्षष्ठयाः पूर्वनिपातस्तदपेक्षया चतुर्थ्याः ॥
( त्वामामा ) अमा सहितयोर्युष्मदस्मदोस्त्वामा एतौ भवतः ॥ श्रीशस्त्वाऽवतु मापी दत्तात्ते मेsपि शर्म सः ॥ स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥ १ ॥ सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः ॥ सोऽव्यादो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ २ ॥ एकवाक्ये युष्मदस्मदादेशा वक्तव्याः । एकाख्यातं वाक्यम् । तेनेह न । ओदनं पच तव भविष्यति । इह तु स्यादेव । शालीनामोदनं ते दास्यामि ॥
(सुबोधिनी ) - त्वामामा ॥ तेमयोरपवादोऽयम् । षष्ठीबहुवचनस्यामोऽत्र ग्रहणं न व्याख्यानात् । व्याख्यानतो विशेषप्रतिपत्तिनहि संदेहादलक्षणमिति भावः ॥ श्रीशस्त्वाऽवतु माऽपीह दत्तात् ते मेऽपि शर्म सः । स्वामी ते मेऽपि स हरिः पातु वामपि नौ विभुः ॥ १ ॥ मुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः । सोऽव्याद्वो नः शिवं वो नो दद्यात्सेव्योऽत्र वः स नः ॥ २ ॥ उक्तानादेशान् वचनक्रमेणोदाहरति । द्वितीयैकवचने यथा । श्रिय ईशः श्रीशो हरिरिह जगति त्वामपि मामपि अवतु रक्षतात् । चतुथ्यैकवचने यथा । सहरिस्ते तुभ्यमपि मे मह्यमपि शर्म सुखं दत्तात् । दानपात्रे चतुर्थी । षष्ठयेकवचने यथा । स हरिस्ते तव मे ममापि स्वामी वर्तते । स्वाम्यादियोगे इति षष्ठी । सप्तम्यविधानात् । द्वितीयाद्विवचने यथा । विभुर्विष्णुर्वी युवां नावपि आवामपि पातु रक्षतु । चतुर्थीद्विवचने यथा । ईशः शंभुव युवाभ्यां नौ आवाभ्यां सुखं ददातु । षष्ठीद्विवचने यथा । हरिव युवयोः नावपि आवयोरपि पाति रक्षतीति पतिः । द्वितीयाबहुवचने यथा । स हरिव युष्मान् नोऽस्मानव्यात् रक्षतु । चतुर्थी बहुवचने यथा । सवो
Page #185
--------------------------------------------------------------------------
________________
[ युष्मदस्मत्प्रक्रिया ] टीकाद्वयोपेता।
(१६९) युष्मभ्यं नोऽस्मभ्यं शिवं कल्याणं दद्यात् । षष्ठीबहुवचने यथा । स हरिवों युष्माकं नोऽस्माकमत्र लोके सेवितुमर्हः सेव्यः। ऋहसाध्याणिति कर्मणि घ्यण् । कृत्यानां कतरिवेति षष्ठी॥ एकवाक्ये युष्मदस्मदादेशावक्तव्याः। एकवाक्ये एकाख्यातेऽनयोः स्थाने उक्ता आदेशा भवंति । एकमाख्यातं यत्र तदिति बहुव्रीहिः। एकाख्यातं वाक्यमुच्यते ॥ ननु पश्य मृगो धावति इत्यादावेकवाक्यत्वव्यवहारो न स्यात् । सत्यम् । एकाख्यातमित्यत्राख्यातं विशेषसमर्पकं विवक्षितम् । ततश्च पश्य मृगो धावतीत्यत्राख्यातद्वये सत्यापे पश्यत्यस्यैव विशेषसमर्पकत्वान्नोक्तदोषः। तथा च वार्तिककार: आख्यातं सविशेषणं वाक्यमित्याह । त्वमोदनं पच तव भविष्यति । अत्र ते इत्या. दशो न वाक्यद्वयत्वात् । एकवाक्ये यथा । अहं ते तु तुभ्यमोदनं दास्यामि ॥
(तत्त्वदी०)-त्वामाऽमा इति ॥ त्वा मा अमा इति च्छेदः। तेमयोरपवादोऽयम् । आमस्तु न ग्रहणम् एकवचनान्तस्थानिनिर्देशात् ॥श्रीश इत्यादि॥अवनकर्मत्वात्कर्मणि द्वितीया त्या मेति ॥ ते मे दानपात्रत्वाच्चतुर्येकवचनं तुभ्यं मह्यमित्यस्य स्थाने ॥ स्वाम्यादियोगे षष्ठीति षष्ठयेकवचनं ते म तव ममेत्यर्थः॥ द्विवचनं दर्शयति । पातु वामपीति युवामावामित्यर्थः । कर्मत्वाद् द्वितीया ॥ सुखमिति ॥ वान्नौ युवाभ्यामावाभ्यामित्यर्थः । अत्रापि दानपात्रत्वाचतुर्थी । पतिरिति । वान्नौ युवयोरावयोरित्यर्थः । अत्रापि स्वाम्यादियोगे षष्ठीति षष्ठी ॥ बहुवचनं दर्शयति । सोऽव्याद्वो न इति ॥ वः युष्मान् नः अस्मान् स हरिः अव्यात् रक्ष्यादित्यर्थः॥ शिवं वः नः युष्मभ्यमस्मभ्यमित्यर्थः। सेव्योऽत्र वःस नः। युष्माकमस्माकमित्यर्थः। कृत्ययोगे षष्ठी ॥
एतेऽनन्वादेशे वा ) धाता ते तव भक्तोऽस्ति । अन्वादेशे नित्यम् । तस्मै ते नमः॥
(सुबोधिनी)-एतेऽनन्वादेशे वा वक्तव्याः॥ एते तेमयादय आदेशाः। युष्मदस्मदोः स्थानेऽनन्वादेशेऽर्थे एते आदेशा विकल्पेन भवन्ति ॥ अन्वादेशे नित्यम् । युष्मदस्मदोः स्थानेऽन्वादेशेऽर्थे एते आदेशा नित्यं स्युः ॥ अनन्वादेशेऽर्थे धाता ब्रह्मा ते भक्तस्तव भक्तोऽस्तीति वा ॥ अन्वादेशे तस्मै पूर्वोक्ताय ते तुभ्यं विष्णवे नमोऽस्तु ॥
(तत्त्वदी०)-अनन्वादेश इति ॥ युष्मदस्मदोरिति सूत्रे य्वौ वेत्यतो वेत्यनुवर्त्य तस्य व्यवस्थितत्वमाश्रित्य विकल्पः ॥ __(नादौ) वाक्यादौ पादादौ च वर्तमानयोर्युष्मदस्मदोनॆते ॥ त्वां पातु । वेदैरशेषैः संवेद्योऽस्मान् कृष्णः सर्वदाऽवतु ॥
Page #186
--------------------------------------------------------------------------
________________
(१७०) सिद्धान्तचन्द्रिका। [युष्मदस्मत्पक्रिया ]
(सुबोधिनी )-नादौ ॥ वाक्यादौ मा भूत् । यथा त्वां पातु । पादादावपि मा भूत् । यथा कृष्णोऽस्मान् सर्वदा सर्वस्मिन् कालेऽवतु पातु । कीदृशः। अशेषैः समस्तैर्वेदैः कृत्वा संवेद्यो ज्ञायमानः। संवेत्तुं योग्यः संवेद्यः । कर्मणि ध्यण ॥ _(तत्त्वदी०)-नादायिति ॥ आदित्वं च सत्यन्यस्मिन् यस्मात्पूर्व नास्तीति वचनात्स्वप्राग्वर्णान्तरशून्यत्वम् । सत्यन्यस्मिन्निति विशेषणरहितलक्षणमन्ये वदन्ति । त्वन्मदादीनां तु नाय निषेधः । मध्येऽपवादाः पूर्वान्विधीन् बाधन्ते नोत्तरानिति न्यायात् ॥ योगविभागसाम
•दनन्तरस्येति न्यायं बाधित्वा त्वामाऽमेत्यस्यैव न निषेधः । अन्यथा त्वामाऽमा नादावित्येकयोगमेवाकरिष्यत् ॥
(विशेष्यपूर्व संबोधनेतरपूर्व संबोधनं च हित्वाऽन्यस्मात्सबोधनात्परयो ते) ' देवास्मान् पाहि नृहरे विष्णोऽस्मान् रक्ष सर्वदा ।' विशेष्यपूर्वात्तु । 'हरे कृपालो नः पाहि सर्वदा रक्ष देव नः ॥"
(सुबोधिनी)-विशेष्यपूर्व संबोधनेतरपूर्व संबोधनं च हित्वाऽन्यस्मात्संबोधनात्परयो ते ॥ संबोधनात्परयोर्युष्मदस्मदोः स्थाने एते आदेशा न भवन्ति किं कृत्वा । विशेष्यं पूर्व यस्य तत् एतादृशं विशेषणात्मकं संबोधनं त्यक्त्वा । च पुनः संबोधनादितरत् पदं पूर्व यस्य तत् एतादृशं संबोधनं त्यक्त्वा । विशेष्यपूत् िसंबोधनेतरपूर्वाञ्च संबोधनात् परयोर्युष्मदस्मदोः स्थाने एते आदेशा भवन्तीत्यर्थः । हे देव त्वमस्मान् पाहि रक्षेत्यर्थः । हे नरसिंहावतार हे विष्णो त्वमस्मान् रक्ष पालयेत्यत्र संबोधनात्परस्यास्मानित्यस्य नसादेशो न जातः। विशेष्यपूर्वात्संबोधनात्तु स्युरेव । यथा । हे हरे कृपाऽस्यास्ति कृपालुस्तस्य संबोधनं हे कृपालो त्वं नोऽस्मान्पाहि । हरे इति विशेष्यं कृपालो इति विशेषणम् । संबोधनेतरपूर्वात्संबोधनात्तु यथा । हे देव त्वं नोऽस्मान् सर्वस्मिन्काले रक्षेत्यत्र देवेति संबोधनस्य सत्त्वेऽपि ततःप्राचीनं रक्षेत्याश्रित्यादेशः ।।
(तत्त्वदी०)-नेति योगविभागादन्यत्रापि नेत्याशयेनाह ॥ विशष्यपूर्वमित्यादि ।। विशेष्यं पूर्वं यस्मात् तद्विशेष्यपूर्वं संबोधनम् । संबोधनेतरपूर्वमिति । संबोधनादितरत्संबोधनेतरपूर्वं यस्य तद्व्यमपि हित्वा त्यक्त्वेत्यर्थः ॥
(चादिभिश्च ) च वा ह अह एव एभिर्योगे नैते । 'आवयोर्युवयोश्वेशो हरिर्मामेव रक्षतु ॥'
(सुबोधिनी)-चादिभिश्च ॥ चादिगणस्थाः पञ्चैव चादयो ग्राह्या न त्वधिका लक्ष्यानुरोधात् । सहयोगे तृतीया । तया साक्षात्संबन्धो गृह्यते न तु परंपरासंबन्धः। यत्र युष्मदस्मदर्थगतान्समुच्चयादीन् चादयो द्योतयन्ति तदा चादिभिः सहाथद्वारा
Page #187
--------------------------------------------------------------------------
________________
[ युष्मदस्मत्प्रक्रिया] टीकाद्वयोपेता।
(१७१) युष्मदस्मदोः साक्षात्संपन्धस्तत्राय निषेध इत्यर्थः। यथा । आवयोईयोर्युवयोईयोश्च समुच्चये हरिरीशः स्वामीत्यर्थः ॥वा विकल्पे । ह प्रसिद्धौ। अह पूजायाम् । एवावधारणे। परंपरासंबन्धे तु स्युरेव । यथा । हरो हरिश्च मे स्वामीत्यत्र चशब्दो हरहरिगतं समुच्चयं वक्ति । हरिहराभ्यां सहास्मदः संबन्धो न तु समुच्चयेन । किन्तु परंपरासंबन्धोऽस्ति । लक्षणं तु समुच्चीयमानादर्थान्तरसंबन्धः परंपरासंबन्धः ॥
(तत्त्वदी०)-चादिभिरिति ॥ लक्ष्यानुरोधाचादिपञ्चकस्यैव योगे नान्यस्येत्यर्थः । साक्षायोगे एवायं निषेधः। परंपरासंबन्धे तु आदेशाः स्युरेव । 'हरो हरिश्च मे स्वामी' इत्यादि ।।
( अचाक्षुषज्ञानार्थधातुभिर्योंगे च न ) चेतसा त्वां समीक्षते । भक्तस्तव रूपं ध्यायति । चाक्षुषज्ञाने तु भक्तस्त्वा पश्यति चक्षुषा ।
(सुबोधिनी )-अचाक्षुषज्ञानार्थधातुभियोगे च न ॥ अचाक्षुषज्ञानमर्थो येषां ते अचाक्षुषज्ञानार्थाः । अचाक्षुषज्ञानार्थाश्च ते धातवश्च अचाक्षुषज्ञानार्थधातवस्तैोंगे नैते आदेशा भवन्ति ॥ यथा स भक्तः चेतसा चित्तसंबन्धिध्यानेन त्वां समीक्षते पश्यतीत्यर्थः । परंपरासंबन्धेऽपि निषेधः। यथा भक्तस्तव रूपं ध्यायति ॥
(विद्यमानपूर्वात्प्रथमान्तात्परयोरन्वादेशेऽप्येत वा) 'भक्तस्त्वमप्यहं तेन हरिस्त्वां त्रायते स माम्' त्वा मेति वा ॥ इति युष्मदस्मत्प्रक्रिया ॥ __ (सुबोधिनी)-विद्यमानपूर्वात्प्रथमान्तात्परयोरन्वादेशेऽप्येते वा॥ विद्यमानं पदं पूर्व यस्य स विद्यमानपूर्वस्तस्मात् प्रथमान्तात्परयोर्युष्मदस्मदोरन्वादेशे अर्थेऽपि वाऽऽदेशा भवन्ति । अन्वादेशे नित्यमित्यविशेषोक्त्या नित्यत्वे प्राप्ते विकल्पार्थमिदं वचनम् । यथा त्वं भक्तोऽहमपि भक्तस्तेन हरिस्त्वां मांत्रायते पालयतीत्यर्थः॥ अत्र तेनेति पूर्व विद्यमानं पदं ततो हरिरिति प्रथमान्तं ततः परस्य युष्मच्छब्दस्य त्वादेशः। उत्तरत्र त्रायते इति विद्यमानं पदं ततः सः इति प्रथमान्तं ततः परस्यास्मच्छब्दस्य मादेशो बोध्यः ॥
इति सुबोधिन्यां युष्मदस्मत्प्रक्रिया ॥ (तत्त्वदी०)-भक्त इत्यादि ॥ अत्र केचित् । येन हरेस्त्वं भक्तस्तेनैव कारणेनाहमपि भक्त इति योज्यम् । यदि तेनेत्यनेन भक्तत्वं त्राणे हेतुर्निर्दिश्यते तदा सापेक्षत्वविधानत्वमेव तदिममितिवदन्वादेशो न स्यादिति तन्नेति दीक्षिताः । तथाहि । सापेक्षत्वविधानेऽन्वादेशत्वं नास्तीति तावदसङ्गतम् । आदेशो हि विधिः किंचिद्विधाय पश्चादितरविधिश्चान्वादेशः न तु निरपेक्षत्वगर्भः। अशब्दार्थत्वात् शास्त्रे तथा परिभाषितत्वाच्च । न च प्रयोगदर्शनादेव तथा कल्प्यत
Page #188
--------------------------------------------------------------------------
________________
(१७२)
सिद्धान्तचन्द्रिका। [अव्ययानि ] इति वाच्यम् । 'तदेनमुल्लङ्धितशासनं विविधेहि कीनाशनिकेतनातिथिम्' इत्यादौ सापेक्षत्वे ऽपि एनदादेशदर्शनात् । 'नक्तं भीरुश्यम्' इति तु न विधिः किं त्वनुवादः । अतस्तदिममिति न विरुध्यते । एवं स्थिते । येन त्वं भक्त इति यच्छब्दाध्याहारक्लेशो व्यर्थः । किन्तु तेन त्रायत इत्येव संबन्धः प्रक्रान्तार्थत्वाच्च न यच्छब्दापेक्षति ॥ तेनेति विद्यमानपदम् हरिरिति प्रथमान्तम् । ततः परस्यादेशः । तथा त्रायत इत्यस्मात्परः स इति प्रथमान्तम् । न च त्रायत इति भिन्नवाक्यस्थमिति भ्रमितव्यं स हरिस्त्वा मा त्रायत इति तन्त्रेणानकसंबन्धात् ॥
इति तत्त्वदीपिकायां युष्मदस्मत्प्रक्रिया ॥
अथाऽव्ययानि। ( चादिनिपातः) च । वा । ह । अह । एव । एवम् । नूनम्।पृथक् । शश्वत् । युगपत् । भूयस् । नह । हन्त । विना । नाना । स्वस्ति ।अस्ति। दोषा । नक्तम् । मृषा । मिथ्या । मिथस् । अथ । अथो । अहो। ह्यस् । श्वस् । उच्चैस् । शनैस् । ऋधक् । ऋते । आरात् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस् । अवस् । समया । निकषा । अद्धा। इछा । वत् । उपधा । सामि । सना । समत् । सनात् । तिरस् । अन्तरा । अन्तरेण । सहसा । अलम् । वषट् । क्षमा । विहायसा । मुधा । पुरा । मिथो । प्रायस् । मुहुन् । सार्द्धम् । साकम् । नमस् । हिरुक् । धिक् । मा । माङ् । अम् । आम् । नेत् । चेत् । क्वचित् । उञ् । यत् । सत्यम् । जातु । कम् । शम् । ज्योक् । रहसि । अभीक्ष्णम् । अनेहा । आ । आत् । न्वै । दै। रै। किम् । यत् । तत् । इति । हम् । हो। स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर्। यावत्।तावत् । स्वाहा । स्वधा । तथाहि । खलु । किल । सुष्ठु । दुष्ठु । आदह ।
(उपसर्गस्वरविभक्तिप्रतिरूपकाश्च ) अवदत्तम् । अहंयः । हेतौ। स्वयम् । उत । नञ् । स्वधा । स्म । अहम् । अस्मि । वै । शम्बटू । दिष्टया । अ। आ । इ । ई। उ । ऊ । क क । ल । ए। ऐ। ओ।
औ । पशु । शुकम् । यथाकथाच । पाट् । प्याट् । अङ्ग । हे । है । भोः। अये । य । विषु । रे । अरे । एकपदे । द्राक् । मछु । युत् ।
Page #189
--------------------------------------------------------------------------
________________
[अव्ययानि ] टीकाद्वयोपेता।
(१७३) आतः । श्रौषट् । वौषट् । इत्यादि । तत्रादिविभक्त्यर्थे निपात्यते ॥ तस्मिन्निति तत्र । अस्मिन्निति अत्र । यस्मिन्निति यत्र । कस्मिन्निति कुत्र । क । कुह । तेन प्रकारेण तथा । सर्वथा । कथम् । इत्थम् । अस्मादिति इतः। एतस्मादित्येततः। ततः। यतः। सर्वतः । कुतः। बहुतः। सार्वविभक्तिकस्तसित्येके ॥ आदितः । मध्यतः । अन्ततः । पूर्वस्मिन्निति पुरः । पुरस्तात् । अधः । अधस्तात् । उपरि । उपरिष्टात् । परस्मिन्निति परेण । दक्षिणन । दक्षिणा । दक्षिणतः । उत्तरतः । दक्षिणस्यां दिशि दूरे दक्षिणा । दक्षिणाहि ॥ राजाधीनं राजसात् । सर्व भस्म भस्मसात् ॥ ऊररी ऊरी उररी विस्तारांगीकारयोः॥सद्यआदिः काले समानेऽह्नि सद्यः। अद्य । अधुना । इदानीम् । तस्मिन् काले तदा । यदा । कदा । सर्वदा। सदा । एकदा । अन्यदा । सपदि । साम्प्रतम् । झटिति । तूर्णम् । आशु । शीघ्रम् । पूर्वेयुः । परेयुः । परद्यवि । ऐषमः। परुत् । परारि । अन्येयुः । अन्यतरेयुः । उभयेयुः । तर्हि । यहि । कर्हि । एताह ॥
( सुबोधिनी )-चादिर्निपातः ॥ च आदिर्यस्य स चादिः ॥ निश्चयेन पतत्यनेकेष्वर्थेषु द्योतकत्वादिति निपातः। पत्ल, पतने। अस्माज्ज्वलादेर्ण इति णप्रत्ययः। असत्त्ववाचिनामेव चादीनां निपातसंज्ञा अव्ययसंज्ञा च भवति । स्वरादीनांतु सत्त्ववाचिनामसत्त्ववाचिनां चाव्ययसंज्ञैव न निपातसंज्ञा । स्वस्ति वाचयति स्वः पश्यति स्वः पततीत्यादौ कर्मादिकारकयागेन सत्त्ववाचकत्वं स्वरादीनां शस्त्येव । एकस्वराणां निपातानां संधिर्न भवतीति निपातसंज्ञाफलम् । एकस्वराणां स्वरादीनां तु संधिर्भवत्येव तेषां निपातसंज्ञाभावात् ॥ चेति समुच्चयान्वाचयेतरेतरयोगसमाहारेषु । 'वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये ॥' हेति प्रसिद्धौ ॥ अहेति पूजायाम् ॥ एवेत्यवधारणे अनवक्लप्तो उपमायां च ॥ एवमित्युक्तपरामर्श ॥ नूनमिति निश्चये वितर्के च ॥ पृथगिति भिन्नार्थे ॥ शश्वदिति पौनःपुन्ये नित्ये सहार्थे च॥ युगपदित्येककाले ॥ भूयसिति पुनरथ आधिक्ये च ॥ नहेति प्रत्यारम्भे॥ हन्तेति हर्षे विषादे अनुकम्पायां वाक्याम्भे च ॥ विनेति वर्जने ॥ नानेत्यनेकविनार्थयोः॥ स्वस्तीति मङ्गले॥ अस्तीति सत्तार्थे । दोषति रात्रौ॥ वृथेति व्यर्थे । मृषेति वितथे ॥नक्तमिति रात्रौ ॥ मिथ्यति वितथे ॥ मिथसिति रहःसहार्ययोः॥अथेति मङ्गलानन्तरारम्भप्रश्नकात्स्याधिकारप्रतिज्ञासमुच्चयेषु ॥ अथो इत्यथवत्॥अहो इति विकल्पे चेदर्थेऽपि॥ ह्यमिति अतीतेऽह्नि ॥ श्वसिति अनागते दिने ॥ उच्चैसिति महति । नीचैसिति
Page #190
--------------------------------------------------------------------------
________________
(१७४) . सिद्धान्तचन्द्रिका। [अव्ययानि ] अल्पेऽर्थे ॥ शनैसिति क्रियामान्ये ऋधगिति सत्ये ॥ वियोगशीघ्रसामीप्यलाघवेष्वित्यन्ये ॥ ऋते वर्जने ॥ आरादिति दूरसमीपयोः॥ दिवेति दिवसे ॥ रात्राविति निशि ॥ सायमिति निशामुखे ॥ चिरमिति बहुकाले ॥ मनाक, ईषत्, इमावल्पे ॥ जोषमिति सुख मौने च ॥ तूष्णीमिति मौने ॥ बहिस्, अवस्, इमौ बाह्ये ॥ समयेति समीपे मध्ये च ॥ निकषेति समीपे ॥ अद्वेति स्फुटावधारणयोः । तत्त्वातिशययोरित्यन्ये ॥ इद्धति प्राकाश्ये ॥ वत् 'वत्तुल्ये' इत्यादिना विहितो यो वत्प्रत्ययः स इह गृह्यते । प्रत्ययमात्रस्य संज्ञायां प्रयोजनाभावात् प्रत्ययान्तं ग्रहीतव्यम् । यथा । ब्राह्मणवत् । क्षत्रियत् ॥ उपधेति भेदे ॥ सामीत्यर्द्धजुगुप्सितयोः ॥ सना, जन साना एते त्रयो नित्ये ॥ तिरसिति अन्तद्धौँ तिर्यगर्थे परिभवे च ॥ अन्तरेति मध्ये विनार्थं च ॥ अन्तरेणोति वर्जने । सहसेति आकस्मिकाविमर्शयोः॥ अलमिति भूषणपर्याप्तिशक्तिवारणनिषेधेषु ॥ वषडिति हविर्दाने ॥ क्षमेति क्षान्तौ ।। विहायसेति वियदर्थ ॥ मुधेति व्यथै ॥ पुरेति अविरते चिरातीते भविष्यदासन्ने च ॥ मिथो इति रहःसहार्थयोः ॥ प्रायसिति बाहुल्ये ॥ मुहुसिति पुनरर्थ ॥ साकम, सार्धमेतो सहाथै ॥ नमसिति नतौ ॥ हिरुगिति वर्जने ॥ धिगिति निन्दाभर्त्सनयो।। मा, माङ्, एतौ निषेधाशङ्कयोः ॥ अमिति शैध्येऽल्पे च ॥ आमिति अङ्गीकारे ॥ नेदिति शङ्काप्रतिषेधविचारसमुच्चयेषु ॥ चेदिति यद्यर्थे ॥ कच्चिदितीष्टप्रश्ने च ॥ उजिति सतर्कसंबोधनपूरणेषु ॥ यदीति पक्षान्तरे ॥ सत्यमिति प्रश्नप्रतिषेधसत्येषु ॥ जात्विति कदाचिदर्थे ॥ कमिति वारिमुनिन्दासुखेषु ॥ समिति सुखे ॥ ज्योगिति कालभूयस्त्वे प्रश्ने शीघ्राथै सम्प्रत्यर्थे च ॥ रहसीत्येकान्ते ॥ अभीक्ष्णामिति. पौनःपुन्ये ॥ अनेहा इति विस्मयविषादशोकजुगुप्सार्तिषु ॥ आइति भयाश्चर्ययोः ॥ आदिति शङ्कायाम् ।। न्वै विशेषवितर्कयोः ॥दै वित॥रैदाने अनादरे च ॥ करोति ददातीत्यर्थः । त्वं किं वदसीति ॥ किमिति पृच्छाजुगुप्सेषदातिशयेषु ॥ यदिति कारणे ॥ तदिति हेतौ ॥ इतीति हेतुप्रकारप्रकर्षवमर्थव्यवस्थास्वरूपविवक्षानियमसमाप्तिप्रकृतवक्ष्यमाणपरामर्शमतेषु ॥ हंहो इति विचारे ॥ स्वरिति स्वर्गे परलोके च ॥ अन्तरिति मध्ये ॥ प्रातरिति प्रत्यूषे ॥ पुनरित्यप्रथमे विशेषे च ॥ सनु. तरित्यन्त ने ॥ स्वराद्याः पञ्च रान्ताः॥ यावत्तावदेतों साकल्यावधिमानावधारणेषु । साकल्ये यावत्कार्य तावत्कृतम् । अवधौ यावद्गन्तव्यं तावत्तिष्ठामि । माने यावहत्तं तावद्भुक्तम् । अवधारणे यावदमत्रं तावद् ब्राह्मणानामन्त्रयस्वेति ॥ स्वाहेति देवताभ्यो दाने ॥ तथाहीति निदर्शने ॥ खल्विति निषेधवाक्यालङ्कारनिश्चयेषु किलेति वार्तायामलीके च ॥ नु वितकें ॥ ननु इति प्रश्नावधारणानुज्ञेच्छामन्त्रेषु वाक्यारम्भादावपि ॥ सुष्टु प्रशंसायाम् ॥ दुष्ठु निकृष्टार्थे ॥ आदहेत्युपक्रमहिंसाकुत्सनेषु ॥
Page #191
--------------------------------------------------------------------------
________________
[अव्ययानि ] टीकाद्वयोपेता।
(१७५) उपसर्गस्वरविभक्तिप्रतिरूपकाश्च ॥ उपसर्गप्रतिरूपको यथा अवदत्तमिति । दो दत्तीति दथादेशः । इह अवस्थानुपसर्गत्वात्स्वरान्तो वेति तकारो न भवति ॥ स्वरप्रतिरूपको यथा । अ आ इत्यादि । विभक्तिप्रतिरूपको यथा । अहंयुः। अहमिति सिवन्तप्रतिरूपकमहङ्कारे वर्तते । ऊर्णाहंशुभंभ्यो युरिति युः ॥ यदाऽस्मच्छब्दान्निष्पन्नोऽहंशब्दस्तस्मात् प्रत्ययः क्रियते तर्हि समासप्रत्यययोरिति लुकि सति अस्मद्यु इति स्थिते मदीय इत्यत्रेव मदादेशे मद्युरिति स्यादिति भावः ॥ हेताविति निमित्ते ॥ स्वयमित्यात्मनेत्यर्थे । उतेति विकल्पे । नजिति निषधेषदर्थविक्षेपेषु तदन्यतविरुद्धतदभावेषु च ॥ स्वधेति पितृभ्यो दाने ॥ स्मेत्यतीते पादपूरणे च ॥ अस्मीत्यहमित्यर्थे । वै पादपूरणे विशेषेप ॥ शम्बडित्यन्तःकरणे आभिमुख्ये च ॥ नो निषेधे ॥ दिष्टया इत्यानन्दे । सद्भजनदर्शनप्रातिलोम्येष्वित्यन्ये ॥ अइति संबोधनऽधिक्षेपे निषधे च ॥ आ इति वाक्यस्मरणयोः ॥ इ इति संबोधनजुगुप्सा. विस्मयेषु ॥ई भत्सन ॥ उ ऊ दुःखवितर्कयोः ॥ ऋ ऋल गानसमहे ॥ ए संबोधने ॥ ऐ आश्चर्ये ॥ ओ संबोधने ॥ औ अङ्गीकारे ॥ पशु सम्यगर्थे ॥ शुकम् शैध्ये ॥ यथाकथाचेत्यनादरे । पाट्, प्याटू, अंग, हे, है, भो, अये (यि) एते सप्त संबोधने ॥ येति हिंसाप्रातिलोम्यपादपूरणेषु ॥ विषु इति नानार्थे ॥ रे, अरे, एतौ, नीचामन्त्रणे ॥ एकपदे इत्यकस्मादित्यर्थ ॥ द्राक् मङ्घ, एतौ शैघ्ये ॥ युत् इति कुत्सायाम् । आतः इतीतोऽपीत्यर्थे ॥ श्रौषट्, वौषट्, एतौ हविर्दीने ॥ अन्येऽपि सन्ति । तथाहि । कामम् स्वाच्छन्द्ये ॥ प्रकाममित्यतिशये ॥ साम्प्रतमिति न्याय्ये ॥ परमिति किन्त्वथें ॥ साक्षादिति प्रत्यक्षे ॥ साचीति तिर्यगर्थे ॥ संवदिति वर्षे ॥ अवश्यमिति निश्चये ॥ उषेति रात्रौ ॥ ओमिति अंगीकारे ब्रह्मणि च ॥ भूरिति पृथिव्याम् ॥ भुव इत्यन्तरिक्षे ॥ कु कुत्सितेषदर्थयोः॥ अञ्जसेति तत्त्वशीघ्रार्थयोः॥ मिथु इति द्वावित्यर्थे । अस्तमिति विनाशे ॥ स्थाने इति युक्ते ॥ वरमिति ईषदुत्कर्षे ॥सुदीति शुक्लपक्षे॥ वदीति कृष्णपक्षे ॥ तुमिति तुङ्कार ॥आहेति उवाचेत्यर्थे॥ आसेति बभूवेत्यर्थे।आयेति प्रतिबन्धे । असीति त्वमित्यर्थवाक्यालंकारयोः। ब्रूहीति प्रैषानुज्ञावसरेषु । वामिति युवामित्यर्थे । चटु, चाटु, एतौ प्रियवाक्ये । एवमन्येऽप्यूह्याः॥ तत्रादिविभक्त्यर्थे । आदिशब्दः प्रकारे वर्तते गणाभावात् । विभक्तीनामथर्थोऽभिधेयो योऽपादानादिस्तस्मिन्नर्थे तत्रादिनिपात्यते । तत्र आदिर्यस्य स तत्रादिः शब्दसमूह इत्यर्थः ॥ तस्मिन्निति तत्र ॥ अस्मिन्नित्यत्र ॥ यस्मिन्निति यत्र ॥ कस्मिन्निति कुत्र, क्व ॥ तेन प्रकारेण तथा ॥ सर्वेण प्रकारेणेति सर्वथा ॥ केन प्रकारेणेति कथम् ॥ अनेन प्रकारेण एतेन प्रकारेण वेतीत्थम् ॥ तस्मात्तस्या वेति ततः ॥ यस्मात् यस्या वेति यतः ॥ यस्मात् कस्या वेति कुतः॥ सर्वस्मात सर्वस्या वेति सर्वतः ॥ बहोरिति बहुतः॥ पूर्वस्मिन् देशे पूर्वस्माद्देशात्पूर्वो वा देशः
Page #192
--------------------------------------------------------------------------
________________
(१७६)
सिद्धान्तचन्द्रिका। [ अव्ययानि ] . पुरः पुरस्तात् । अधः अधस्तात् । ऊर्ध्व ऊर्ध्वात् ऊो वोत उपरि उपरिष्टात् ।। दक्षिणस्मिन् दक्षिणो वेति दक्षिणेन।दक्षिणस्यां दिशि दूरे इति दक्षिणा दक्षिणाहि।। उत्तरस्मादुत्तरस्या वेति उत्तरतः॥ उत्तरस्यां दिशि दूरे इति उत्तराहि उत्तरा।सभवा निति ततोभवान् तत्रभवान् । तं भवन्तामति ततोभवन्तम् तत्रभवन्तम् । तेन भवतेति ततोभवता तत्रभवता । तस्मै भवते इति ततोभवते तत्रभवते । तस्माद्भवतः इति ततोभवतः तत्रभवतः । तस्य भवत इति ततोभवतः तत्रभवतः । तस्मिन्भवति इति ततोभवति तत्रभवति ॥ सद्यआदिः काले। अत्राप्यादिशब्दः प्रकारे वर्तते । पूर्वदेशकालादिविशिष्टो विभक्त्यर्थो गृहीतः । इह तु कालविशिष्ट एव विभक्त्यर्थों गृह्यत । समानेऽङ्गीति समानस्य सादेशः द्यस्प्रत्ययश्च । तत्काले सद्यः ॥ अस्मिन्नहनीति इदमोऽशादेशो धप्रत्ययश्च ॥ साम्प्रतदिनेऽद्य ॥ अधुना,इदानीमेतौ वर्तमानक्षणार्थे।। यस्मिन् काले यदा ॥ कस्मिन्काले कदा ॥ सर्वस्मिम् काले सर्वदा ॥ एकस्मिन् काले एकदा ॥ अन्यस्मिन् काले अन्यदा ॥ सपदि, साम्प्रतम्, सम्प्रति, एते त्रयो वर्तमानक्षणार्थे । झटिति, तूर्णम् आशु, शीघ्रमेते शैध्ये पूर्वस्मिन्नहनीति पूर्वेयुः ॥ परस्मिन्नहनीति परेद्यवि अस्मिन् वर्षे इति ऐषमः ॥ पूर्वेऽस्मिन् वर्षे परुत् । पूर्वतरे वर्षे परारि ॥ अन्यस्मिन्नहनीति अन्याः ॥: अन्यतरस्मिन्नहनीति अन्यतरेयुः॥ उभयस्मिन्नहनीति उभयेयुः ॥ तस्मिन् काले तर्हि ॥ कस्मिन्काले कहि ॥ यस्मिन् काले यहि ॥ एतस्मिन्काले एतर्हि ॥
(तत्त्वदी०) चादिनिपात इति ॥ च आदिर्यस्य स चादिः । आदिशब्दो व्यवस्थावाची । प्रकारार्थ इत्यन्ये । तेनानुक्तानामपि संग्रहः । निश्चयेन पतन्न्यनेकेष्वर्थेषु द्योतकत्वान्निपाताः। ज्वलादेर्णः। “निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥” इति केचित् । निपातसंज्ञा तु स्वरादीनां संधिनिषेधाभावार्थमिति निष्कर्षः ।। "प्रणम्य पितरं शान्तं श्रीमत्क्षेमराभिधम् । अव्ययार्थ प्रकटये पूर्वाचायेरुदीरितम् ॥ १॥" च पुनरादौ ॥वा विकल्पे ॥ हस्फुटपादपूरणयोः॥ हि निश्चये ॥ अहह खेदे॥एव अवधारणे ॥ एवमङ्गीकारे । नूनं निश्चये ॥ पृथग्भिन्नार्थे । अन्तरेण वर्जनार्थे । स्वस्ति कल्याणे ॥ अस्ति सत्तायाम् ॥ दोषा,नक्तम्,रात्रौ ॥ मृषा,मिथ्या,असत्ये। मिथस् अन्योऽन्यार्थे । अथ, अथो, आनन्तर्ये ॥ ह्यः पूर्वदिने॥ श्वः परदिने । उच्चैस् उच्च ॥ नीचैस् नीचे ॥ स्वर स्वर्गे ॥ अन्तर् मध्ये ॥ प्रातर् प्रत्यूषे ॥पुनर्, भूयस्, पौनःपुन्ये॥ आहोस्वित् वितर्के । अन्तरा मध्ये । अलं भूषायाम् ॥ कृतं वारणे॥ईषदल्पे ॥ किल,खलु, वै, इति निश्चये ।। आरात् दरान्तिकयोः ॥ भृशमत्यर्थे ।। यत् यत्कारणे ॥ तत् तत्कारणे ॥ शश्वत् सातत्ये ॥ अ संबोधने अधिक्षपे निषेधे च ॥ आ नयाश्चर्ययोः वाक्यस्मरणयोः ॥ इ, ई, भर्त्सने ॥ उ, ऊ, दुःखवितर्कयोः ॥ ऋ, ऋ, ल गणस्तोमे ॥ ए संबोधने ॥ ऐ आश्चर्ये ॥ ओ भवत्वर्थे ।। औ अङ्गीकारे ॥ श्रौषट्, वौषट, वडिति हविदाने । तत्क्षणे सद्यः ॥ अम्मिन् दिने अद्य ।।
Page #193
--------------------------------------------------------------------------
________________
[ अव्ययानि ] टीकाद्वयोपेता।
(१७७) अस्मिन्क्षणे अधुना । इदानीम्, साप्रतं, संप्रति त्रयमपि॥ पूर्वस्मिन्दिने पूर्वेद्युः अन्यस्मिन्दिने अन्येद्युः॥ प्र प्रकर्षे निराकरणे ॥ स सम्यगर्थे ॥ अनु पश्चादर्थे । अव स्थितिज्ञानयोः॥ निर निर्गतार्थे ॥ दुर् दुःखे ॥ अभि आभिमुख्ये ॥ वि विशेषार्थे ॥ आङ् समानार्थे ॥ नि निधने॥ अति अतिशये । अधि अधिके ॥ अपि संभावनायाम् ॥ प्रति वीप्सायाम् ॥ परि वर्जने ॥ उप समीपे ॥ श्रत् श्रद्धायाम् ॥ अन्तर् मध्ये ॥ अधि प्राकटये ॥ सु पूजायाम् । सनुतरित्यन्तर्धाने । ऋधगिति सत्ये । वियोगशीघ्रसामीप्यलाघवेष्वित्यन्ये । युगपदिति एककाले ॥ मनाक इति ईषदर्थे ईषदित्यल्पे ॥ जोषमिति सुखमौनयोः ॥ तूष्णीमिति मौने ॥ बहिस इति बाह्ये ॥ अधसिति बहिरर्थे ॥ समयेत्यन्तिकमध्ययोः ॥ निकषेत्यन्तिके ॥ स्वयमिति आत्मनेत्यर्थे । वृथेति व्यर्थे । नजिति निषेधेषदर्थविक्षेपेषु तदन्यतद्विरुद्धतदभावेष्वपि ॥ हेताविति निमित्तार्थे । इद्धेति प्राकाश्ये ॥ अद्धेति स्फुटावधारणयोः ॥ तत्त्वातिशययोरित्येके ॥ सामीत्येतदर्द्धजुगुप्सि. तयोः ॥सनेति नित्ये ॥ उपधेति भेदे ॥ सनादिति नित्ये ॥ सनदित्यपि ॥ तिरस इति अन्तौ तिर्यगर्थे वा ॥ अन्तरेति मध्यविनार्थयोः ॥ ज्योगिति कालभूयस्त्वप्रश्नयोः शीघ्रार्थे संप्रत्यर्थेऽपि ॥ कमिति वारिमूर्द्धनिन्दासुखेषु ॥ शमिति दुःखोपशमे ॥ सहसेत्याकस्मिकाविमर्शयोः ॥ नानेत्यनेकविनार्थयोः ॥ स्वस्तीति पुण्याशी क्षेममङ्गलप्रत्यभिवादेषु ॥ स्वाहेति देवदाने ॥ स्वधेति पितृदाने ॥ अलमिति भूषणपर्याप्तिशक्तिवारणनिषेधेषु । अन्यदिति अन्यार्थे । उपांशु इति अप्रकाशोच्चारणरहस्ययोः ॥ क्षमेति क्षान्तौ ॥ विहायसेति वियदर्भे ॥ पुरेति चिरातीतभविष्यदासन्नेषु ॥ मिथो इति रहःसहायोः । विरहान्योन्यार्थयोरपि ॥ प्राय. सिति बाहुल्ये ॥ मुहुरिति पुनरर्थे ॥ प्रवाहुकमिति समकालार्थे ऊर्वेऽपि ॥ प्रवाहकमिति पाठान्तरम् ॥ आर्यहलमिति बलात्कारे ॥ आर्येति प्रतिबन्धे । हलमिति निषेधविवादार्थयोरिति शाकटायनः ॥ अभीक्ष्णमिति अनारते पुनरर्थे च ॥ साकं सार्थमित्येतौ सहाौँ ॥ नमसिति नतौ ॥ हिरुक् इति वर्जने ॥ धिगिति निन्दाभर्त्सनयोः ॥ अथेति मङ्गलानन्तरार• म्भप्रश्नकााधिकारप्रतिज्ञासमुच्चयेषु ॥ अम् शैघ्ये अल्पे च ॥ आमित्यङ्गीकारे । प्रतामिति ग्लानौ ॥ प्रशानिति समानार्थे ।। प्रतानिति विस्तारे ॥ मा इति निषेधे ॥ माङिति निषेधाशंकयोः॥ चेत्यन्वाचयसमाहारेतरेतरसमुच्चयविनियोगतुल्ययोग्यतावधारणहेतुषु। पादपूरणेऽपि ॥ वेति विकल्पानवक्लुप्त्युपमानद्वन्द्वसमुच्चयेषु ॥ अहेति विनियोगे। प्राचां मते क्रमपूजनयोरपि ॥ एवमिति प्रकृतपरामर्शप्रकारार्थोपदेशनिश्चयाङ्गीकारेषु ॥ नूनमिति वितर्के निश्चये च ॥ शश्वदिति सर्वकाले पौनःपुन्यनित्यशब्देष्वपि ॥ यदिति प्रश्नवितर्कप्रशंसासु ॥ क्वचिदिति भूयोऽर्थे । कमिति वितर्के निश्चये च ॥ प्रशंसायां शङ्कायां च नेदिति । शङ्कायां प्रतिषेधविचारसमुच्चयेष्विति शाकटायनः ॥ चेदिति यद्यर्थे ॥ चेदिति चेदर्थे असाकल्या|पमानसंपत्तिषु ॥ कचिदिति अभीष्टे प्रश्न च ॥ यत्रेति अनवक्लप्त्यमर्षगर्दाश्चर्येषु ॥ नहेति प्रारम्भे ॥ हन्तेति हर्षानुकम्पावाक्यारम्भविषादेषु । दाननिश्चययोरपि ॥ माकिमिति निषेधवजैनयोः । नकिमित्यौपम्ये ॥ यावत्तावदित्येतौ साकल्यावधिमानावधारणेषु ॥ त्वै इति विशे
Page #194
--------------------------------------------------------------------------
________________
( १७८ )
सिद्धान्तचन्द्रिका |
[ अव्ययानि ]
वितर्कयोः ॥ द्वै इति वितर्के ॥ रै इति आदरानादरयोः ॥ तुमिति तुङ्कारे ॥ तथाहि इति निदर्शने ॥ खलु इति निषेधवाक्यालङ्कार जिज्ञासानुनयेषु । नियमनिश्वयहेतुविवादेष्वपि ॥ किल इति वार्तानुकरणसंभाव्य हेत्वतिरस्कारालीकेषु ॥ तथेति सादृश्ये समुच्चयाभ्युपगमयोरपि ॥ अतीते पादपूरणे च ॥ अस्मीति अहमित्यर्थे | आङिति ईषदर्थाभिविधिमर्यादा क्रियायोगेषु ॥ उत इति अप्यर्थे ।। उञ् इति वितर्कसंबोधनपूरणेषु || आदहेति हिंसोपक्रमकुत्सनेषु । आतङ्केति कुत्सनविनाशयोः । प्रतिग्रहेऽपीति शाकटायनः || वेलायाम् इति कालपरिमाणे ॥ मात्रायामिति कल्पपरिमाणे ॥ यथेति योग्यतावीप्सापदार्थानतिवृत्तिसादृश्येषु ॥ किमिति पृच्छाजुगुप्सयोः । ईषदर्थातिशययोरपि ॥ यदिति यद्यर्थे ॥ हाहा इति विस्मयविषादशोकजुगुप्सार्तिषु ।। ह इति विनियोगक्रमपादपूरणेषु ॥ हे, है, पाट्, प्यार, एते संबोधनार्थाः ॥ अहो इति विकल्पे | चेर्थेऽपि । नन्विति प्रश्नावधारगानुज्ञेच्छामात्रेषु ॥ मन्ये इति वितर्के । नहीत्य - भावे । उताहो इति वितर्के || असीति त्वमित्यर्थवाक्यालङ्कारयोः ॥ ब्रूहीति प्रेषानुज्ञावसरेषु ॥ ननु इति निषेधे ॥ इति इति हेतुप्रकारप्रकर्षैवमर्थव्यवस्थास्वरूपविवक्षानियमसमाप्ति प्रकृतिवक्ष्यमाणपरामर्शमतेषु ॥ इवतीषदर्थेऽपि । मा प्रेक्षावाक्यालङ्कारेषु || ओमित्यभ्यादानाभ्युपगमसमाध्यर्थेषु ।। फडिति निराकृतौ || यदि पक्षान्तरे || हो इति संबोधने ॥ इहीति तिङ
प्रतिरूपकं गच्छेत्यर्थे || अहेत्यत्रेत्यर्थे ॥ तदिती हेतौ || असावादिति । अहो बत समिति सर्वतोभावे ॥ किमिति अनर्थकं पादपूरणे वा ॥ आमिति प्रतिवचनावधारणयोः ॥ हमिति स्तोभवचने ॥ वामिति युवामित्यर्थे ॥ श्रुकमिति अतिशये ॥ शुकमिति शैये ॥ आनुकमिति तर्के । नहिकमिति निषेधे ॥ सत्यमिति प्रश्नप्रतिषेधसत्येषु ॥ ऋतमिति सत्यार्थे ॥ नोचेन्नचेदिति - निषेधे ॥ जात्विति कदाचिदर्थे ॥ कथमिति प्रकारप्रश्ने || कुत इति प्रश्ननिवयोः ॥ कुत्रेति देशप्रश्नं ॥ अनु अवेति उपसर्गप्रतिरूपकौ अनु अव इत्येतयोरर्थे ॥ हा हौ हे एते त्रयोऽपि शोभार्थाः।। शम्बडिति अन्तःकरणे आभिमुख्येऽपि ॥ वै इति पादपूरणहिंसाप्रातिलोम्येषु दिष्टयेत्यानन्दे । सद्भजनदर्शनप्रातिलोम्येष्वित्येके || समिति सम्यगर्थे । सहेति सार्वमित्यर्थे ॥ आनुषगिति आनुपूर्व्यं ॥ अङ्गेति संबोधने || द्राक् प्रागिति झटित्यर्थे ॥ अरे इति नीचसंबोधने ॥ चटु चाटु इति प्रियवाक्ये || हुमित्यनिच्छाभयभर्त्सनकोपेषु । सुष्ठु इति प्रशंसायाम् ॥ पुरसित्यग्रे पूर्वदेशपूर्वकालयोश्च ॥ आश्विति क्षिप्रे ॥ नहीति विशेषे ॥ रहसीति एकान्ते ॥ एषामर्थानां निपाता द्योतकाः । न तु वाचकाः पदान्तरं विनाऽप्रयोगात् । किंच वाचकत्वे घटस्य समुच्चय इतिवत् घटस्य च इत्यपि स्यात् । अपि शोभनः समुच्चयेऽतिवत् । शोभनं च इत्यपि स्यात् । द्योतकत्वे त्वस्य पदार्थैकदेशत्वान्न तत्र विशेषणान्वयः । अथ कथं घटस्यादौ समुच्चयादिबोध इति चेत्सत्यम् । घटवल्लक्षणयैव समुचितघट बोधसंभवात् । विजय इत्यादौ विशिष्टजयो धातोरिति दिक् ॥ तत्रादिविभक्त्यर्थं इति ॥ आदिशब्दः प्रकारार्थ: गणाभावात् । विभक्तीनामर्थोऽभिधेयस्तस्मिन् तत्रादिर्निपात्यते ॥ तत्रेति । अत्र त्रप्रत्ययष्टेरत्वं निपास्यते ॥ तत इति अत्र तस्प्रत्ययष्टेरत्वं च ॥ बहुत इति । अत्र ईकारलोपः ॥ तेन प्रकारेण
Page #195
--------------------------------------------------------------------------
________________
[ अव्ययानि ]
टीकाद्वयोपेता ।
( १७९ )
तथेति । तस्मिन् काले तदेति ॥ काप्रकारयोर्विभक्त्यर्थत्वाभावेऽपि सदोणादयः प्रादेश्व तथेति सूत्रस्थसदातथेति कालप्रकारयोरुपलक्षणम् ॥ सद्यआदिरिति ॥ तत्राप्यादिशब्दः प्रकारे । सर्वत्र देशकालादिविशिष्टो विभक्त्यर्थे गृहीत इह तु कालविशिष्ट एव विभक्त्यर्थो गृह्यते || अद्येति ॥ अस्मिन्नहनीत्यर्थः । इदम: अ: द्यप्रत्ययश्च ॥ पुरः पुरस्तादिति ॥ पूर्वस्मिन्देशे पूर्वस्माद्देशात् पूर्वो वा देश इत्यर्थः ॥ उपरीति ऊर्दुमित्यर्थः ।
प्रादिरुपसर्गः ) । परा । अप । सम् । अनु ! अब । निस् । निर् । दुस् । दुर् । अभि । वि । अधि । अति । सु । उद् । नि । प्रति 1 अपि । परि । उप । आङ् । श्रुत् । अन्तर् | आविर् ॥
I
1
( सुबोधिनी ) - प्रादिरूपसर्गः ॥ प्र आदिर्यस्य स प्रादिः । तद्गुणसंविज्ञानोऽयं बहुव्रीहिः । प्रकर्ष इति लिङ्गात् । उप समीपे सृज्यते उच्चार्यते क्रियावाचकस्य शब्दस्येत्युपसर्गः । कर्मणि घञ् । अन्वर्थसंज्ञाबलात् क्रिया संबद्ध इति लभ्यते । तदुक्तम् । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञेति ॥ उपसर्ग हि अर्थविशेषस्य द्योतका न तु वाचकाः ॥ " आदिकर्मदीधैश भृशसंभवतृप्तिषु ॥ वियोग शुद्धिशक्तीच्छाशान्तिपूजायदर्शने ॥ १ ॥ " आदिकर्मणि प्रारम्भ कर्मणि यथा । प्रयातः ॥ दीर्घे यथा । प्रचला मूषिकाः ॥ ईशे यथा । प्रभुः ॥ भृशार्थे यथा । प्रवदन्ति ॥ संभवे यथा । हिमवतो गङ्गा प्रभवति ॥ तृप्तौ यथा । प्रभुक्तमन्नम् ॥ वियोगे यथा । प्रोषितः ॥ शुद्धौ यथा प्रसन्नमुदकम् ॥ शक्ती यथा । प्रशक्तः ॥ इच्छायां यथा । प्रार्थयते कन्याम् ॥ शान्तौ यथा । प्रशान्तोऽग्निः ॥ पूजायां यथा । प्राञ्जलिः स्थितः ॥ अग्रे यथा । प्रचालम् ॥ दर्शने यथा । प्रलोकयति ॥ १ ॥ " वधे गतौ दर्शने च विक्रमेऽभिमुखे भृशे ॥ अधीनमोक्षणप्रातिलोम्यकेषु परा मतः ॥ २ ॥ " वधे यथा । पराहतः ॥ गतौ यथा । परागतः दर्शने यथा । परादृष्टः ॥ विक्रमे यथा । पराक्रान्तः ॥ अभिमुखे यथा । परावृत्तः ॥ भृशे यथा । पराजितः॥ अधीने यथा । पराधीनः॥मोक्षणे यथा । पराकृतस्त्यक्त इत्यर्थः ॥ प्रातिलोम्ये यथा पराङ्मुखः॥ २ ॥ “ अपो वियोगे विकृतौ विपरीते निदर्शने ॥ आनन्दे वर्जने चौर्ये चारणे समुदाहृतः ॥ ३ ॥ " वियोगे यथा । अपयाति ॥ विकृतौ यथा । अपकृतवान् ॥ विपरीते यथा । अपशब्दः ॥ निदर्शने यथा । अपदिशति ॥ आनन्दे यथा । अपह सति ॥ वर्जने यथा । अपवनादूवृष्टो देवः ॥ चौर्ये यथा । अपहरति ॥ चारणे यथा । अपसरति ॥ ३ ॥ "संयोगैक्ये च प्रभवे सत्यप्रत्यक्षसिद्धिषु ॥ भूषाश्लेषस्वीकरण - क्रोधाभिमुखवाचि सम् ॥ ४ ॥ " संयोगे यथा । संगतः पुत्रेण ॥ ऐक्ये यथा । संवदन्ति सख्यः ॥ प्रभवे यथा । काष्ठेऽग्निः संभवति ॥ सत्ये यथा । गां संजानाति ॥ प्रत्यक्षे यथा । संपश्यते || सिद्धौ यथा । संसिद्धिः ॥ भूषायां यथा ।
Page #196
--------------------------------------------------------------------------
________________
( १८० )
सिद्धान्तचन्द्रिका |
[ अव्ययानि ] संस्कृता कन्या || आश्लेषे यथा । संधत्ते । स्वीकारे यथा । संगृह्णाति ॥ कांधे यथा । संक्रुद्धः ॥ अभिमुखे यथा । संयाति ॥ ४ ॥ “ वेदाधिष्ठानसामीप्यपश्चाद्भावानुबन्धने ॥ साम्याभिमुखहीनेषु विसर्गे लक्षणे त्वनुः || ५ ||" वेदे यथा । अनुवाकमधीते ॥ अधिष्ठाने यथा । अनुष्ठानं देशः ॥ सामीप्ये यथा । अनुमेघं वर्षति ॥ पश्चाद्यथा | अनुरथम् ॥ भावानुबन्धने यथा । अनुशयः ॥ साम्ये यथा । अनुकृतिः ॥ अभिमुखे यथा । अनुवत्सो मातरं धावति || होने यथा । अन्वर्जुनं योद्धारः ॥ विसर्गे यथा । अनुज्ञातः ॥ लक्षणे यथा । अनुवनमसतां गतिः ॥ ५ ॥ "ज्ञानावलंशुद्धीषदर्थे व्याप्तिपराभवे ॥ अवो ज्ञेयो वियोगे च लोकयोगानुसारतः ॥ ६ ॥" ज्ञाने यथा । अवगतोऽर्थः ॥ अवलम्बे यथा । अवलम्ब्य यष्टिं गच्छति ॥ शुद्धौ यथा । अवदातः ॥ ईषदर्थे यथा । अवलम्ब्यते ॥ व्याप्तौ यथा । अवकीर्णम् ॥ पराभवे यथा । अवघ्नन्ति ॥ वियोगे यथा । अवयातः ॥ ६ ॥ " निर्वियोगात्ययादेशातिक्रमे लाभनिश्चिते ॥ वियोगे यथा । निःसङ्गो ब्रवीति ॥ अत्यये यथा । निर्मेघम् || आदेशे यथा । निर्दिष्टम् ॥ अतिक्रमे यथा । निष्क्रान्तः ॥ लाभे यथा । निर्दिष्टः || निश्चिते यथा । निश्चितम् ॥ " दुरीषदर्थे कृच्छ्रेऽर्थे कृशासंपत्ति संकटे ॥ ७ ॥" दुर् - ईषदर्थे यथा । दुर्गतिः ॥ कृच्छ्रार्थे यथा । दुर्जीवः ॥ कृशे यथा । दुर्बलः ॥ असंपत्तौ यथा । दुर्गतः ॥ संकटे यथा । दुर्दिनम् ॥ ७ ॥ " नानावियोगातिशये भृशमोहेशवाङ्मृधे ॥ पैशुन्यास्मरणे भूषेषदर्थानाभिमुख्यके ॥ ॥ ८ ॥ अनवस्थामुख्यशौर्यदर्शने विरुदाहृतः ॥ " नानार्थे यथा । विचित्रा सूत्रस्य कृतिः पाणिनेः ॥ वियोगे यथा । वियुक्तः ॥ अतिशये यथा । विकीर्णः ॥ भृशे यथा । विaar नद्यो महत्य इत्यर्थः ॥ मोहे यथा । विमनस्कः ॥ ईशे यथा । विभुः ॥ वाङ्मृधे यथा । विवदन्ते ॥ पैशुन्ये यथा । विगायति ॥ अस्मरणे यथा । विस्मृतः ॥ भूषायां यथा । विभूषितः ॥ ईषदर्थे यथा । विलोपितः ॥ अनाभिमुख्यके यथा विमुखः ॥ ॥ ८ ॥ अनवस्थायां यथा । विभ्रान्तः ॥ मुख्ये यथा । विशिष्टः ॥ शौर्ये यथा । विक्रान्तः ॥ दर्शने यथा । विलोकयतिं ॥ “ आङिच्छाभयवाक्येषदश्लेषादिकर्मणि ॥ ९ ॥ बन्धनेऽभिविधौ शाठ्यकृच्छ्रसामीप्यसंश्रये ॥ अभिमन्त्र - निवृत्त्याशादानानुभवविस्मये ॥ १० ॥ प्रतिष्ठादेशमर्यादास्पर्द्धामुख्योर्ध्वकर्मणि ॥" आङ् - इच्छायां यथा । अकाङ्क्षति ॥ भये यथा । आविभेति ॥ वाक्ये यथा । आजानाति ॥ ईषदर्थे यथा । आताम्रनखः ॥ आश्लेषे यथा । आलिङ्गति ॥ आदिकर्मणि यथा । आरभते ॥ ९ ॥ बन्धने यथा । कवचमाबध्नन्ति ॥ अभिविधौ यथा । आकुमारं यशः ॥ शाब्वे यथा । आचरति कपटेन ॥ कृच्छ्रे यथा । आहतः ॥ सामीप्ये यथा । आसन्ना वयम् ॥ संश्रये यथा । आवसथः ॥ अभिमन्त्र यथा । आमन्त्रणम् ॥ निवृत्तौ यथा । आधावति ॥ आशायां यथा । आशास्ते ॥
Page #197
--------------------------------------------------------------------------
________________
[ अव्ययानि ]
टीकाद्वयोपेता |
( १८१ )
आदाने यथा । आदत्ते || अनुभवे यथा । आशीतम् ॥ विस्मये यथा । आ एवं किल तत् ॥ १० ॥ प्रतिष्ठायां यथा । आस्पदम् || आदेशे यथा । आदिष्टः ॥ मर्यादायां यथा । आमुक्तैर्दुःखम् ॥ स्पर्धायां यथा । आह्वयते मलं मल्लः ॥ मुख्ये यथा । आगच्छति || ऊर्ध्वकर्मणि यथा । आरोहति पर्वतम् ॥ "नी राज्यधोभृशादेश नित्यकौशलबन्धने || ११|| अन्तर्भावे समीपे च दर्शनोपरमाश्रये ॥ " नि- राशौ यथा । निकरो मणीनाम् ॥ अधो यथा । निपतति ॥ अभृशे यथा । निगृहीतः । आदेश यथा । निदर्शितम् ॥ नित्ये यथा । निविशते ॥ कौशले यथा । निपुणः ॥ बन्धने यथा । निवद्धः ॥ ११ ॥ अन्तर्भावे यथा । निपीतमुदकं सिकताभिः ॥ समीपे यथा । निकृष्टः ॥ दर्शने यथा । निदर्शनम् ॥ उपरमे यथा । निवृत्तः पणः ॥ आश्रये यथा निलयः || "अधिरध्ययनैश्वर्यवशित्वमरणाधिके ॥ ॥ १२ ॥ ” अधि-अध्ययने यथा । उपाध्यायादधीते ॥ ऐश्वर्ये यथा । अधिपतिः ॥ वशित्वे यथा । अधीनः॥ स्मरणे यथा । मातुरध्येति ॥ अधिके यथा । अधिकृतम् ॥ १२ ॥ “अपिः संभवगर्हाशीर्मृतिभूपासमुच्चये ॥" संभवे यथा । अपि प्रयोजनमस्ति ॥ गर्हायां यथा । अपि पापिनः ॥ आशिपि यथा । भद्रमपि ॥ मृतौ यथा । मरणमपिः ॥ भूषायां यथा । अपिनह्यति हारम् ॥ समुच्चये यथा । तदपि विक्रामति ॥ "विक्रमातिक्रमाबुद्धभृशार्थातिशयेष्वति ॥ १३ ॥ अति - विक्रमे यथा । अतिरथः ॥ अतिक्रमे यथा । अतिक्रामति ॥ अबुद्धे यथा । अतिगहनम् ॥ भृशार्थे यथा । अतितप्तम् ॥ अतिशये यथा । अतिमनुते ॥ १३ ॥ " प्रशंसानुमते पूजा भृशकृच्छ्रराभेषु सुः ॥” प्रशंसायां यथा । सुरूपः ॥ अनुमते यथा । सुकृतम् ॥ पूजायां यथा | सुसाधुः ॥ भृशे यथा । सुतप्तः ॥ कृच्छ्रे यथा । सुदुष्करम् ॥ शुभे यथा । सुगन्धः || "उत्प्राबल्यवियोगोर्ध्वकर्मलाभप्रकाशने || १४ || आश्चर्ये मोक्षणेऽभावे चलप्राधान्यशक्तिषु ॥” उद्-प्राबल्ये यथा । उद्वलः ॥ वियोगे यथा । उद्गच्छति ॥ ऊर्ध्वकर्मणि यथा । उत्तिष्ठति शयनात् ॥ लाभे यथा । उत्पन्नम् ॥ प्रकाशने यथा । उच्चरति ॥ १४ ॥ आश्चर्ये यथा । उत्सुकः ॥ मोक्षणे यथा । उद्गतोऽश्वः ॥ अभावे यथा । उत्पथः ॥ चले यथा । उत्कः ॥ प्राधान्ये यथा । उद्दिष्टः ॥ शक्तौ यथा । उत्साहः || "अभिः पूजाभृशार्थेच्छाव्याधिसाम्याभिमुख्यके ॥ १५ ॥ सारूप्यवचनाहारस्वाध्यायेषु निरूपितः ॥ " अभि- पूजायां यथा । अभिवन्दते देवम् ॥ भृशे यथा । अभियुक्तः ॥ इच्छायां यथा । अभिलिप्सते ॥ व्याधौ यथा | अभिस्यन्दो व्याधिः ॥ साम्ये यथा । अभिजातः ॥ आभिमुख्यके यथा । अभिमुखम् ॥ १५ ॥ सारूप्ये यथा । अभिरूपः ॥ वचने यथा | अभिधानम् ॥ आहारे यथा । अभ्यवहरति ॥ स्वाध्याये यथा । अभ्यस्यति ॥ " सादृश्यादानहिंसाङ्गीकृतौ प्रतिनिधौ क्वचित् ॥ १६ ॥ व्याध्याभिमुख्ययोव्र्व्याप्तौ वारणे प्रतिरु
Page #198
--------------------------------------------------------------------------
________________
(१८३) सिद्धान्तचन्द्रिका। [ अव्ययानि ] च्यते ॥" प्रति-सादृश्ये यथा । देवदत्तस्य प्रति ॥ आदाने यथा। प्रतिगृह्णाति ॥ हिंसायां यथा । प्रतिहन्ति ॥ अङ्गीकृतौ यथा । प्रतिज्ञातम् ॥ प्रतिनिधौ यथा । अभिमन्युरर्जुनतः प्रति ॥ १६॥ व्याधौ यथा। प्रतिशापः॥: आभिमुख्य यथा। प्रतिसूर्य गच्छति । व्याप्तौ यथा । प्रतिकीर्णं पांशुभिः॥ वारणे यथा । प्रतिषिद्धः ॥ "परिः समन्ततोभावव्याप्तिदोषकथासु च ॥ १७ ॥ भूषाश्लेषे पूजने च वर्जने वसनेऽशुभे ॥" परि-समन्ततोभावे यथा । परितः ॥ व्याप्तौ यथा । परिगतोऽग्निर्मार्गम् ॥ दोषकथासु यथा। परिवादः ॥ १७ ॥ भूषायां यथा। परिष्करोति कन्याम्॥ आश्लेषे यथा । परिष्वजते ॥ पूजने यथा। परिचरति गुरुम् ॥ वर्जने यथा । परिव. नेभ्यो वृष्टो देवः ॥ वसने यथा । परिधत्ते वासः ॥ अशुभे यथा। परिदेवनम् ॥ "उपः सामीप्यसामर्थ्यव्यात्याचार्यकृती मृतौ ॥ १८ ॥ दोषदानक्रियावीप्सारम्भाध्ययनपूजने ॥ कृष्णाचार्यैः कृताः श्लोका उपसर्गार्थसंग्रहे ॥ १९ ॥" उप-सामीप्ये यथा । उपकुम्भम् ॥ सामर्थ्य यथा। उपकरोति मित्रेभ्यः ॥ व्याप्तौ यथा। उपकीणेः पांशुभिः ॥ आचार्यकृतौ यथा । उपदिशति शिष्येभ्यः ॥ मृतौ यथा। उपरतः ॥ १८॥ दोष यथा । उपघातः ॥ दाने यथा। उपहरत्यर्थे देवदत्ताय ॥ क्रियायां यथा । उपचारः ॥ वीप्सायां यथा। देवदेवमुपचरति ॥ आरम्भे यथा। उपक्रमते भोक्तुम् ॥ अध्ययने यथा । उपाध्यायादधीते ॥ पूजने यथा। उपचित: पिता पुत्रेण ॥ १९॥ निस्, निश्चयादौ ॥ दुस्, दुःखादौ ॥ श्रत्, श्रद्धादौ ॥ अन्तर, मध्यादौ ॥ आविर्, प्राकटयादौ ॥
( तत्त्वदी०)-प्रादिरुपसर्ग इति ॥ प्र आदिर्यस्येति स प्रादिरिति तद्गुणसंविज्ञानो बहुव्रीहिः नातद्गुणसंविज्ञानः प्रकर्ष इति लिङ्गात् । अन्यथा प्र इत्यस्य धातोः प्राक् पाठो न स्यात् । उप समीपे सृज्यत उच्चार्यते क्रियावाचकस्येत्युपसर्गः । सृजेः कर्मणि घम् । अन्व. र्थसंज्ञायां च क्रियायोग इति लभ्यते । तदुक्तम् । यत्क्रियायुक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञेति । यस्य धातोर्वाच्या क्रिया यक्रिया तया युक्ताः । ते धातुम् अर्थ वा प्रति । उपसर्गाणां द्योतकत्वमेव न वाचकत्वम् । तदुक्तम् । “उपसर्गेण धात्वर्थों बलादन्यः प्रतीयते" इति । उपसर्गेण द्योतकेन हेतुना अन्यः धातुपाठपठिताद्भिन्नः प्रतीयते धातुनैव ॥
(प्राग्धातोः ) उपसर्गा धातोः प्राक् प्रयोक्तव्याः ॥ . (सुबोधिनी )-प्राग्धातोः ॥ वेदादौ विपरीतप्रयोगदर्शनात् व्याकरणे लोकेऽपि विपरीतप्रयोगो मा भूदिति नियमार्थमिदम् ॥ - (तत्त्वदी०)-प्राग्धातोरिति ॥ संज्ञानियम एवायम् । धातोः प्राक् प्रयुज्यमाना एव प्रादय उपसर्गसंज्ञा नान्ये इत्यर्थः । तेन सुपुरुष इत्यादावधातोः प्राक् प्रयोगेऽपि न क्षतिः।
Page #199
--------------------------------------------------------------------------
________________
[अव्ययानि ] टीकाद्वयोपेता।
(१८३) अत्र धातोरिति ग्रहणत् कर्तुप्रेच्छति प्रचिकीर्षतीत्यादौ नानिष्टता। अन्यथा यत्क्रियायुक्ताः प्रादयस्ततः प्रागिति सवाच्येच्छया प्रशब्दस्य योग इति तस्यैव प्राक् प्रशब्दः प्रयुज्येत । वस्तुतस्तु यत्क्रियेत्यस्य धातोर्वाच्या क्रियेति व्याख्यानात्केवलस्य तस्य धातुत्वाभावात् । सान्तस्यैव धातुत्वात् ॥
(तदव्ययम् ) चादि अव्ययसंज्ञं भवति । न तु शब्दनिर्देशे । ( सुबोधिनी)-तदव्ययम् ॥ प्रादिचादिउपर्यादि तत्रादिसद्यआदिपरामर्शार्थ तद्ग्रहणम् ॥ अत्र नाम्न इत्यनुवर्त्य प्रथमया विपरिणम्य विशेष्यमभ्युपेयम् । चादिस्वरादीनि तु विशेषणानि । विशेषणे हि तदन्तविधिस्तेन परमोच्चैः परमस्वरित्यादावव्ययसंज्ञा भवत्येव ॥ उच्चैरतिक्रान्तोऽत्युच्चैः । अत्युच्चैसौ। अतिस्वः। अतिस्वरौ । अतिस्वरः । इत्यादि ॥ गौणे तु नाव्ययसंज्ञा। मुख्यामुख्ययोरिति न्यायात्॥ __ (तत्त्वदी०)-तदव्ययमिति ॥ तच्छब्देन प्रादिचादिउपर्यादितत्रादिप्रहणम् । अन्यथाऽनन्तरत्वात् सद्यआदय एव गृह्येरन् ॥
(क्त्वाद्यन्तं च ) क्त्वा क्या तुम् णम् धा चि शस् वत् कृत्वस् सु आम् इत्याद्यन्तमव्ययसंज्ञं भवति ॥
(सुबोधिनी)-क्त्वाद्यन्तं च ॥ पूर्वकाले क्त्वति क्त्वा । समासे क्यविति क्यप् । तुम् तदर्थायां भविष्यतीति तुम्। पौनःपुन्ये णम् पदं विश्चेति णम् । संख्यायाः प्रकारे धेति धा। बह्वल्पार्थात्कारकाच्छस् इति शस् । अभूततद्भावे कृभ्वस्तियोगे नाम्नश्च्विरिति चिः । वत्तुल्ये इति वत् । क्रियाया आवृत्तौ कृत्वसिति कृत्वस । द्वित्रिचतुर्यः सुरिति सुः। 'किमोऽव्ययादाख्याताच्च तरतमयोराम् वक्तव्यः अद्रव्यप्रकर्षे' इत्याम् ॥
(अव्ययाद्विभक्तेलक् ) "सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । आप चैव हसान्तानां यथा वाचा निशा दिशा ॥" वगाहःअवगाहः ॥ पिधानम्-अपिधानम् ॥ इत्यव्यानि ॥
(सुबोधिनी )-अव्ययाद्विभक्तेलृक् ।। अव्ययाद्विहिताया विभक्तेलृक् स्यात् । विभजनं विभक्तिर्विभागः । यद्वा विभज्यते बोध्यते कर्तृकर्माधर्थोऽनयेति विभक्तिः। स्यादित्यायोरेवेति योगरूढिः । “सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिः । वचनेषु च सर्वेषु यन्न व्येति तदव्यम् ॥ १॥" आथर्वणप्रणवविद्यारातश्रुतिरियम् । यत् शब्दरूपं न व्येति न व्ययं प्राप्नोति तदव्ययं त्वया ज्ञेयम् । कीदृशं त्रिषु लिंगेषु सहन
Page #200
--------------------------------------------------------------------------
________________
( १८४) सिद्धान्तचन्द्रिका। [ स्त्रीप्रत्ययाः] शमेकप्रकारम् । पुनः कीदृशम् । सर्वासु विभक्तिषु सदृशं च । पुनः कीदृशम् । सर्वेषु वचनेषु सदृशम् ॥ १॥ “वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं चैव हसान्तानां यथा वाचा निशा दिशा ॥२॥" भागरिराचार्योऽवाप्योरुपसर्गयोरल्लोपं वष्टि वाञ्छतीत्यर्थः। च पुनः हसान्तानां शब्दानामापं वष्टि ॥२॥ अल्लोपे यथा । वगाहः। अवगाहः। पिधानम् । अपिधानम् । अपिना साहचर्यादादिरेवाकारो लुप्यते । नान्त्य इति भावः॥
इति सुबोधिन्यामव्ययानि ॥ (तत्त्वदी०)-सदृशमिति ! श्रुतिलिङ्गसंख्याकारकाभावमरा ॥ यथा वाचेति ॥ परिगणनमिदमित्येके । अन्ये तु उदाहरणमात्रमित्याहुः । वगाह इति ॥ आदिरेवाकारो लुप्यते नान्त्यः अपिना साहचर्यात् ॥: . श्रीविद्यानगरस्थायिलोकेशकरशर्मणा । कृतायामिह टीकायामव्ययव्याकृतिर्गता ॥
इति तत्वदीपिकायामव्ययानि ॥
अथ स्त्रीप्रत्ययाः । (आवतः स्त्रियाम् ) अकारान्तानाम्नः स्त्रियां वर्तमानादाप् प्रत्ययो भवति ॥ सर्वा । माया ॥ ..
(सुबोधिनी)-आबतः स्त्रियाम् ॥ अत इति तपरग्रहणम् । तेनाधिकृतस्य नाम्नो विशेषणात् तदन्तविधिः स्त्रियामिति प्रकृत्यर्थविशेषणम् । स्त्रियां वर्तमानाददन्तानाम्नः आप स्यात् । पित्त्वं स्वरार्थम् । स्यादिकं लिङ्गत्रयं तु पारिभाषिकमेव लिङ्गानुशासनादिभ्यो निर्णयम् ॥ माया । शठताऽविद्या वा ॥
(तत्त्वदी०)-आवतः स्त्रियामिति ॥ आप अतः स्त्रियामिति च्छेदः। अत इति तपरकरणाद्वयक्तर्ग्रहणम्। न तु स्वरूपस्य नापि आङ्गगदित्यादौ अच्छब्दान्तस्य । तुम् तदर्थायामिति निर्देशात् । नापि ङसेरादेशस्याच्छब्दस्य स्त्रियां वृत्त्यभावात् । अधिकृतस्य नाम्नो विशेषणात्तदन्तविधिः । स्त्रियामिति प्रकृतिविशेषणमित्यभिप्रेत्याह-स्त्रियां वर्तमानादिति ॥
(अजादेश्च ) अजा । एडका । अश्वा । चटका । मूषिका । बाला। वत्सा । होडा । मन्दा । विलाता । संफला । भत्रफला । अजिनफला । शणफला। पिण्डफला । सत्पुष्पा । प्राकपुष्पा। प्रत्यकपुष्पा । काण्डपुष्पा । प्रान्तपुष्पा । एकपुष्पा । शूद्रा । क्रुच्चा । उष्णिहा । देवविशा ।
Page #201
--------------------------------------------------------------------------
________________
[स्त्रीप्रत्ययाः ] टीकाद्वयोपेता।
( १८५) ज्येष्ठा । कनिष्ठा । मध्यमा । इति पुंयोगेऽपि । त्रिफला । अमूला। कोकिला जातावपि । इत्यादि ॥
(सुबोधिनी)-अजादेश्च ॥अजशब्द आदिर्यस्यति बहुव्रीहिः । अजादेर्गणादाम् । तस्य स्त्रीत्वे द्योत्वे ॥ अजा । एडका । अश्वा । चटका । मूषिका । शूद्रा। अमूला संफला। भस्त्रफला । अजिनफला । शणफला । प्रत्यक्फला । पिण्डफला। सत्पु
पा। प्राकपुष्पा । काण्डपुष्पा । प्रान्तपुष्पा । एकपुष्पा। क्रश्चा। उष्णिहा । देवविशा । इत्यादिषु जातेरयोपधादिती प्राप्तः । बाला । वत्सा । होडा । मन्दा । विलाता । इत्यादिषु अनन्त्यवयोवाचिन इतीप् प्राप्तः । ज्येष्ठाकनिष्ठामध्यमाकोकिलेत्यादिषु पुयोगे चेतीप् प्राप्तः । त्रिफलाध्यनीकेत्यादौ समाहारेऽत ईबितीप् प्राप्तः । स ईबजादेरित्यनेन बाध्यते । अजादेः स्त्रीवाभावात् पञ्चानामजानां समाहार इति पञ्चाजी । अत्राप् न । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वं न त्वजादिनिष्ठम् । चटकेत्यत्र काप्यत इति इकारो न क्षिपकादीनां नेति निषेधात्। मुषेदर्दीर्घश्चेति किक्प्रत्यये इकारमध्यो मूषिकाशब्दः । होडेति भिल्लस्त्री : मन्देत्यप्रौढा स्त्री । विलातेति नवयौवना स्त्री । संफलेत्यादय एकपुष्पान्ता ओषधिविशेषाः । भस्लेव फलानि यस्या इति विग्रहः । कुक्कुट्यादिषु पाठात्पुंवद्भावः। शूद्रेति जातादेवाप् । महत्पूर्वात् शूदशब्दात्तु ईवेव । महाशूद्री । "आभीरी तु महाशूद्री जातिपुंयोगयोः समा" इत्यमरः ॥ पुंयोगे त्वीयेव । शूद्री । क्रश्चेत्यादित्रयोऽमी हसान्ता इत्येके । भाष्ये तु कुश्चानालभेत उष्णिहककुभावित्यादिप्रयोगमुदाहृत्यादन्ता अपि स्वीकृताः । पचाद्यप्रत्ययेन नाम्युपधात्क इति कप्रत्ययेन च रूपसिद्धेः । उष्णिहति छन्दोजातिः । देवविशेति देवानां प्रजा ॥ पुंयोगेऽपि । यदा ज्येष्ठादयः प्रथमजातादौ वर्तन्ते तदा अदन्तत्वादेवाप् । यदा ज्येष्ठस्य स्त्रीति पुंयोगविवक्षा तदाऽप्याप् भवतीति सूचयितुमपि शब्दः। कोकिलस्य स्त्री कोकिला । जातिवाचकादप्यजादेरबेव भवति न तु जातेरिती । तेन जातावपि कोकिलेत्येव । नपूर्वान्मूलशब्दाजातावप्याप् । अमूलेत्योषधिजातिः । अनपूर्वोत्तु शतमूलीत्येव ॥
(तत्त्वदी० )-अजादेश्चेति ॥ ईब्बाधनार्थमिदम् । अजादौ जातिलक्षण ईपू प्राप्तः । बालेति 'वयसि प्रथमे' इतीपू प्राप्तः॥पुंयोगेऽपीति ॥ यदि ज्येष्ठादयः प्रथमजातादौ वर्तन्ते तदाऽदन्तवादेवाप् । यदा ज्येष्ठस्य स्त्रीति पुयोगो विवक्ष्यते तदाऽपि आप भवतीति सूचयितुमपिशब्दः । एतद्बीजं तु अतः स्त्रियामाबिति सूत्रणीये विपरीतनिर्देशाद्विकल्पादिलाभः ॥
(पादो वा ईप ) द्विपदी-द्विपाद् ।
Page #202
--------------------------------------------------------------------------
________________
(१८६)
सिद्धान्तचन्द्रिका। [स्त्रीप्रत्ययाः] (सुबोधिनी)-पादो वा ईप् ॥ कृतसमासान्तात्पादशब्दादीप् वा स्यात् ॥ दौ पादौ यस्याः सा इति बहुव्रीही संख्यासुव्याघ्रादिपूर्वस्योत पादशब्दस्यान्तलोपः। द्विपाद् । ईपि तु शसादौ स्वरे तद्धितयस्वरयोरिति पदू । द्विपदी छन्दोजातिः ॥
(आवृचि)ऋचि वाच्यायां सत्यां पदान्तादापू स्यात्॥ द्विपदा ऋक् ॥ ( सुबोधिनी)-आवृचि॥ऋचि वाच्यायां तु द्विपदा एकपदा ऋक् इत्येव भवति॥
(काप्यतः ) कापि परे पूर्वस्याकारस्येकारो भवति ॥ कारिका । पाचिका । पाठिका ॥ अतः किम् । नौका ॥ तपरः किम् । राका ॥
(सुबोधिनी )-काप्यतः ॥कापि इ अत इति छेदः । ककारेण सहितः आए काप् तस्मिन्॥प्रत्ययस्यैव को गृह्यते आपा साहचर्यात स्त्रियां वर्तमानस्य नाम्नोऽतःस्थाने इकारो भवति कापि परे। करोतेः तृवुणाविति वुण । णित्त्वाद् वृद्धिः कारिका॥ एवं पचतेः पाचिका ॥ अतः किम् । नौका । नौशब्दात्स्वार्थे कप्रत्ययः ॥ ककाराभावे तु शक्नोतीति शका। पचाद्यप्रत्ययः॥ तपरः किम् । राका ॥ मामकनरकयोरत इ। ककारस्य प्रत्ययत्वाभावादप्राप्तौ वचनम् । ममेयं मामिका । अणीनयोरिति ममकादेशः । णित्त्वादृद्धिः । अजादित्वादाप् ॥ नरान् कायतीति 'कै शब्दे' अस्मात् आतो ड इति डप्रत्ययः । आप इत्वं च । नरिका ॥
(तत्त्वदी.)-काप्यत इति ॥ कापि इ अत इति छेदः । कसहित आप काप् तस्मिन् । अत्र कात्य एव गृह्यते आपा साहचर्यात् । तेन शक्नोतीति शकेत्यत्र न ॥ अत इ कापीति वक्तव्ये विपरीतनिर्देशादन्यदपि भवति तेन क्वचित्प्रत्ययस्थे केऽपि न । क्वचिदप्रत्ययस्थेऽपि भवति ॥ नरान्कायति नरिकेति मामिकेत्यत्र च । एवं स्थिते साहचर्यं न सर्वत्र नियामकमित्यु. क्तिर्गौरवग्रस्तत्वादुपेक्षिता । स्त्रियामित्यत्रानुवर्तते । स्त्रियां वर्तमानस्य नाम्नोऽत इर्भवतीति व्याख्येयम् । तेन कारकमाप्नोति कारकाप इत्यत्र नेत्वम् ॥ अतः किम् । मातृका ॥
(क्षिपकादीनां न ) क्षिपका । ध्रुवका । कन्यका । चटका । यका। सका । उपत्यका । अधित्यका ॥
(सुबोधिनी)-क्षिपकादीनां न ॥ एषामत इकारो न कापि ॥ क्षिपे म्युपधात् क इति कः । ध्रुव स्थये इत्यस्मादपि कः। अथवा व गतिस्थैर्ययोरस्मात्पचाद्यप्रत्ययः। कुटादित्वात् ङित्त्वेन गुणाभावे नुधातोरित्युवू । क्षिपा एव क्षिपका शस्त्रविशेषः ॥ ध्रुवा एव ध्रुवका भाजनम् ॥ चट भेदनेऽस्मात्पचायः। चटका ॥ सर्वत्रापि अज्ञातादौ के पुनरपि च ह्रस्वो वेति ह्रस्वः ॥ या एव यका । सा एव सका।
Page #203
--------------------------------------------------------------------------
________________
कसेव॥
[स्त्रीपत्ययाः] टीकाद्वयोपेता। ( १८७) आभ्यामाख्याताव्ययसर्वादेरित्यकः ॥ उपाधिभ्यामासन्नारूढयोरिति त्यकः । उपत्यका । अधित्यका ॥ "उपत्यकाऽनेरासन्ना भूमिरूर्वमधित्यका" इत्यमरः॥ (तत्त्वदी० )-क्षिपकेति । एतद्बीजं तु उक्तमेव ॥ (तारका ज्योतिषि ) अन्यत्र तारिका ॥ (सुबोधिनी)-तारका ज्योतिषि ॥ तरतेषुण् । अकादेशो वृद्धिश्च । ज्योतिनक्षत्रं नेत्रकनीनिका च । तयोरर्थे तारका । अन्यत्र तु तारिका ॥
(वर्णका तान्तवे ) वर्णिकाऽन्या ॥ ( सुबोधिनी )-वर्णका तान्तवे ॥ तन्तूनां विकारस्तान्तवं तस्मिन् ॥ वर्णका प्रावारविशेषः । वर्ण वर्णक्रियाविस्तारगुणवचनेष्विति चौरादिकाढुण् । ग्रन्थविशेषस्य व्याख्यात्री स्तोत्रकी वर्णिका ॥
(वर्तका शकुनौ प्राचाम् ) उदीचां तु वर्तिका ॥
(सुबोधिनी )-वर्तयतीति वर्तिका ॥ वुण प्रत्ययः । शकुनावेव वाच्येऽयं विकल्पः । अन्यस्मिन्नथें तु नित्यमित्वम् । प्राचां पूर्वाचार्याणां मते इतोऽभावः । उदीचामाधुनिकानां मते इत्वमित्यर्थः ॥
(अटका श्राद्ध) अष्टिकाऽन्या ॥ ... ( सुबोधिनी '-अश्नन्ति ब्राह्मणा यस्यां साऽष्टका । इष्यशिभ्यां तक इति तक: अष्टौ परिमाणमस्य इत्याष्टिका ॥
(क्वचिद्वा) पुत्रका-पुत्रिका । सूतका-सूतिका ।वृन्दारका-वृन्दारिका। आर्यका-आर्यिका । चटकका-चटकिका । निर्भत्रका । निर्भस्त्रिका । एषकाएषिका। अजका-अजिका । ज्ञका-ज्ञिका । के-द्विके । निःस्वका. निःस्विका ॥
(सुबोधिनी )-क्वचिद्वा ॥ वा अ इति च्छेदः । क्वचित् पूर्वस्याकारो वा भवति कापि परे ॥ पुत्री एवेति हस्वो वेति हवे कृते पुत्रिका । पक्षे पूर्वस्य ईपोऽकारः पुत्रकेति ॥ सूतशब्दात् स्वार्थे कः सूता एव सूतिका-सूतका॥ वृन्दमस्यास्तीति शृङ्गन्दाभ्यामारकः । वृन्दारिका-वृन्दारका ॥ देवतावाची वृन्दारकशब्दः पुंल्लिङ्ग एव । अन्यत्र त्रिलिङ्गः । तथा च त्रिषूत्तरे इत्युपक्रम्य "वृन्दारको रूपिमुख्यौ" इत्यमरः॥ आर्या एव आर्यका । पक्षे इत्वम् । आर्यिका ॥ चटका एव चटकका-चटकिका ।। निष्क्रान्ता भस्वाया इति निर्भस्वा । पञ्चमीतत्पुरुषः। निर्भस्त्रा एवोत निर्भस्त्रका
Page #204
--------------------------------------------------------------------------
________________
( १८८). सिद्धान्तचन्द्रिका। [स्त्रीप्रत्ययाः ] निर्भस्त्रिका ॥ एषा एव एषका-एषिका । अकः ॥ अजा एव अजका-अजिका । ज्ञा एव ज्ञका-ज्ञिका ॥ हे एक इके-द्विके ॥ आख्याताव्ययसादेरित्यकः ॥ निर्गना स्वात या सा निःस्वा एवेति निःस्वका-नि:स्विका । स्वार्थे कः ॥ ( तत्त्वदी० )-क्वचिद्वेति ॥ अत्रापि विपरीतनिर्देश एव मूलम् ॥
(ह्रस्वो वा ) कापि परे तरादौ च पूर्वस्य ह्रस्वो वा ॥ गङ्गाकागङ्गका-गणिका ॥नदिका-नदीका ॥ श्रेयसितरा-श्रेयसीतरा ॥ वागग्रहणादेव संध्यक्षराणां न । गोका । नौका ॥
(सुबोधिनी)-हस्वो वा ॥ कापि तरादौ प्रत्यये च परे स्त्रियां विहितस्य अस्य हस्वोऽत इश्च वा स्यात् । वाशब्दो व्यवस्थार्थस्तेन तारादाविति लब्धम् । गङ्गा एव गङ्गका । ह्रस्वाभावे गङ्गाका । काप्यत इतीत्वे गङ्गिका ॥ ह्रस्वा नदीति नदिकानदीका । स्वार्थे कः ॥ अतिशयेन श्रेयसीति श्रेयसितरा-श्रेयसीतरा। 'तरतमेयस्विष्ठाः प्रकर्षे' इति तरप्रत्ययः ॥ स्त्रियां विहितस्य किम् । लक्ष्मीतरा ॥ चमूतरा ॥
(तत्त्वदी०)-द्वस्वो वा ॥ वा आ इति छेदः । स्त्रियामित्यनुवर्तते । स्त्रियां वर्तमानानाम्नः परस्याकारस्य ह्रस्व इश्व वा भवतीत्यर्थः॥ वा इत्यस्य व्यवस्थितत्वं बोध्यम् । तेन तरादावपि । नदीतर इत्यत्र तु 'प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्' इति परिभाषाबलान्न हस्वत्वम् । क्वचिदीपो नित्यं ह्रस्वः॥ब्राह्मणितरा । कप्रत्यये समानस्य ह्रस्वः। आर्यका । कालिका । जम्बुका टाडका इति कृतेन केन कल्याणपञ्चमीकः॥ आपो वा । बहुविधका-बहुविद्याकः ॥ एवं चैतदर्थलाभाय वाशब्दस्य व्यवस्थितत्वाश्रयणेऽवश्यं कर्तव्ये अ वेति हित्वा ह्रस्वग्रहणं वाक्यान्तरलाभाय । वाक्यान्तरं चेदम् नान्नः परस्य स्त्रियां विहितस्य स्वरस्य ह्रस्वो वा स्यात् स्त्रीलिङ्गे परे । तच्च स्त्रीलिङ्गं लक्ष्यानुसारात्तदादिकमेव गृह्यते । इत्यादिव्याख्यानं गौरवग्रस्तत्वादु. पेक्षितम् । किंच अ वेति सूत्रिते नदिकेत्यादि न सिध्येत् इति ॥
(व्रण ईए) दण्डिनी । दन्तिनी । मघोनी । शुनी । पौंस्नी । स्त्रैणी। चौरी । हीं । कीं ॥
(सुबोधिनी )-व्रण ईप ॥ न च आ च अण् च एषां समाहारो व्रण तस्माव्रणः । अणिति प्रत्ययः। नानो विशेषणात्तदन्तविधिः । न च प्रत्ययविधौ प्रतिषेधः शक्यः स्त्रीप्रत्ययेषु तदन्तविधिस्वीकारात् । नान्तात् ऋदन्तात् अणन्ताच्च स्त्रियामीप्स्यात् ॥ दण्डोऽस्या अस्तीति दण्डिनी ॥ मान्तोपधादविनावितीन् । मघोनी ॥ शुनी । श्वादेरिति वस्योत्वम् ॥ कीं । करोतेस्तृवुणाविति तृप्रत्ययः ॥
Page #205
--------------------------------------------------------------------------
________________
[स्त्रीप्रत्ययाः ] टीकाद्वयोपेता। ( १८९)
( यस्य लोपः ) इवर्णावर्णयोर्लोपो भवति तद्धितस्व स्वरे यकारे ईपि च ॥ औपगवी । ऐन्द्री । ईप्यनोऽल्लोपः। राज्ञी । द्विदानी ॥
सुबोधिनी )-यस्य लोपः ॥ इश्च अश्च यं तस्य यस्य लोपः स्यात्तद्धितयस्वरयोरीपि च ॥ यथा गार्यः । काव्यम् । वासिष्ठः । मौनम् । उपगोरपत्यं स्त्री औपगवी । अपत्येऽणित्यण ॥ इन्द्रो देवता अस्या इति ऐन्द्री दिक् । देवतेदमर्थे इत्यण् । ईप्यनोऽल्लोपः॥ अन्नन्तस्योपधाकारस्य लोपः स्यादीपि । राज्ञः स्त्री राज्ञी । दे दानी यस्याः सा द्विदानी ॥
(तत्त्वदी० )-यस्य लोप इति ॥ इश्व अश्व यं तस्य ॥ स्वरौ यकारश्च तद्धितस्यैव प्रकरणात् । अदे आतो ड इति लिङ्गाभ्यां त्यादिकृत्स्वरो न । अन्त्यादिति लिङ्गाच्च यकारस्य न ग्रहणम् । अत एव न दीर्घयोरेव । एर्लोप इति तु न सूत्रित तन्त्रादिना यकारलोपार्थम् । तेन गार्गी तैषं पौष कानीन इत्यादि सिद्धम् ॥ जात्याश्रयणादीर्घयोरपि ॥ ईप्यन इति ॥ ईपि परे अनोऽकारस्य लोप इत्यर्थः॥ एतन्मूलं तु नो वेत्यत्र वा इत्यस्य व्यवस्थितत्वाश्रयणम्॥
(वितः) षकारटकारउकारऋकारानुबन्धात् स्त्रियामीप् प्रत्ययो भवति ॥ ष-वराकी ॥ ट-कुरुचरी । ऊरुद्वयसी । ऊरुदनी । ऊरुमात्री । इत्वरी ॥ उ-गोमती । विदुषी ।। ऋ-पचन्ती । दीव्यन्ती । तुदती-तुदन्ती। प्राची-प्राञ्ची । प्रतीची-प्रत्यञ्ची । उदीची-उदश्ची । तिरश्ची-तिर्यञ्ची । स्तनन्धयी ॥ __ (सुबोधिनी)-ष्टव्रितः॥ च ट च उश्च आ चेति ष्ट्रवः ष्टवः इतो यस्य स. वित् तस्मात व्रितः । वृणोतेः 'षाकोकण' इति षाकप्रत्ययः । यस्येत्यलोपः। वराकी । कुरुचरी । कुरुषु चरतीति । अधिकरणोपपदाच्चरतरयाविति टः॥ गोश. ब्दात् 'अस्त्यर्थे' इति मतुः । गावः सन्ति यस्याः सा गोमती ॥ विदेर्वा वसुरिति वसुप्रत्ययः । वसोर्व उरित्युत्वम् । विदुषी ॥ पचेः शतृशानौ तिपतेवदिति शतृप्रत्ययः । अप् कर्तरीत्यप् । पचन्ती ॥ दिवेः शतृप्रत्यये दिवादेर्य इति यप्रत्ययः । दीव्यन्ती । अप्ययोरान्नित्यमिति नुम् ॥ तुदेः शतृप्रत्यये तुदादेर इत्यप्रत्ययः । तुदती । तुदन्ती ॥ वाऽऽदीपोः शतुरिति वा नुम् ॥
(तत्त्वदी० )-वितः इति ॥ ष् च ट च उश्च आ च ते ट्वस्ते इतो यस्य स वित् तस्मात् वितः । षिदन्ताट्टिदन्तादुदन्ताहदन्तानाम्नः स्त्रियामीप इत्यर्थः ॥ वराकीति ॥ वरणशीलेति विग्रहे वृधातोः षाकोकण इति षाकप्रत्ययः । गुण इति गुणः । कुरुषु चरतीति विग्रहे चर गतावित्यतोऽटाविति टप्रत्ययः। गौणत्वे तु नेप् । बहुवराका । बहुकुरुचरा । विदुषी।
Page #206
--------------------------------------------------------------------------
________________
( १९० )
सिद्धान्तचन्द्रिका |
[ स्त्रीप्रत्ययाः ]
पचन्ती || उदन्तादृदन्तात्तु गौणत्वेऽपि । प्रियविदुषी । प्रियपचन्ती । गौणमुख्यन्यायस्यानि - त्यत्वात् । ध्वद् इत्यादौ तु धातोश्चेत् वित्कार्यं तर्ह्यञ्चतेरेव इति नियमेन प्राप्तिर्बाधिता ॥ (मन्नन्तान्ने) सीमा, सीमानौ । दामा, दामानौ ॥
(सुबोधिनी ) - मन्नन्तान्नेषु । मन्नन्तान्नाम्न ईपू न भवति ॥ सीमा । दामा | राजवत् ॥ ( दी ० ) - मन्नन्तादिति ॥ एतन्मूलं तु आवतः स्त्रियामिति सूत्रे विपरीतनिर्देश एव । एवमुत्तरत्रापि ॥
(अन्नन्ताद्वहुवी ) बहुयज्वा बहुयज्वानौ ॥
(सुबोधिनी) - अन्नन्ताद्बहुव्रीहेर्न ॥ नान्तत्वात्प्राप्त ईपू स न भवति । बहवो यज्वानो यस्यां सा बहुयज्वा नगरी ॥
( डाब् वा ) मन्नन्तान्नाम्नोऽनन्ताद्बहुव्रीहेश्व डाबू वा स्यात् ॥ ङित्त्वाट्टिलोपः ॥ सीमा, सीमे, सीमाः ॥ दामा दामे, दामाः ॥ बहुयज्वा, बहुयज्ये, बहुयज्वाः ॥
(सुबोधिनी ) - डाब वा ॥ मन्नन्तान्नाम्रो ऽन्नन्ताद्बहुव्रीहेश्व डाव् वा स्यात् । डिवाट्टिलोपः । सीमा । दामा | बहुयज्वा । गङ्गावत् ||" सीमसी मे स्त्रियामुभे " इत्यमरः ॥ ( उपधालोपिनो बहुव्रीहेर्वें) बहुराज्ञी - बहुराजा ॥
( सुबोधिनी) - उपधालोपिनो बहुव्रीहेर्वेपू ॥ अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वेपू स्यात् ॥ बहवो राजानो यस्यां सा बहुराज्ञी || ईपि अन इत्यलोपः । ईब्भावे डा | पक्षे डाबीपोर भावः ॥
( नदादेः ) स्त्रियामी ॥ नदी । गौरी । सरसी । सखी । अशिश्वी । अनड्डाही | अनडुही इत्यादि ॥
( सुबोधिनी) - नदादेः ॥ नद आदिर्यस्य स नदादिस्तस्मान्नदादेर्गणात् स्त्रियामीप् स्यात् ॥ अनुपसर्जनादेवायं गौणमुख्यन्यायात् । नद इत्यव्यक्तं शब्दं करोतीति पचाद्यप्रत्ययः । यस्येत्यलोपः । नदी || गौणे तु नदीमतिक्रान्ता स्त्री अतिनदा || सुपर्णशब्दादपत्येऽर्थे एयण् प्रत्ययः । आदिस्वरवृद्धिश्च । सुपर्णाया अपत्यं स्त्री सौपर्णेयी ॥ ऊरुः प्रमाणं यस्याः सा ऊरुद्वयसी नदी । यस्येत्यलोपः । ' प्रमाणे इयसनमात्रटः" इति द्वयसादिः ॥ अक्षैदव्यति 'केनेयेकाः' इति इकप्रत्ययः । आक्षिकी ॥ इणनशजिसतिभ्यः करविति करपू । एति परपुरुषं तच्छीला इत्वरी असती । करबू - द्वयसाद्यन्तोदाहरणचतुष्टयं वित इत्यत्र वक्तुमुचितम् । क्वचित्तु तथैव पाठस्तत्र
Page #207
--------------------------------------------------------------------------
________________
[स्त्रीप्रत्ययाः] टीकाद्वयोपेता।
(१९१) न दोषः ॥ चुरा शीलमस्या इति चौरी । अप्रत्ययान्तः । स्त्रीपुंसाभ्यामिति नञ्स्नौ । स्त्रियां भवा स्त्रैणी । पुंसि भवा पौंस्नी ॥ शक्तिः प्रहरणमस्या इति शाक्तीकी । शक्तियष्टयोरीकणिकण् ॥ गर्गस्यापत्यमिति गर्गादेरिति ण्यः । गार्ग्यः । रुयपत्ये तु नदादित्वादीप् । यस्येत्यलोपः । हसात्तद्वितस्येति यलोपे गार्गी । पक्षे गाायणीति । ण्यन्ताद्गार्ग्यशब्दात् स्त्रियामायनणि नदादित्वादीप् स्वार्थे । लोहितस्यापत्यं स्त्री लौहितायनी । लोहितादिर्गाद्यन्तर्गणः । ण्यान्ताल्लौहित्यशब्दात् स्त्रियामायनण ॥ कतस्यापत्यं स्त्रीति ण्यान्तात् कात्यशब्दात् स्त्रियामायनण् ॥ आसुरस्यापत्यं स्त्रीति अणन्तादासुरशब्दास्त्रियामायनण् ॥
(तत्त्वदी०)-नदादेरिति ॥ नद आदिर्यस्य स नदादिगणः तस्मात् नदादेः। नदडादयो यद्यपि टितो निपातितास्तथापि इहाटित एव बोध्याः । स्वरार्थत्वं तु इहानुपयुक्तमेव । वैदिकानामप्रतिपाद्यत्वात् । अत इत्यनुवृत्तं यथासंभवं विशेषणीयम् । अन्यथा सखीत्यादि न सिद्धयेत् । यदि तु पत्न्यादित्वमेषां तदाऽनुवृत्तविशेषणत्वेन संकोचः। नदमिच्छन्ती कुर्वन्ती वा नदीनदित्यत्रातिव्याप्तिवारणायात इत्यनुवृत्तिश्वावश्यमभ्युपेया। एकदेशविकृतन्यायेन नदशब्दत्वात् प्राप्तिः ॥ एवं वराकमिच्छन्ती कुर्वन्ती वा वराकीर्वराक इत्यत्रापि नए अनुवृत्तस्तत्रापि सत्त्वात् ॥
(अनन्त्यवयोवाचिनोऽदन्तात् स्त्रियामीप् ) कुमारी । किशोरी। वधूटी । चिरण्टी । तरुणी । तलुनी । अदन्तात्किम् । शिशुः । . (सुबोधिनी )-अनन्त्यवयोवाचिनोऽदन्तात् स्त्रियामीप् ॥ कालकृता शरीराऽऽवस्था वयः। वयांसि चत्वारि त्रीणि च सन्ति । यथा । “आये वयसि नाधीतं द्वितीये नार्जितं धनम् ॥ तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति ॥ पिता रक्षति कौमारे भार्ता रक्षति यौवने ॥ पुत्रस्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमहीत ॥" उपचयापचयलक्षणे द्वे वयसी इत्यन्ये । वधूटचिरण्टतरुणतलुनशब्दा यौवनवाचिनः॥ कुमारस्तु प्रथमवयोवाची ॥ अल्पवयाः अश्वा किशोरी ॥
(तत्त्वदी०) कुमारीति ॥ प्रथमवयोवाची एष शब्दः न तु रूढत्वप्रयुक्तः । वृद्धकुमारीति तु गौणः प्रयोगः। तरुणी शालेत्यपि मुख्यार्थे उत्पादितस्य गौर्वाहीक इतिवद्गौणत्वेऽपि संभवात् ॥
(ऊधोऽन्तस्य बहुव्रीहेर्नङ स्त्रियाम् ) कुण्डोधी । द्यूनी । अत्यूधी। (सुबोधिनी)-उधोगन्तस्य बहुव्रीहेर्नङ् स्त्रियाम् ॥ अकार उच्चारणार्थः। बहुव्रीहिग्रहणेनैव तदन्तलाभादन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम व्रण ईबिति प्राप्तस्येपो
Page #208
--------------------------------------------------------------------------
________________
( १९२)
सिद्धान्तचन्द्रिका । [स्त्रीप्रत्ययाः ] निषेधः अनेन प्रतिषिध्यते । यथा। डाप वेति वैगल्पिको डाप् । उपधालोपिनो बहुवीर्वोत वैकल्पिक ईप । अन्नन्ताबहुव्रीहेनेति निषेधश्च । कुण्डमिव ऊधो यस्याः सा। ईप्यनोऽल्लोप इत्यल्लोपे कुण्डोध्नी ॥ द्वे उधसी यस्याः सा द्यूध्नी ॥ अतिशयितमूधो यस्याः सा अत्युध्नी ॥ स्त्रियामिति किम् । कुण्डोधो धैनुकम् ॥ बहुव्रीहेरिति किम् । प्राप्ता उधः प्राप्तोधाः । द्वितीयातत्पुरुषः ॥
(संख्यादेर्दान ईप ) संख्यादेबहुव्रीहेर्दामान्ताच्च ॥ डाबीपोर्विकल्पेन प्राप्तयोर्वचनम् । दिदानी ॥
( वयोवाचिनो हायनस्येष् ) संख्यादेबहुव्रीहेर्वयोवाचिहायनान्तादीप् स्यात् । आपि प्राप्ते वचनम् ॥
(त्रिचतु| हायनस्य णत्वम् ) त्रिहायणी । चतुर्हायणी ॥ (सुबोधिनी )-त्रिचतुा हायनस्य णत्वम् ॥ आभ्यां परस्य वयोवाचकस्य हायनस्य णत्वं वाच्यम् ॥ त्रयो हायनाः यस्याः सा त्रिहायणी ॥ चत्वारो हायना यस्याः सा चतुर्हायणी बाला । "हायनोऽस्त्री शरत्समा" इत्यमरः॥
(इन्द्रादेरानीप) स्त्रियां पुंयोगे ॥ इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी ।
(सुबोधिनी )-इन्दादेरानीप् ॥ इन्द्र आदिर्यस्य स इन्द्रादिस्तस्मादिन्द्रादेर्गणात् स्त्रियामानीप् स्यात् ॥ पुंयोगेत्यपकृष्यते । पित्करणसामोद्धसेप इत्यत्रानीपोऽपि ग्रहणं भवति ॥ ननु ह्रस्वादिरेवानीवस्तु किमनेन दीर्घोच्चारणेन । अत्राहुः। ब्रह्माणीति सिद्धयर्थं दीर्घग्रहणम् । ब्रह्मन्शब्दादानीपि कृते नो वेति टिलोपे ब्रह्माणीति ॥ अन्ये त्वाहुः । ब्रह्माणमानयति जीवयतीति 'अन प्राणने' ज्यन्तादस्माकार्येऽणित्यण् प्रत्ययः । व्रण ईवितीपि च कृते ब्रह्माणीति सिद्धयत्येव ॥ माधवस्तु इन्द्रं करोति इन्द्रयात, इन्द्रेति नाम्नो जिडित करणे' इति ज्यन्तात् क्विपि इन्द्र तस्य इन्द्रः स्त्री इन्द्राणीति, दीर्घपाठाद्वदति तन्न । किबन्तस्य क्रियाशब्दत्वेन पुंशब्दत्वाभावात् किंच इन्द्रमिच्छतीति इन्द्रीयति । नानो य ई चास्योत यप्रत्य. यान्तात् विपि कृते इन्द्रीः । इन्द्रियः स्त्री इन्द्राणीत्यतिव्याप्तेश्च । वस्तुतस्तु ह्रस्ववादिपाठेऽपि हानिन । इन्द्रस्य स्त्री इन्द्राणी ॥ वरुणस्य स्त्री वरुणानी॥ भवशर्वमृडरुद्राः पर्यायशब्दाः॥
(तत्त्वदी०)-इन्द्रादेरानीपिति । अत्र 'पुयोगे च' इत्यतः पुंयोगे' इत्यनुकृष्यते । दीर्घोचारणं तु क्वचिदतद्धितेऽपि यस्य लोप इति ज्ञापनार्थम् । अन्यथा अनीपि लोपे एवं न स्यात् । आका
Page #209
--------------------------------------------------------------------------
________________
[स्त्रीप्रत्ययाः] टीकाद्वयोपेता।
( १९३) रोच्चारणस्य तु न सामर्थ्य धर्मादनि सुधर्मेत्यादावपि तत्सामर्थ्याल्लोपाभावप्रसंगात्। इन्द्रं करोति इन्द्रयति ततः क्विप इन्द्र तस्य इन्द्रः स्त्री इन्द्रमिच्छतः इन्द्रियः स्त्रीत्यादौ अत इत्यनुवृत्तेरनदन्तत्वादेव न ब्रह्माणीति ब्रह्माणमानयति जीवयतीति विग्रहे ' अन प्राणने' इत्यतो न्यतात्कर्मण्यणि अणन्तत्वात् व्रण ईपि णत्वे च सिद्ध यति । सूत्रं तु इन्द्रस्य स्त्रीति वाक्ये इन्द्रीत्यनिष्टरूपवारणायेति बोध्यम् । इन्द्रादेरानन्वेति तु न सूत्रितम् आगमलिङ्गाभावेन सर्वादेश - प्रसङ्गात् । अनुगपि न कृतः । अल्लोपः स्वर इति लोपप्रसङ्गात् । अकारोच्चारणस्य तु प्रकृत्यकारकरणार्थत्वेन चरितार्थत्वान्न सामर्थ्यम् । शर्वशब्दे च । अत्राहुः । आनुक् सुवचं मात्रा. लाघवादिति । अत्रेदं वक्तव्य मात्रालाघवेऽपि प्रक्रियागौरवस्य सत्त्वेन तुल्यत्वात् । तथा हि । आनुकि सवणे दीर्घः सह, व्रण ईबिति सूत्रद्वयम् आनीपि तु दीर्घसूत्रमेकमेवेति लाघवम् ॥
(आचार्यादणत्वम् ) आचार्यानी ॥ ( सुबोधिनी)-आचार्यादणत्वम् ॥ आचार्य शब्दात्परस्यानीपो नस्य णत्वं न स्यात् ॥ आचार्यस्य स्त्री आचार्यानी-पुंयोगाभावे आचार्या । स्वयं व्याख्यात्री ॥
(हिमारण्ययोमहत्त्वे ) महद्धिमं हिमानी ॥ महदरण्यमरण्यानी ॥ (सुबोधिनी)-हिमारण्ययोमहत्त्वे ॥ महत्त्वयोगे आभ्यामानी स्त्रीत्वं च विधीयते ॥ महद्धिमं हिमानी ॥ " हिमानी हिमसंहतिः” इत्यमरः॥ महदरण्यमरण्यानी । “ महारण्यमरण्यानी" इत्यमरः ॥ _(तत्त्वदी०)-महत्त्वे इति ॥ लक्षणया महत्त्वम्। न दीर्घत्वमिति भावः। तदन्तश्च स्त्रियामिति वक्तव्यम् अन्यथा धौ ह्रस्वः स्त्रियां य्वोरित्यादेः प्रवृत्तिर्न स्यात् स्त्रियामभावात् ॥
(यवादोषे ) दुष्टो यवो यवानी ॥ (सुबोधिनी)-यवादोषे ॥यवादानीपस्त्रीत्वं च दोषेऽर्थे । दुष्टो यवो यवानी ॥ यवत्वजात्यभावे तदाकारानुकृतिर्दोषः। यवाकारानुकृतिमज्जात्यन्तरमेवानेनाभिधीयते॥
(तत्त्वदी०)-यवादोष इति ॥ यवानीति जात्यन्तरमेवानेन विधीयते । अयमेव चास्य दोषः । यदि तु यवत्वजातेरभावेऽपि तदाकारानुकृतिः ।।
( यवनाल्लिप्याम् ) यवनानां लिपिर्यवनानी ॥ (सुबोधिनी)-यवनाल्लिप्याम् ॥ यवनशब्दादानीपू लिप्यर्थे । स च स्त्रीलिङ्ग एव । देवतेदमर्थे इत्यणो बाधक आनी विधीयते । यवनानां लिपिर्यवनानी । लिखिताक्षरविन्यासो लिपिः॥
(मातुलोपाध्यायाभ्यां वा ) मातुलानी-मातुली ॥ उपाध्यायानीउपाध्यायी ॥
Page #210
--------------------------------------------------------------------------
________________
( १९४ )
सिद्धान्तचन्द्रिका |
[ स्त्रीप्रत्ययाः ]
(सुबोधिनी) - मातुलोपाध्यायाभ्यां वा ॥ अभ्यामानीपू वा स्यात् । पक्षे पुंयोगे चेती ॥ मातुर्भ्राता मातुलस्तस्य स्त्री मातुलानी - मातुली ॥ उपाध्यायस्य स्त्री उपध्यायानी - उपाध्यायी ॥
( अक्षत्रियोपाध्यायेभ्यो वा स्वार्थे ) अर्याणी- अर्या ॥ क्षत्रियाणी क्षत्रिया ॥ उपाध्यायानी - उपाध्याया ॥
(सुबोधिनी) - अर्थक्षत्रियोपाध्यायेभ्यो वा स्वार्थे | एभ्यः स्वार्थे आनीपू वा स्यात् । पक्षे आप || अर्याणी - अर्था | स्वामिनी वैश्या वेत्यर्थः । अर्यः स्वामिवैइययोरित्यर्थद्वयेऽपि निपातनात् ॥ क्षत्रियाणी-क्षत्रिया । क्षत्रियजातीया स्त्रीत्यर्थः ॥ पुंयोगे तु अर्थी क्षत्रियी ॥ या तु स्वयमेवाध्यापिका तत्र वा ईपू वाच्यः । पक्षे आपू उपाध्यायी उपाध्याया । उपेत्यास्या । अधीयते इत्यपादाने स्त्रियां घञ । ध्यायान्युपाध्यायी " इत्यमरः ॥
"L
उपा
( तत्त्वदी०) - अर्याणीति ॥ स्वामिनी वैश्या वा स्वार्थे इति ॥ पुंयोगेऽतीत्यर्थः ॥ ( पुंयोगे च ) अदन्तात्स्त्रियामीप् । शूद्री | गणकी ||
( सुबोधिनी) - पुंयोगे च ॥ इह पुमिति षष्ठयन्तं साङ्केतिकं पृथक् पदम् । तच्चावर्त्यते । द्विरुच्चारणमावृत्तिः । पुंसः पुंस इति । योगे इति भावे निमित्ते वा सप्तमी । अधिकारान्नामेति लभ्पते । यत् पुंसो नाम पुंवाचकशब्दोऽदन्तः पुंसो योगे स्त्रियां वर्तते ततईप् स्यात् ॥ योगः सम्बन्धः स चेह दाम्पत्यरूप एवेति नाग्रहः । किंतु जन्यजनकभावोऽपि गृह्यते । तेन केकयस्य क्षत्रियस्य पुत्री केकयीत्यादि सिद्धम् । तथा च भट्टिः । " प्राक्केकयी तो भरतस्ततोऽभूत्" इति ॥ कत्यादित्वात्केकयदुहिता कैकेयीत्यपि । तथा प्रागुक्तः " कैकेयि कामाः फलितास्तवेति" इति कालिदासेन ॥ पुंयोगे किम् । देवता । अयं हि संज्ञाशब्दः स्वभावात स्त्रियां वर्तते न तु पुंवाचकशब्दयोगे || अतः किम् । भानोः स्त्री भानुः ॥
( तत्वदी ० ) - गणीति ॥ गणकस्य स्त्रीत्यर्थः । स्त्रियां वृत्तिस्तु साहचर्यात् । तस्येयमिति सम्बन्धात् । तद्धितस्त्वभेदविवक्षातो न । यदि भेदविवक्षा तदा गणकेत्यपि भवत्येव । पुंयोगभ्ध न दम्पत्यरूप एव किंतु जन्यजनकभावलक्षणोऽपि तेन केकयीत्यपि ॥
( पालकान्तान्न ) गोपालिका । अश्वपालिका ॥
( सुबोधिनी ) - पालकान्तान्न ॥ पुंयोगे ईबू न स्यात् । गोपालकस्य स्त्री गोपालिका |
( तत्त्वदी ० ) - पालकान्तान्नेति ॥ चकारस्य व्यवस्थितत्वार्थत्वादित्यर्थः ॥
Page #211
--------------------------------------------------------------------------
________________
[स्त्रीप्रत्ययाः ] टीकाद्वयोपेता।
( १९५) (सू-देवतायां चाप) सूर्यस्य स्त्री देवता सूर्या । अन्या सूरी ॥ ( सुबोधिनी)-सूर्यादेवतायां चाप् ॥ सूर्यशब्दात् पुंयोगे आप् स्यात् देवतार्थ ईपोऽपवादः ॥ देवतायां किम् । सूर्यस्य स्त्री सूरी मानुषी कुन्तीत्यर्थः । सूर्यागस्त्ययोरिति यलोपः॥ ( तत्त्वदी० )-सूरीति ॥ सूर्यागस्त्ययोरीये ईपि चेति यलोपः ॥
(जातेरयोपधात् ) जातिवाचिनोऽयकारोपधादकारान्तात्त्रियामीप् प्रत्ययो भवति ॥ महिषी । हंसी ॥ योपधात्तु । क्षत्रिया । वैश्या ॥
(सुबोधिनी)-जातेरयोपधात् ॥ जातिवाचकाद्य उपधा यस्य स योपधः न योपधः अयोपधस्तस्मादयोपधात् अदन्तास्त्रियामीप् स्यात् ॥ जातिलक्षणमाह । "आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक। सकृदाख्यातनि ह्या गोत्रं च चरणैः सह ॥१॥" आकृतिम्रहणं यस्याःसा आकृतिग्रहणा जातिरुच्यते । आकृतिः। संस्थानम् । गृह्यतेऽनेनेति ग्रहणम् । करणे युट् । अवयवसंनिवेशविशेषव्यङ्गयेत्यर्थः । यथा तटी। तटादेः सर्वलिङ्गत्वेऽपि आकृतिग्रहणत्वाज्जातित्वं भवति । अनेन लक्षणेन गोत्वादिजातिर्लक्षिता । ब्राह्मणत्वादिजातिस्तु न लक्षिता । ब्राह्मणक्षत्रियादीनां ह्यवयवसंस्थानस्य सदृशत्वाद्ब्राह्मणादिष्वव्याप्तिवारणाय लक्षणान्तरमाह। चकारो भिन्नक्रमार्थः । या तकृदाख्यातानि ह्या सा जातिरुच्यते । सकृदेकवारमाख्यातोपदिष्टा सती निर्लाह्या निश्चेतुं शक्या सा जातिरित्यर्थः। कीदृशी सा लिङ्गानां न सर्वभाक् । लिङ्गानामिति कर्मणि षष्ठी । सर्वाणि भजतीति सर्वभाक् । या सर्वाणि लिङ्गानि न भजतीत्यर्थः । सर्वशब्दस्य लिङ्गापेक्षत्वेऽपि गमकत्वात् भजो विणप्रत्ययः समासश्च । असर्वलिङ्गत्वे सत्येकस्यां व्यक्तो कथनाध्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । यथा वृषली । एकस्यां हि व्यक्तौ वृषलत्वे कथिते तदपत्यतत्सहोदरादौ कथनं विनापि वृषलत्वस्य मुग्रहः ॥ सकृदित्यादि किम् । देवदत्ता । यस्यां हि व्यक्तौ देवदत्तत्वं कथ्यते तत्समकालमन्या देवदत्तव्यक्तिरप्रसिद्धेति न देवदत्तत्वं जातिः। उक्तलक्षणद्वयरहितत्वात् ॥ तृतीयलक्षणमाह । चरणैः सह गोत्रं जातिरुच्यते। चरणशब्देन शाखाध्येतार उच्यन्ते । गोत्रशब्देनापत्यमुच्यते अपत्यप्रत्ययान्तःशाखाध्येतृवाचकशब्दो जातिवाचक इत्यर्थः ॥ गोत्रस्यानाकृतिग्रहणत्वात् सर्वलिङ्गत्वाच्च पृथगुपादानम् । चरणशब्दास्त्वध्ययनक्रियासंबन्धेन प्रवृत्तत्वात् क्रियाशब्दा एव न जातिशब्दा इति चरणग्रहणं कृतम् । आकृतिग्रहणा यथा । महिषी । हंसी ॥ असर्वलिङ्गा यथा । ब्राह्मणी । वृषली ॥ गोत्रलक्षणा यथा । पैतृष्वस्त्रीयी। औपगवी अण्णतनिमित्तकमीपं परत्वादयं बाधते इति भावः ॥ चरणलक्षणा यथा। फठेन प्रोक्तमधीथाना कठी।कारकादित्यशप्रत्ययस्मस्व लुक च ॥ अल इति किम् । तित्तिकिगी।
Page #212
--------------------------------------------------------------------------
________________
( १९६)
सिद्धान्तचन्द्रिका |
[ स्त्रीप्रत्ययाः ]
( तत्त्वदी ० ) - जाते र योपधादिति ॥ जातिलक्षणमुच्यते । " आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रं च चरणैः सह ॥” आकृतिग्रहणा जातिः । आकृतिः संस्थान ग्रहणं यस्याः सा आकृतिग्रहणा । अवयवसन्निवेश विशेषव्यङ्गयेत्यर्थः । अनेन गोत्वादिजातिर्लक्षिता ॥ ब्राह्मणत्वादिजातिस्तु न ब्राह्मणक्षत्रियादीनां संस्थानस्य सादृश्यात्। अतो लक्षणान्तरमाह । लिङ्गानां चेत्यादि || सर्वाणि लिङ्गानि न भजतीत्ययमर्थो विवक्षितः । सर्वशब्दस्य लिङ्गापेक्षत्वेऽपि भजो विण्प्रत्ययः समासश्च बोधकत्वात् । लिङ्गानामिति कर्मणि षष्ठी । सर्वं लिङ्गं न भजतीत्यर्थः ॥ सकृदिति ॥ असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्व्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिरिति लक्षणान्तरम् । अक्षरार्थस्तु एकस्मिन्पिण्डे सकृदेकवारमाख्याता अयं गौरित्युपदिष्टा पिण्डान्तरेषु निर्माह्या निश्चेतुं शक्येत्यर्थः ॥ अप्राप्तप्रापण चेंद न तु पूर्वलक्षणसङ्कोचकं तेन तटादेर्जातित्वम् । देवतादौ तु उपदेशाभावान्न लक्षणसमन्वयः । येषु सर्वेषु लिङ्गेष्वाचार्या जातिवाचित्वमुपदिशन्ति तेष्वेव वदन्तीत्यर्थः ॥ गोत्रं च चरणैः सहेति ॥ गोत्रशब्देनापत्यमुच्यते । चरणशब्देन शाखाध्यायिन उच्यते । तेनापत्यप्रत्ययान्तः शाखाध्येतृवाची शब्दो जातिवाचक इत्यर्थः ॥ कुक्कुटी सूकरीति प्रथमस्योदाहरणम् ॥ ब्राह्मणी वृषलीति द्वितीयस्य ॥ गार्गी पैतृष्वस्रीयीति तृतीयस्य ॥ कठी वराकीति चतुर्थस्य || गवयेत्यादिनोक्तस्यानित्यत्वादिति भावः ॥
( वचित्र ) बलाका ||
( सुबोधिनी ) - कचिन्न ॥ यः शब्दो जातिवाची अयोपधः स्त्रियां नियतश्च ततो नेपू भवतीत्यर्थः । " बलाका बिसकण्ठिका" इत्यमरः ॥
( गवयहय मुकय मनुष्यमत्स्यानामनिषेधः ) गवयी । इयी । मुकी ॥ हसात्तद्धितस्येपि लोपः मनुषी ॥
(सुबोधिनी ) - गवयहयमुकयमनुष्यमत्स्यानामनिषेधः ॥ योपधेभ्योऽप्येभ्य ईप् स्यात् ॥ हसात्तद्वितयस्येपि लोपः । हसात्परस्य तद्धितयकारस्य लोपः स्यादीपि ॥ यस्येत्यलोपः । मनुषी ॥
0
( तत्त्वदी ० ) - गवयेति ॥ हसात्तद्धितेत्यादि । एतद्बीजं तु यस्येति सूत्रध्याख्यानावसरे चोक्तम् ।
( मत्स्यस्य यलोपः ) मत्सी ॥
( सुबोधिनी ) - मत्स्यस्य यलोपः ॥ मत्स्यशब्दस्य यकारस्य लोपः स्यादीपि । यस्येत्यलोपः । मत्सी ॥
( सूर्यागरस्ययोरीय ईपि च ) सरी । अगस्ती ||
Page #213
--------------------------------------------------------------------------
________________
[ स्त्रीप्रत्ययाः ] टीकाद्वयोपेता।
(१९७) (सुबोधिनी )-सूर्यागस्त्ययोरीये ईपि च ॥ अनयोर्यकारस्य लोपः स्यात् ईयप्रत्यये ईप्प्रत्यये च ॥ सूरीयः। सूरी । अगस्तीयः। अगस्ती ॥
(तिष्यपुष्ययोनक्षत्राणि यलोपः) तैषी । पौषी ॥ (सुबोधिनी )-तिष्यपुष्ययोनक्षत्राणि यलोपः ॥ अनयोर्यकारस्य लोपः स्यात् । नक्षत्रसंबन्धी योऽण् स नक्षत्राण । नक्षत्रेण युक्तः काल इत्यण् । नक्षत्रे भव इत्यण् च तस्मिन् परतः॥ तिष्यण युक्तः कालस्तैषः॥ पुष्येग युक्तः कालः पौषः। तथा तिष्ये भवस्तैयः । पुष्ये भवः पौषः । स्त्रियां व्रण ईवितीप् । यस्येत्यलोपः। तैषी। पौषी ॥
(जानपदादिभ्योऽर्थविशेषे ईप ) जानपदी-वृत्तिश्चेत् । अन्या जानपदी ॥ कुण्डी-अमत्रं चेत् । कुण्डाऽन्या ॥ गोणी-आवपनं चेत् । गोणाऽन्या ॥ स्थली-अकत्रिमा चेत् । स्थलाऽन्या ॥ भाजी श्राणा चेत् । भाजाऽन्या ॥ नागी-स्थूला चेत् । नागाऽन्या ॥ काली-वर्णश्चेत् । कालाऽन्या ॥ नीली–ओषधिप्राणिनोः । नीलाऽन्या ॥ संज्ञायां वा । नीलानीली ॥ कुशी-अयोविकारे । कुशाऽन्या ॥ कामुकी-मैथुनेच्छायाम् । कामुकाऽन्या ॥ कबरी-केशविन्यासे । कबराऽन्या ॥ - (सुबोधिनी)-पाणिनिसूत्रम्। जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरावृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु । एभ्य एकादशभ्य एष्वर्थेष्वीप ष्यात् ॥ जनपदे देशे भवा जानपदी । भवार्थे अण् वर्तते । वृत्ति विका चेद्यदि । अन्येति ॥ अन्याऽप्येवं जानपदी । वृत्त्यभावे आद्युदात्त इति स्वरे भेदः ॥ “अस्त्री कमण्डलुः कुण्डी" इत्यमरः॥ अमत्रं पात्रम् । कुण्डी स्त्रीविषयत्वाभावादप्राप्त ईप विधीयते । अन्या कुण्डा । कुडि दाहे । अस्माद्गुरोर्हसादित्यङ्प्रत्यये रूपम् । यस्तु "अमृते जारजः कुण्डः " इति मनुष्यजातिवाची कुण्डशब्दस्ततो जातिलक्षण ईपू भवत्येव ॥ ओप्यते निक्षिप्यते धान्यं यस्मिन् तदावपनम् । गोणी । आपूर्वाद्वपेराधिकरणे युट् । अन्या गोणेति यथेच्छं नाम ॥ अकृत्रिया पुरुषेणासंस्कृता भूमिः स्थली। पुरुषकृता तु स्थला ॥ पुष्टा चेत् नागी। अन्या नागा ॥ वर्णयुक्ता चेत् काली । अन्या काला ॥ अनाच्छादनं चेन्नीली ओषधिविशेषः । प्राणिनि तु नीली गौः । आच्छादने तु नीला शाटी । अयसो लोहस्य विकारः अयोविकारः फाल इति प्रसिद्धः । तत्र कुशी । अन्या कुशा । वेदे औदुम्बरशकुंकुशा इति व्यवहरन्ति । “वल्गावक्षेपणी कुशा " इति
Page #214
--------------------------------------------------------------------------
________________
( १९८ )
सिद्धान्तचन्द्रिका |
[ स्त्रीप्रत्ययाः ]
हैमकोशे ॥ मैथुनेच्छायां सुरतवाञ्छायां कामुकी । वनादिकं कामयितुं शीलं यस्याः सा कामुका । पाकोकण इत्युकण् ॥ केशविन्यासे केशरचनायां कबरी | अन्या कबरा | चित्रेत्यर्थः ॥
( तत्त्वदी ० ) - जानपदेत्यादि ॥ पुंयोगे इत्यत्र चकारस्य व्यवस्थितत्वाश्रयणादिति भावः ॥ आवपन इति ॥ ओप्यते निक्षिप्यते धान्यं यस्मिन् तत्तस्मिन् । गोणाऽन्या याहच्छिकं नाम ॥ अकृत्रिमायामिति ॥ असंस्कृतायामित्यर्थः ॥ श्राणेति ॥ पक्वेत्यर्थः ॥ अयोविकार इति ॥ फाल इत्यर्थः ॥ कुशा औदुम्बराः शंकवः ॥
( शोणाद्वा) शोणी - शोणा ॥
(सुबोधिनी ) - शोणाद्वा ॥ शोणशब्दादा ईपू स्यात् ॥ " शोणः कोकनदच्छविः" इत्यमरः ॥
(बहुव्रीहेर्जातिपूर्वात् कान्तात् ) ऊरुभनी ॥
(सुबोधिनी) - बहुव्रीहेजति पूर्वात् क्तान्तात् ॥ जातिवाचिपूर्वपदात् क्तान्ताददन्ताद्बहुव्रीहेः स्त्रियामीप् । भिन्नावूरू यस्या इति बहुव्रीहौ भिन्नशब्दस्य बहुव्रीहौ विशेषण सप्तम्यन्तत्तान्तानामिति पूर्वनिपाते प्राप्ते कचिन्नेति परनिपातः ॥
- ( तत्वदी ० ) - बहुव्रीहेरिति ॥ एतद्वीजं तु चकार एव ॥
(जातान्तान्न ) दन्तजाता ॥
( सुबोधिनी ) - जातान्तान्न || जातशब्दान्ताद्बहुव्रीहेर्जातिवाचिपूर्वपदादीप् न । दन्ता जाता यस्याः सा दन्तजाता ॥
(अस्वाङ्गपूर्वपदाद्वा) सुरापीती - सुरापीता ॥
( सुबोधिनी ) - अस्वाङ्गपूर्वपदाद्वा ॥ अस्वाङ्गवाचि पूर्वपदात् क्तान्ताददन्ताद्वहुश्रीहेः स्त्रियां वेप् स्यात् । पीता सुरा यया सा सुरापीता । कचिन्नेति क्तान्तस्य परनिपातः ॥ बहुव्रीहेर्जातिपूर्वपदादित्यनेन नित्ये प्राप्ते विकल्पार्थमेतत् ॥
( तत्त्वदी ० ) - सुरापीतीति ॥ नाम्नः कृतेति व्युत्पत्तेः प्रागेव समासे सिबन्ते न । समासे तु सुरापीतेत्यादिकमेव ॥
( पाणिगृहीती भार्यायाम् ) अन्या पाणिगृहीता ||
(सुबोधिनी) - पाणिगृहीती भार्यायाम् ॥ यस्याः पाणिरग्निसाक्षिको गृह्यते तस्यां वाच्यायां पाणिगृहीतशब्दादीप् स्यात् ॥ अन्येति ॥ कौतुकादिना पाणिगृहीतो यस्या दास्यादेः सा पाणिगृहीता ॥
Page #215
--------------------------------------------------------------------------
________________
[स्त्रीप्रत्ययाः] टीकाद्वयोपेता।
(१९९) (क्रीतान्तात्करणादेः) वस्त्रक्रीती । कचिन्न । धनकीता ॥ (सुबोधिनी )-क्रीतान्तात्करणादेः॥ आदिशब्दो ह्यवयववचनः करणमादिरवयवो यस्य तस्मात् करणादेरेकपदादित्यर्थः । क्रीतान्ताददन्तात् करणादेः स्त्रियामीप् स्यात् ॥ वस्त्रेण क्रीतेति वस्त्रक्रीती ॥ करणादेरिति किम् । गवा कीता । अश्वेन क्रीता ॥
(तान्तादल्पत्वे ) अवलिप्ती द्यौः ॥ अल्पत्वे किम् । चन्दनलिप्ताऽन्या मूर्तिः॥
(सुबोधिनी )-तान्तादल्पत्वे ॥ करणादेः क्तान्ताददन्तास्त्रियामीप् स्यादल्पत्वे द्योत्ये । अल्पैरभैलिप्तेति अभ्रलिप्ती ॥
(स्वाङ्गाद्वा ) स्वाङ्गवाचिनोऽदन्तादसंयोगोपधादुपसर्जनादा स्त्रियामीप् ॥ सुमुखी-सुमुखा । सुकेशी-सुकेशा ॥ संयोगोपधात्तु सुगुल्फा ॥
(सुबोधिनी )-स्वांगाद्वा ॥ स्वाङ्गवाचकादकारान्तादसंयोगोपधाद्गौणादा स्त्रियामीप् स्यात् ॥ यथा सुष्ठु मुखं यस्याः सा सुमुखी ॥ सुष्टु केशा यस्याः सा सुकेशी । पक्षे आवत इत्याप् ॥ असंयोगोपधात्किम् । सुष्ठु गुल्फो यस्याः सा सुगुल्फा ॥ उपसर्जनाकिम् । शोभना शिखेति सुशिखा । शीङो ह्रस्वश्चेति खप्रत्ययः। आवत इत्यापू ॥ किंच यद्यत्र स्वम् अङ्गं स्वांगं गृह्येत तदा सुमुखा शालेत्यत्रापीप् स्यात् । मुखस्य शालांगत्वात् । सुकेशी रथ्येत्यत्र चेप् न स्यात् । केशानां रथ्यांगत्वाभावात् । अतोऽव्याप्त्यतिव्याप्तिपरिहारार्थमाह । तत्स्वांग त्रिधा। तथा च । “अद्रवन्मूर्तिमत्स्वांगं प्राणिस्थमविकारजम् ॥ अतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथा युतम् ॥ १॥" तत्स्वांगमुच्यते । कीदृशम् । अद्रवत् द्रवतीति द्रवत् न द्रवदद्रवत् ॥ सुष्ठु स्वेदो यस्याः सा सुस्वेदा । द्रवत्वादत्र स्वांग न पुनः कीदृशम् । मूर्तिमत् । स्पर्शवद्रव्यपरिमाणं मूर्तिः । मूर्तिरस्यास्तीति तन्मूर्तिमत् । सुष्ठु ज्ञानं यस्याः सा सुज्ञाना । अमूर्तत्वात् अत्र स्वांग न ॥ पुनः कीदृशम् । प्राणिस्थम् । मुखनासिकान्तःसंचारी वायुः प्राणः। प्राणोऽस्यास्तीति प्राणी । प्राणिनि तिष्ठतीति तत्प्राणिस्थम् । सुष्ठु मुखं यस्याः सा सुमुखा शाला । अप्राणिस्थत्वादत्र स्वांग न॥ पुनः कीदृशम् । अविकारजम् । वातपित्तकफानां विकृतिर्विकारः । विकाराज्जातं विकारजं न विकारजम् अविकारजम् । सुष्टु शोफो यस्याः सा सुशोफा । "शोफस्तु श्वयथुः शोथः" इत्यमरः॥ विकारजवादत्र स्वांगं न ॥ यदि प्राणिस्थं स्वांग तहि रथ्यादिगतानां केशादीनां स्वांगत्वं न स्यात् । सुकेशी रथ्या इति न सिद्धय
Page #216
--------------------------------------------------------------------------
________________
(२००)
सिद्धान्तचन्द्रिका। [स्त्रीप्रत्ययाः ] त्यतो द्वितीयं लक्षणमाह । च पुनः अतत्स्थं तत्र दृष्टं स्वांगमुच्यते । कदाचित्तत्र प्राणिनि दृष्टं तस्मिन् प्राणिनि तिष्ठतीति तत्स्थं न तत्स्थम् अतत्स्थम् अग्राणिस्थमित्यर्थः । अप्राणिस्थस्यापि केशादेः पूर्व प्राणिनि दृष्टत्वात् स्वांगम् । एवमपि प्रतिमादिगतस्तनमुखादीनां स्वांगत्वं न प्राप्नोति । प्राणिन्यदृष्टत्वात् । सुस्तनी प्रतिमेति न सिध्यत्यतस्तृतीयलक्षणमाह । तेन चेत्तत् तथा युतम् अतत्स्थमित्यनुषज्यते । एतादृशं तदप्राणिस्थं मुखादि स्वांगमुच्यते । कीदृशम् । चेद्यदि तेन प्राण्यंगेन मुखादिना सह तथा युतं प्राणिवद्युतं सहितं यथा प्राणियुतं तद्वदप्राणिनि युतं भवतीत्यर्थः ॥ सुष्ठु स्तनौ यस्याः सा सुस्तनी प्रतिमा । प्राणिसदृशे प्रतिमादौ प्राणि नि इवेति प्राणिवत् स्तनादेः स्थितत्वात् स्वांगमस्ति ॥
(तत्त्वदी० )-स्वाङ्गाद्वेति ॥ स्वमग स्वांगमित्युक्तौ सुमुखा शालेत्यत्रातिव्याप्तिः। मुखस्य शालावयवत्वात् । दीर्घकेशी रथ्येत्यत्राव्याप्तिश्च । केशानां रथ्यांगत्वाभावात् अतस्तपरिहाराय स्वांगलक्षणमुच्यते । “ अद्रवन् मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथा युतम् ॥' प्राणिस्थं स्वांगं प्राणिनि तिष्ठतीति प्राणिस्थम् । एतेन श्लक्ष्णमुखा शालेत्यत्र न भवति । अपाणिस्थत्वात् ॥ द्रवतीति द्रवत् । ततोऽन्यदद्रवत् । एवं च सुस्वेदाऽत्र न भवति द्रवत्वात् ॥ मूर्तिमदिति ॥ असर्वगतद्रव्यपरिमाणं मूर्तिः । असर्वगतानि यानि द्रव्याणि तेषां यत्परिमाणं हस्वत्वादि सा मूर्तिः । स्पर्शनद्रव्यपरिमाणं मूर्तिरित्यन्ये । साऽस्यास्तीति तन्मूर्तिमत् । एवं च बहुज्ञानाऽत्र न भवति अमूर्तस्वात् । अविकारजमिति ॥ विकारो वातादिवैषम्यं ततो यजायते तन्न भवतीत्यविकारजम् । एवं सुशोफाऽत्र न भवति ॥ अतत्स्थमिति ॥ सांप्रतमप्राणिस्थमपि कदाचित्प्राणिनि दृष्टं चेत्तदपि स्वांग भवत्येवेत्यर्थः ॥ तथा च दीर्घकेशी रथ्येत्यत्र भवत्येव । इदानीम् अगाणिस्थस्यापि पूर्व प्राणिनि दृष्टत्वात् ॥ तेन चेदिति ॥ अतत्स्थमित्यनुषज्यते । अप्राणिस्थमपि मुखादि स्वागं तेन चेत् मुखादिना तत् अपाणि द्रव्यं तथा युतं भवति । यथा प्राणि द्रव्यमित्यर्थः । एवं दीर्घमुखी प्रतिमेति भवति प्राणिवत्प्राणिसदृशेऽपि स्थितत्वात् ॥
! (नासिकोदरौष्ठजवादन्तकर्णशृङ्गाद्वा) तुङ्गनासिकी-तुङ्गनासिका । मंदोदरी-मंदोदरा । बिम्बोष्ठी-बिम्बोष्ठा ॥ एवं सुजङ्की । सुदन्ती । सुकर्णी । सुशृंगी॥
(सुबोधिनी)-नासिकोदरौष्ठजङ्घादन्तकर्णशृंगाद्वा॥ एभ्यो वेपू स्यात् ॥ नासिकोदरयोर्न क्रोडादिबहुस्वरादिति ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति निषेधे प्राप्त वचनम् ॥ तुंगा नासिका यस्याः सा तुंगनासिकी ॥ मन्दम् उदरं यस्याः सा मन्दोदरी ॥ विम्बवत् ओष्ठौ यस्याः सा बिम्बोष्ठी ॥ सुष्ठु जंघे यस्याः सा सुजंघी । पक्षे आए सुजघोत ॥
Page #217
--------------------------------------------------------------------------
________________
[स्त्रीप्रत्ययाः ] टीकाद्वयोपेता।
(२०१) ( तत्त्वदी० )-नासिकेत्यादि ॥ वाप्रणादेतत्सर्वम् । नासिकोदरयोर्बहुस्वरादप्राप्तिः । ओष्ठादीनां तु संयोगोपधत्वादप्राप्तिः ।
(अङ्गगात्रकण्ठपुच्छाच्च ) स्वंगी। सुगात्री । सुकण्ठी। सुपुच्छी। पक्षे स्वंगेत्यादि ॥ __ (सुबोधिनी )-अङ्गगात्रकण्ठपुच्छाच ॥ एभ्यो वेष् स्यात् ॥ असंयोगोपधादिति निषेधे प्राप्ते वचनम् ॥ सुष्ठु अंगं यस्याः सा स्वंगी॥ सुष्ठु गात्रं यस्याः सा सुगात्री ॥ सुष्टु कण्ठो यस्याः सा सुकण्ठी ॥ सुष्ठु पुच्छं यस्याः सा सुपुच्छी ॥ पक्षे आम् ॥
(कबरमणिविषशरेभ्यः परात् पुच्छानित्यम् ) कबरपुच्छी । माणिपुच्छी । विषपुच्छी । शरपुच्छी ॥ • (सुबोधिनी )-कबरमाणविषशरेभ्यः परात् पुच्छान्नित्यम् ॥ ईप् स्यात् ॥ कबरं चित्रं पुच्छं यस्याः सा कवरपुच्छी ॥ मणिः पुच्छे यस्याः सा मणिपुच्छी ॥ शरः पुच्छे यस्याः सा शरपुच्छी ॥ विषं पुच्छे यस्याः सा विषपुच्छी ॥
(उपमानात्पक्षपुच्छाभ्याम् ) श्येनपक्षी । श्येनपुच्छी ॥ (सुबोधिनी )-उपमानात्पक्षपुच्छाभ्याम् ॥ उपमानात्पराभ्यां पक्षपुच्छाभ्यां नित्यमीप् ॥ श्येनवत् पक्षौ यस्याः सा श्येनपक्षी ॥ श्येन इव पुच्छं यस्याः सा श्येनपुच्छी ॥ . (न कोडादिबहुस्वरात् ) कल्याणकोडा । सुजघना ॥
(सुबोधिनी)-न क्रोडादिबहुस्वरात् ॥ क्रोडादेवहुस्वराच्च स्वाङ्गान्नेप्स्यात् ॥ अश्वानामुरः क्रोडा । सुष्ठु जघनं यस्याः सा सुजघना ॥ _ (तत्त्वदी०)-कल्याणक्रोडेति ॥ अश्वानामुरः क्रोडा स्त्रीलिङ्गोऽयमिति हरदत्तादयः। तत्रान्यार्थत्वेन ह्रस्वत्वेऽदन्तत्वादीपः प्राप्तिः ॥ अमरस्तु 'न ना क्रोड भुजान्तरम् ' इत्याह ।। रत्नमणिस्तु पुंस्त्वमाह । गणे च क्रोडेति प्रातिपदिकमात्रं पठ्यते न तु आबन्तमिति गणरत्नमहोदधिकारः। एवं चाविशेषाल्लिङ्गत्रयेऽपि उदाहरणं बोध्यम् ॥ माधवस्तु तुदादिगणे 'क्रुडू निमज्जने ' इति धातोराह । कोड: घञ् । क्रोडा अश्वानामुः। अयं स्वभावतो विशेषविषयः। क्रोडादिषु आवन्तस्यैव पाठात् । भुजान्तरमात्रवचनस्य क्रोडशब्दस्य बहुव्रीहौ स्वाङ्गलक्षण ईबावकल्पो भवत्येव । कल्याणक्रोडी। कल्याणक्रोडादिराकृतिगणः ॥
(सहनविद्यमानपूर्वान ) सकेशा । अकेशा । विद्यमाननासिका।
Page #218
--------------------------------------------------------------------------
________________
(२०२) सिद्धान्तचन्द्रिका। [स्त्रीप्रत्ययाः]
( सुबोधिनी )-सहनविद्यमानपूर्वान ॥ सहेत्यादित्रिकपूर्वात्स्वाङ्गान्ने स्यात् ॥ सह केशः वर्तते या सासकेशा। सहादोरति सहस्य सः॥अविद्यमानाः केशाः यस्याः सा अकेशा । ना इति नजोऽकारादेशः ॥ विद्यमाना नासिका यस्याः सा विद्यमाननासिका । स्वाङ्गादत्यस्य नासिकोदरौष्ठेत्यस्य च बाधकोऽयं परत्वात् ॥
(नखमुखात्संज्ञायाम् ) शूर्पणखा । गौरमुखा । संज्ञायां किम् । ताम्रमुखी कन्या ॥
(सुबोधिनी)-नखमुखात् संज्ञायाम् ॥ आभ्यामीप न स्यात् संज्ञाथै ॥ शूर्पणखा। रावणस्य स्वसुर्नाम ॥ यदा शूर्पवन्नखानि यस्याः सा इति योगमात्रं विवक्ष्यते न तु संज्ञा तदा ईप् स्यादेव णत्वाभावश्च ॥ गौरमुखति कस्याश्चित् संज्ञा ॥ असंज्ञायां तु तानं मुखं यस्याः सा ताम्रमुखी ॥
(वौर्गुणात् ) उदन्ताद्गुणवाचिनो वा स्त्रियामीपू स्यात् ॥ पट्टीपटुः । बह्वी-बहुः ॥
(सुबोधिनी)-वोर्गुणात् ॥ वा ओरित छेदः । गुणशब्दोऽत्र गुणवत्वपरो न तु गुणमात्रवाचिपरो गुणमात्रवाचकानां स्त्रीलिङ्गाभावात् । “गुणे शुक्लादयः पुंसि" इत्युक्तत्वात् ॥ उदन्तादिति किम् । शुचिः॥ गुणात्किम् । आखुः।। महाभाष्ये गुणलक्षणम् । “सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥" स गुण उच्यते । यः सत्त्वे द्रव्ये निविशते । द्रव्यमुपैतीत्यर्थः ॥ ननु द्रव्ये द्रव्यत्वं तत्रातिव्याप्तिरत आह । यः पृथक द्रव्यादपैति अपगच्छति । द्रव्यं जहातीत्यर्थः॥ यथा पीततायां जातायां नीलता फलादपैति नैवं द्रव्यत्वं द्रव्यादपैति । ननु गोषु गोत्वं तदश्वादेश्चापैति तत्रातिव्याप्तिरत आह । यः पृथगजातिषु दृश्यते । द्रव्यान्तरेष्ववलोक्यते । यथाऽभ्र दृष्टा नीलता तृणादिष्वपि दृश्यते न तथा गोत्वं पृथग्जातिषु दृश्यते ॥ एवं तर्हि द्रव्ये क्रिया वर्तते सा द्रव्यादपैति पृथग्जातिषु दृश्यते चेति तत्रातिव्याप्तिरत आह । य आधेय उत्पाद्यः। च पुनः यः अक्रियाजोऽनुत्पाद्य इत्यर्थः । उत्पाद्यो यथा । घटादेः पाकजो रूपादिः । अनुत्पाद्यो यथा। आकाशादेर्महत्त्वादिः। क्रिया तु सर्वाऽप्युत्पाद्यैव ॥ ननूत्पाद्यायाः क्रियाया वैविध्याभावाद्गुणत्वाभावः । एवं तर्हि द्रव्यस्य गुणत्वं प्राप्नोति । तथा हि । अवयवि द्रव्यं ह्यवयवद्रव्येषु निविशते संयोगविनाशादवयवद्रव्यादपति । पृथग्जातिषु हस्तपादादिषु दृश्यते । द्रव्यमुत्पाद्यानुत्पाद्यभेदेन द्विविधम् । तत्र निरवयवस्यात्मपरमाण्वा. देरनुत्पाद्यत्वं नित्यत्वात् । अवयविद्रव्यस्य घटादेस्तुत्पाद्यत्वमस्त्यनित्यत्वादत आह योऽसत्त्वप्रकृतिरद्रव्यस्वभावो द्रव्याद्भिन्न इत्यर्थः ॥
Page #219
--------------------------------------------------------------------------
________________
[स्त्रीप्रत्ययाः ] टीकाद्वयोपेता।
(२०३) (तत्त्वदी० )-वौर्गुणादिति ॥ वा ओः गुणादिति छेदः । औरिति तु न । औः प्रत्यय इति व्याख्यानं न कार्यिणः प्रागनुद्देशात् । सतो हि कार्यिणः कार्येण भाव्यमिति । ओरित्यपि उवर्णान्तस्यैव ग्रहणम् न त्वोकारान्तस्य गुणस्य तदभावात् । केवलस्यापि उमात्रस्य गुणस्याभावात् । गुणशब्दोऽपि न स्वरूपपरः तस्यानुदन्तत्वात् । गुणमात्रवाचिपरोऽपि न तस्य स्त्रियामप्रवृत्तेः । " गुणे शुक्लादयः पुंसि" इति वचनात् ॥ गुणलक्षणं तु " उपत्यन्यजहात्यन्यद् दृष्टो द्रव्यान्तरेष्वपि । वाचकः सर्वलिङ्गानां द्रव्यादन्यो गुणः स्मृत" इति ॥
(खरुसंयोगोपधान) खरुः । पाण्डुः ॥
( सुबोधिनी)-खरुसंयोगोपधान ॥ खरुशब्दात् संयोगोषधगुणवाचिनः शब्दाच्च नेप् स्यात् ॥ खरुः पतिवरा कन्या । पाणिग्रहणोत्कण्ठावतीत्यर्थः ॥
(तत्त्वदी०)-खरुसंयोगेत्यादि ॥ वाशब्दादेतत् । खरुः पतिंवरा कन्या । तत्र पाणिग्रहणोत्कण्ठाभिधायित्वाद् गुणवचनत्वम् ॥
(कृदिकारादक्त्यर्थात् ) आजी-आजिः । धूली-धूलिः । रात्रीरात्रिः। शकटी-शकटिः । अक्त्यर्थात् किम् । भूतिः। अजननिः॥
(सुबोधिनी)-कृदिकारादक्त्यर्थात् ॥ क्त्यादिभिन्नात्कृत्संबन्धिन इकारात् स्त्रियां वेप स्यात् ॥ आजी संग्रामः॥ धूली रजः ॥ अक्त्यर्थात् किम् । भूतिः। क्तिरिति स्त्रियां भावेऽर्थ क्तिः ॥ आक्रोशे नश्यनिरिति जनेरनिप्रत्ययः । न जायते इत्यजननिः।।
( पद्धत्यादिभ्यो वा ) पद्धती-पद्धतिः। (सुबोधिनी )-पद्धत्यादिभ्यो वा ॥ स्त्रियामेभ्यो वेप् स्यात् ॥ पद्भयां हन्यते इति पद्धतिर्मार्गः। क्तिप्रत्ययान्तत्वादप्राप्त विध्यर्थम् । पद्धतिशब्दो गणे पठ्यते । पद्धतिषष्टिविकटविशालकल्याणपुराणचण्डकृपाणअहनित्यादयः ॥ __ (ऐ च मन्वादेः) मनुपूतक्रतुवृषाकप्यमिकुसितकुसिदानामै आदेश ईपू च स्त्रियां पुंयोगे ॥ पूतक्रतायी । कुसितायी । कुसिदायी । वृषाकपायी । अनायी ॥
(सुबोधिनी)-ऐ च मन्वादेः ॥ मनुरादिर्यस्य स मन्वादिस्तस्मान्मन्वादेः। आदिशब्दः प्रकारे। स्त्रियां मन्वादेरीप् स्यात् पुयोमे एषामन्तस्यैकारादेशश्च ॥ पूतः ऋतुर्यस्य येन वा पूतक्रतुः। पूतकतोः स्त्रीः पूतक्रतायी ॥ पुंयोगे किम् । पूतक्रतुर स्त्री। "यया तु क्रतवः पूताः स्यात्पूतक्रतुरेव सा" इत्यमरः ॥ अमेः स्त्री अग्नायी।
Page #220
--------------------------------------------------------------------------
________________
(२०४ ) सिद्धान्तचन्द्रिका। [ स्त्रीप्रत्ययाः] "अथाऽनायी स्वाहा च हुतभुप्रिया" इत्यमरः ॥ वर्षति कामानिति वृषः । नाम्युपधारक इति कः। आकम्पयति पापानिंत्याकपिः, अत्रान्तर्भावितजिप्रत्ययार्थोऽस्ति । 'इखखि' इति इप्रत्ययः। इदित इति न नुम् । आगमजमनित्यमित्युक्तत्वात् । वृषश्वासौ आकपिश्च वृषाकपिः वृषाकपेः स्त्री वृषाकपायी। “हरविष्णू वृषाकपी" इति । "वृषाकपायी श्रीगौयौं" इति चामरः ॥
(तत्त्वदी०)-ऐ च मन्वादेरिति ॥ मनुरादिर्यस्य स मन्वादिः । आदिशब्दः प्रकारे। तेन वृषाकप्यमिकुसितकुसिदा गृहीताः ॥ पूतक्रतायीति ॥ पूतः क्रतुर्येन स पूतक्रतुः तस्य स्त्रीत्यर्थः ॥ वृषाकपायीति ॥ वर्षति कामानिति वृषः । नाम्युपधात्कः । आकम्पयति पापानिति आकपिः अन्तर्भावितव्यन्तः । इखखीति इः। यत्त्वागमजमनित्यमिति तन्न इप्रत्यये कित्त्वाभावादेव नुमोऽप्राप्तेरागमजत्वेनानित्यत्वाश्रयणस्य व्यर्थत्वात् । वृषश्वासावाकपिश्च वृषाकपिस्तस्य स्त्रीत्यर्थः ॥ "हरविष्णू वृषाकपी ।' 'वृषाकपायी श्रीगौ? ॥" इति अमरः॥ पुंयोगे किम् । पूताः क्रतवो यया सा पूतक्रतुरेव ॥
(मनोरैऔ वा ) मनावी-मनायी-मनुः ॥ (सुबोधिनी)-मनोरैऔ वा ॥ मनुशब्दस्यौकारादेशः ऐकारादेशश्च वा ईपि ॥ मनोः स्त्री मनावी-मनायी-मनुः । ईवभावः ॥
(पत्न्यादयः) पत्यादयो निपात्यन्ते ॥ पत्नी । सपत्नी । एकपत्नी । वीरपत्नी ॥
(सुबोधिनी)--पत्न्यादयः ॥ पत्नी आदिर्येषां त पत्न्यादयः । आदिशब्दः प्रकारे । पतिशब्दान्तस्य नान्तत्व निपात्यते । व्रण ईवितीपू । पत्नी ॥ समानः पतिर्यस्याः सा सपत्नी । सहादेरिति समानस्य सभावः ॥ एकः पतिर्यस्याः सा एकपत्नी ॥ वीरः पतिर्यस्याः सा वीरपत्नी ॥ सखिशब्दशिशुशब्दाभ्यामीप निपात्यते । सखी॥न विद्यते शिशुर्यस्याः सा अशिश्वी।"अशिश्वी तु शिशु विना" इत्यमरः॥ अनड्डहः स्त्रियामीप् निपात्यते । अनडुहश्चेति वाऽऽम् । अनड्वाही--अनडुही ॥ प्रागादिशब्दादीकू निपात्यते गतौ । प्राची पूर्वा दिक् । नो लोप इति लोपः। पूजायां तु प्राञ्ची । पूजार्थाश्चतेनेति नलोपाभावः । गतौ अचेदर्दीर्घश्चेत्यकारलोपः॥ पूर्वदीर्धे प्रतीची पश्चिमा दिक् । पूजायां प्रत्यश्ची ॥ उदीची उत्तरा दिक् । तिरश्चादय इति उदीचादेशः॥ अवाची दक्षिणा दिक् । "प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः। उत्तरा दिगुदीची स्यात्" इत्यमरः ॥ (तत्त्वदी०)-पत्न्यादय इति ॥ नत्वं निपात्यते । ईप् तु नान्तत्वादेव ॥
Page #221
--------------------------------------------------------------------------
________________
[ स्त्रीप्रत्ययाः ] टीकाद्वयोपेता।
(२०५) (कचिद्वा) दृढपत्नी-दृढपतिः । वृषलपत्नी-वृषलपतिः । एताएनी । हरिता-हरिणी। रोहिता-रोहिणी । श्येता-श्येनी । असिता-असिनी । पलिता-पलिनी । इत्यादि ॥
(सुबोधिनी )-क्वचिद्वा ॥ क्वचिद्वा निपातनं भवति ॥ दृढः पतिर्यस्याः सा दृढपत्नी-दृढपतिः ॥ वृषलः शूद्रः पतिर्यस्याः सा वृषलपत्नी-वृषलपतिः ॥ एतशब्दात् स्त्रियामीप तकारस्य नकारादेशश्च वा निपात्यते । एता-एनी । कर्बुरेत्यर्थः। "चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे” इत्यमरः ॥ हरिता-हरिणी । हरिद्वर्णेत्यर्थः ॥ रोहिता-रोहिणी । रक्तेत्यर्थः॥ श्येता-श्येनी। श्वेतेत्यर्थः ॥ असितपलिवशब्दयोरीप् तकारस्य कादशश्च वा निपात्यते । असिता-असिनी । कृष्णेत्यर्थः । पलिता-पलिक्नी । वृद्धेत्यर्थः ॥ (तत्त्वदी०)-क्वचिद्वेति ॥ पुंयोगे इत्यतश्चकारानुवृत्तेरिति भावः ॥
(इतो मनुष्यजातेरीपू ) दाक्षी । अवन्ती । कुन्ती ॥ (सुबोधिनी )-इतो मनुष्यजातरीप् ॥ मनुष्यजातिवाचिन इकारान्तात् स्त्रियामीप् स्यात् ॥ दक्षस्यापत्यं दाक्षिः।अत इजितीञ् । अत्र गोत्रलक्षणा जातिः॥ अवन्तेरपत्यं । स्त्री । कुन्तेरपत्यं स्त्री। स्त्रियामवन्तिकुन्तीत्यपत्यप्रत्ययस्य लुक् । अत्रापि गोत्रलक्षणा जातिः॥
(उत ऊः) उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूः प्रत्ययः । कुरूः॥ अयोपधात्किम् । अध्वर्युः स्त्री ॥
(सुबोधिनी )-उत ऊः ॥ कुरोरपत्यं स्त्री कुरूः। स्त्रियामवन्तिकुन्तिकुर्वित्यपत्यप्रत्ययस्य लुक्। अत्रापि गोत्रलक्षणा जातिः॥ अयोपधात्किम्। अध्वर्युर्ब्राह्मणी । शाखाध्येत्री शाखाध्यायिवंशोद्भवा वेत्यर्थः ॥ अत्र चरणलक्षणा जातिः ॥ अध्वरं यातीति विग्रहे मृगय्वादयश्चेत्यौणादिकेन सूत्रेण याधातोः कुप्रत्यये अध्वरशब्दस्यान्त्यलोपश्च ।
(तत्त्वदी०)-उत ऊरिति ॥ अत्राहुः । ओरित्यनुवर्तमाने उत इति किमर्थम् । न च वाच्यमूदन्तान्मा भूदिति वधूरित्यादौ सत्यसति विशेषाभावादतस्तदनुवृत्तौ तत्संवद्धस्य गुणशब्दस्याप्यनुवृत्तिः स्यादिति पुनरुक्तमिति माधवस्तन्न खलप्वं यवत्वमिति विशेषसत्त्वात् । अत्रेदमवधेयम् । मनुष्यजातिवाचिन उदन्तादप्रत्ययस्य विधानेन खलप्वादिशब्दानां क्रियावाचकत्वेन जातिवाचिस्वाभावादेवाप्राप्तौ विशेषस्यासंभवात् । अथात्र मनुष्यजातिर्न विवक्षितति न
Page #222
--------------------------------------------------------------------------
________________
(२०६) सिद्धान्तचन्द्रिका। [स्त्रीप्रत्ययाः ] वाच्यम् । ऊडुत इति सूत्रविवरणे उदन्तान्मनुष्यजातिवाचिन इति दीक्षितादिभिः सर्वैरेवोक्तत्वात् ॥
(पङ्गोश्च ) पङ्गः ॥ (सुबोधिनी)-पङ्गोश्च ॥ पङ्गुशब्दो गुणवाची तस्मात् स्त्रियामूः स्यात् ॥ (श्वशुरस्योकाराकारलोप ऊश्च ) श्वश्रूः ॥ (सुबोधिनी )-श्वशुरस्योकाराकारलोप ऊश्च ॥ श्वशुरशब्दात् स्त्रियामः स्यात् उकाराकारयोर्लोपश्च ॥ संनिहितत्वादन्तस्यैवालोपो न त्वादेः । पुंयोगे चेतीपो निवारणार्थमिदम् ॥
(तत्त्वदी० )-श्वशुरस्येत्यादि ॥ एतन्मूलं तु दीर्घकरणमेवान्यथा उदन्तत्वात्सवर्णदीर्घेणापि सिद्धेरूकरणं वृथा स्यात् । पुंयोगलक्षण ईपि प्राप्ते ऊ । तत्संयोगेन च विधीयमानोऽलोपः सन्निहितत्वादन्तस्यैवाकारस्य न त्वादेः ॥
( उरूत्तरपदादौपम्ये ) उपमानवाचिपूर्वपदादूरुत्तरपदादूः ॥ करभोरूः ॥
(सुबोधिनी )-उरूत्तरपदादौपम्ये ॥ उपमानवाचिपूर्वपदादूरूत्तरपदादः ॥ उपमीयतेऽनेन तदुपमानम् अधिकगुणविशिष्टमित्यर्थः ॥ करभवत् ऊरू यस्याः सा करभोरूः । “मणिबन्धादाकनिष्ठं करस्य करभो बहिः" इत्यमरः।
(तत्त्वदी० )-उपमानवाचिपूर्वपदादिति ॥ "धात्रीकराभ्यां करभोपमोरुः" इत्यत्र तु न । करभशब्दस्योपमानवाचित्वेऽपि पूर्वपदत्वाभावात् ॥ __ (संहितशफलक्षणवामसहितसहादेरनौपम्येऽपि) संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः । सहितोरूः । सहोरूः ॥
(सुबोधिनी )-संहितशफलक्षणवामसहितसहादेरनौपम्येपि ॥ संहितादिपूर्वपदादूरूत्तरपदानाम्नः स्त्रियामूः स्यात् ॥ उपमीयते अनयेत्युपमा तस्या भाव
औपम्यं न औपम्यम् अनौपम्यं तस्मिन् । संहिता मिलितौ ऊरू यस्याः सा संहितोरूः ॥ शफाविव ऊरू यस्याः सा शफोरूः । “शर्फ क्लीवे खुरः पुमान्" इत्यमरेण क्लीवत्वमुक्तं तथापि कोशान्तरे पुंस्त्वम् ॥ "शफः खुरे गवादीनां मूले विटपिनामपि" इति हेमचन्द्रः ॥ लक्षणमस्त्यस्मिन् स लक्षणः । अस्त्यर्थे अप्रत्ययः । लक्षणौ उरू यस्याः सा लक्षणोरूः ॥ वामौ सुन्दरौ उरू यस्याः सा वामोरूः ॥ हितेन सह सहितौ सहितौ उरू यस्याः सा सहितोरूः ॥ सहेते इति सहौ । सही उरू यस्याः सा सहोरूः॥
Page #223
--------------------------------------------------------------------------
________________
[ विभक्त्यर्थाः ]
टीकाद्वयोपेता ।
( २०७ )
(तत्त्वदी ० ) - शफोरूरिति ॥ शफौ खुरौ ताविष । संश्लिष्टत्वादुपचारः । यद्यपि " शफँ ल्कीबे खुरः पुमान्" इत्यमरस्तथापि शफशब्दस्य पुंस्त्वमपि बहुसंमतम् । “शफः खुरे गवादीनां मूले विटपिनामपि " इति हेमचन्द्रकोशाच्च ॥
(नृनरयोर्वृद्धिश्च ) नारी ॥
( सुबोधिनी ) - नृनरयोर्वृद्धिश्व ॥ नृशब्दात् त्रण वीत ईपि प्राप्ते नरशब्दात् जातिलक्षणे ईपि प्राप्ते वृद्धयर्थं वचनम् ॥ नुर्नरस्य वा स्त्री नारी ॥
( तत्त्वदी० ) - नरयोरिति ॥ नृशब्दात् त्रण ईवित्यनेन । नरशब्दात्तु जातिलक्षण एव ॥ ननु नरशब्देऽन्त्याकारस्य षष्ठीनिर्दिष्टत्वात् वृद्धिरस्त्विति न वाच्यम् । न चान्त्यवृद्धिविफला लोपं बाधित्वा प्रवृत्तेः । उच्यते । नरस्य अः नरः हलादित्वाट्टेर्लोपः । ना च नरश्ध नरौ तयोरित्यर्थः । प्रश्लेषसामर्थ्यान्नान्त्याकारो गृह्यते ॥
( यूनस्तिः ) युवन्शब्दात् स्त्रियां तिः ॥ युवतिः ॥ इति स्त्रीप्रत्ययाः ॥
( सुबोधिनी ) - यूनस्तिः ॥ त्रण ईवित्यस्यापवादः । नाम्नो न इति सूत्रे केचित् स्यादौ से इत्यनुवर्तयन्ति तन्मते युवन्शब्दात्तिप्रत्यये नलोपः कथं स्यात् । स्यादीनां रसस्य परत्वाभावात् । उच्यते । तू इः इति च्छेदः कर्तव्यः । युवन्शब्दात्स्त्रियामिप्रत्ययो यूनोऽन्त्यस्य तादेशश्चेति । कथं तर्हि "युवतीकरनिर्मथितम्” इति प्रयोगः ॥ यौति मिश्रीकरोति पत्या सहेति यौतेः शत्रन्तात् ष्ट्रत्रित इति ईपि कृते बोध्यः । अत्रापि अनुपसर्जनादिति वक्तव्यम् । गौणे तु बहवो युवानो यस्यां बहुयुवा पूः । स्त्रीप्रत्ययान्तेभ्यः शब्देभ्यः प्रातिपदिकग्रहणे लिंगविशिष्टस्यापि ग्रहणमिति परिभाषया स्याद्युत्पत्तिर्बोध्या ॥ इति सुबोधिन्यां स्त्रीप्रत्ययाः ॥
( तत्त्वदी ० ) - यूनास्तिरिति ॥ वसां रस इत्यतो रसे इत्यनुवृत्तेरस्यादावपि रसे नलोपः । यद्वात् इः इति च्छित्त्वा युवन्शब्दस्य तादेश इश्व प्रत्ययः स्त्रियामित्यर्थो वाच्यः । युवतीति यतेः शत्रन्तादीपि बोध्यम् ॥
श्रीविद्यानगरस्थायिलोकेशकरशर्मणा । कृतायामिह टीकायां स्त्रीप्रत्ययविचारणम् ॥ इति तत्त्वदीपिकायां स्त्रीप्रत्ययाः ॥
अथ विभक्त्यर्थाः ।
( लिङ्गार्थे प्रथमा ) नामार्थमात्र लिंगमात्राधिक्ये च प्रथमा विभ क्तिः ॥ नियतोपस्थितिको नामार्थः । उच्चैः । नीचैः । कृष्णः । श्रीः । ज्ञानम् । द्रोणः । खारी । आढकम् । एकः । द्वौ । बहवः || अलिंगा
Page #224
--------------------------------------------------------------------------
________________
( २०८) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः] नियतलिंगाश्च नामार्थमात्र इत्यस्योदाहरणम् । अनियतलिंगास्तु लिंगमात्राधिक्य इत्यस्य । तटः । तटी । तटम् ॥
(सुबोधिनी)-अथ कारकप्रकरणम् । स्यादयः प्रत्यया नाम्ना विहितास्तेषामर्थविशेष व्यवस्थां दर्शयितुमारभते ॥ लिंगार्थे प्रथमा । लिंगं च अर्थश्चानयोः समाहारो लिंगार्थम् । तस्मिन् लिंगार्थे । अर्थे प्रथमेत्युक्तौ कस्याथै इत्याकाङ्क्षायां यस्मानाम्नः स्यादिविभक्तिर्विहिता तस्य नाम्नोऽर्थे एवेति नामार्थमात्रम् । “ मात्रं कात्स्न्येऽवधारणे" इत्यमरः । तत्र प्रथमा विभक्तिर्भवति । स को नामार्थः । नियतोपस्थितिकः । नियतोपस्थितिर्यस्य स नियतोपस्थितिकः । यस्मिन् नाम्नि उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स नियतोपस्थितिको नामार्थ एव शक्य इत्युच्यते । अनियतलिंगग्रहणार्थ लिंगेति । लिंगे लिंगमात्राधिक्येऽपि प्रथमा । यद्यपि लिंग. मात्र इत्येवाक्षरार्थस्तथापि नामार्थं विना लिंगादिप्रतीतेरसंभवादाधिक्ये इत्युक्तम् । प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः। ननु सिंहो माणवक इत्यादौ प्रथमा न स्यात् । उच्यते । शक्यार्थमादाय प्रथमाविभक्तरुत्पत्तौ सत्यां पश्चात्पदान्तरसमभिहारो लक्ष्यार्थबोधकोऽस्तीति ॥ ननु वीरः पुरुष इत्यादौ प्रथमा न स्यात् । वीराभिन्नः पुरुष इत्यभेदसंसर्गस्याधिकस्य भानात् । उच्यते । अत्र पदसंस्कारपक्षाभ्युपगमोऽस्ति । ततोऽन्तरंगत्वात् प्रथमप्रवृत्तपदसंस्कारेण प्रथमारूपे कृते पश्चाबहिरंगत्वात् अभेदसंसर्गों वाक्यार्थः कर्तव्य इति । नास्ति लिंगं येषां ते अलिंगाः । नियतं निश्चितं लिंगं येषां ते नियतलिंगा इति । उभयेषां नामार्थमात्रे उदाहरणं यथा । उच्चैरिह पदत्वाद्विसर्गसिद्धिः । किंचास्य प्रथमान्तत्वात् संग्राम उच्चैस्तव संग्राम उच्चैस्ते इति विद्यमानपूर्वादिति सूत्रेण तेमे आदेशयोविकल्पसिद्धिरपि फलम् । कृष्णः । अयं नीलद्रव्येऽनियतलिंगस्तथापि वासुदेवे नियतलिंगः। ज्ञायते तत् ज्ञानम् । भावे युटू । खारी द्रोण आढकमित्यत्रापि नामाथै एव प्रथमा । परिमाणार्थस्य नियतज्ञानात् । द्रोणो व्रीहिरित्यत्र तु द्रोणपरिच्छिन्नाभिन्नो व्रीहिरित्यभेदान्वयः । नामार्थयोरभेदान्वयस्य व्युत्पन्नत्वात् ॥ ननु एको द्वौ बहव इत्यत्र नाम्नैव संख्याया आभिधानात् प्रथमा न स्यात् । उच्यते। न केवला प्रकृतिः प्रयो. क्तव्या नापि केवलः प्रत्यय इति नियमात् प्रथमोत्पत्तिर्बोध्या। अनियतं लिंगं येषांते अनियतलिंगास्तेषामनियतलिंगमेवेति लिंगमात्रम् । अधिकस्य भाव आधिक्यं लिंगमात्रस्य आधिक्यं लिंगमात्राधिक्यं तस्मिन् । उदाहरणं बोध्यम् । किंच भाष्यकारमते पञ्चकः प्रातिपादिकार्थ स्वार्थद्रव्यलिंगसंख्याकारकाणि इति । यथा दधि मध्वित्यादौ विनापि विभक्तिं प्रातिपदिकादेव तावतामर्थानां प्रतीतेः । कैयटमते आदितश्चतुष्कं प्राप्तिपदिकार्थः । वृत्तिकारमते आदितस्त्रिकं प्रातिपदिकार्थः । संख्या
Page #225
--------------------------------------------------------------------------
________________
[ विभक्त्यर्थाः] टीकाद्वयोपेता।
( २०९) कर्मादयस्तु विभक्त्या इति । आदितो द्विकं प्रातिपदिकार्थ इत्यन्ये । लिंगमात्रादि वाच्यामित्युक्तस्यात् । तत्र स्वार्थों विशेषणं द्रव्यं विशेष्यं द्रव्यगुणक्रियासन्निधाने द्रव्यवाचकस्यैव प्राधान्यमित्युक्तत्वात् । लिंगं स्त्रीत्वादि । संख्या एकत्वादि कारकं कर्मादि ॥
(तत्त्वदी० )-लिङ्गार्थे प्रथमेति ॥ लिङ्गं च अर्थश्च लिङ्गार्थ तस्मिन् लिङ्गार्थे । लिङ्गे अर्थे च प्रथमेत्यर्थः । कस्यार्थे इत्याकाङ्क्षायां यस्मात्स्यादिभिक्तिस्तस्यार्थे । स्यादयश्च नाम्नो विधीयन्ते अतो नामाथें इति लब्धमेव ॥ नामार्थमाह । नियतोपस्थितिक इति॥ नियता उपस्थितिर्यस्य सः । यस्मान्नाम्नो योऽर्थों नियमेन भासते स तस्यार्थः । नियतत्वलाभवामन्त्रण इति सूत्रारम्भात् । नामार्थ एव द्विविधः तं दर्शयति-अलिङ्गा इत्यादि ॥ नालिङ्गा संख्या इत्यर्थः । प्रथमे उदाहरणमव्ययम् । द्वितीय उदाहरणं कृष्ण इत्यादि । यद्यपि नीलरूपवत्परोऽयमनियतलिङ्गस्तथापि वासुदेवे भगवति नियतालेङ्ग एवेति भावात् । कृष्णादौ लिङ्गमेव नामार्थस्तस्य नियमेन भानात् । तदादौ तु लिङ्ग नामार्थव्यतिरेकेणास्तीति लिङ्गमात्राधिक्ये नामार्थे प्रथमाविधानात् । कारकसंबन्धयोस्तु नाम्नो नियतभानाभावान्न तयोराधिक्ये प्रथमा । यदि त्वर्थशब्दो वृत्तिपरः वृत्तिस्तु शक्तिलक्षणा च गौणी तु लक्षणान्तर्भूता पृथग्वा ऽस्तु त्रिकं च नामार्थ इत्याश्रीयते । तदा लिङ्गे इत्यपि माऽस्तु लक्ष्याणां विचित्रत्वेऽपि न क्षतिः नियमांशत्यागात् । शक्यं लक्ष्यं गौणं च पुंल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं च लक्ष्यमिति वैचिव्यम् । शक्य एवेति नियमस्य पुंस्त्वादिना लिङ्गस्य वाच्यतति नियमस्य च त्यागात् । लिङ्गत्वेनैव लिङ्गस्य वाच्यताभ्युपगमात् । खारीत्यादिपरिमाणमपि नामार्थ एव नियमेन लाभात् । एक इत्यादिसंख्यायास्तु नाम्नो वाभिधानात्तदभिधायिका प्रथमा न इति चेत्सत्यं न केवला प्रकृतिः प्रयोक्तव्येति नियमात् । अन्य प्रयोगेऽप्येषोऽन्वयः स्यादिति अनुवादकप्रयोगस्यैव न्याय्यत्वात् ॥ ननु कृष्ण इत्यादावस्तीत्यध्याहारेणान्योक्ते प्रथमेत्यनेनैव सिद्धे किमेतेनेति चेत्सत्यम् । अध्याहारे गौरवात् । शुक्लोऽयं न पीत इत्यादौ सविशेषणवाक्येऽध्याहारस्यानावश्यकत्वाच्च ॥ ननु तस्मात्सिऔजसिति सूत्रेणैव विभक्तिविधानाकि कारकप्रकरणेनेति चेत्सत्यम् । सिद्धे सत्यारम्भो नियमार्थः । स च द्विविधः । विभक्तिनियमोऽर्थनियमश्च । आये नामार्थ एव प्रथमा। कार्य एव द्वितीया । करण एव तृतीयेत्यादि । अत्र पक्षेऽव्ययेभ्यो न प्राप्तिः। द्वितीये तु नामार्थे प्रथमैव । कार्ये द्वितीयैवेत्यादि । अत्र पक्षेऽव्ययेभ्योऽपि भवन्ति ॥
(आमन्त्रणे च ) अभिमुखीकरणे प्रथमा ॥ हे देव, हे देवो, हे देवाः॥ ( सुबोधिनी)-आमन्त्रणे च ॥ संबोधनाधिक्ये प्राप्तौ वचनम् । आमन्त्र्यते प्रसन्नः क्रियत अनेनेति करणे युट्र । अनभिमुखोऽभिमुखः क्रियते अननेत्यभिमुखीकरणमनुकूलकरणम् । तत्र प्रथमा भवति। 'देव मां पाहि' इति वाक्ये देवसंवन्धिसंबोधन•
Page #226
--------------------------------------------------------------------------
________________
( २१०) सिद्धान्तचन्द्रिका। [विभक्त्याः ] विषयिका मत्कर्मकरणक्रियति बोधः । “संबोधनपदं यच्च तत्क्रियाया विशेषणम्" इत्युक्तत्वादिह सम्बोधनं प्रकृत्यर्थं प्रति विशेष्य क्रियां प्रति विशेषणमिति ॥
(तत्त्वदी०)-आमन्त्रणे इति । आमन्त्रणमभिमुखीकरणमनुकूलकरणमिति यावत् । आमन्व्यते प्रसन्नः क्रियतेऽनेनेति साधने युट् । इह संबोधनं प्रकृत्यर्थ प्रति विशेष्यं क्रियां प्रति विशेषणमिति सिद्धान्तः । “संबोधनपदं यच्च तत् क्रियाया विशेषणम्" इत्युक्तत्वात् ॥ एवं देव मां पाहीति वाक्यस्य देवसंबन्धिसंबोधनविषयकमत्कर्मकं रक्षणमर्थः ॥ __ (भोस्भगोस्अघोस् भवद्भगवदघवतां वा निपात्या धौ) भो हरे । भगो नमस्ते । अघो याहि ॥
(सुबोधिनी )-भोसमगोसूअघोस् भवद्भगवदघवतां वा निपात्या धौ ॥ धिविषये एषां स्थाने एते निपात्यन्ते वा । हे भोः ।हे भवन् । हे पूज्येत्यर्थः ॥हे भगोः। हे भगवन् । हे ज्ञानिन्नित्यर्थः ॥ हे अघोः । हे अघवन् । हे पापिष्ठेत्यर्थः॥ भोस् इत्यनेन विसर्गलोपः । भो हरे ॥ इति प्रथमा ॥
(तत्त्वदी०)-भोस्भगोस् इति ॥ योग्यताबलाद्भवदादयः स्थानिनः आक्षिप्यन्ते ॥ इति प्रथमा ॥
(शेषाः कार्य कर्तृसाधनयोर्दानपात्रे विश्लेषावधौ सम्बन्ध आधारभावयोः ) द्वितीयाद्या विभक्तय एष्वर्थेषु भवन्ति ॥ कार्ये कर्मकारके द्वितीया । कटं करोति कारूको रूपं पश्यति चाक्षुषः । राज्य प्राप्नोति धर्मिष्ठः सोमं सुनोति सोमपाः ॥
(सुबोधिनी)-शेषाः कार्ये कर्तृसाधनयोर्दानपात्रे विश्लेषावधौ संबन्ध आधारभावयोः। शिष्यन्ते इति शेषाः । कर्मणि घज्ञ प्रत्ययः । प्रथमायाः शेषाः अन्याः षड् विभक्तयस्ताः कार्यादिषुषट्सु यथाक्रमं प्रवर्तन्ते इत्यर्थः।कार्य द्वितीया॥ क्रियते का स्वक्रियया निष्पाद्यते यत्तत् कार्यम् । धातूपात्तफलमित्यर्थः । तस्मिन् अनुक्ते कार्ये कर्मणि द्वितीया स्यात् । उक्त कर्मणि तु प्रथमैव । उक्तं त्वाख्यातकृत्तद्धितसमासनिपातैर्भवति ॥ आख्यातोक्ते हरिः सेव्यते ॥ कृदुक्ते लक्ष्म्या सेवितो हरिः ॥ तद्धितोक्ते शतेन क्रीतः शत्यः ॥ कारकाक्रियायुक्ते इति शेषः ॥ समासोक्ते प्राप्त आनन्दो यं स प्राप्तानन्दः ॥ निपातोक्ने विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतमिति ॥ " कटं करोति कारूको रूपं पश्यति चाक्षुषः। राज्यं प्राप्नोति धर्मिष्ठः सोमं सुनोति सोमपाः॥१॥' अत्र सर्वत्राख्यातादिनाऽनुक्ते कर्मणि द्वितीया। कारूकः पुमान् कटं करोति । कटनिष्ठोत्पत्त्यनुकूला एककर्तृका वर्तमाना करोतिक्रियति शाब्द
Page #227
--------------------------------------------------------------------------
________________
[ विभक्त्यर्थाः ]
टीकाद्वयोपेता।
(२११)
बोधः ॥ चक्षुषा पश्यतीति चाक्षुषः पुमान् । कारकादित्यण । रूपं पश्यति रूपनिष्ठसाक्षात्कारोत्पत्त्यनुकूला एककर्तृका वर्तमाना दृशिक्रिया ॥ धर्मोऽस्त्यस्योत धर्मी। अस्त्यर्थे इन् । अतिशयेन धर्मीति इष्ठप्रत्ययः । धर्मिष्ठः पुमान् । राज्ञः कर्मेति राज्य प्राप्नोति । राज्यनिष्ठात्पत्त्यनुकूला एककर्तृका वर्तमाना प्राप्नोतिक्रिया॥ सोमं पिचतीति सोमपाः पुरुपः । सोमममृतवल्ली सुनोति खण्डयतीत्यर्थः । सोमनिष्ठखण्डनोत्पत्त्यनुकूला एककर्तृका वर्तमाना सुनोतिक्रियति । क्रियाप्रधानमाख्यातमिति सिद्धान्तात् क्रियाविशेष्यकः शाब्दबोधः कर्तव्यः॥ यास्कोऽप्याह । भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति । पश्य मृगो धावतीत्यादौ तु मृगकर्तृकगमनं दृशिक्रियां प्रति कर्म । प्रधान तु दृशिक्रियैव।उक्तं च। “सुवन्तं हि यथाऽनेकं तिङन्तस्य विशेषणम् ॥ तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम्॥१॥” इति॥ननु उक्त कर्मणि प्रथमेत्युक्तम् । तेन पक्वमोदनं भुते इत्यत्र द्वितीया न स्यात् । कृत्प्रत्ययेन कर्मण उक्तत्वात् । उच्यते। इह हि पचिभुजिनिरूपिते द्वे कर्मत्वशक्ती। तत्र प्रधानीभूतभुजिक्रियानिरूपितामनुक्तां शक्तिमादाय द्वितीयोत्पत्तिर्भवतीति । उक्तं च हरिणा । "प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक ॥ शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ॥ १ ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते।यदामुणे तदा तद्वदनुक्ताऽपि प्रतीयते ॥२॥" अत एव । पक्वौदनो भुज्यते देवदत्तेनेत्यत्र भुजिप्रत्ययेन उक्त कर्मणि प्रथमैव भवति । पचेरप्राधान्यात्। अथ प्रसङ्गात्याणिनिसूत्राणि लिख्यन्ते ॥ अकथितं च ॥ अपादानादिविशेषैरनुक्तं कारकं कर्मसंज्ञं स्यात् । “दुह्याचपचूदण्ड्रधिप्रच्छिचिबूशासुजिमथमुषाम् । कर्मयुक् स्यादकथितं तथा स्यात्रीहकृष्वहाम् ॥१॥" दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णी कर्मणा याज्यते तदेवाकथितं कर्म ज्ञेयम्।कर्मणा युज्यते इति कर्मयुक् । विवन्तम् । मुख्यकर्मणा सह क्रियया सम्बध्यमानमपादानादिविशेषेरकायितं यत्कारकं तत्कर्मसंज्ञकं भवतीत्यर्थः। एतेन दुहादीनां द्विकर्मकत्वमुक्तम् । दुह प्रपूरणे। गां दाग्धि पयः स इत्यत्र पयःकर्मकं गोसंबन्धि दोहनमर्थः। पयोऽत्र मुख्यं कर्म धातूपात्तफलाश्रयत्वात् । गौस्तु पयसो निमित्ततामात्रेणोपात्ता न त्ववधिभावनेत्यपादानसंज्ञाया अप्रवृत्तेरनन कर्मसंज्ञा । विवक्षायां त्वपादानादिसंज्ञा भवत्येव । विवक्षातः कारकविभक्तयो नाना भवन्तीति शाब्दिका इत्युक्तत्वात् । गोदौग्धि पयः स इति ॥ टुयाच याच्याम् । बलिं याचते वसुधां हरिः । अत्र प्रार्थनार्थस्य याचतेर्वसुधा मुख्यं कर्म । तेन कर्मणा युक्ता बलिः। तस्यापादानत्वाविवक्षायामनेन कर्मसंज्ञा। अपादानविवक्षायां तु बलेर्याचते वसुधामिति ॥ अविनीतं विनयं याचते सः। अविनीतं विनयायानुनयतीत्यर्थः।आविनीतामिति मुख्यं कर्म विनयस्य तादाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु अविनीतं विनयाय याचते ॥ डुपचष् पाके । तंडुलानोदनं पचति सः। औदन निर्वर्तयतीत्यर्थः । ओदनामिति मुख्यं कर्म । करणत्वाविवक्षायां
Page #228
--------------------------------------------------------------------------
________________
(२१२) सिद्धान्तचन्द्रिका। [विभक्त्याः ] तंडुलानित्यत्रानेन कर्मसंज्ञा । विवक्षायां तु तंडुलैरोदनं पचतीति ॥ दंड दंडग्रहणे चुरादिः । गर्गान् शतं दण्डयति सः । शतमिति मुख्यं कर्म । गर्गानित्यत्र स्वपादानत्वाविवक्षायामनेन कर्मसंज्ञा। विवक्षायां तु गर्गभ्यः शतं दण्डयतीति ॥ रुधिर आवरणे। व्रजमवरुणद्धि गां सः। गामिति मुख्यं कर्म व्रजमित्यत्र त्वधिकरणत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु व्रजेऽवरुणद्धि गामिति ॥ प्रच्छ ज्ञीप्सायाम् । माणवकं पन्थानं पृच्छति सः। पन्थानमिति मुख्यं कर्म । तादर्थ्याविवक्षायां माणवकमित्यत्रानेन कर्मसंज्ञा । विवक्षायां तु माणवकाय पन्थानं पृच्छति॥ चित्र चयने । वृक्षमवचिनोति फलानि सः। फलानीति मुख्यं कर्म वृक्षमित्यत्रापादानत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु वृक्षादवचिनोति फलानीति ॥ ब्रज व्यक्तायां वाचि। शासु अनुशिष्टौ । माणवकं धर्म ब्रूते शास्ति वा सः। धर्ममिति मुख्य कर्म । माणवकमित्यत्र तु तादाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु माणवकाय धमे ब्रूतेः शास्तीति वा ॥ जि जये। शतं जयति देवदत्तं सः। शतमिति मुख्यं कर्म । देवदत्तमित्यत्र त्वपादानत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु शतं जयात देवदत्तात्सः ॥ मन्थ विलोडने । सुधां क्षीरनिधि मथ्नाति हरिः सुधामिति मुख्यं कर्म । क्षीरनिधिमित्यत्राधिकरणत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु सुधां क्षीरनिधौ मथ्नाति ॥ मुष स्तये । देवदत्तं शतं मुष्णाति । शतमिति मुख्यं कर्म । देवदत्तमित्यत्रापादानत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु देवदत्ताच्छतं मुष्णाति सः॥ णी प्रापणे । हृञ् हरणे । कृष विलेखने । वह प्रापणे । ग्राममजां नयात सः। एवं हरतीत्यादि । अजामिति मुख्यं कर्म । ग्राममित्यत्र त्वधिकरणत्वाविवक्षायामनेन कर्मसंज्ञा । विवक्षायां तु ग्रामेऽजां नयति हरति कर्षति वहात वेति ॥ एतदर्थका धातवोऽन्येऽपि संज्ञेयाः । माणवकं धर्म भाषते अभिधत्ते वक्तीत्यादि ॥ अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम् ॥ कुरून् स्वपिति । मासमास्ते । गोदोहमास्ते। क्रोशमास्ते ॥ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ ॥ गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणांचधातूनामणौ यः कर्ता स णौ कर्म स्यात् । प्रत्यवसानं भक्षणम् । शब्दः कर्मकारकं येषां ते शब्दकर्मकाः । अनुत्पन्ने जिप्रत्यये शुद्धधातुवाच्या क्रियां प्रति यः कर्ता स जिप्रत्ययान्तधातुवाच्या क्रियां प्रति कर्मसंज्ञः स्यादित्यर्थः॥ यथा “शत्रूनगमयत्स्व वेदार्थं स्वानवेदयत् । आशयच्चामृत देवान् वेदमध्यापयद्विधिम् ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिगतिः ॥" गत्यर्थो यथा। शत्रवः स्वर्गमगच्छन् । तान् शत्रून् श्रीहरिः स्वर्गमगमयदिति । गमेरजिप्रत्ययान्तावस्थायां शत्रवः कर्तारस्ते ञ्यन्तावस्थायां कर्माभवन् । स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूला हरिकर्तृकश्चिरातीतो व्यापारः ॥ बुद्धयों यथा । स्वे
Page #229
--------------------------------------------------------------------------
________________
[विभक्त्यर्थाः ] टीकाद्वयोपेता। स्वकीयाः वेदार्थमविदुस्तान् स्वान् श्रीहरिदार्थमवेदयत् । विदेरञ्यन्तावस्थायां स्वे कर्तारस्ते ज्यन्तावस्थायां कर्माभवन् ॥ प्रत्यवसानार्था यथा । देवाः अमृतमाश्नन् । तान्देवान् श्रीहरिरमृतमाशयत् । अशरूयन्तावस्थायां देवाः कर्तारस्ते ज्यन्तावस्थायां कर्माभवन् ॥ शब्दकर्मको यथा विधिर्वेदमध्यैत । तं ब्रह्माणं श्रीहरिर्वेदमध्यापयदपाठयदित्यर्थः । अञ्यन्तावस्थायां विधिः कर्ता स ज्यन्तावस्थायां कर्माभवत् ॥ अकर्मका यथा । सलिले जले पृथ्वी आस्ते तां पृथ्वी श्रीहरिः सलिले आसयत् स्थापयति स्म । आसेरञ्यन्तावस्थायां पृथ्वी की सा ज्यन्तावस्थायां कर्माभवत् स श्रीहरिमें मम गतिः स्यादित्यन्धयः ।। इति द्वितीया ॥
(तत्त्वदी०)-शेषाः कार्ये इत्यादि ॥ शिष्यन्त इति शेषाः । कर्मणि घञ् । उक्तायाः प्रथमाया अन्याः षड्विभक्तयः शेषाः द्वितीयाद्या इति यावत् । कार्यादयोऽर्थाश्च षड्भिः पदनिर्दिष्टास्तेषां यथाक्रमं प्रवृत्तिः। तत्र प्रथमनिर्दिष्टमाह-कार्ये इति ॥ क्रियते कर्जा प्रवय॑ते । यष्टा स्वव्यापारेण यौगं स्वर्ग च साधयति । तदाश्रये च द्वितीया । तत्संबन्धात् द्वितीयावाच्यस्त्वाश्रय एव न तु फलं तस्य धातुनैव लाभात् । अनन्यलभ्यस्य शब्दार्थत्वात् । वाच्यतावच्छेदकत्वाश्रयत्वमत एव नाश्रयत्वं वाच्यम् । आश्रयत्वस्य वाच्यतावच्छेदकत्वे गौरवात् । तच्च कर्म द्विविधम् । ईप्सितमनीत्सितं च । तत्रेप्सितं त्रिविधम् । निर्वयं विकार्य प्राप्यं च । अनीप्सितं तु चतुर्विधम् । औदासीन्येन प्राप्यं द्वेष्यं संज्ञान्तरैरनाख्यातम् अन्यपूर्वकं चेति । तत्र निर्वयं यथा । पूर्वमनुत्पन्नमेवोत्पद्यते सदवस्थात्वात्पकटीभवति । ततः विकार्य तु द्विविधम् । प्रकृत्युच्छेदसंभूतं गुणान्तरोत्पत्त्या वा । कटं करोतीत्यादि । कटं पूर्वमसत् तमुत्पादयतीत्यर्थः ।। रूपं पश्यतीति प्राप्यम् । चाक्षुष इति । प्रशस्तचक्षुरस्यास्तीति चाक्षुषः । प्रशंसायां मत्वर्थीयोऽण् । राज्यं प्राप्नोतीति संस्कार्य पृथगिच्छतीति संस्कार्यम् कर्म । सोमं सुनोतीति गुणान्तरोत्पत्त्या विकार्यम् । अन्यदप्युदाहियते । प्रकृत्युच्छेदसंभूतविकार्य यथा। प्रकृतेः प्रकृतिभूतस्यात्मनः उच्छेदसंभूतम् । तद्यथा । काष्ठं भस्म करोति । औदासीन्यं तु तृणं स्पृशति । द्वेष्यं तु विषं भुङ्क्ते । संज्ञान्तरैरनाख्यातं यथा । गां दोग्धि पयः। अन्यपूर्वकं यथा । क्रूरममिक्रुध्यति । अक्षान् दीव्यति । ईप्सितानीप्सितयोः शाब्दबोधस्स्वेक एव । ईप्सितत्वादेस्तत्र भानाभावात् । कटं करोति कारूक इत्यस्य कटनिष्ठोत्सत्यनुकूल एककारूकाभिन्नाश्रयको वर्तमानो व्यापारः॥ विषं भुङ्क्ते इत्यत्र गलादधोदेशसंयोगस्यानुकूल एकाश्रयको व्यापार इत्यादावीप्सितानीप्सितयोरभानादेकरूप एव शाब्दबोधः। एवं च कर्मशब्दस्य यौगिकत्वादेव सिद्धे कर्मसंज्ञाविधायकानि नानासूत्राणि न कृतानि । कर्मणि द्वितीयेश्यस्य फलनिरूपिताश्रये सर्वत्र द्वितीयायाः सिद्धत्वात् । असत्कार्यवादे तु निर्वय॑स्य कर्मकारकत्वाप्राप्तिः । तस्यासत्त्वादेव फलाश्रयत्वानुपपत्तेः । क्रियाजनकत्वाभावात्कारकत्वानुपपत्तेश्च । क्रियां कुर्वत् हि कारकमिति सिद्धान्तत्वात् ॥ इति द्वितीया ॥
Page #230
--------------------------------------------------------------------------
________________
(२१४) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः ]
(कर्तरि करणे च तृतीया) भिन्नः शरेण रामेण रावणो लोकरावणः । करायेण विदीर्णोऽपि वानरैर्युध्यते पुनः॥
(सुबोधिनी)-कर्तरि करणे च तृतीया ॥ क्रियां करोति स कर्ता । धातूपात्तव्यापाराश्रय इत्यर्थः। उक्तं च । " धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते " इति । व्यापाराश्रयः कर्तेत्युक्तम् । व्यापारो धातुवाच्य आश्रयस्तृतीयावाच्योऽनन्यलभ्यत्वात् । स त्रिविधः । स्वतन्त्रः प्रयोजकः कर्मकर्ता चेति । क्रिया साध्यतेऽनेनेति साधनं क्रियासिद्धयुपकारकमित्यर्थः । तदेव करणम् । अत्र तृतीयाया व्यापार आश्रयश्च पृथग् वाच्यौ । तत्र सर्वत्र प्रकृत्यर्थ आश्रये अभेदेन संसर्गेण विशेषणम् । व्यापारस्तु भावनायां विशेषणं भवति । उक्तं च । “क्रियायाः परिनिष्पत्तियट्यापारादनन्तरम् । विवक्ष्यते यदा यत्र तत्तत्र करणं स्मृतम् ॥ १॥" तत्रानुक्ते कर्तरि करणे च तृतीया विभक्तिर्भवति । रामेण का शरेण करणेन रावणो भिन्नः । कीदृशः। लोकान् रावयतीति लोकरावणः । भिदेः कर्मणि क्तः । यद्यपि क्रियां प्रति कारकाणां विशेषणतैव तथापि कृदुक्तानां कारकाणां विशेष्यतैव ज्ञेया । सत्त्वप्रधानानि नामानीत्युक्तत्वात् । रामनिष्ठो यो व्यापारो धनुराकर्षणादिस्तत्प्रेरितो यो बाणस्तदभिन्नाश्रयको यो व्यापारः शरीरभेदनादिस्तत्साध्यप्राणवियोगाश्रयो रावण इत्यर्थः ॥ रावणं हन्ति । रावणो हन्यते । इत्यत्र तु क्रियाविशेष्यकः शाब्दबोधः । भावप्रधानमाख्यातमित्युक्तत्वात् । रावणनिष्ठो यःप्राणवियोगः शराभिन्नाश्रयशरीरभेदनादिव्यापारसाध्यसाधनानुकूलो रामनिष्ठधनुराकर्षणादिव्यापार इत्यर्थः। अनुक्ते कर्तरि किम् । हरिः करोति । वाचकः । कर्तरि वुण् । तद्धितोक्ते शाब्दिकः । इकः प्रत्ययः । समासोक्ते कृतं विश्वं येन स कृतविश्वः ॥ अनुक्ते करणे किम् । जीवत्यनेनेति जीवनः । करणे युट् प्रत्ययः ॥ इति तृतीया ॥
(तत्त्वदी० )-कर्तरि करणे चेति ॥ क्रियां करोतीति कर्ता धातूपात्तव्यापाराश्रयः । यदा यदीयो व्यापारो धातुनोपादीयते तदा स कर्ता । काष्ठानि पचन्ति । आ विक्लत्तेः सम्यग्ज्वलन्तीत्यर्थः । अग्निः पचति । सम्यक्पाचयतीत्यर्थः । स्थाली पचति । स्वस्मिन्समावेशयतीत्यर्थः । तत्र व्यापारस्य धातुनैव लाभादाश्रयमात्रं तृतीयावाच्यम् । अनन्यलभ्यस्य शब्दार्थत्वात् । स च त्रिविधः । स्वतन्त्रःप्रयोजकः कर्मकर्ता चेति । तद्यथा । मया हरिः सेव्यते । कार्यते हरिणा । गमयति कृष्ण गोकुलम् । मदभिन्नाश्रयको हरिकर्मकसेवानुकूलव्यापारः। हयेभिन्नाश्रयक उत्पादनानुकूलो व्यापारः । गोकुलकर्मकगमनानुकूलकृष्णाश्रयकव्यापारानुकूलो व्यापार इति शाब्दबोधः । क्रिया साध्यतेऽनेनेति साधनं क्रियासिद्धयुपकारकम् । तदेव करणं व्यापारवत्कारककरणमविलम्बेन क्रियोत्पादनं वा । तत्र तृतीया । तस्याश्च व्यापार आश्रयश्च पृथक्पृथग् वाच्यौ । भिन्नः शरणेत्यादि ॥ एकरामाश्रयको यो व्यापारस्त
Page #231
--------------------------------------------------------------------------
________________
[ विभवत्यर्थः ]
टीकाद्वयोपेता |
(२१५)
त्प्रेरितो यः शरस्तदभिन्नाश्रयको यो व्यापारः संयोगभेदनादिः तत्साध्यो यः प्राणवियोगस्तदाश्रयो रावण इत्यर्थः ॥ इति तृतीया ॥
( दानपात्रे चतुर्थी) वेदविदे गां ददाति ॥
( सुबोधिनी ) - दानपात्रे चतुर्थी । दीयते इति तद्दानम् । कर्मणि युट् । दानस्य पात्रं दानपात्रं दानयोग्यमित्यर्थः । " योग्यभाजनयोः पात्रम्" इत्यमरः ॥ अस्य संप्रदानसंज्ञा । सम्यक्प्रदीयतेऽस्मै तत्संप्रदानम् । अपुनग्रहणाय स्वत्वनिवृत्तिपूर्वकं यत् परस्वत्वोत्पादनं तद्दानम् । अत एव रजकस्य वस्त्रं ददातीत्यादौ न चतुर्थी । रजकस्येति सम्बन्धे षष्ठी ॥ ननु श्रोत्रियाय कन्यां ददातीत्यादौ चतुर्थी न स्यात् स्वत्वत्यागाभावात् । उच्यते । स्वस्य भावः स्वत्वम् आत्मत्वम् आत्मीयत्वं ज्ञातित्वं धनत्वं च | आत्मत्वात्मीयत्वयोस्त्यागो नास्तीति ज्ञातित्वस्य त्यागोऽस्ति । परगोत्रप्रवेशाद्धनत्वस्य च त्यागः । अतोऽत्र परस्वत्वस्यापादनरूपं मुख्यं दानम् । तत्र दानपात्रे अनुक्ते संप्रदाने कारके चतुर्थी स्यात् । वेदं वेत्तीति वेदवित्तस्मै वेदविदे चैत्रो गां ददाति । अत्र चतुर्थ्या उद्देश्योऽर्थः । वेदविदुद्देश्यकः गोनिषुस्वत्वत्यागानुकूल एककर्तृको वर्तमानो व्यापारः ॥ अनुक्ते किम् । दानीयो विप्रः । दीयतेऽस्मै इति दानीयो विप्रः । बाहुलकात्संप्रदाने अनीयप्रत्ययः ॥
( तत्त्वदी ० ) - दानपात्रे चतुर्थीति ॥ दीयते इति दानम् । कर्मणि युट् । दानस्य पात्र योग्यमित्यर्थः । “योग्यभाजनयोः पात्रम्" इत्यमरः ॥ वेदविदे गां ददाति । वेदविदुद्देश्यको गोनिष्ठो यः स्वत्वत्यागस्तदनुकूल एकाश्रयको वर्तमानव्यापार इत्यर्थः ॥ तथा च स्वस्वत्व निवृत्तिपूर्वक परस्वत्वापादनं दानम् । खण्डिकोपाध्यायस्तस्मै चपेटां ददातीत्यादौ तु उद्देश्यत्वाच्चतुर्थी । श्रोत्रियाय कन्यां ददातीत्यत्र त्वात्मतात्मीयतयोरत्यागेऽपि परगोत्रत्वेन ज्ञातित्वस्यैव त्यागादिति वृद्धाः । परस्वत्वापादनरूपस्य दानस्य च सत्त्वात् । स्वस्य भावः स्वत्वं स्वशब्दस्यार्थचतुष्टये आत्मात्मीयज्ञातिधनरूपे वृत्तेः ॥
( क्रियया यमाप्नोति तत्रापि चतुर्थी ) पत्ये शेते ॥
( सुबोधिनी) - क्रिया यमाप्नोति तत्रापि चतुर्थी ॥ क्रियया कर्ता यमान मोति सम्बन्धाद् यमभिप्रैति तत्र चतुर्थी स्यात् ॥ पत्ये शेते । शयनक्रियया पतिमभिप्रैति तदाभिमुख्येन शेते इत्यर्थः ॥ राज्ञे करं ददाति । दानक्रियया राजानमभिमैति तदाभिमुख्येन ददातीत्यर्थः ॥ इतेि चतुर्थी |
(तत्त्वदी ० ) - पत्ये शेत इति ॥ पत्युद्देश्यकशयनानुकूल एकाश्रयको व्यापारः ॥ इति चतुर्थी । (विश्लेषावधौ पञ्चमी ) विश्लेषो विभागस्तस्यावधौ पञ्चमी ॥ हिमवतोऽवतरति गङ्गा । धावतोऽश्वापत् ॥
Page #232
--------------------------------------------------------------------------
________________
(२१६)
सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः] (सुबोधिनी )-विश्लेषावधौ पञ्चमी ॥ श्लेषणं श्लेषः संयोगः। विगतो विरुद्धो वा श्लेषो विश्लेषो विभागः। अवधीयते एकरूपतया ज्ञायते सोऽवधिः । विश्लेषस्यावधिविश्लेषावधिस्तस्मिन् विश्लेषावधौ॥अस्यापादानसंज्ञा।उक्तं च हरिणा। “अपाय यदुदासीनं चलं वा यदि वाऽचलम्। ध्रुवमेवातदावेशात्तदपादानमुच्यते।" अपाय विश्लष साध्ये सति ध्रुवमवधिभूतं कारकमतदावेशात विश्लेषजनकक्रियानावेशादपादानमुच्यते।कीहशम्।चलमचलमुदासीनं वेत्यर्थः। तत्रानुक्ते अपादानकारके पश्चमी स्यात्।अत्र प्रकृत्यर्थः पञ्चम्यर्थेऽवधावभेदेन संसर्गेण विशेषणं प्रत्ययार्थोऽवधिस्तु क्रियायां विशेषणं भवति कारकाणां क्रिययैव सम्बन्धात् । हिमवतः पर्वताद्गङ्गाऽवतरति । अत्रावतरणविशिष्टाया गङ्गाया विश्लेषावधिभूतो हिमवान् । हिमवदभिन्नावविकनिःसरणानुकूलो गंगाभिन्नाश्रयको वर्तमानो व्यापारः ॥ धावतोऽश्वाच्चैत्रः पतति । पतनक्रियाविशिष्टस्य चैत्रस्य विश्लेषावधिरश्वः । शीघ्रगत्यनुकूलव्यापाराश्रयोऽश्वस्तदभिन्नावधिकं चैत्रनिष्ठ पतनमित्यर्थः ॥ अनुक्ते किम् । उपाध्यायो विप्रः । उप समीपेऽधीतेऽस्मादित्यपादाने घज्ञ ॥ इति पञ्चमी॥
(तत्त्वदी० )विश्लेषेति ॥ श्लेषणं श्लेषः संयोगः विगतः श्लेषो विश्लेषः ॥ फलिता. र्थमाह-विभाग इति ॥ अवधाविति ॥ अवधीयते एकरूपतया ज्ञायते सोऽवधिः । प्रकृतधातूपात्तगत्याधनाश्रयत्वे सति तज्जन्यविभागाश्रयः ॥ हिमवत इति ॥ हिमवदभिन्नावधिकनिःसरणपूर्वकः अवतरणानुकूलगङ्गाऽभिन्नाश्रयको वर्तमानो व्यापारः ॥ धावत इति ।। शीघ्रगत्यनुकूलो यो व्यापारस्तदाश्रयो योऽश्वस्तदवधिकोऽधोदेशसंयोगानुकूल एकाश्रयकोऽतीतो व्यापारः । इह क्रियाविशिष्टस्याप्यश्वस्य प्रकृतधातूपात्तक्रियां प्रत्यवधित्वं न विरुध्यते । तथा परस्परात् मेषावपसरत इत्यत्र सृधातुना गतिद्वयस्याप्युपादानादेकमेषनिष्ठां गतिं प्रत्यपरस्य विश्लेषावधिस्वमस्त्येव । मेषावधिको यः उत्तरदेशसंयोगस्तदनुकूलो मेषाभिन्नाश्रयको वर्तमानो व्यापारः। पर्वतात्पततोऽश्वात्पतति चैत्रः । पर्वताभिन्नावधिकोऽधोदेशसंयोगानुकूलो यो व्यापारस्तदाश्रयो योऽश्वस्तदवधिकोऽधोदेशसंयोगानुकूल एकचैत्राभिन्नाश्रयको वर्तमानो व्या. पारः । विश्लेषश्च कचिन्मानसोऽपि क्वचिदध्याहृतक्रियापेक्षयाऽपि । अधर्माज्जुगुप्सते । स्वार्थाद्धीयत इत्यादौ मानसाधर्मविश्लेषाध्याहृतनिःसरण क्रियापेक्षया विश्लेषयोरवधित्वस्य सत्त्वात् ॥ इति पञ्चमी ॥
( संबन्धे षष्ठी) राज्ञः पुरुषः ॥ (सुबोधिनी)-संबन्धे षष्ठी ॥ विशेषणविश्लिष्टः संबन्धः । आह च । एतौ संबद्धौ इति प्रतीतिजनकः संवन्धः । समानार्थो न नियतज्ञानाभावात् । स संबन्धो द्विविधः । क्रियाकारकसंबन्धो द्रव्यगुणसंबन्धश्चति । क्रियाकारकसंबन्धोपि दिविधः। विशेषः सामान्यं चति । तत्र विशेष कर्मत्वादिरूपे संबन्धे विहिता अपवादभूता
Page #233
--------------------------------------------------------------------------
________________
[विभक्त्याः ] टीकाद्वयोपेता।
(२१७) द्वितीयादयो विभक्तयः । सामान्यसंबन्धे तु षष्ठी । उक्तं च । “संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । श्रुतायामश्रुतायां च क्रियायां सोऽभिधीयते ॥" नटस्य शृणोति । माषाणामश्नाति । नटसंबन्धिश्रवणानुकल एककर्तृको व्यापारः। माषसंबन्धिभोजनानुकूल एककर्तृको व्यापारः। विशेषविवक्षायां तु नटेन गीतं शृणोति। माषानश्नातीति ॥ द्रव्यगुणसंबन्धा यथा । राज्ञः पुरुषः । अत्र सेव्यसेवकरूपः ॥ राज्ञः पुत्रः । अत्र पितृपुत्ररूपः॥ तन्तूनां पटः । अवयवावयविरूपः ॥ पटस्य रूपम् । गुणगुणिरूपः ॥ माषाणां राशिः । समूहसमूहिरूपः ॥ कुरूणां राजा । पाल्यपालकरूपः ॥ चैत्रस्य वाहनम् । वाह्यवाहकरूपः ॥ शब्दस्यार्थः । अत्र वाच्यवाचकरूपः॥ चक्षुषा विषया रूपम् । अत्र बोध्यबोधकरूपः ।। अग्नधूमः । अत्र व्याप्यव्यापकरूपः॥ पटस्याभावः । अत्र प्रतियोग्यनुयागिरूपः ॥ उपगोर पत्यम् । अत्रापत्यापत्यवद्रपः॥ कुशूलस्यान्नम् । अत्राधाराधेयरूपः इत्यादिः॥ ननु सबन्धस्योभयनिष्ठत्वात् कस्माषष्ठी । उच्यते । विशेषणात्षष्ठी भवति । उक्तं च । “भेद्यभेदकयोः श्लिष्टः संबन्धो. ऽन्योन्यमीक्ष्यते । द्विष्ठो यद्यपि संबन्धः षष्ठयुत्पत्तिस्तु भेदकात् ॥" भेद्यभेदकयोः स्वरूपं यथा । “पराथें स्वार्थनिक्षेपादप्रधानं विशेषणम् । विशेष्यं तु प्रधानं स्यास्वार्थस्यैव प्रकाशनात् ॥" ननु शुक्लः पट इत्यत्रापि विशेषणे षष्ठी स्यात् । मैवं वद । विशेषणस्याभेदविवक्षातो न षष्ठी । विशेषणस्य भेदविवक्षायां तु षष्ठी भवत्येव । उक्तं च । "नाम्नो द्विधैव संबन्धः सर्ववाक्येष्यवस्थितः। सामानाधिकरण्येन षष्ठया वापि क्वचिद्भवेत् ॥" अत्र प्रकृत्यर्थः प्रत्ययाथै संबन्धे विशेषणम् । प्रत्ययार्थः संवन्धस्तु पुरुष विशेषणं भवति । राज्ञः पुरुषः । राजनिरूपितसेवकत्वसंबन्धवान्पुरुषः ॥ इति षष्ठी ॥ __ (तत्त्वदी०) संबन्धे षष्ठीति ॥ एतौ संबद्धाविति प्रतीतिजनकः संबन्धस्तत्र षष्ठीत्यर्थः । स च द्विविधः । क्रियाकारकसंबन्धद्रव्यगुणसंबन्धभेदात् । आद्यो द्विविधः । सामान्य विशेषश्च । विशेषः कर्मत्वादिरूपः । तत्र द्वितीयादिरपवादः। सामान्ये षष्ठी । तद्यथा । नटस्य शृणोति । नटसंबन्धिश्रवणानुकूलो वर्तमानो व्यापारः। विशेषे तु नटेन गीतं शृणोति । नटाभिन्नाश्रयको यो व्यापारस्तत्साध्यगीताभिन्नाश्रयं यत् गानतानादि तदनुकूल एकाभिन्नाश्रयो वर्तमानो व्यापारः । अन्त्यं दर्शयति-राज्ञ इति ॥ राजसंबन्धवान् पुरुष इत्यर्थः । संबन्धश्चात्र सेव्यसेवकरूपः । एवमन्यत्राप्यूह्यम् ॥ नन्वत्र संबन्धस्योभयनिष्ठत्वात्कथं षष्ठी । एकस्मात्कुतो वेति चेत्सत्यम् । विशेषणस्याप्रधानत्वेन ततः षष्ठी । राज्ञः पुरुष इत्यत्र प्रकृत्यर्थो विशेषणं पुरुषस्तु नामार्थमात्रनिष्ठ एव प्रतिपाद्यते न विशेषणत्वेन । यदा तु विशेषणत्वेन विवक्षितस्तदा षष्ठी भवत्येव । पुरुषस्य राजेति । यथा ''परार्थे स्वार्थनिक्षेपादप्रधानं विशेषणम् । विशेष्यं तु प्रधानं स्यात्स्वार्थस्यैव प्रकाशनात्" इति ॥ शुक्लः पट इत्यत्र तु अभेदविवक्षणान्न षष्ठी। भेदविवक्षायामेव षष्ठीति विधानात् । राहोः शिर इत्यत्र तु सतोऽप्यभेदस्याविवक्षा ।
Page #234
--------------------------------------------------------------------------
________________
(२१८) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः ] यथाऽनुदरा कन्येति । भेदवतो वस्तुनः असतोऽप्यभेदस्य विवक्षा यथा । समुद्रः कुण्डिका । जलाधिक्यात्कुण्डिकायां समुद्रत्वम् । अगस्त्यापेक्षया समुद्रस्यापि कुण्डिकात्वम् । इति षष्ठी ॥
(आधारे सप्तमी) औपश्लेषिकः सामीपिकोऽभिव्यापको वैषयिको नैमित्तिक औपचारिकश्चेति षोढा सः॥ कटे शेते कुमारोऽसौ वटे गावः सुशेरते । तिलेषु विद्यते तैलं हृदि ब्रह्मामृतं परम् ॥ युद्धे संनह्यते वीरोऽडुल्यये करिणां शतम् ॥
(सुबोधिनी)-आधारे सप्तमी ॥ आध्रियन्ते क्रिया अस्मिन्नित्याधारः। संज्ञायामकर्तरि चेत्यधिकरणे घञ् । अधिकरणमित्यर्थः। स आधारः षड्विधः अस्येति षोढा । अन्यत्र सिद्धयोराधाराधेययोः प्रादेशिक: संबन्ध उपश्लेषः । उप उपरि श्लेषः उपश्लेषः उपश्लेषोऽस्यास्तीति उपश्लेषे भव इति वा औषश्लेषिकः । 'अइको च मत्वर्थे' इतीकः। णितो वेति णित्त्वामृद्धिः। भवाथै इको वा ॥ सामीप्यं सांनिध्यम् । सामीप्ये भव: सामीप्यमस्यास्तीति वा सामीपिकः केनेयेका इतीकः । अइको चेति वा इकः ॥ अभिन्नप्रदेशयोराधाराधेययोः सर्वावयवसम्बन्धिकः अभिव्यापकः। अभितः सर्वतो व्याप्यते आधेयेनेत्यभिव्यापकः । कर्मणि घञ् । ततः स्वार्थे कः ॥ अन्यत्र भावो विषयः । विषये भवो वैषयिकः। केनेयेका इति इकः ॥ निमित्तं हेतुः। निमित्ते भवो नैमित्तिकः केनेयेका इति इकः। निमित्तं फलं तदस्यास्तीति वा अइको चेतीकः ॥ अन्यत्र विद्यमानस्य सम्बन्धस्यान्यत्रारोपः उपचारः । उपचारे भव औपचारिकः । केनेयेकाइतीकः। उपचारोऽस्याऽस्तीति वा । अइको चेतीकः॥ अत्राधिकरणे कारके सप्तमी स्यात् । अत्र सप्तम्या आश्रयोऽर्थः प्रकृत्यर्थस्त्वभेदेन संसगैणाश्रये विशेषणम् । आश्रयस्तु क्रियायां विशेषणं भवति । कारकाणां क्रिययैवान्वयात् । उक्तं च । " आश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा। यथायथं विभक्त्यर्थाः सिपां कमेति वाक्यतः॥१॥" कर्मणि द्वितीया । कर्तृसाधनयोस्तृतीया । आधारे सप्तमी । नामाश्रयोऽर्थों निरूप्यभेदाच्चाभेदः। अवधिः पञ्चम्यर्थः । उद्देश्यः चतुर्थ्यर्थः। सम्बन्धः षष्ठ्यर्थः । शक्तिः प्रथमार्थः । यथासंख्यं षण्णामुदाहरणान्याह । असौ कुमारः कटे शेते । गावः वटे सुशेरते स्वति । तैलं तिलेषु विद्यते । हृदि अमृतं सुखरूप परमुत्तमं निरुपाधिकं ब्रह्म वर्तते । हृदयब्रह्मणोः प्रकाश्यप्रकाशकरूपः सम्बन्धः। धीरः संनद्यते युद्धे कवचबन्धनस्य युद्धफलकत्वात्तन्निमित्तम् । करिणां शतमगुल्यग्रे वर्तते। करिभूम्योराधाराधेयरूपः सम्बन्धः अमुल्यग्रे आरोप्यते ॥ __ (तत्त्वदी.)-आधारे सप्तमीति ॥ आध्रियते क्रियाऽस्मिन् इत्याधारः । कर्तृकर्मद्वारा क्रियाधारत्वं न तु साक्षात् । आधारस्य षड्डिधत्वमाह-औपश्लेषिक इत्यादि ॥ उप उप
Page #235
--------------------------------------------------------------------------
________________
[ विभक्त्यर्थाः ]
टीकाद्वयोपेता ।
(२१९ )
रिश्लेषः संयोगः सोऽस्यास्तीति अइकावितीकः । णितो वेति णित्त्वाद्वृद्धिः ॥ समीपे भवः सामीपिकः । केनेयेका इतीकः । अभितः सर्वतो व्याप्यते आधेयैरिति अभिपूर्वादानोतेः कर्मणि घञन्तात्स्वार्थे कः || अपृथग्देशयोराधाराधेययोः सर्वावयवसंबन्धिकः ॥ विषयः प्रकाशनसामर्थ्यं तदस्यास्तीति पूर्ववत्प्रक्रिया || निमित्तं हेतुस्तत्र भवः फलं वा तदस्यास्तीति वा पूर्ववत् ॥ अन्यत्र विद्यमानस्य सम्बन्धस्यान्यत्रारोप उपचारः । तत्र भवः सोऽस्यास्तीतिः वौपचारिकः ॥ निमित्तप्रभेदाच्च ' षड्विधः कैश्विदिष्यते ' इति वचनादस्य पक्षस्यापि प्रामाण्यम् || उदाहरणान्याह । कटे शेते कुमारोऽसौ । एककटाभिन्नाधारको निद्रानुकूल एककुमाराभिन्नाश्रयको वर्तमानो व्यापारः ॥ वटे गावः सुशेरते । एकवटा भिन्नाधारकनिद्रानुकूलो बहुगोऽभिन्नाश्रयकवर्तमानो व्यापारः ॥ तिलेषु विद्यते तैलम् । बहुतिलाभिन्नाधारक आत्मधारणानुकूल एकतैलाभिन्नाश्रयको वर्तमानो व्यापारः ॥ हृदि ब्रह्मामृतं परं विद्यते इति योज्यम् । हृदयाभिन्नाधारक आत्मधारणानुकूलः स्फुरणानुकूलो वा एकब्रह्माभिन्नाश्रयको वर्तमानो व्यापारः । अमृतं सुखरूपं मरणशून्यं वा । परमुत्तमम् उपाधिशून्यमित्यर्थः । द्वयमपि ब्रह्मविशेषणम् । प्रकाश्यतासंबन्धेन ब्रह्म मनसि वर्तते ॥ युद्धे सन्नद्यते धीरः । युद्धाभिन्नाधारकः कवचबन्धनानुकूलः एकधीराभिन्नाश्रयको वर्तमानो व्यापारः । कवचबन्धनस्य युद्धफलकत्वात्तन्निमित्तम् || अङ्गुल्य करिणां शतम् । विद्यते इत्यस्यानुषङ्ग । अङ्गुल्यग्राभिन्नाधारक आत्मधारणानुकूलः करिसंबन्धिशताभिन्नाश्रयको वर्तमानो व्यापारः । करिभूम्योराधाराधेयभावोऽङ्गुल्यग्र आरोप्यते || औपश्लेषिकत्वादिकं तु शाब्दबोधे न भासते । अन्यपदोच्चारणात्तु भासते गौर्वाहीक इत्यत्रोपसर्जनत्वदत् ॥
(क्रियालक्षण भावस्तत्रापि सप्तमी ) वर्षति देवे चोर आयतः || गोषु दुह्यमानासु गतः ॥
( सुबोधिनी) - क्रियालक्षणं भावस्तत्रापि सप्तमी ॥ भवनं भावः । क्रिया प्रसिद्धैव ग्राह्या व्याख्यानात् । भावोऽस्ति यस्मिन् स भावः । मत्वर्थीयोऽप्रत्ययः । प्रसिद्धक्रियावानित्यर्थः । प्रसिद्धक्रियावांस्तु सापेक्षत्वादप्रसिद्ध क्रियावन्तं संलक्ष्यैव भवति । अत आह । क्रियालक्षणम् । क्रियायां प्रसिद्धं क्रियाया लक्षणं चिह्नम् । निराश्रयायाः क्रियाया असम्भवादाश्रय आक्षिप्यते । अप्रसिद्धक्रियावतो लक्षणमित्यर्थः । लक्षणरूपा प्रसिद्धा लक्षणया वा प्रसिद्धैव सम्भवति प्रसिद्धया अप्रसिद्धायाः साधनौचित्यात् । लक्ष्यलक्षणभावसंबन्धे षष्ठयां प्राप्तायां सप्तमी विधीयते । अप्रसिद्धक्रियावलक्षणे प्रसिद्धक्रियावति कर्तरि कर्मणि च सप्तमी स्यादित्यर्थः ॥ कर्तर्युदाहरणमाह देवे मेघे वर्षति सति चोर आयातः । अत्र देवनिष्ठा प्रसिद्धा क्रिया सा चोरनिष्ठाम प्रसिद्धां क्रियां लक्षयति वर्षतीत्यत्र लक्षणहेत्वोः क्रियाया इति सूत्रेण कर्तरि शतृप्रत्ययः । कर्ता च देवः । अतस्तयोः सामानाधिकरण्यात् सप्तमी ॥ कर्म
Page #236
--------------------------------------------------------------------------
________________
(२२०)
सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः] ण्युदाहरणमाह । गोषु दुह्यमानासु सतीषु चोरो गतः । दुह्यमानास्वित्यत्र कर्मणि यक् ॥ इति सप्तमी ॥
( तत्त्वदी०)-क्रियालक्षणं भाव इति ॥ भवनं भावः ॥ क्रिया । भावोऽस्यास्तीति मत्वीयोऽप्रत्ययः । लक्ष्यत इति लक्षणम् । क्रियाया लक्षणं क्रियालक्षणं बोधकमिति यावत् । अप्रसिद्ध क्रियाबोधिका या प्रसिद्धक्रिया तद्वतः सप्तमीत्यर्थः ॥ वर्षतीत्यादि ॥ देवाभिन्नाश्र. यिका या वर्षणक्रिया तयोपलक्षितभूतं यदागमनं तदाश्रयश्चोर इत्यर्थः । इतोऽन्याथें द्विती. यादिसिद्धयर्थ शेषा इत्यत्य योगविभागः कार्यः ॥ इति सप्तमी ॥
(विनासहनमसृतेनिर्धारणस्वाम्यादिभिश्च ) एतैोंगे द्वितीयाया विभक्तयः ॥ विनादियोगे द्वितीया । विना पापं सर्व फलति । अन्तरेणाक्षिणी किं जीवितेन । अन्तरा त्वां मां हरिः । जपमनु प्रावर्षत् । अनु हरिं सुराः । भक्तो हरिमभि । उपहरिं सुराः । नदीमन्ववसिता सेना। अति देवान् कृष्णः। अभितो ग्रामम् । सर्वतो नगरम् । धिग् जाल्मम् । उपर्युपरि पर्वतम् । अध्यधि लोकम् । अध्यधि सुखम् । अधोऽधो ग्रामम् । उभयतः कृष्णम् ॥ एवं परितः समयानिकषाहाप्रतिपरियोगेऽपि ॥
(सुबोधिनी)-अथोपपदविभक्तिमाह-विनासहनमसृतेनिर्धारणस्वाम्यादिभिश्च ॥ विनाच सहश्च नमश्च ऋते च निर्धारणं च स्वामी च ते विनासहनमसृतेनिारणस्वामिनः ते आदयो येषां ते विनासहनमसृतेनिरिणस्वाम्यादयस्तैर्विनासहनम. सृतेनिर्धारणस्वाम्यादिभिः । 'द्वन्द्वान्ते श्रूयमाणः शब्दः प्रत्येकं संबध्यते' इत्यादिशब्दः प्रत्येकं योज्यः। शेषा इत्यनुवर्तते । शेषा द्वितीयाद्या विभक्तयो यथाक्रममेषां योगे भवन्ति ॥ विनादियोगे द्वितीया । पापं विना सर्वं फलति । पापस्याभावे सर्व कर्म फलप्रदं भवतीत्यर्थः ॥ अक्षिणी अन्तरेण । नेत्रयोरभावे चक्षुषी विना इत्यर्थः।। अन्तरेणेति निपातो मध्यार्थकोऽपि । यथा । "मृणालसूत्रामलमन्तरेण स्थितश्चलबामरयोदयं स" इत्यत्र चलच्चामरयोदयस्य मध्ये स्थित इत्यर्थः ।। अन्तरा त्वां मां तव मम च मध्ये इत्यर्थः । योगे इति किम् । अन्तरा त्वां मां हरेर्मूतिः । अत्र हरिशब्दान्न द्वितीया अन्तराशब्देनान्वयाभावात् ॥ हेतुसहहीनार्थकानुयोगे द्वितीया। यथा।जपमनु मेघः प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः। हेतौ तृतीयावाधिका द्वितीयाऽत्र ॥ नदीमनु नया सह सेना अवसिता। संबद्धेत्यर्थः। पिञ् बन्धने । अस्मात् क्तः । षष्ठीवाधिका द्वितीयाऽत्र ॥ अनुहरिं सुराः हरेहींना इत्यर्थः ॥ भक्तो हरिमभि हरिमभिवर्तते इत्यर्थः ॥ उत्कृष्टादेव द्वितीया नापकृष्टात् । शक्तिस्वभावात् ॥
Page #237
--------------------------------------------------------------------------
________________
[विभक्त्यर्थाः] टीकाद्वयोपेता।
(२२१) हीनार्थकोपयोगे द्वितीया यथा। उपहार सुराः हरेहींना इत्यर्थः । अत्राप्युत्कृष्टादेव द्वितीया नापकृष्टात् ॥ अतिक्रमणपूजार्थकातियोगे द्वितीया यथा । उवितादधिकस्यानुष्ठानमतिक्रमणम् । अतिदेवान् कृष्णः। देवानतिक्रान्तो देवानां पूज्यश्चेत्यर्थः ॥ अभितो ग्रामं ग्रामस्य पार्श्वद्वये इत्यर्थः ॥ सर्वतो ग्रामं ग्रामस्य समन्तादित्यर्थः ॥ जाल्मं मूर्ख धिक् तस्य निन्द्यतेत्यर्थः ॥ उपर्युपरि पर्वतम् । पर्वतस्योर्ध्वमित्यर्थः ॥ अध्यधि सुखं सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः ॥ अधोऽधो ग्रामं ग्रामस्याधस्तात् समीपदेशे इत्यर्थः ॥ उभयतः कृष्णम् । कृष्णस्य पार्श्वद्वये इत्यर्थः ॥ परितः सर्वतः इत्यर्थः ॥ समया-निकषा-निपातौ समीपार्थको । “विलय लङ्कां निकषा हनिष्यति" इति माघः ॥ हा मूर्खम् तस्य शोच्यतेत्यर्थः ॥ 'बुभुक्षितं न प्रतिभाति किंचित् ।' बुभुक्षितस्य पुरुषस्य किंचित् प्रतिभाति नेत्यर्थः।
(तत्त्वदी०)-कारकविभक्तिं दर्शयित्वोपपदविभक्तिं दर्शयति-विनासहेत्यादि । विना च सहश्च नमश्च ऋते च निर्धारणं च स्वामी च ते आदयो येषामिति द्वन्द्वगभी बहुव्रीहिः। द्वन्द्वान्ते श्रूयमाणत्वादादिशब्दः प्रत्येकं संबध्यते । द्वितीयादीनां चात्र यथाक्रममन्वयः ॥ विनादियोगे इति ॥ विना पापमिति । पापसंबन्धाभावे सर्व कर्म फलप्रदं भवतीत्यर्थः । द्वितीयाद्या उपपदविभक्तयः षष्ठ्यपवादा जपमनु इति ॥ हेतुभूतजपोपलक्षितमतीतकालमेकाश्रयकं वर्षणमित्यर्थः ॥ उपहरिमिति ॥ हरेहींना इत्यर्थः ॥ नदीमिति ॥ नद्या सह संबद्धेत्यर्थः । षिञ् बन्धने क्तः ॥ अतिदेवानिति ॥ देवानां पूज्य इत्यर्थः ॥ अभित इति ॥ उभयत इत्यर्थः ॥ धिगिति ॥ निर्भर्त्सननिन्दयोः ॥ उपरीति ॥ पर्वतस्योपरिष्टात्समीपे देश इत्यर्थः ॥ अधीति ॥ सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः ॥ अध इति ॥ ग्रामस्याधस्तात्समीपदेश इत्यर्थः ॥
(कालाध्वनोनॆरन्तये) मासमधीते । कोशं पर्वतः । मासं गुडधानाः मासं कल्याणी । कोशं कुटिला नदी॥ नैरन्तर्ये किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः॥
(सुबोधिनी)-कालाध्वनोनैरन्तये ॥ कालश्च अध्वा च कालाध्वानौ तयोः कालाध्वनोः निर्गतमन्तरं यस्मात्तत् निरन्तरं निरन्तरस्य भावो नैरन्तय तस्मिन्नरन्तये । क्रियागुणद्रव्यैः सह कालाध्वनोनिरन्तरसंबन्धे कालाध्ववाचकाद् द्वितीया स्यात् ॥ मासमधीते । निरन्तरा मासस्याध्ययनक्रियेत्यर्थः॥क्रोशं पर्वतः। निरन्तरः क्रोशस्य पर्वत इत्यर्थः ॥ मासं गुडधानाः । निरन्तरा मासस्य गुडेन मिश्राः धानाः गुडधानाः । “धाना भृष्टयवे स्त्रियाम्” इत्यमरः ॥ मासं कल्याणी । निरन्तरा मासस्य शोभनगुणवती ॥ क्रोशमधीते । निरन्तरा क्रोशस्याध्ययनक्रिया॥क्रोशं कुटिला
Page #238
--------------------------------------------------------------------------
________________
( २२२ )
सिद्धान्तचन्द्रिका |
[ विभक्त्यर्थाः ]
नदी । निरन्तरा कोशस्य वक्रा नदी || लक्षणेत्थंभूताख्यान भागवीप्सार्थकानां प्रतिपर्यनूनां योगे द्वितीया ॥ लक्षणे यथा । वृक्षं प्रति पर्यनु वा विद्योतते विद्युत् ॥ लक्ष्यलक्षणभावसंबन्धं प्रत्यादयो द्योतयन्त्यत्र ॥ इत्थंभूताख्याने | भक्तो विष्णुं प्रति पर्यनु वा । विष्णोर्भक्तेश्च विषयविषयिभावसंवन्धं प्रत्यादयो द्योतयन्त्यत्र । भक्तः कृष्णस्य कंचित्प्रकारं भक्तत्वं प्राप्त इत्यर्थः । भागे । लक्ष्मीः कृष्णं प्रति पर्यनु वा । लक्ष्मीरूपस्य भागस्य कृष्णेन सह स्वस्वामिसंबन्धः तं प्रत्यादयों द्योतयन्त्यत्र । कृष्णस्य भाग इत्यर्थः ॥ वीप्सायाम् । वृक्षं प्रति पर्यनु वा वृक्षं वृक्षमित्यर्थः ॥ लक्षणेत्थंभूताख्यानवीप्सार्थकाभियोगे द्वितीया ॥ लक्षणे यथा । हरिमभिवर्तते मुक्तिः । हरिं लक्षयित्वेत्यर्थः । लक्ष्यलक्षणभावसंवन्धोऽत्र । इत्थंभूताख्याने । भक्तो हरिमभि । विषयविषयिभावसंबन्धोऽत्र । हरेः कंचित्मकारं भक्तत्वं प्राप्त इत्यर्थः ॥ वीप्सायाम् । देवमभिनमति । देवं देवमित्पर्थः। पृथग्नानादक्षिणेन उत्तरेण इत्यादियोगेऽपि द्वितीया ॥
( तत्त्वदी ० ) - कालाध्वनोरिति ॥ कालश्च अध्वा च कालाध्वनौ तयोः । निर्गतमन्तरं यस्मात्तन्निरन्तरम् । तस्य भावः नैरन्तर्य तस्मिन् । क्रियागुणद्रव्यैः कालाध्वनोः निरन्तरं संबन्धे कालाध्वभ्यां द्वितीया ॥ मासमिति । निरन्तरं माससंबन्धी एकाश्रयोऽध्ययनाकूलो व्यापारः॥ मासं कल्याणीति ॥ अव्यवच्छिन्नमास संबन्धिशोभनगुणवती ॥ मासं गुडेति ॥ अव्यवच्छिन्नमाससंबन्धी इत्यर्थः ॥
( अधिपूर्वाणां शीस्थाssसामाधारः कर्म ) अधिशेते अधितिष्ठति अध्यास्ते वा वैकुण्ठं हरिः ॥
(सुबोधिनी) - अधिपूर्वाणां शीस्थाऽऽ सामाधारः कर्म ॥ शीङ्ग स्वमे । ष्ठा गतिनिवृत्तौ । आस उपवेशने । अधिपूर्वकाणामेषामाधारः कर्मसंज्ञकः स्यादनुक्ते कर्मणि द्वितीयेत्यर्थः ॥
( तत्त्वदी ० ) - अधिशेते इत्यादि ॥ अत्र त्रयाणां फलं स्थितिः । अवस्थानजन्यवैकुण्ठनिष्ठसंयोगानुकूल एकहर्यभिन्नाश्रयको वर्तमानो व्यापारः ॥
( अभिनिपूर्वस्य विशेः ) अभिनिविशते सन्मार्गम् ॥
( सुबोधिनी) - अभिनिपूर्वस्य विशेः ॥ द्वन्द्वेऽल्पस्वरप्रधानेति नः पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीदृशसंघातविवक्षार्थम् । अभिनीत्येतत्संघात पूर्वरूप 'विश प्रवेश' इत्यस्याधारः कर्मसंज्ञकः स्यात् ॥
( तत्त्वदी०) - अभिनि इति || नेरल्पस्वरत्वेन पूर्वनिपाते कर्तव्ये विपरीतोच्चारणमीह·शसमुदायविवक्षार्थम् । तेनेह न । “निविशंत यदि शूकशिखा पदे " इति ॥ अभिनिविशत इति ॥ अभिनिवेशजन्यसन्मार्गाभिन्नाश्रयः संबन्धस्तदनुकूल एकाभिन्नाश्रयको वर्तमानो व्यापारः ।।
Page #239
--------------------------------------------------------------------------
________________
[ विभक्त्यर्थाः ] टीकाद्वयोपेता। (२२३)
( उपान्वध्यापर्वस्य वसः) उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिः॥
(सुबोधिनी )-उपान्वध्यापूर्वस्य वसः ॥ उपादिपूर्वस्य वसेराधारः कर्मसंज्ञकः स्यात् ॥ लुग्विकरणाऽलुविकरणयोरलुग्विकरणस्यैव ग्रहणमिति न्यायात् 'वस निवासे' इति भौवादिक एव गृह्यते न तु 'वस आच्छादने' इत्यादादिकः॥
(तत्त्वदी० )-उपवसतीत्यादि ॥ वैकुण्ठाभिन्नाश्रयको वासजन्यो यः संयोगस्तदनुकूल एकहर्यभिन्नाश्रयको वर्तमानो व्यपारः ॥
(नाभुक्त्यर्थस्य ) वने उपसति । इत्यादि ॥ (सुबोधिनी )-नाभुक्त्यर्थस्य ॥ भोजननिवृत्तिवाचकस्य वसेराधारः कर्मसंज्ञो न ॥ उपवसति उपवास करोतीत्यर्थः ॥ इति पुनरपि द्वितीया ॥
(सहादियोगे तृतीया) सह शिष्येणागतो गुरुः ॥ एवं साकंसाईसमंयोगेऽपि ॥
(सुबोधिनी)-सहादियोगे तृतीया ॥ सहार्थकशब्दस्य योगे तृतीया विभक्तिर्भवति ॥ गुरुः शिष्येण सहागतः । गुरोरत्रागमनक्रियया शाब्दः संबन्धः शिष्यस्य त्वार्थः संबन्धः। अत एव शिष्यस्याप्राधान्यम् । षष्ठया बाधिकेयम् ॥ ननु सम्बन्धे तृतीया । सम्बन्धश्चोभयनिष्ठोऽत उभाभ्यां तृतीया स्यात् । मैवं वद । यस्माषष्ठी प्राप्ता तस्मादेव तृतीया । षष्ठी चाप्रधानाद्विहिता । ततस्तृतीयाऽप्यप्रधानादेव भवति । उत्सर्गसमानदेशा अपवादा भवन्तीत्युक्तत्वात् । सहार्थविवक्षायां विनापि सहार्थप्रयोगं तृतीया भवति । त्वमहं सिनेत्यादिनिर्देशात् । एवं साकं साई समं अमा पृथक् विना नाना इत्यादियोगेऽपि तृतीया ॥
( तत्त्वदी० )-सहादियोग इति ॥ शिष्येण सहेति ॥ गुरौ तु न तृतीया तस्य प्रधानत्वात् । अथाप्रधाने तृतीयेति चेत् कथं गुरुणा सहागतः शिष्य इत्यत्र सा । गुरोः प्रधानत्वादिति चेत् सत्यम् । न ह्यत्र लौकिकं प्राधान्य किन्तु शाब्दम् । तच्च शब्दप्रतिपादितक्रियात्वम् । अर्थलब्धक्रियात्वमप्राधान्यम् । तच्च यदा यस्य तदा तस्यैव प्राधान्याप्राधान्ये ॥ शिष्येण सहागतो गुरुरित्यत्रागमने शिष्यस्यापि कर्तृवमन्यथा साहित्यं न स्यात् इति कर्तसाधनयोरित्येव तृतीया किमनेनेति चेत्सत्यम् । शिष्येण सहागमनं गुरोरित्यत्र शिष्यादपि कर्तृकार्ययोरिति षष्ठी प्राप्ता तदपवादार्थमिदमिति गृहाण । सहार्थविवक्षायां सहादिप्रयोगाभावेऽपि तृतीया सिनेत्यादिनिर्देशात् ॥
Page #240
--------------------------------------------------------------------------
________________
(२२४) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः]
(येनाङ्गविकारः) येनाङ्गेन विकतेनागिनो विकारो लक्ष्यते ततस्तृतीया ॥ अक्ष्णा काणः ॥ अङ्गविकारः किम् । अक्षि काणमस्य ॥
(सुबोधिनी )-येनाङ्गविकारः॥ अङ्गमस्यास्तीति सोऽङ्गः । अस्त्यर्थेऽप्रत्ययः। अङ्गीत्यर्थः ॥ अङ्गस्याङ्गिनो विकारः अङ्गविकारः। अक्ष्णा काणः । अक्ष्णः काणत्वविशिष्ट इत्यर्थः॥ (तत्त्वदी० )-अङ्गिन इति ॥ अङ्गमस्यास्तीति सोऽङ्गी तस्येत्यर्थः ।। (कञ्चित्प्रकार प्राप्तस्य लक्षणे ) जटाभिस्तापसः ॥ ( सुबोधिनी)-कश्चित्प्रकार प्राप्तस्य लक्षणे ॥ सामान्यस्य भेदको विशेषः प्रकारः। स लक्ष्यतेऽनेनेति लक्षणं चिह्नम् । कश्चित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् ॥ जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्टः । जटाभिर्जाप्यं यत्तापसत्वं तद्विशिष्ट इत्यर्थः । इह जटानां लक्षणत्वम् । तेन लक्ष्यलक्षणभावः संबन्धोऽत्र ॥
(तत्त्वदी०)-जटाभिरिति ॥ जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः । लक्षणे किम् । अस्य जटाः ॥
(प्रकृत्यादिभ्यश्च ) प्रकृत्या चारुः । प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः । समेनैति । विषमेणैति । विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन याति ॥
(सुबोधिनी)-प्रकृत्यादिभ्यश्च ॥ प्रकृत्या स्वभावेन चारुरभिरूपः न त्वलंकारादिना । अत्र क्रियाया अश्रवणे कर्तृकरणत्वाभावात्षष्ठी प्राप्ता तदाधिका तृतीया। प्रायेण बहुधा यज्ञं करोतीति याज्ञिकः ॥ गोत्रेण गार्ग्यः । गर्गगोत्रमस्येत्यर्थः । प्रातिपदिकार्थे प्रथमा प्राप्ता तदाधिका तृतीयाऽत्र ॥ समेन मार्गेण विषमेण मागेंण स एति गच्छतीत्यर्थः । समविषमाभ्यां कर्मभ्यां द्वितीया प्राप्ता तदाधिका तृतीया ऽत्र ॥ द्वयोोणयोः समाहारो द्विद्रोणम् । कचिन्नति स्त्रीत्वाभावः । विद्रोणपरिमितधान्यमूल्यवाचको द्विद्रोणशब्दः । द्रोणद्वयस्य द्रव्यस्य धान्यं क्रीणातीत्यर्थः ॥ सुखेन दुःखेन याति । सुखं दुःखं यातीत्यर्थः ॥
(दिवः करणम् ) कर्मसंज्ञं वा स्यात् ॥ अक्षरक्षान्वा दीव्यति ॥ (सुबोधिनी )-दिवः करणम् ॥ दिवः करणस्य कर्मसंज्ञा वा स्यात् ॥ दिवु क्रीडादौ । अस्य करणं वा कर्म भवति । अक्षैः अक्षान् वा दीव्यति । किंच सकमकत्वादःदेवयते देवदत्तो मैत्रणेत्यत्र गतिबुद्धीत्यनेन बावपि कर्तुः कर्मत्वं न ।
Page #241
--------------------------------------------------------------------------
________________
[विभक्त्यर्थाः] टीकाद्वयोपेता।
(२२५) ( तुल्यार्थयोगे ) कृष्णेन तुल्यः । रामेण सदृशः ॥ (सुबोधिनी )-तुल्यार्थयांगे ॥ तोलनं तुला तुलया संमितस्तुल्यः ण्यप्रत्ययः। णितो वेति वृद्धयभावः । तुल्यार्थवाचकशब्दयोग तृतीया वा स्यात् । पक्षे संबन्धे षष्ठी । तुलोपमाशब्दौ विना । उपमा तुला वा हरेनास्तीति । तुल्यः सदृशः समः कृष्णेन कृष्णस्य वा ॥
(फलप्राप्तौ कालाध्वनोरत्यन्तसंयोगे तृतीया) अह्ना क्रोशेन वाऽनुवाकोऽधीतः॥ फलप्राप्तौ किम् । मासमधीतो नायातः॥
(सुबोधिनी )-फलप्राप्तौ कालाध्वनोरत्यन्तसंयोगे तृतीया॥अन्तं विराममतिक्रान्तोऽत्यन्तः। अत्यन्तश्चासौ संयोगश्चात्यन्तसंयोगस्तस्मिन् अत्यन्तसंयागे। निरन्तरसंनिकर्षे कालाध्ववाचकाभ्यां तृतीया स्यात् फलप्राप्तौ सत्याम् । देवदत्तेनानुवाको ग्रन्थविशेषोऽह्ना दिनं यावन्निरन्तरं क्रोशेन एककोशं यावनिरन्तरं वाऽधीतः। कालाध्वनोरिति द्वितीयावाधिकेयं तृतीया ॥ (तत्त्वदी० )-फलेति ॥ फलप्राप्तौ किम् । मासमधीतो नायातः ॥
( अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया) दास्या संयच्छते कामुकः । धर्ये तु भार्यायै संयच्छति ॥ . (सुबोधिनी )-अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया ॥ निषिद्धाचारे प्रतिपाद्य दाणः प्रयोगे चतुर्थ्यर्थे तृतीया स्यात् ॥ दास्या संयच्छते कामी। धम्य तु भार्यायै संयच्छति ॥ इति पुनरपि तृतीया ॥
(नमआदियोगे चतुर्थी) नमो नारायणाय ॥ एवं स्वस्तिस्वाहास्वधाऽलंवषड्योगे च ॥
(सुबोधिनी )-नमआदियोगे चतुर्थी ॥ सम्बन्धसामान्ये षष्ठयां प्राप्तायां तराधिका चतुर्थी ॥ नारायणाय हरये नमोऽस्तु॥ प्रजाभ्यः स्वस्ति कल्याणम् ॥ अग्नये स्वाहा ॥ पितृभ्यः स्वधा ॥ अलमिति समर्थार्थस्य ग्रहणम् । हरिदैत्येभ्योऽलं समर्थ इत्यर्थः ॥ इन्द्राय वषट् ॥
( तत्त्वदी० )-नमआदियोगे चतुर्थीति ॥ नमस्करोति देवानित्यादौ तु उपपदविभक्तरित्यायुक्तमेव । स्वयंभुवे नमस्कृत्यादौ तु स्वयंभुवमनुकूलयितुमित्यर्थे तुमोऽप्रयुक्तस्य कर्मणि चतुर्थी । एतच कार्यायेति सूत्रेण ज्ञापितम् । कार्य विधातुमित्यर्थात् ॥
Page #242
--------------------------------------------------------------------------
________________
(२२६)
सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः] (उपपदविभक्तेः कारकविभक्तिबलीयसीति) नमस्करोति देवान् । प्रावादियोगे षष्ठयपि । भोजनाय भोजनस्य वा प्रभुः समर्थः शक्तः ॥ कृष्णाय कृष्णस्य वा मद्रं भद्रं कुशलं सुखमायुष्यमर्थः प्रयोजनं वा भूयात्॥
(सुबोधिनी )-ननु नमस्करोति देवानित्यत्र चतुर्थी स्यात् । नमः संबन्धसत्त्वादुच्यते-उपपदविभक्तेः कारकविभक्तिर्बलीयसीति ॥ उपपदं निमित्तं यस्याः सा उपपदनिमित्ता सा चासौ विभक्तिश्च उपपदविभक्तिः। शाकपार्थिवादित्वान्मध्यमपदलोपः । क्रियान्वयित्वं कारकत्वम् । कारकनिमित्ता विभक्तिर्बलीयसी बलिष्ठेत्यर्थः ॥ क्रियान्वयित्वाद्देवानित्यत्र द्वितीया । प्रभ्वादियोगे षष्ठयपि । प्रभ्वायुष्यमद्रभद्रकुशलसुखार्थहितार्थकाः प्रभवादयः । एषां योगे षष्ठीचतुौँ भवतः। तत्रायुष्यादियोगे आशीर्वादेऽर्थे एव ॥ आशीर्वादे किम् । देवदत्तस्यायुष्यमस्ति ॥
(तत्त्वदी०)-उपपदविभक्त कारकविभक्तिर्बलीयसीति ॥ उप समीपे पदम् उपपदम् । उपपदं निमित्त यस्याः सा उपपदनिमित्ता। सा चासौ विभक्तिश्च उपपदविभक्तिः । शाकपार्थिवादिस्तस्याः। तेन नमस्करोति देवानित्यत्र कर्मणि द्वितीयैव न चतुर्थी ॥
(रुच्यर्थधातुयोगे प्रीयमाणे ) हरये रोचते भक्तिः॥ (सुबोधिनी )-रुच्यर्थधातुयोगे प्रीयमाणे ॥ रुचिर्दीप्तावपि । दीप्तिस्तत्र न विवक्षिता इत्यत उच्यते । अन्यकर्तृकोऽभिलाषो रुचिः । रुचिरों येषां ते रुच्य
र्थाः । रुच्याश्च ते धातवश्च रुच्यर्थधातवस्तेषां योगः रुच्यर्थधातुयोगस्तस्मिन् । प्रीयते इति प्रीयमाणः । प्रीज़ तर्पणे । अस्मात् कर्मणि शानप्रत्ययः । तस्मिन् प्रीयमाणे चतुर्थी भवति ॥ हरि प्रीणयतीत्यर्थे कर्मणि द्वितीयाप्राप्तौ चतुर्थी । हरिनिष्ठप्रीतेभक्तिः कत्री । भक्तिरात्मविषयमभिलाषं हरेरुत्पादयतीत्यर्थः ॥ प्रीयमाणे किम् । देवदत्ताय रोचते मोदकः पथि ॥
( तत्त्वदी० ) हरय इति ॥ अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेभक्तिः कीं । हरिं प्रीणयतीत्यर्थः । द्वितीयाप्राप्तौ वचनम् । शाब्दबोधस्त्वयम् । हर्यभिन्नाश्रयकप्रीत्यनुकूल एकसेवानिष्ठो वर्तमानो व्यापारः ॥
श्लाघहस्थाशपां प्रयोगे बोधयितुमिष्टे ) गोपी कृष्णाय श्लाघते हते तिष्ठते शपते वा ॥
(सुबोधिनी)-श्लाघह्रस्थाशपां प्रयोगे बोधयितुमिष्टे ।। श्लाघृ कत्थने। हुङ् अपनयने । ष्ठा गतिनिवृत्तौ । शप उपालम्भे । एषां प्रयोगे बोधयितुं ज्ञापयि
Page #243
--------------------------------------------------------------------------
________________
[ विभक्त्याः ] टीकाद्वयोपेता।
(२२७) तुमिष्टे वाञ्छिते चतुर्थी स्यात् ॥ गोपी स्मरात्कन्दर्पात् कृष्णाय श्लाघते । कृष्णं स्तौतीत्यर्थः । सर्वत्र कर्मणि द्वितीयाप्राप्तौ चतुर्थी ॥ कृष्णाय हुते । सपत्नीभ्यो हुतमर्थ कृष्णं बोधयतीत्यर्थः। कृष्णाय तिष्ठते । स्थित्या स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः। स्वाभिप्रायाविष्करणे निणेत्राख्यायामिति तिष्ठतेरात्मनेपदम् ॥ कृष्णाय शपते । उपालम्भेन स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः॥
( तत्त्वदी) श्लाघवङ् इति ॥ श्लाघत इति ॥ श्लाघा स्तुतिः । कृष्णाय श्लाघते । कृष्ण स्तौतीत्यर्थः ॥ कर्मत्वे प्राप्ते वचनमिदम् । अन्ये त्वाहुः । कृष्णाय आत्मानं परं वा श्लाघ्यं कथयतीत्यर्थः ॥ अस्मिंस्तु पक्षे शेषषष्ठयां प्राप्तार्या वचनम् ।। हृत इति ॥ सपत्नीभ्यः कृष्णं ह्रवाना तमेवार्थ कृष्णं बोधयतीत्यर्थः। यस्य कस्यचित् हृतिं वा ॥ तिष्ठत इति ।। स्थित्याऽभिप्रायं बोधयतीत्यर्थः। शाब्दबोधस्तु कृष्णोद्देश्यक आत्माभिन्नाश्रयकश्लाघ्यत्वादिबोधनानुकूल एकगोप्यभिन्नाश्रयको वर्तमानो व्यापारः । स्वाभिप्रायाविष्करणे नित्राख्यायामित्यात्मनेपदम् ॥
(धारेरुत्तमणे ) भक्ताय धारयति मोक्षं हरिः॥ (सुबोधिनी) धारेरुत्तमणे ॥ धृङ अवस्थाने । ज्यन्तः । धारयतेः प्रयोगे उत्तमणे चतुर्थी स्यात् ॥ उत्तम) धनस्वामी। अत्रोत्तमो भक्तः । हरिस्त्वधमर्णः। 'अधमर्णस्तु ग्राहकः' इति । भक्तेन पूर्व भक्तिर्दत्ता तदर्थ हरिमोक्षं धारयति । धृङोः कर्मकत्वाद् गतिबुद्धीति सत्रेणाञ्यन्तावस्थायां कर्तुय॑न्तावस्थायां कर्मत्वम् । अत्र च षष्ठीप्राप्तौ चतुर्थी विधीयते ॥ उत्तमणे किम् । देवदत्ताय शतं धारयति ग्रामे॥
(तत्त्वदी० )- धारेरिति ॥ षष्ठीप्राप्तौ वचनम् ॥ भक्तायेति ॥ भक्तोदेश्यकमोक्षकर्मकधारणानुकूल एकहयमिन्नाश्रयको वर्तमानो व्यापारः ॥
(स्पृहयतेरीप्सिते ) पुष्पेभ्यः स्पृहयति ॥ (सुबोधिनी)-स्पृहयतेरीप्सिते ॥ स्पृहयतेः प्रयोग ईप्सिते वाञ्छिते चतुर्थी स्यात् ॥ स्पृह ईप्सायाम् । चुरादावदन्तः । कर्मणि द्वितीयावाधिकेयम् । मैत्र: पुष्पेभ्यः स्पृहयति । पुष्पाणि स्पृहयतीत्यर्थः ॥ प्रकर्षविवक्षायां द्वितीयाऽपि ॥ _ (तत्त्वदी०)-पुष्पेभ्यः स्पृहयति इति ॥ पुष्पोद्देश्यकेच्छानुकूल एकाभिन्नाश्रयको वर्तमानो व्यापारः॥
(क्रुधदुहेासूयार्थानाम् ) यं प्रति कोपार्थादयस्तत्र ॥ हरये क्रुध्यति द्रुह्यति ईर्ण्यति असूयति इत्यादि ॥
Page #244
--------------------------------------------------------------------------
________________
(२२८) सिद्धान्तचन्द्रिका । [ विभक्त्यर्थाः]
(सुबोधिनी )-क्रुधदुहेासूयार्थानाम् ॥ क्रुधदुहेासूयार्थानां प्रयोगे यं प्रति कोपादयस्तत्र चतुर्थी । क्रुद्ध क्रोधे । द्रुह जिघांसायाम् । ईj ईायाम् । असूयति कण्ड्डादियगन्तो धातुः । एषामर्थ इवार्थों येषां धातूनां तेषां प्रयोगे यं प्रति यस्मिन् कोपादयः क्रियन्ते तत्र चतुर्थी स्यात् ॥ क्रोधोऽमर्षः ॥ जिघांसाऽपकारः॥ ईर्ष्या परसंपत्त्यसहनम् ॥ असूया गुणेषु दोषाविष्करणम् ॥ क्रुधगृहोरकर्मकत्वात् तद्योगे षष्ठीप्राप्तौ चतुर्थी । ईर्ष्यासूययोस्तु सकर्मकत्वात् द्वितीयाप्राप्तौ चतुर्थी। यं प्रति कोपादयः किम् । भार्यामीति । मैनामन्योऽद्राक्षीदिति हेतोः॥ चतुर्थी बलिहितसुखरक्षितैः ॥ एभियोगे चतुर्थी स्यात् ॥ वलिः पूजोपहारकः। ब्राह्मणाय बलिः हितं सुखं रक्षितं वा । चशब्दादन्यऽप्यनुक्तप्रयोगा ज्ञेयाः ॥ इति पुनरपि चतुर्थी ।
(तत्त्वदी० )-क्रुधगृह इति ॥ क्रुध क्रोधे । द्रुह द्रोहे । ईर्घ्य ईर्ष्यायाम् । असूयेति कण्ड्वादियगन्तः । एषामर्थ इवार्थों येषां धातूनामित्यर्थः । तत्र क्रोधोऽमर्ष ईर्ष्या असहनम् । असूया तु गुणेषु दोषारोपः ॥
(ऋतेआदियोगे पञ्चमी ) ऋते ज्ञानान्न मुक्तिः । अन्यो गृहाद्विहारः । आरावनात् । इतरो ग्रामात् । भिन्नः कृष्णात् । पूर्वो ग्रामात् । प्राग्यामात् । दक्षिणा ग्रामात् । ' (सुबोधिनी )-ऋतेआदियोगे पञ्चमी ॥ ज्ञानादृते विना मुक्तिन । ऋतेयोगे द्वितीयाऽपि । ऋते द्वितीया चेति चान्द्रसूत्रोक्तत्वात् ॥ गृहादन्यो विहारो वनम् ॥ वनादारात् । "आराद् दूरसमीपयोः" इत्यमरः ॥ दूरान्तिकयोगे षष्ठयपीति प्राप्ते पञ्चमी । ग्रामादितरः । “इतरस्त्वन्यनीचयोः" इत्यमरः॥ नीचार्थस्येतरस्य ग्रहणं न। कृष्णाद्भिन्नोऽन्य इत्यर्थः। एवं पूर्वदक्षिणादक्षिणाहियोगे अञ्चूत्तरपदयोगे च पञ्चमी॥
(तत्त्वदी० ) ऋते ज्ञानादिति ॥ कथं तर्हि 'पुरुषाराधनमृते' इति । प्रमादोऽयमि- . त्येके । ऋते द्वितीया चेति चान्द्रसूत्रात् द्वितीयाऽपि ॥
(विनापृथग्नाना वा ) विना कृष्णात् ॥ .. (सुबोधिनी)-विनापृथगनाना वा ॥ विनापृथग्नानाभियोंगे द्वितीयातृतीयापञ्चम्यो भवन्ति ॥ " हिरु नाना च वर्जने " इत्यमरः ॥
(विद्यास्वीकारे पञ्चमी ) उपाध्यायादधीते ॥ (सुबोधिनी )-विद्यास्वीकारे पञ्चमी ॥ विद्यास्वीकारे वक्तुः पञ्चमी भवति ॥ यथा उपेत्यास्मादधीयते इत्यपादाने घञ् । उपाध्यायादधीते शिष्यः । निःसरन्तं शब्दं ततो गृह्णातीत्यर्थः॥
Page #245
--------------------------------------------------------------------------
________________
[ विभक्त्यर्थाः ] टीकाद्वयोपेता।
(२२९) (जनिकर्तुः प्रकृतिः ) जायमानस्य कार्यस्योपादानमपादानसंज्ञ स्यात् ॥ ब्रह्मणः प्रजाः प्रजायन्ते ॥
(सुबोधिनी )-जनिकर्तुः प्रकृतिः॥ उत्पद्यमानस्य कार्यस्य हेतोः पञ्चमी ॥ यथा । ब्रह्मणो धातुः प्रजाः प्रजायन्ते । उत्पद्यन्ते इत्यर्थः । तत उपकामन्ति निर्गच्छन्तीत्यर्थो वा । ब्रह्मा हिरण्यगर्भः स च हेतुरेव न पुनरुपादानम् । “ प्रजा स्यासन्ततो जने " इत्यमरः ॥
(यतश्चाध्वकालयोनिर्माणं तत्र पञ्चमी) ( पञ्चमीयुक्तादध्वनः प्रथमासप्तम्यौ कालात्सप्तमी) वनाग्रामो योजनं योजने वा। कार्तिक्या आग्रहायणी मासे ॥
(सुबोधिनी )-यतश्चाध्वकालयोनिर्माणं तत्र पञ्चमी ॥ यतश्चाध्वकालयोः परिच्छेदः क्रियते तस्मात्पश्चमी भवति ॥ अध्ववाचकशब्दात्तु प्रथमामप्तम्यौ । कालवाचकात्तु सप्तम्येव । वनात् ग्रामो योजनं योजने वा ॥ अग्रे हायनं यस्याः सा आग्रहायणी । स्वार्थेऽण् । कात्तिक्याः पौर्णमास्या आग्रहायणी मासेऽस्ति ॥
(वर्जनेऽपपरिभ्यां पञ्चमी) अप हरेः संसारः । परि हरेः संसारः। आ मुक्तेः संसारः॥
(सुबोधिनी )-वर्जनेऽपपरिभ्यां पञ्चमी ॥ वर्जनेर्थयोरपपर्योोंगे पञ्चमी । यथा । अपहरेः परिहरेः संसारः । हरि वर्जयित्वेत्यर्थः॥ मर्यादार्थकायोगे पञ्चमी। यथा । आ मुक्तेः संसारः । मुक्तिं मर्यादीकृत्येत्यर्थः ॥ एवमभिविध्यर्थकायोगेऽपि पञ्चमी । यथा । आ बालेभ्यो हरिभक्तिः । बालानभिव्याप्येत्यर्थः॥
(प्रतिः प्रतिनिधिप्रतिदानयोः) यतः प्रतिनिधिः प्रतिदानं च तत्र प्रतियोगे पञ्चमी ॥ प्रद्युम्नः कृष्णात्प्रति । तिलेल्यः प्रतियच्छति माषान्॥ __ (सुबोधिनी)-प्रतिः प्रतिनिधिप्रतिदानयोः॥ एतयोरर्थयोर्यः प्रतिस्तस्य योगे पञ्चमी स्यात् । मुख्यस्याभावे तत्सदृशो य उपादीयते स प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । षष्ठीबाधिका पञ्चमीयम् । कृष्णात् प्रति कृष्णस्य सदृश इत्यर्थः ॥तिलेभ्यः प्रति । तिलानामादानेन मैत्रो माषान् यच्छति ददातीत्यर्थः। भयहेतौ पञ्चमी ॥ भयार्थानां त्राणार्थानां च प्रयोग भयहेतोः पञ्चमी स्यात् । षष्ठीबाधिकेयम् ॥ मैत्रश्चौरादिभेति । चौरात् त्रायते ॥
Page #246
--------------------------------------------------------------------------
________________
( २३०) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः]
(हेतौ तृतीयापञ्चम्यौ) जाड्याज्जाडयेन वा बद्धः । स्तोकात्स्तोकेन वा मुक्तः ॥
(सुबोधिनी )-हेतौ तृतीयापश्चम्यौ ॥ गुणे वर्तमानात् हेतुवाचकशब्दादस्त्री. लिङ्गातृतीयापञ्चम्यौ स्तः॥ जडस्य भावो जाड्यं तेन तस्माद्वा बद्धः । स्तोकेन स्तोकादा । अनायासेन मुक्त इत्यर्थः ॥ गुणवाचकात् किम् । धनेन कुलम् ॥ अस्त्रीलिङ्गात्किम् । बुद्धया मुक्तः । तृतीयाप्राप्तौ पक्षे पञ्चमी विधीयते ।।
(दूरान्तिकयोोंगे षष्ठयपि ) ग्रामस्य दूरादन्तिकाद्वा इत्यादि ॥ (सुबोधिनी )-दूरान्तिकयोयोगे षष्ठयपि ॥ अनयोोंगे षष्ठी भवति । अपिशब्दादूरान्तिकार्थकेभ्यो नामार्थमात्रे द्वितीयातृतीयापञ्चमीसप्तम्यो भवन्तीत्यर्थः ।। ग्रामस्य दूरं दूरेण दूरात् दूरे वा॥ अन्तिकम् अन्तिकेन अन्तिकात् अन्तिके वा इति पुनरपि पञ्चमी ।
(निारणे षष्ठीसप्तम्यौ) क्रियागुणजातिसंज्ञाभिः समुदायात्पृथक्करणं निर्धारणं यतस्ततः षष्ठीसप्तम्यौ ॥ क्रियापराणां क्रियापरेषु वा भगवदाराधकः श्रेष्ठः। गवां गोषु वा कृष्णा संपन्नक्षीरा । नृणां नृषु वा ब्राह्मणः श्रेष्ठः । छात्राणां छात्रेषु वा मैत्रः पटुः ॥
(सुबोधिनी )-निर्धारणे षष्ठीसप्तम्यौ ॥ निर्धारणादियोगे षष्ठीसप्तम्यौ । जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं तदस्ति साध्यत्वेनास्येति स निर्धारणः । अइकावित्यप्रत्ययः। श्रेष्ठत्वादिहेतुरित्यर्थः । तथा च निर्धारणादियोगे निर्धारणाश्रयान्नाम्नः षष्ठीसप्तम्यौ स्तः। यतो निर्धार्यते तत एवेत्यर्थः॥ इति पुनरपि षष्ठी॥ .. (तस्वदी०)-क्रियागुणेत्यादि ॥ निर्धारणमस्यास्तीति निर्धारणः । अइकावित्यः । निर्धारणहेतुरिति यावत् । तथा च निर्धारणादियोगेषष्ठीति सम्यगेव न तु निर्धारणार्थ इति । अर्थपरो निर्धारणशब्दः। आदिशब्दस्य द्वन्द्वात्परत्वेन प्रत्येक योगस्यानिवार्यत्वात् । किंच निर्धारणार्थे षष्ठीत्युक्ते कस्मात्षष्ठी निर्धारणाश्रयान्निर्धारणहेतोर्निर्यमाणाद्वेति विनिगमनाभावः । योगे षष्ठीति मते तु हेतुयोगे विधानाद्धेतौ न निर्धार्यमाणादपि स्वनिष्ठत्वेनाभिधानान्न परिशेषानिरिणाश्रयादेव ॥ नन्वत्र समूहसमूहिलक्षणे संबन्धे एव षष्ठी किमनेनेति चेत्सत्यम् । स्वाम्यादित्वानिर्धारणयोगे सप्तमी विधास्यते । तया बाधा मा भूदित्यतोऽपि षष्ठीविधानम् ॥
Page #247
--------------------------------------------------------------------------
________________
[विभक्त्यर्थाः ]
टीकाद्वयोपेता ।
( २३१)
(स्वाम्यादियोगे षष्ठी सप्तम्यौ ) गवां गोषु वा स्वामी अधिपतिः ईश्वरः दायादः प्रसूतः प्रतिभूर्वा ॥
(सुबोधिनी ) - स्वाम्यादियोगे षष्ठीसप्तम्यौ ॥ स्वामीश्वराधिपतिदायाद - साक्षिप्रतिभूप्रसूतैर्योगे षष्ठीसप्तम्यौ स्तः ॥ षष्ठीप्राप्तौ पाक्षिकसप्तम्यर्थं वचनम् ॥ "दायादौ सुतबान्धवो" इत्यमरः ॥ गोषु प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ॥ प्रतिभूः साक्षी ॥
( तत्त्वदी ० ) - प्रसून इति । गा एवानुभवितुं जात इत्यर्थः ॥
( अनादराधिक्ये क्रियालक्षणे षष्ठीसप्तम्यौ ) रुदति रुदतो वा प्रात्राजीत ॥
( सुबोधिनी) - अनादराधिक्ये क्रियालक्षणे षष्ठीसम्यौ ॥ केवलभावलक्षणे सप्तम्येव अनादराधिक्ये तु षष्ठो सप्तम्यौ स्तः । रुदति रुदतो वा मैत्रः प्रात्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥
( तत्त्वदी ० ) - रुदतीति ॥ रुदन्तं पुत्रादिकमनादृत्य संभ्यस्तवानित्यर्थः ॥
( आयुक्त कुशलाभ्यां योगे षष्ठीसप्तम्यौ तात्पर्ये ) आयुक्तः कुशलो वा हरिपूजनस्य हरिपूजने वा ॥
( सुबोधिनी ) - आयुक्त कुशलाभ्यां योगे षष्ठीसप्तम्यौ तात्पयै ॥ तत्परस्य भावः तात्पर्यं तस्मिन् तात्पर्येऽर्थे आभ्यां योगे षष्ठीसप्तम्यौ स्तः ॥ हरिपूजने हरिपूजनस्य वा आयुक्तः व्यापारित इत्यर्थः ॥ तात्पर्ये किम् | आयुक्तो गौः शकटे । ईषयुक्त इत्यर्थः ॥
( साधुनिपुणाभ्यां पूजायां सप्तमी ) मातरि साधुर्निपुणो वा ॥ (सुबोधिनी ) - साधुनिपुणाभ्यां पूजायां सप्तमी || 'पुण कर्मणि शुभे' निपूकादस्मान्नाम्युपधादिति कः । निपुणः । साधुशब्दप्रयोगे तु पूजां विना साध्वसाधुप्रयोगे सप्तमी भवत्येव । पूजायामाभ्यां योगे सप्तमी स्यात् ॥ पूजायां किम् । निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् ॥ प्रतिपर्यनुयोगे न सप्तमी ॥ साधुनिपुणो वा मातरं प्रति पर्यनु वा ॥
( प्रसितोत्सुकाभ्यां योगे तृतीयासप्तम्यौ ) प्रसित उत्सुको वा हरिणा हरौ वा ॥
Page #248
--------------------------------------------------------------------------
________________
( २३२) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः ]
( सुबोधिनी )-प्रसितोत्सुकाभ्यां योगे तृतीयासप्तम्यौ ॥ "तत्परे प्रसितासक्तौ” इत्यमरः ॥ उत्सुकताहचर्यात्प्रसितस्तत्परार्थक एव गृह्यते । तेन प्रकर्षण सितः शुक्ल इत्यर्थं न ॥ ( तत्त्वदी० )-प्रसित इति ॥ “तत्परे प्रसितासक्तौ” इत्यमरः ॥ (साध्वसाधुप्रयोगे सप्तमी ) साधुः कृष्णो मातर्यसाधुर्मातुले ॥ (सुबोधिनी)-साध्वसाधुप्रयोगे सप्तमी ॥ अत्र पूजा न विवक्षिता किन्तु तत्त्वकथनं तत्रापि सप्तमी भवति एतदर्थ साधुग्रहणम् । साधुनिपुणाभ्यामिति सूत्रे साधुग्रहणं तु पूजायां विवक्षितायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थमिति ॥ .
(निमित्ताकर्मयोगे सप्तमी) चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुअरम् । केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः ॥
( सुबोधिनी )-निमित्तात्कर्मयोगे सप्तमी ॥ कर्मणो योगः संवन्धः कर्मयोगस्तस्मिन्कर्मयोगे निमित्तात्फलात्सप्तमी स्यात् ॥ निमित्तशब्देन कारणग्रहणे तु जाडयेन बद्ध इत्यादावप्यतिप्रसङ्गः स्यादित्यर्थः । अत्र हेतुतृतीया तादर्थ्यचतुर्थी च प्राप्ता तन्निवारणार्थमिदम् ॥ मैत्री दीपिनं चित्रकं हन्ति चर्मणि चर्मफलार्थम् । चर्मद्वीपिनोः समवायः संबन्धः । कुञ्जरं हन्ति दन्तयोर्दन्तफलार्थम् । दन्तकुञ्जरयोः समवायः संबन्धः ॥ चमरी गां हन्ति केशेषु केशफलार्थम् ॥ केशचमर्योः समवायः संबन्धः ॥ मैत्रेण पुष्कलको गन्धमृगो हतः सीनि अण्डकोशफलार्थम् । अथवा पुष्कलकः शङ्कुर्हतो निहितो निखात इत्यर्थः । सीम्नि सीमज्ञापनार्थम् । सीमपुष्कलकयोः संयोगः संबन्धः ।“अथ पुष्कलको गन्धमृगे क्षपणकीलयोः" इति मेदिनी॥ "सीमा घाटस्थितिक्षेत्रे स्वण्डकोशेषु च स्त्रियाम्” इति मेदिनी ॥
(तत्त्वदी०)-निमित्तादिति ॥ निमित्तमिह फलम् । योगः संयोगसमवायात्मकः। सीनीति ॥ सीमाऽण्डकोशः । पुष्कलको गन्धमृगः। योगविशेषे किम् । वेतनेन धान्यं लुनाति ॥
(क्तस्येन्नन्तस्य कर्मणि ) अधीती व्याकरणे ॥ (सुबोधिनी )-तस्येन्नन्तस्य कर्मणि ॥ इन्नन्तस्य क्तस्य कर्माण सप्तमी स्यात् ॥ द्वितीयावाधिका सप्तमी ॥ अधीतमनेनेत्यधीती व्याकरणे । भावे क्तप्रत्ययस्तत इष्टादिभ्य इति कर्तरीन्प्रत्यये कृते पश्चाद्गुणभूतक्रियया संबध्यमानं व्याकरणमनुक्तं कर्म ॥ इति पुनरपि सप्तमी ॥
(तत्त्वदी० )-अधीतमनेनेति विग्रहे इष्टादिभ्य इनिरित्यनेन इनिः॥
Page #249
--------------------------------------------------------------------------
________________
[ विभक्त्याः ] टीकाद्वयोपेता।
(२३३) (तादर्थं चतुर्थी ) संयमाय श्रुतं धत्ते नरो धर्माय संयमम् । धर्म मोक्षाय मेधावी धनं दानाय भुक्तये ॥
(सुबोधिनी )-पुनश्चतुर्थीमाह ॥ तादर्णं चतुर्थी ॥ तस्मै कार्यायेदं तदर्थं तदथेस्य भावस्तादर्थ्यम् । भावे तत्वयण इति यण् । कृत्तद्धितसमातेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति सिद्धान्तस्ततो यणप्रत्ययेन संबन्धः उच्यते । स च संबन्धोऽनेकधा न तु कार्यकारणभाव एव । तेन ब्राह्मणाय दधीत्यादौ चतुर्थी सिद्धयति । मैत्रः श्रुतं शास्त्रं धत्ते । कस्मै संयमाय । संयमं धत्ते । कस्मै धर्माय । मेधास्ति यस्य स मेधावी बुद्धिमान् धर्म धत्ते । कस्मै मोक्षाय । धनं धत्ते । कस्मै दानाय त्यागाय भुक्तये भोगाय चेति ॥
(तत्त्वदी० )-तादर्थ्य इति ॥ तस्मै कार्यायेदं तदर्थ कारणम् । तस्य भावस्तादर्थ्यम् । जननोपकारकत्वरूपः संबन्धोऽभिधीयते । उपकारकत्वं चानेकधा । तेन विप्राय मध्वित्यादावपि भवति ॥
(तुमोऽप्रयुक्तस्य कर्मणि ) फलेभ्यो याति ॥ (सुबोधिनी )-तुमोऽप्रयुक्तस्य कर्मणि ॥ क्रियावाचकप्रकृतिकमुपपदं यस्य तस्याप्रयुज्यमानस्य तुमन्तस्य कर्मणि चतुर्थी भवति ॥ द्वितीयावाधिकेयम् ॥ फलेभ्यो याति । फलान्याहर्तुं यातीत्यर्थः । एवं स्वयंभुवे नमस्कृत्य । स्वयंभुवमनुकूलयितुमित्यर्थः॥ (तत्त्वदी० )-फलेभ्यो यातीति ॥ फलान्याहर्तुं यातीत्यर्थः ।। (क्यब्लोपे कर्मण्याधारे च पञ्चमी) हात्प्रेक्षते।आसनात्प्रेक्षते । (सुबोधिनी )-पुनः पञ्चमीमाह ॥ क्यब्लोपे कर्मण्याधारे च पञ्चमी ॥ क्यबन्तस्य गम्यमानार्थत्वात् अप्रयोगे कर्मणि आधारे च पञ्चमीस्यात् ॥क्यग्रहणमिह क्यवर्थपरम् । तेन क्त्वाऽपि गृह्यते ॥ प्रासादापेक्षते । प्रासादमारुह्य ॥ आसनात् प्रेक्षते । आसने उपविश्येत्यर्थः । आसने स्थित्वा वा ।। ( तत्त्वदी० ) हादिति ॥ हर्म्यमारुह्येत्यर्थः ॥
(कर्तृकार्ययोरक्तादौ कृति षष्ठी) कर्तरि कार्ये च षष्ठी क्तादिवर्जिते कति प्रयुज्यमाने ॥ कृष्णस्य कृतिः। जगतः कर्ता कृष्णः ॥ __ (सुबोधिनी)-पुनः षष्ठीमाह ॥ कर्तृकार्ययोरक्तादौ कृति षष्ठी ॥ कृयोगे करि कर्मणि च षष्ठी स्यात् तादीन् विना ॥ कृष्णेन क्रियते इति कृष्णस्य कृतिः।
Page #250
--------------------------------------------------------------------------
________________
(२३४) सिद्धान्तचन्द्रिका। [विभक्त्याः ] क्तिरिति स्त्रियां भावेऽर्थे क्तिः ॥ जगत् करोति इति जगतः कर्ता । तृवुणाविति कर्तरि तृप्रत्ययः॥ कर्तृकार्ययोः किम् । शस्त्रेण भेत्ताऽत्र करणे मा भूत् ॥ कृति किम् । कृतपूर्वी कटमत्र तद्धिते मा भूत् । कृतं पूर्वमनेनेति कारकादिति कर्तरीनिः॥
( तत्त्वदी० )--कर्तृकार्ययोरिति ॥ तादौ तु तृणो ग्रहणं न तु तृ इत्यस्य । तेन कटस्य कर्तेत्यपि अनन्तरस्य विधिनिषेधो वेति न्यायात् ॥
(गुणकर्मणि वा) नेताऽश्वस्य ग्रामं ग्रामस्य वा ॥ (सुबोधिनी)--गुणकर्मणि वा ॥ अमुख्यकर्मणि वा षष्ठी स्यात् अक्तादौ कृति ॥ नेताऽश्वस्य ग्राम ग्रामस्य वा । कर्तरि तृप्रत्ययः । ग्राममिति गौणकर्म ॥
(उभयप्राप्ती कृति कर्तरि षष्ठी न ) आश्चर्यो गवां दोहोऽगोपेन ॥ स्त्रीप्रत्यययोरकाकारयोर्योंगे नोक्तम् ॥ भेदिका बिभित्सा वा रुद्रस्य जगतः॥ .
(सुबोधिनी)-उभयप्राप्ती कृति कर्तरि षष्ठी न ॥ उभयोः कर्तृकर्मणोः प्राप्तिस्मिन् स उभयप्राप्तिस्तस्मिन्नुभयप्राप्तौ कृत्प्रत्यये कर्तरि षष्ठी न स्यात् ॥ कषष्ठीनिषेधकमिदम् ॥ कर्मणि षष्ठी तु कर्तृकार्ययोरनेनैव ॥ अगोपेन गावो दुह्यन्ते इति दोहः । भावे घञ् । स्त्रीप्रत्यययोरकाकारयोयोंगे नोक्तम् । स्त्रियां क्तिरित्यधिकारे कृतयोरकाकारयोर्योगे कर्तरि कर्मणि चोभयत्र षष्ठी स्यात् । कर्तरि षष्ठी नेति पूर्वोक्तं न प्रवर्तते इत्यर्थः। भेदनं भोदिका । धात्वर्थनिर्देशे वुण वक्तव्य इति वुण् । युवोरनाकावित्यकादेशः। 'आवतः स्त्रियाम्' इत्याप । काप्पत इतीत्वम् । भेत्तुमिच्छा बिभित्सा । भिदेः सप्रत्यये नानिटि से' इति न गुणः । प्रत्ययान्तात् स्त्रियामङित्यङ् । तत आप् । रुद्रेण जगतः भिद्यते इति भेदिका रुद्रस्य जगतः । भावे वुण ॥ रुद्रेण जगत् बिभित्स्यत इति विभित्सा रुद्रस्य जगतः। भावेऽङ्॥ (तत्त्वदी०) उभयप्राप्ताविति ॥ कर्तृकर्मप्राप्तावित्यर्थः ॥ (शेषे कृति वा) शब्दानामनुशासनमाचार्येणाचार्यस्य वा ॥ (सुबोधिनी )--शेषे कृति वा ॥ शेषेऽकाकारभिन्ने कृन्मात्रप्रत्यये उभयप्राप्ती कर्तरि षष्ठी वा स्यात् ॥ आचार्येण शब्दा अनुशिष्यन्तेऽनेनेति शब्दानामनुशासनमाचार्यणाचार्यस्य वा । साधनाधारयोरिति करणे युटू ॥ . (वर्तमानाधारार्थक्तस्य योगे षष्ठी ) राज्ञां मतो बुद्धः पूजितो वा । इदमेषां शयितम् ॥ क्तादौ तु कुर्वन् कुर्वाणः चकृवान् चक्राणः
Page #251
--------------------------------------------------------------------------
________________
[विभक्त्यर्थाः ] टीकाद्वयोपेता।
(२३५) चक्रिर्वा सुखं हरिः । हरि दिदृक्षुः अलंकरिष्णुर्वा । दैत्यान् घातुको हरिः। जगत्सृष्ट्वा । सुखं कर्तुम् । विष्णुना हता दैत्याः । दैत्यान् हतवान् हरिः। ईषत्करः प्रपञ्चो हरिणा । सोमं पवमानः । आत्मानं मण्डयमानः । वेदमधीयन् । कर्ता लोकान् ॥
(सुबोधिनी)-वर्तमानाधारार्थक्तस्य योगे षष्ठी॥ वर्तमानार्थस्याधिकरणवाचिनश्च क्तस्य योगे कर्तरि षष्ठी स्यात् ॥ अक्तादाविति निषेधस्यापवादोऽयं विधिः ॥ राज्ञां मतः। बीतामिति मतिबुद्धिपूजार्थेभ्यो वर्तमाने कर्मणि क्तः । 'पूजितो यः सुरासुरैः' इत्यादौ तु भूते क्तो बोध्यः ॥ इदमेषां शयितमासितं भुक्तं वा। स्थैर्यगतिभक्षणार्थभ्यः' इत्यधिकरणे क्तः । कर्तृकर्मणोः षष्ठीबाधकाः क्तादय उच्यन्ते । हरिः सुखं कुर्वन् कुर्वाणः । शतृशानौ तिप्तेवदिति शतृशानौ ॥ चकृवान् चक्राणः चक्रिः । कसुकानौ णबेवदिति वसुकानौ । 'आइतः किदिश्च भूते ' इति किः॥ मैत्रो हरि दिदृक्षुः। सान्ताशंसभिक्षिभ्य उरित्युः।। अलंकरिष्णुः । 'इष्णुस्नुक्नु' इति शीले इष्णुः ॥ हरिदैत्यान् घातुकः । 'पाकोकणः इत्युकण' ॥ कृत्कतेरीति कर्तरि प्रत्यया एते ॥ जगत् सृष्ट्वा । पूर्वकाले क्त्वेति क्त्वा ॥ सुखं कर्तुम् । तुम् तदायां भविष्यतीति तुम् ॥ विष्णुना दैत्या हताः । हरिदैत्यान् हतवान् । 'क्तक्तवतू' इति क्तक्तवतू प्रत्ययौ ॥ हरिणा प्रपञ्च ईषत्करः । 'ईषदुःसुषु खल्यू' इति खल् ॥ मैत्रः सोमं पवमानः ॥ आत्मानं मण्डयमानः । मडि भूषायाम् । ताच्छील्यवयोवचनशक्तिष्वानशित्यानशू ॥ मैत्रो वेदमधीयन्। 'इधाोरकृच्छ्रिणि कर्तरि शतृ' इति शतृप्रत्ययः । हरिलॊकान् कर्ता । शीले तृन्निति तृन् ॥
(द्विषः शतुर्वा ) मुरस्य मुरं वा द्विषन् ॥ (सुबोधिनी )-द्विषः शतुर्वा ॥ द्विष अप्रीतौ ।' इत्यस्मात् द्विषः शत्राविति सूत्रेण विहितो यः शतृप्रत्ययस्तस्य योगे कर्मणि वा षष्ठी स्यात् ॥ क्तादित्वान्नित्ये निषेधे प्राप्ते विकल्पार्थमिदम् ॥ अक्तादावित्ययं निषेधस्तु कारकषष्ठया एवानन्तरस्य विधिर्वा प्रतिषेधो वेति न्यायात् । संवन्धे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन्नरकस्य जिष्णुरित्यादि ॥ एवं च आश्चर्यों गवां दोहोऽगोपेनेत्यत्र संबन्धविवक्षायां कर्तर्यपि । षष्ठी भवतीति बोध्यम् ॥
(भविष्यत्यकस्य भविष्यदाधमार्थस्येनश्च योगे षष्ठी न ) सतः पालकोऽवतरति । वजं गामी । शतं दायी॥
Page #252
--------------------------------------------------------------------------
________________
( २३६ )
सिद्धान्तचन्द्रिका |
[विभक्त्यर्थाः ]
( सुबोधिनी ) - भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थस्येनश्च योगे षष्ठी न ॥ 'तुमर्थे वुणू' इति भविष्यत्यर्थेऽपि वुण् प्रत्ययो भवति । युवोरनाकावित्यकादेशः । तस्य भविष्यदर्थकस्याकस्य योगे कर्मणि षष्ठी न स्यात् ॥ यस्तु कालसामान्ये तृणाविति वुणुक्तस्तत्र न निषेधः । यथा ओदनस्य पाचकः । देशानां दर्शकः ॥ आवश्यकाधमयोर्णिनिरित्यादिना इनिप्रत्ययो भविष्यत्यथै आधमण्येऽर्थे च भवति । तस्य योगे कर्मणि षष्ठी न । सत इति शतृप्रत्ययान्तरम् । सज्जनान्पालयिष्यतीति पालकः । भविष्यत्यर्थे वुण् ॥ गमिष्यतीति गामी | भविष्यत्यर्थे णिनिः ॥ ददातीति दायी । अधमर्णो ग्राहकः । अधमर्णस्य भाव आधमर्ण्य तस्मिन्नाधमये णिनिः ॥
( कृत्यानां कर्तरि वा षष्ठी ) मया मम वा सेव्यो हरिः ॥
( सुबोधिनी ) - कृत्यानां कर्तरि वा षष्ठी ॥ कृत्यसंज्ञकप्रत्ययानां योगे कर्तरि षष्ठी वा स्यात् ॥ कर्तृकार्ययोरिति नित्यं प्राप्ते विकल्पार्थमिदम् ॥ हरिर्मया मम वा सेव्यः । षेव सेवायामस्मात् ऋहसान्ताद् ध्यणिति कर्मणि ध्यण ॥ कर्तरि किम् । माणवकः साम्नां वेदानां गेयः । स्वराद्य इति कर्तरि यप्रत्ययविधानादुक्तं कर्म । तव्याऽनीयध्यण्यक्यप एते पञ्च कृत्यप्रत्ययाः ॥
(उभयप्राप्तौ कृत्ये षष्ठी न ) नेतव्या व्रजं गावः कृष्णेन ॥
( सुबोधिनी) - उभयप्राप्तौ कृत्ये षष्ठी न ॥ कर्तरि कर्मणि च प्राप्तौ सत्यां कृत्यप्रत्यययोगे उभयत्र षष्ठी न स्यात् ॥ उभयप्राप्तौ कृतीति सूत्रेण कर्तरि षष्ठीनिधे कर्मणि षष्ठी निषेधार्थमिदम् ॥ गुणकर्माणि वेति सूत्रम् उभयप्राप्तिरहितस्थले नेता ग्रामं ग्रामस्य वाऽश्वस्येत्यादौ चरितार्थं बोध्यम् ॥
( तत्वदी ० ) - उभयप्राप्ताविति ॥ कर्तृकर्मप्राप्तावित्यर्थः ॥
( दूरनिकटार्थयोगे षष्ठीपञ्चम्यौ ) दूरं निकटं वा ग्रामस्य
यामाद्वा ॥
( सुबोधिनी) - दूरनि कटार्थयोगे षष्ठीपञ्चम्यौ ॥ षष्ठयां प्राप्तायां पक्षे पञ्चम्यर्थे वचनम् ॥
( दूरनिकटार्थेभ्यो नामार्थमात्रेभ्यो द्वितीया तृतीया पञ्चमी सप्तमी ) ग्रामस्य ग्रामाद्वा दूरं दूरेण दूरात् दूरे निकटं वा ॥
( द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी) शतस्य दीव्यति ॥
Page #253
--------------------------------------------------------------------------
________________
[विभक्त्यर्थाः ] टीकाद्वयोपेता।
( २३७) (सुबोधिनी)-धुतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी ॥ द्यूतमर्थो यस्य स द्यूतार्थस्तस्य द्यूतार्थस्य । क्रयश्च विक्रयश्च क्रयविक्रयौ क्रयविक्रयौ रूपं यस्य सः क्रयविक्रयरूपः क्रयविक्रयरूपश्चासौ व्यवहारश्च क्रयविक्रयरूपव्यवहारः क्रयविक्रयरूपव्यवहारोऽर्थो यस्य सः ऋयविक्रयरूपव्यवहारार्थस्तस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः धातोः कर्मणि षष्ठी स्यात् । द्यूतार्थेत्यादि किम् । ब्राह्मणं दीव्यति । स्तोतीत्यर्थः॥
( वोपसर्गस्य ) शतस्य शतं वा प्रतिदीव्यति ॥ (सुबोधिनी )-वोपसर्गस्य ॥ उपसर्गपूर्वकस्य दिवः कर्मणि वा षष्ठी स्यात् ॥ पूर्वमूत्रापवादः॥
(षष्ठी हेतुप्रयोगे ) अन्नस्य हेतोर्वसति ॥ .(सुबोधिनी )--षष्ठी हेतुप्रयोगे ॥ हेतुशब्दप्रयोगे षष्ठी स्यात् ॥ हेतुशब्दाच्च। हेतौ तृतीयायां प्राप्तायामनेन षष्ठी ॥
(सर्वादेहेतुप्रयोगे हेतौ द्योत्ये च तृतीयाषष्ठयौ ) केन हेतुना वसति । कस्य हेतोः॥
(सुबोधिनी )-सादेहेतुप्रयोगे हेतौ द्योत्ये च तृतीयाषष्ठयौ ॥ सर्वादिगणात्तृतीयाषष्ठ्यौ । तेन हेतुशब्दादपि तृतीयाषष्ठ्यौ ॥
(निमित्तपर्यायप्रयोगे सर्वादेः सर्वा विभक्तयोऽसर्वादेस्तृतीयादयः) को हेतुः । किं प्रयोजनम् । कं हेतुम् । केन हेतुना । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्ताय ॥
(सुबोधिनी )-निमित्तपर्यायप्रयोगे सर्वादः सर्वाः विभक्तयोऽसर्वादेस्तृतीयादयः ॥ सर्वादेनिमित्तपर्यायप्रयोगे सर्वा विभक्तयः स्युः । असर्वादेस्तु प्रथमाद्वितीये न स्तः अन्याः स्युः। षष्ठी हेतुप्रयोगे सर्वादेर्हेतुप्रयोगे इति च सूत्रद्वयं गतार्थ बोध्यम् ।
(तत्त्वदी०)-निमित्तपर्यायप्रयोग इति ॥ चकारस्यानुक्तसमुच्चयार्थस्यानुवर्तनात् एतत्सर्वार्थलाभः ॥ सर्वा विभक्तय इति ॥ सर्वादेरित्यर्थः ॥
(अन्योक्ते प्रथमा) आख्यातकृत्समासतद्धितनिपातोक्ने कारके सम्बन्धे च प्रथमा स्यात् ॥ घटः क्रियते । हरिः करोति । कृष्णः कंसं
Page #254
--------------------------------------------------------------------------
________________
(२३८) सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः] हतवान् । कृष्णेन कंसो हतः । पचनोऽग्निः। दानीयो विप्रः । उपाध्यायः। पचनी स्थाली । प्राप्तानन्दः । ऊढरथः । उपहृतपशुः । उद्धृतौदना । पीताम्बरः । वीरपुरुषः । कौकुमम् । माथुरः । धनवान् । दृषद्वती । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतमिति । क्रमादमुं नारद इत्यबोधि सः॥ इति विभक्त्यर्थाः॥
( सुबोधिनी )-अन्योक्ते प्रथमा ॥ कार्थे द्वितीया स्यात् । अन्योक्ते कार्ये तु प्रथमा ॥ कर्तरि तृतीया । अन्योक्ते कर्तरि प्रथमा॥ करणे तृतीया । अन्योक्ते करणे प्रथमा ॥ संप्रदाने चतुर्थी । अन्योक्त संप्रदाने प्रथमा ॥ अपादने पञ्चमी । अन्योक्ते अपादने प्रथमा ॥ संबन्धे षष्ठी । अन्योक्ते संबन्धे प्रथमा ॥ अधिकरणे सप्तमी । अन्योक्ते अधिकरणे प्रथमा ॥ आख्यातोक्ते यया। घटः क्रियते मैत्रेण । आद्भुः चीति कर्मण्यात् । यक् चतुर्विति यक् ।। हरिः सुखं करोति । 'कर्तरि पं च' इति परस्मैपदम् । तनादेरुबित्युप ॥ कृदुक्ते यथा । कृष्णः कंसं हतवान् । 'क्तक्तवत्'इति कर्तरि क्तवतुः ॥ कृष्णेन कंसो हतः । कर्मणि क्तः ॥ पच्यतेऽनेनेति पचनोऽग्निः। साधनाधारयोर्युडिति करणे युटू ॥ दीयतेऽस्मा इति दानीयः । तव्यानीयाविति संप्रदानेऽनीयः ॥ उप समीपे गत्वा अधीयतेऽस्मादित्युपाध्यायः । संज्ञायामकर्तरि चेत्यपादाने घन ॥ पच्यतेऽस्यामिति पचनी । साधनाधारयोरित्यधिकरणे युट् । स्थाली हण्डिका ॥ समासोक्ते यथा । प्राप्त आनन्दो यं स प्राप्तानन्दः ॥ ऊढो रथो येन स ऊढरथोऽनड्वान् वृषभः॥ उपहतः पशुर्यस्मै स उपहृतपशू रुद्रः ॥ उद्धृत ओदनो यस्याः सा उद्धृतोदना स्थाली ॥ पीतमम्बरं यस्य स पीताम्बरो हरिः॥ वीरा पुरुषा यस्मिन् स वीरपुरुषो ग्रामः ॥ तद्धितोक्ते यथा । कुंकुमेन रक्तं वस्त्रं कौंकुमम् तद्धितेनोक्तं कर्म । मथुराया आगतः माथुरः ॥ अण्प्रत्ययः ॥धनमस्यास्तीति धनवान् । मान्तोपधादत्विनौ इति वतुः॥दृषद् उपलाः सन्त्यस्यामिति दृषद्वतीभूमिः॥ निपातोक्ते यथा। विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतमित्यत्र संवद्धयेति भावे क्यपू क्यबन्तस्य क्रियापदस्य विषवृक्षमिति द्वितीयान्तं कर्म तत्रासांप्रतमित्यनेन निपातेनोक्तत्वात् प्रथमा । स्वयमात्मना छेत्तुमसांप्रतं न युज्यते इत्यर्थः ॥ क्रमादमुं नारद इत्यबोधि सः। अबोधीत्यत्र दीपजनबुधेति कर्तरीण । तस्य नारदमिति द्वितीयान्तं कर्म । तत्र इतिनिपातयोगात्मथमा । उक्तं च। “यस्मिन्नर्थे विधीयन्ते लकारास्तद्धिताः कृतः । समासो वा भवेद्यत्र स उक्तः प्रथमा ततः॥” इति कारकप्रक्रिया ॥
( तत्त्वदी०)-अन्याक्ते प्रथमेति ॥ अन्येन उक्तम् अन्योक्तं तस्मिन्कार्ये इत्यादौ प्रत्येक संबध्यते । प्रत्येकाभिप्रायादेकवचननिर्देशः ॥ कार्ये द्वितीया, अन्योक्ते प्रथमा ॥ कर्तरि तृतीया।
Page #255
--------------------------------------------------------------------------
________________
समासप्र० ] टीकाद्वयोपेता।
(२३९) अन्योक्ते प्रथमेत्यादि ॥ पचनोऽग्निरिति ॥ पच्यतेऽनेनेति करणे युट् ॥ दानीय इति ॥ दीयतऽस्मै इति विग्रहः॥ उपाध्यायादिति ॥ उप समीपे गत्वाऽधीयतेऽस्मादित्युपाध्यायः ॥ पच्यतेऽस्यामिति पचनी ॥ प्राप्त आनन्दो य स प्राप्तानन्दः ॥ ऊढः रथो येन सः ॥ उपहृतः पशुर्यस्मै सः ॥ उद्धृतः ओदनो यस्याः सा ॥ पीतमम्बरं यस्य ॥ वीराः पुरुषा यस्मिन् ।। कुकुंमन रक्तम् ॥ मथुराया आगतः ॥ धनं विद्यते यस्य ॥ दृषद्विद्यते यस्याः सा ॥ असाप्रतमिति ॥ असांप्रतमित्यस्य न युज्यत इत्यर्थः ॥ इदानी द्विकर्मकोदाहरणमुच्यते । “दुह्याच्पच्दण्ड्रधिपच्छिचिबूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथित तथा स्यान्नीकृष्वहाम् ॥" दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेव गौण कर्मेति परिगणनं कर्तव्यमित्यर्थः एतदर्थका अन्येऽपि ग्राह्याः॥ गां दोग्धि पय इत्यादि ॥ अत्र गोर्गौणत्वं पश्चादपेक्षणात् । पयआदिकं तु मुख्यमादावेवापेक्षणात् । कर्मणि प्रत्ययेन तु दुहादीनां गौणं न्यादीनां तु मुख्यं कर्मोक्तं भवति । गौर्दुह्यते पयः । ग्राममजा नीयते इत्यादि । व्यन्तानां कर्तरि गां दोहयति पयो गोपेन चैत्रः ॥ब्यन्तात्कर्मणि गौ>ह्यते पयो गोपेन चैत्रणेत्यादि ॥ श्रीविद्यानगरस्थायिलोकेशकरशर्मणा । कृतायामिह टीकायां विभक्त्यर्थनिरूपणम् ॥
इति विभक्त्यर्थनिरूपणम् ॥
अथ समासा। (समासश्चान्वये नानाम् ) नानामन्वये सति समासो भवति ॥ चकारात्कृत्तद्धितधातुसंज्ञाप्रयोजकप्रत्यया अपि ॥
( सुबोधिनी)-समासश्चान्वये नानाम् ॥ नाम्नी च नामानि च नामानि तेषां नानाम् । यद्यप्यविभक्ति नामेति संकेतितम् । तथाप्यत्र नाम्नामिति विभक्त्यन्तानामेव ग्रहणम् । समासप्रत्यययोः अलुक्वचिदित्यादिज्ञापकात् । अत्र विधिरितिशेषः। प्रथमाद्यन्तानां पदानां पदयोर्वाऽन्वये सति यो विधिः स समाससंज्ञो भवति । चकारस्त्वनुक्तसमुच्चयार्थः । तेन पदानामन्वये सत्येव कृत्तद्धितधातुसंज्ञाप्रयोजकप्रत्यया अपि भवन्ति ॥ समानि एकीभूतानि पदानि अर्थो वाऽऽसते यस्मिन्स समासः। "आस उपवेशने' अस्मादाधारे घञ् ॥ सममेकमर्थमासयन्ति दीपयन्त्यस्मिन्समुदाये इति वा समासः । 'अस दीप्तौ ।' ञ्यन्तादस्मात्स्वराद इत्याधारेऽप्रत्ययः ॥ संश्लिष्टानि एकीभूतानि पदानि अस्यन्ते उच्चार्यन्तेऽस्मिन्निति वासमासः। आधारे घा॥ समानां संश्लिष्टानां पदानामेकतामापन्नानामासनमुच्चारणमिति वा समासः । भावे घञ् ॥ समसनं समासो वा । संपूर्वादस्यतेर्भावे घञ् ॥ अनेकपदस्य एकपदाभवन
Page #256
--------------------------------------------------------------------------
________________
( २४० )
सिद्धान्तचन्द्रिका |
[ समासप्र०
]
मित्यर्थः ॥ समस्यते इति वा समासः । संज्ञायामकर्तरि चेति कर्मणि घञ् ॥ अनु अन्तर्मध्ये यन्ति पदार्था यस्मिन्नर्थे इत्यन्वयः । इण् गतावस्मात् स्वराद इत्यप्रत्ययः॥ अनु अन्तः पदार्थानामयनं गमनमिति वाऽऽन्वयः । एकार्थीभावः ॥ अनु सहान्येन यन्ति संवन्धं लभन्ते पदानि यस्मिन्निति वाऽन्वयः । स्वराद इत्याधारेऽप्रत्ययः ॥ अनु सहान्येन ईयन्ते संबन्धं प्राप्यन्ते पदान्यस्मिन्निति वाऽन्वयः ॥ सोऽन्वयो द्विधा व्यपेक्षालक्षणः एकार्थीभावलक्षणश्चेति । तत्र व्यपेक्षालक्षणे विग्रहवाक्यमेव । एकाथभावलक्षणे तु वृत्तिरेव । तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षासंनिधियोग्यत्वेषु सत्सु यः परस्परसंबन्धः स व्यपक्षालक्षणः । विशिष्टकार्यरूपः एकार्थीभावलक्षणः ॥ विशेषेण गृह्यते ज्ञायते वृत्त्यर्थोऽनेनेति विग्रहः । विग्रहस्य वाक्यं विग्रहवाक्यम् । विग्रहवाक्यमपि द्विधा । लौकिकमलौकिकं चेति । प्रयोगा है परिनिष्ठितं साधु लौकिकम् । यथा । राज्ञः पुरुष इति । व्यपेक्षालक्षणः संबन्धो ह्यत्रैव ॥ अपरिनिष्ठितं प्रयोगानर्हमसाधु अलौकिकम् । यथा राजन् अस् पुरुष स् इति । समाससंज्ञादिकं चास्मिन्नेव प्रवर्तते इति ॥ परार्थाभिधानं वृत्तिः । परः स्वार्थादन्यो योऽर्थः स परार्थः । अथवा स्वस्मात् परस्य शब्दस्य योऽर्थः स परार्थः । तस्याभिधानं प्रतिपादनं परार्थाभिधानं सा वृत्तिः । कृत्तद्धितसमासैकशेषयङाद्यन्तधातुरूपा इति पञ्च वृत्तयः । वृत्तिरवि द्विधा । जहत्स्वार्थाऽजहत्स्वार्था चेति । जहति स्वार्थ पदानि यस्यां सा जहत्स्वार्था । उक्तं च । “वृत्तौ वर्तिपदानामानर्थक्यं पदे वर्णवत्" इति । यथा वृषभ इत्यत्र वृषशब्दः सुकृतादेवचकः भशब्दस्तु नक्षत्राणां वाचकः वृषभपदं तु बलीवर्दे शक्तम् । शक्ताववयवानामानर्थक्यम् || एवं कवलशब्दे । को वाद्यादेवाचिकः । वो वरुणवाचकः । लः पृथिवीवाचकः । कवलपदं ग्रासे शक्तम् । शक्तौ तेषामानर्थक्यम् । तथा राजपुरुषशब्दयोः पृथक्शक्तयोरापे राजसंबन्धिनि पुरुषे शक्तिः तत्र राजपुरुपशब्दयोरानर्थक्यम् तदन्याऽजहत्स्वार्था ||
( तत्त्वदी ० ) - समासश्चान्वये नाम्नामिति ॥ समानि एकीभूतानि पदानि अर्था वा आसतेऽस्मिन्स समासः । आधारे घञ् ॥ अनु अन्तर्यन्ति पदार्था यस्मिन्नर्थे सोऽन्वयः । आधारे स्वरादः नाम्नामिति बहुवचनाद्वयोर्बहूनां च समासः । अन्वयो व्यपेक्षा परस्परापेक्षेति यावत् ॥ चकारस्यानुक्तसमुच्चयार्थत्वादन्यवृत्तिलाभोऽपीत्याह - चकारादिति ॥ धातुसंज्ञाप्रयोजकेति ॥ धातुसंज्ञां प्रयोजयन्तीति ते । येषु सत्सु संज्ञा भवतीति भावः ते च यङादयः । तेऽप्यन्वये सत्येव भवन्तीति बोध्यम् । यद्यपि नामसंज्ञा विभक्तिरहितस्यैव तथाप्यत्र सविभक्ति - कानामेव समासः समासप्रत्यययोरिति लुग्विधानात् ज्ञापकात् । अत्राहुः । स्पष्टार्थपदाना मिति तु नोक्तम् । पचति भवति पश्यति धावतीत्यादावन्वय सत्च्त्वेन समासप्रसङ्गात् । सति च तस्मिन् यथेष्टं प्रयोगो न स्यात् इति ॥ अत्रेदं वक्तव्यम् । नाम्नामित्युपादानात् आख्यातनिराकरणमिति त्वदभिमतम् । एवं च पर्यभूषत पचतभृज्जतेत्यादौ कथं समासः । अथ 'नाम्नाम्' इति
Page #257
--------------------------------------------------------------------------
________________
[ समासप्र० ]
टीकाद्वयोपेता ।
( २४१ )
योगं विभज्य कतिपयतिङन्तोत्तरपदः समासः स च च्छन्दस्येव । आख्यातस्याख्यातेन क्रियासातत्यादौ च समास इति चेत्तदा तत्र तत्र तेनैव नियमेन विधानात् अन्यत्र प्राप्तिर्वार किं तन्निराकरणाय पदान्तरेणेति । यत्तु अथार्थविभक्तिविशिष्टानां पदानां समासो निरूप्यते इत्युक्तं प्राचा तत्रार्थवदिति व्यर्थम् । विभक्तिविशिष्टत्वेनेव तल्लाभात् । किंच विभक्तिविशिष्टानामित्यपि व्यर्थं पदग्रहणेनैव तदर्थप्रतीतेः । विभक्त्यन्तं पदमित्यनेन हि विभक्तिविशिष्ट - स्यैव पदसंज्ञाविधानात् ॥
( पूर्वेऽव्ययेऽव्ययीभावः) अव्यये पूर्वपदे सति योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति ॥
( सुबोधिनी ) - पूर्वेऽव्ययेऽव्ययीभावः ॥ अव्यये पूर्वपदे सति पदयोर्योऽन्वय एकार्थीभावलक्षणः सोऽव्ययीभावसंज्ञकः समासोऽस्ति || पूर्वग्रहणादेवाव्ययस्य पूर्वनिपातोऽव्ययीभावे । अन्यथाऽव्यये इत्येव सिद्धे किं तेन ॥
( तत्त्वदी ० ) - पूर्वेऽव्ययेऽव्ययीभाव इति ॥ पूर्वे इत्यस्य ग्रहणसामर्थ्यादव्ययस्यपूर्वनिपातः । विभक्त्याद्यर्थेषु वर्तमाने एवाव्यये पूर्वे सतीति बोध्यम् । अन्यथा ऽस्तिधन इत्यादावतिव्याप्त्यापत्तेः ॥
( समासप्रत्यययोः ) समासे वर्तमानाया विभक्तेः प्रत्यये परे लुग्भवति ॥ नामत्वात्स्यादिः ||
( सुबोधिनी ) - समासप्रत्यययोः ॥ प्रतीयते कर्तृकर्माद्यर्थोऽनेनेति प्रत्ययः । इण गतावस्मात् स्वराद् इत्यप्रत्ययः ॥ अथवा अय गतावस्मात्पचाद्यप्रत्यये प्रत्ययते प्रत्याययत्यर्थमिति प्रत्ययः । अन्तर्भावितञ्यर्थः ॥ समासश्च प्रत्ययश्च समासप्रत्ययौ तयोः । भावे सप्तमीयम् ॥ समासे सति प्रत्यये च सति वर्तमानायाः स्यादिरूपाया विभक्तेलुक् स्यात् ॥ ततः कृत्तद्विवसमासाश्चेति नामसंज्ञायां स्याद्युत्पत्तिर्भवतीत्यर्थः॥
( तत्त्वदी ० ) - समासप्रत्यययोरिति । अत्रान्वयाभावेऽपि निपातनाद्वन्दः समासः । यद्वा भावे सप्तमीयम् । तथा च समासे सति प्रत्यये च सतीति बोध्यम् । प्रतीयते कर्त्राद्यने - नेति प्रत्ययः । इणू गतौ । स्वरादः ॥ ननूक्तार्थानामप्रयोग इति न्यायेनैव विभक्तेरप्रयोगो भविष्यति । चशब्दादेरिव वृत्तौ तदर्थस्यान्तर्भावात् । परार्थाभिधानस्यैव वृत्तिपदार्थत्वात्समासस्य च वृत्त्यन्तर्भावात् इति किमनेनेति चेत्सत्यम् । राजाश्व इत्यादौ प्रत्ययलक्षणेन पदकार्यार्थं स्वाभाविक्या अपि निवृत्तेः सूत्रेण विधानात् ॥
( स नपुंसकम् ) अव्ययीभावो नपुंसकलिंगो भवति ॥ नपुंसकस्येति ह्रस्वः ॥
१६
Page #258
--------------------------------------------------------------------------
________________
(२४२) सिद्धान्तचन्द्रिका। [समासप्र०]
(सुबोधिनी)-स नपुंसकम् । तच्छब्देन संनिहितोऽव्ययीभावः परामृश्यते । स्त्री च पुमांश्च स्त्रीपुसौ । न स्त्रीपुंसाविति नपुंसकम् स्त्रीपुंसशब्दस्य पुंसकभावः सहादित्वान्निपात्यते । नपुंसकत्वान्नपुंसकस्येति ह्रस्वविधानम् ॥
(तत्त्वदी० )-स नपुंसकमिति ॥ तच्छब्दस्य पूर्वपरामर्शित्वादव्ययीभावो गृह्यते । न स्त्री न पुमानिति नपुंसकं स्त्रीपुंसशब्दस्य पुंसकमावो निपातनात्सहादित्वाद्वा । अत्राहुः । सन्निधानादेवानुवृत्तिलाभे सिद्धे स्पष्टार्थ सग्रहणमिति ध्येयमिति । अत्रेदमवधेयम् । कार्यिणः पूर्वकथनमग्रिमस्यैव कार्यत्वविज्ञानार्थमव्ययीभावानुवृत्तावपि विपरीतार्थप्रसङ्गः स्यात् । नपुंसकलिंगमव्ययीभावसंज्ञ स्यात् इति । तन्निराकरणाय तच्छब्दस्यावश्यकत्वात् ।।
(अव्ययीभावात् ) विभक्तेलृक् । अधिस्त्रि ॥ (सुबोधिनी)-अव्ययीभावात् ॥ ननु अनव्ययमव्ययं भवतीत्यव्ययीभावः । 'अभूततद्भावे' इति चिः । ज्वलादेर्ण इति भवतेर्णप्रत्ययः॥ अथवा अनव्ययस्य अव्ययत्वेन भवनमस्मिन्नेकार्थीभावे इति अव्ययीभावः । भावे आधारे वा घञ् । एवमन्वर्थसंज्ञाविज्ञानात् अव्ययादिति लुक्प्राप्तिरस्त्येव किमर्थमेतत् । मैवम् । तत्पुरुषादिसंज्ञावदस्य अन्वर्थत्वाभावात् । तत्त्वे तु योगविभागो माऽस्तु । अव्ययीभावादतोऽमनत इत्येकयोगे एवास्तु । लुकू तु अव्ययादित्यनेन सिद्ध एव । अतो योगविभाग एव ज्ञापयत्यत्रान्वर्थसंज्ञा नास्तीति । अस्मादिभक्तेलुक् स्यात् ॥ अथ पाणिनिसूत्रम् । “अव्ययं विभक्तिसमीपसमृद्धिव्यद्धयर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययोगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु ॥" विभक्त्यादिष्वर्थेषु विद्यमानमव्ययमन्वये सति सिवन्तेन नाम्ना सह समस्यते ॥ विभक्त्यर्थेऽव्यये यथास्त्रियामित्यधिस्त्रि । लौकिकविग्रहवाक्यमिदम् । सप्तम्यर्थस्य द्योतकोऽधिः । स्त्री डि अधि इत्यलौकिकविग्रहवाक्यम् । अत्र निपातेनोक्तेऽप्यधिकरणे समासविधानसामर्थ्यात् सप्तमी । अन्यैस्तु स्त्रियमधिकृत्येति व्याख्यातं तदसत् । अधिहरीत्यत्राधिकृतेत्यर्थस्याप्रतीतः। क्रमादमुं नारद इत्यबोधि स इत्यादी समासो न । इतिशब्दस्य प्रकृतपरामर्शकत्वेन कर्मत्वमात्रानभिधायकत्वात् ।एवं च विभक्तिशब्दः सप्तम्यां पर्यवस्यति ॥ समीपार्थेऽव्यये यथा। कुम्भस्य समीपमिति उपकुम्भम् ॥ समया ग्रामम् । निकषा लङ्काम् । आरादनादित्यत्र तु नाव्ययीभावो विनादियोगे द्वितीयेति ऋतेआदियोगे पञ्चमीति च विधानसामर्थ्यात् ॥
( तत्त्वदी० )-अव्ययीभावादिति ॥ विभज्यते विविच्य बोध्यते कर्तृकर्माद्यर्थोऽनयेति विभक्तिः । योगरूढत्वात्कृत्यादिषु नातिव्याप्तिः । स्यादेः सिप इति वा वक्तुमुचितम् । कुम्भकार इत्यत्र तु धातोरेव प्रत्ययविधानान्न त्यादेर्लुक् ॥ अधिस्त्रि इति ॥ स्त्रियाम् इतीति
Page #259
--------------------------------------------------------------------------
________________
[ समासप्र०
टीकाद्वयोपेता ।
(२४३)
विग्रहः । नित्यसमासोऽयम् । अस्वपदविग्रहत्वात् । तथा चोक्तम् । अविग्रहो नित्यसमासोs - स्वपदविग्रहो वेति ॥ विग्रहश्च द्विविधः । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुर्यौकिकः । प्रयोगानर्होऽसाधुरलौकिकः ॥
]
( अतोऽमनतः ) अदन्तादव्ययीभावाद्विभक्तेरलुक् । अतं वर्जयित्वामादेशः । कुम्भस्य समीपमुपकुम्भम् ॥
(सुबोधिनी ) - अतोऽमनतः ॥ विशेषणत्वात्तदन्तविधिः अदन्तादव्ययीभावात् । अनत इति षष्ठी । न अत् अनत् तस्या अनतो विभक्तेरमादेशः स्यात् ॥
( तत्त्वदी ० ) - अतोऽमनत इति ॥ अत इत्यस्य विशेषणत्वात्तदन्तलाम इत्याशयेनादन्तादित्युक्तम् । अलुक्क्वचिदित्यतोऽलुगित्यनुवर्तते । तथा चवाक्यभेदेन व्याख्यानम् । ननु किं वाक्यभदेनोभयविधानम् अमादेशस्यैव लुग्बाधकताऽस्तु इति चेन्न । टादावमादेशाभावे लुक्प्रवृत्तेर निवार्यत्वापत्तेः । अमूविधानं तु सर्वादेशार्थम् । अनत इत्येकवचनं त्वव्ययीभावस्यैकवचनान्तत्वाभिप्रायेण । सर्ववचनान्तत्वपक्षे तु अनत इत्याद्युपलक्षणं वचनत्रयस्यापि ॥
( वा टाङयोः) अदन्तादव्ययीभावाट्टङियोरम्बा ॥ उपकुम्भम् - उपकुम्भेन वा कृतम् । उपकुम्भम् - उपकुम्भे वा निधेहि || अनतः किम् । उपकुम्भात् ॥ मत्राणां समृद्धिः सुमद्रम् । यवानानां व्यृद्धिदुर्यवनम् । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽति हिमम् । निद्रा संप्रति न युज्यते इत्यतिनिद्रम् | हरिशब्दस्य प्रकाश इति इतिहरि । विष्णोः पश्वादनुविष्णु । रूपस्य योग्यमनुरूपम् | अर्थमर्थं प्रति प्रत्यर्थम् | शक्तिमनतिक्रम्य करोति यथाशक्ति । हरेः सादृश्यं सहरि । सहादेः सादिरिति सहस्य सः । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपत्सचक्रम् । सदृशः सख्या ससखि । क्षत्राणां संपत्तिः सक्षत्रम् । तृणमप्यपरित्यज्य सतृणमत्ति । अग्निग्रन्थपर्यन्तमधीते सा ॥
( सुबोधिनी ) - वा टाङोः ॥ कुत्रचिद्भवति कुत्रचिन्न भवतीयं व्यवस्थितविभाषा | तस्य आश्रयणात् सुमद्रम् उन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमेवाऽम् ॥ समृद्ध्यर्थे यथा । ऋद्धेराधिक्यं समृद्धिः । मद्राणां देशविशेषाणां समृद्धिः सुमद्रम् । उत्तरपदार्थप्राधान्ये तु तत्पुरुषोऽपि भवति । समृद्धा मद्रा इति सुमद्रा ॥ वृद्धयर्थे यथा । विगता ऋद्धियृद्धिः । यवनानां व्यृद्धिरिति दुर्यवनम् । इह तेषामृद्ध्यभावे
Page #260
--------------------------------------------------------------------------
________________
( २४४ )
सिद्धान्तचन्द्रिका |
[ समासप्र० ]
समासः ॥ अर्थाभावे यथा । मक्षिकाणामभाव इति निर्मक्षिकम् । संसर्गाभावेऽयं समासः ॥ अत्यये यथा । हिमस्यात्ययो ध्वंस इति अतिहिमम् | असंप्रत्यर्थे यथा । संप्रतीत्यव्ययमिदानीमित्यर्थे । युजिक्रियान्तर्भावेण नञ्समासः सौत्रो बोध्यः । निद्रा संप्रति न युज्यते इत्यतिनिद्रम् | शब्दप्रादुर्भावे यथा । हरिशब्दस्य प्रकाश, इति इतिहरि । षष्ठ्यन्तेन हरिशब्देन सह प्रकाशार्थस्येतिशब्दस्य समासः । विष्णोः पश्चादिति अनुविष्णु । पश्चाच्छन्दस्य तु नायमव्ययीभावो भवति । ततः पश्चात् स्रंसते इति भाष्यप्रयोगात् । सति चात्राव्ययीभावे पश्चाच्छब्दस्य पूर्वनिपातः स्यादित्यर्थः ॥ यथार्थे यथा । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । तत्रानुरूपता योग्यता । रूपस्य योग्यमिति अनुरूपम् ॥ पदार्थानां व्याप्तुमिच्छा वीप्सा । अर्थमर्थं प्रतीति प्रत्यर्थम् । समासे वीप्साया अन्तर्भावान्न द्विः । वीप्सार्थकप्रतियोगे द्वितीयाविधानात् वाक्यमपि ॥ पदार्थानतिक्रमः पदार्थानतिवृत्तिः । शक्तिमनतिक्रम्येति यथाशक्ति ॥ हरेः सादृश्यमिति वक्ष्यमाणेन सहादेः सादिरित्यनेन सहस्य सादेशः । सहारे || आनुपूर्व्यार्थे यथा । अनुपूर्वस्य भाव इत्यानुपूर्व्यम् । भावे तत्वयण इति यण् । ज्येष्ठस्यानुपूर्व्येणेति अनुज्येष्ठम् ॥ यौगपद्ये यथा । चक्रेण युगपत्समकालमिति सहादेरित्यनेन सहस्य सः । सचक्रम् ॥ सादृश्ये यथा । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येतदर्थम् । सदृशः सख्या इति सहादेरित्यनेन सहस्य सः । ससखि || संपत्तौ यथा । अनुरूप आत्मभावः संपत्तिः । क्षत्राणां संपत्तिरिति सहादेरित्यनेन सहस्य सः । सक्षत्रम् ॥ साकल्ये यथा । तृणमप्यपरित्यज्येति सहादेरिति सहस्य सः । सतृणम् । साकल्येनात्ति इत्यर्थः ॥ अन्तवचने यथा । उच्यते तद्वचनम् अन्तस्य वचनम् अन्तवचनं तस्मिन् । अग्निशब्दोऽग्निप्रतिपादकग्रन्थे वर्तते । अस्वपदविग्रहो नित्यसमासोऽयम् । अग्निग्रन्थपर्यन्तमिति सानि अधीते ॥
।
1
( तत्त्वदी ० ) - वाटाडयोरिति || अव्ययीभावादिति किम् । कृष्णश्रितेन । अदन्तात्किम् । अधिस्त्रि । वेत्यस्य व्यवस्थितत्वाश्रयणात्सुमद्रमुन्मत्तगङ्गमित्यादौ सप्तम्या नित्यमम्भावः । उपकुम्भमिति ॥ कुम्भस्य समीपे इत्यर्थः । व्यृद्धिरिति । विगता ऋद्धिः व्यृद्धिः॥ अत्यय इति || अत्ययो ध्वंसः ॥ निद्रेत्यादि । असंप्रत्यर्थेनातिशब्देनान्ययीभावः । तत्र असंप्रतीत्यस्य संप्रत्यभाव इत्यर्थमुक्तवतोपभोग्यवस्तुनो यो वर्तमानः कालस्तस्यैव निषेधः क्रियत इत्युक्तं केनचित्तन्न । नहि भूतले घटो नास्तीत्यनेन हि भूतल निषेधः केनचिद्दूरी क्रियते ॥ ( यथाऽसादृश्ये ॥ ) यथाशब्दः सादृश्ये न समस्यते ॥ यथा हरि - स्तथा हरः ॥
Page #261
--------------------------------------------------------------------------
________________
[समासप०] टीकाद्वयोपेता।
(२४५) (सुबोधिनी)-यथाऽसादृश्ये ॥ असादृश्ये एव ययाशब्दः समस्यते । सादृश्ये इति यथार्थे इति वा प्राप्तं निषिध्यते । यथा हरिस्तथा हरः । यथाशब्दो हरेरुपमानत्वं द्योतयति ॥
(तत्त्वदी०)-यथाऽसादृश्य इति असादृश्य इति छेदः । यथाशब्दस्याव्ययत्वादेव सिद्धे सूत्रारम्भसामर्थ्यात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। योग्यता अनुरूपता । वीप्सापदार्थानां व्याप्तुमिच्छा । पदार्थानतिवृत्तिः पदार्थानतिक्रमः । उदाहरणानि तु पूर्वमेवोक्तानि ॥
(अवधारणार्थ यावति च ) अवधारणार्थे यावच्छब्दे प्रयुज्यमाने योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति ॥ यावन्तः श्लोकाः तावन्तो ऽच्युतप्रणामा यावच्छोकम् ॥ . (सुबोधिनी)-अवधारणार्थे यावति च ॥ यावच्छब्दस्याव्ययत्वादेव सिद्धे नियमार्थमिदम् । अवधारणे एव यावदव्ययं समस्यते नान्यस्मिन्नथे । "यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे” इत्यमरः ॥ यत्परिमाणं येषां ते यावन्तः । एतत्किंयत्तद्भय इति वतुः। यत्तदेतदामित्यात्वम् । तत्सरिमाणं येषां ते तावन्तः । तद्धितान्तेन विग्रहः। समासस्त्वव्ययेनैव । अस्वपदविग्रहोऽयम् ॥ अवधारणे किम् । यावदत्तं तावद् भुक्तम् । नावधारयामि कियन्मया भुक्तमिति ॥
(तत्त्वदी० )-अवाधारणार्थे यावति चेति ॥ निश्चयार्थे यावच्छब्द इत्यर्थः ॥ यावच्छोकमिति ॥ तद्धितान्तेन विग्रहः । समासस्त्वव्ययेनेत्यस्वपदविग्रहोऽयम् । तथा च । यावच्छब्दस्याव्यत्वादेव सिद्ध नियमार्थमिदमवधारणे एव यावदव्ययं समस्यते नान्यस्मिनिति । "यावत्तावच्च साकल्येऽवधौ मानेवधारणे " इत्यनेकार्थत्वान्नियम उपपद्यते ॥ अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । नावधारयामि कियन्मया भुक्तमिति ॥
(कचिदनव्ययपूर्वपदोऽप्यव्ययीभावः) उन्मत्ता गंगा यस्मिन् देशे इत्युन्मत्तगंगम् । शाकस्य लेशः शाकप्रति । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकया विपरीतं वृत्तं शलाकापरि एकपरि ॥
(सुबोधिनी)-वचिदनव्ययपूर्वपदोऽप्यव्ययीभावः॥ अन्यपदार्थे स्यायन्तं नदीवाचिभिः सह नित्यं समस्यते संज्ञायाम् । उन्मत्ता गङ्गा यस्मिन् । पुंवदेति पुंवद्भावः । तत उन्मत्तगङ्गं देशः । बहुव्रीह्यर्थे अव्ययीभावः । नित्यसमासोऽयम् ॥ लेशार्थेन प्रतिना सह स्याद्यन्तं नित्यं समस्यते । " लवलेशकणाणवः "
Page #262
--------------------------------------------------------------------------
________________
(२४६) सिद्धान्तचन्द्रिका।
[ समासप्र०] इत्यमरः ॥ शाकस्य लेश इति शाकप्रति ॥ अक्षशलाकासंख्याः परिणा नित्यंसमस्यन्ते । द्यूतव्यवहारे पराजये एवार्थे । अक्षण विपरीतं वृत्तमिति अक्षपरि । पूर्व यथा वृत्तं तथा न वृत्तमित्यर्थः ॥ शलाकया विपरीतं वृत्तमिति शलाकापरि ॥ एकेन विपरीतं वृत्तमिति एकपरि । एते नित्यसमासाः ॥
(वचिद्वा) अपविष्णोः। अपविष्णु । परिविष्णोः । परिविष्णु । बहिर्वनात् बहिर्वनम् । प्राग्वनात् प्राग्वनम् । आमुक्तेः आमुक्ति । आयमिम् अन्यग्नि । प्रत्यग्निम् प्रत्यग्नि । वनस्य समीपमुपवनम् । गंगामनु अनुगंगम् । तिष्ठन्ति गावा यस्मिन्काले स तिष्ठद्गु ॥ आयतीगवम् । पारे गंगायाः पारेगंगम् ।मध्ये गंगायाः मध्यंगंगम् ॥ इत्यादयो निपात्याः। खले यवा यस्मिन् काले खलेयवम् । द्वौ मुनीवंश्यौ द्विमुनि । त्रिमुनि व्याकरणस्य । सप्त गंगाः समाहृताः सप्तगंगम् । द्वियमुनम् ॥
(सुबोधिनी)-अथ वैकल्पिकाः समासाः ॥ क्वचिद्वा ॥ अपपरिवहिरञ्चूत्तरपदाः पञ्चम्या सह समस्यन्ते वा ॥ अपपरी वर्जनार्थको ग्राह्यौ ॥ बहियोगे तु ऋते. आदित्वात् पञ्चमी सा सर्वत्र न । करस्य करभो बहिः” इत्यमरोक्तः ॥ अञ्चधातुरुत्तरपदं यस्य सोऽञ्चुत्तरपदः । यथा । प्राग्वनमिति ॥ मर्यादाभिविध्यर्थकाङ् पञ्चम्यन्तेन वा समस्यते । आमुक्ति संसारः । आबालं हरिभाक्तिः॥ अभिप्रती आभिमुख्यार्थको चिह्नवाचिना सह वा समस्येते । अभ्यानि शलभाः पतन्ति । अत्र लक्ष्यलक्षणभावे विनादित्वात् द्वितीया ॥ दैर्घ्यसमीपार्थकोऽनुश्चिगवाचिना षष्ठयन्तेन सह वा समस्यते । वनस्य समीपमिति अनुवनम् अशनिर्गतः । लक्षणभूतस्य वनस्य समीपं गत इत्यर्थः ॥ गङ्गाया अनु इति अनुगङ्गं सेन।। गङ्गादैर्घ्यसदृशदैयोपल. क्षितेत्यर्थः ॥ समामाभावे गङ्गामनु । विनादित्वात् द्वितीयैव । समासे तु विध्यर्थत्वाषष्ठी तिष्ठन्ति गावो यस्मिन्काले स तिष्ठद्ध दोहनकालः । गोरिति ह्रस्वः। निपातनाच्छतृप्रत्ययः ॥ आयन्त्यो गावो यस्मिन्काले स आयतीगवं सन्ध्या । निपातनाट्टप्रत्यमः वोऽवित्यव् पुंवद्भावाभावश्च ॥खले यवा यस्मिन् काले स खलेयवम् । सप्तम्या अलुग् निपातनात् । इह बहुव्रीहि विषये अव्ययीभावः ॥ पारमध्य. शब्दौ षष्ठयन्तेन वा समस्येते एदन्तत्वं चानयोनिपात्यते । गङ्गायाः परमिति पारेगङ्गम् । गङ्गाया मध्यामति मध्येगङ्गम् । पक्षे षष्ठीतत्पुरुषोऽपि । गङ्गाया पारमिति गङ्गापारम् । एवं गङ्गामध्यम् । वाक्यमाप । गङ्गायाः पारम् । गङ्गाया मध्यमिति । बंश्यवाचिना सह संख्या वा समस्यते । वंशः संतानः स द्विविधो विद्यया जन्मना च । तत्र भवो वंश्यः । द्वौ मुनी वंश्यो पाणिनिकात्यायनाविति द्विमुनि । त्रयो
Page #263
--------------------------------------------------------------------------
________________
[ समासप्र० ] टीकाद्वयोपेता।
(२४७) मुनयो वंश्या इति त्रिमुनि । व्याकरणस्येति सम्बन्धे षष्ठी । अन्यपदार्थप्राधान्यविवक्षायां तु त्रयो मुनयो वंश्या यस्मिस्त्रिमुनि । बहुव्रीहिरेवायम् ॥ जन्मना वंश्यो यथा । एकविंशतिर्भारद्वाजा वंश्या इति एकविंशतिभारद्वाजम् ॥ नदीवाचिना सह संख्या समस्यते । समाहारार्थे । सप्त गङ्गाः समाहृताः इति सप्तगङ्गम् ।। यमुने समाहृते इति । पुंवद्वेति पुंवद्भावः । द्वियमुनम् । द्विगोरपवादोऽयमव्ययीभावः ॥ (तत्त्वदी० )-इत्यादयो निपात्या इति ॥ सहादित्वादिति भावः ॥
( टाडकाः) समासे सति ट अ ड क इत्येते प्रत्यया भवन्ति ॥ शरदः समीपमुपशरदम् ॥ प्रतिविपाशम् ॥
(सुबोधिनी )-अथ समासान्तप्रत्ययानाह । समासस्य समासोत्तरपदस्य वा चरमावयवाः समासान्ता इत्यर्थः ॥ टाडकाः॥ टश्च अश्च डश्च कश्च ते टाडकाः समासे इत्यनुवर्तते । टकार ईवर्थः । अकारोऽदन्तत्वफलकः । डष्टिलोपार्थः । कः श्रवणार्थः न त्वित्संज्ञकः । प्रयोजनाभावात् ॥ अव्ययीभावे शरदादिभ्यष्टप्रत्यय एव । शरद् विपाश् अनस मनसू उपानह दिव हिमवत् अनडुङ् दिश दृश विशू चेतस् चतुर् त्य तद् यद् किम् एते शरदादयः । शरदः समीपमिति उपशरदम् । टः । विपाशं प्रतीति प्रतिविपाशम् । विनादित्वात् प्रतियोगे द्वितीया । “विपाशा तु विपाट् स्त्रियाम्" इत्यमरः॥
(तत्त्वदी०)-टाडका इति ॥ टश्च अश्व डश्व कश्च ते टाडकाः । समासश्चान्वय इत्यतो. ऽनुवृत्तं समास इति सप्तम्या विपरिणम्यत इत्याह-समास सतीति ॥ समासे चिकीर्षिते नाम्नष्टादयो भवन्तीति बोध्यम् । ततो विभक्तिं विधाय टाद्यन्तेन समासः। तेन समासस्यान्तावयवाष्टादयः । ततश्चोपशरदमित्यादावव्ययीभावस्यादन्तत्वाद्विभक्तेरम् सिध्यति । अन्यथा अव्ययीभावात् परत्वेनाकारस्यादन्तत्वाभावान्नाम् सिद्धयेदिति भावः । टस्त्वीबर्थः । राजगवीत्यादौ इत्यव्ययीभावः ॥
(जरायाजरस् ) उपजरसम् । अक्षि प्रति प्रत्यक्षम् ॥ अक्ष्णः परं परोक्षम् । परशब्दस्य परस् । परोक्ष इति ज्ञापकात् ॥ अन्वक्षम् । उपराजम् ॥ क्लीवे वाऽन्लोपश्च ॥ उपचर्मम्-उपचर्म ॥ झसान्ताद्वा । उपसमिधम्-उपसमित् ॥ नद्यादिश्यो वा ॥ उपनदम्-उपनदि । इत्यव्ययीभावः ॥
(सुबोधिनी)-जराया जरम् ।। अव्ययीभावे जराशब्दस्य जरसादेशष्टप्रत्ययश्च ।। जरायाः समीपमिति उपजरसम् । टः । प्रतिपरमनुभ्योऽक्षिशब्दादव्ययीभावे
Page #264
--------------------------------------------------------------------------
________________
(२४८)
सिद्धान्तचन्द्रिका। [समासप्र०] टः । अक्षिप्रतीति प्रत्यक्षम् । यस्येतीकारलोपः ॥ अक्ष्णः परविषय इति परोक्षम् । परस्य परसादेशे सस्य विसर्गे च कृतेऽतोऽत्युरित्युत्वम् । ओत्वे एदोतोऽत इत्यल्लोपः । परोक्षम् ॥ अक्ष्णो योग्यम् इति समक्षम् ॥ अक्ष्णः पश्चादिति अन्वक्षम् ॥ अन्नन्तादव्ययीभावाः । राज्ञः समीपमिति उपराजम् ॥ नो वेति टिलोपः ॥ आत्मनि इति अध्यात्मम् ॥ वैकल्पिकं टप्रत्ययमाह ॥ अव्ययीभावे नान्तनपुंसकाद्गिरिशब्दात् झसप्रत्याहारान्तात् नदीपौर्णमास्याग्रहायणीभ्यश्च वा टः । चर्मणः समीपमिति उपचर्मम्-उपचर्म ॥ गिरेः समीपमिति उपगिरम्-उपगिरि । समिधः समीपमिति उपसमिधम्-उपसमित् ॥नद्याः समीपमिति उपनदम् ॥ नपुंसकस्येति ह्रस्वे उपनदि पौर्णमास्याः समीपमिति उपपौर्णमासम-उपपौर्णमासि ॥ आग्रहायण्याः समीपमिति उपाग्रहायणम्-उपाग्रहायणि ॥
इत्यव्ययीभावः॥ ( अमादौ तत्पुरुषः ) द्वितीयायन्ते पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञः समासो भवति ॥ ग्रामं प्राप्तो ग्रामप्राप्तः। कृष्णश्रितः । कूपपतितः।ग्रामगतः। खट्वारूढः । मुहूर्तसुखम् । दुःखातीतः । ग्रामगमी । अन्नबुभुक्षुः । दात्रेण छिन्नम् दात्रच्छिन्नम् । मासेन पूर्वो मासपूर्वः । मातृसदृशः। पितृसदृशः । माषोनम् । वास्कलहः। आचारनिपुणः। गुडमिश्रः । मासावरः ।हरित्रातः । नखभिन्नः । दध्योदनः । गुडधानाः । यूपाय दारु यूपदारु ॥ अर्थस्य विशेष्यलिङ्गता । द्विजायायं द्विजार्थः सूपः । द्विजार्था शाटी । द्विजार्थ पयः ॥ भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् । चौराद्भयं चौरभयम् । सुखापेतः । दुःखापोढः । व्याघ्रभीतः। राज्ञः पुरुषः राजपुरुषः । विजयाजकः । देवपूजकः ॥
(सुबोधिनी )-अमादौ तत्पुरुषः॥ अम् आदिर्यस्य सोऽमादिस्तस्मिन्नमादौ प्रत्यये सुप्पर्यन्ते प्रत्ययग्रहणे तदन्तग्रहणामीत परिभाषयाऽमाद्यन्ते द्वितीयाद्यन्त पूर्वे इत्यनुवर्तते पूर्वपदे सति यो नाम्नामन्वयः स तत्पुरुषसंज्ञः स्यात् । पूर्व इत्युक्तत्वात द्वितीयाद्यन्तस्य पूर्वनिपातश्च ॥ श्रितातीतपतितगतात्यस्तप्राप्तापन्नगमिन्बुभुक्षुभिः सह द्वितीयान्तं समस्यते । श्रितादिष्वापन्नान्तेषु गत्यर्थादकर्मकादिति कतरिक्तः श्यादीनां गतिविशेषवाचित्वात् ॥ कृष्णं श्रित इति कृष्णश्रितः। अक्ताविति षष्ठीनिषेधः । कर्मणि क्तप्रत्यये तु कृष्णः श्रितो येनेति बहुव्रीहिरेव । तत्र च बहुव्रीहौ विशे. पण सप्तम्यन्तक्तान्तानामिति श्रितस्य पूर्वनिपाते समासान्तकप्रत्यये च श्रितकृष्णक
Page #265
--------------------------------------------------------------------------
________________
[ समासप्र० ] टीकाद्वयोपेता।
(२४९) इति ॥ दुःखमतीत इति दुःखातीतः । अतिपूर्वकादिगः कर्तरिक्तः॥ 'पत गतौ' चुरादिरदन्तोऽस्मात्कर्तरि क्त कूपपतितः ॥ ग्रामगतः। तुहिनमत्यस्तः इति तुहिनात्यस्तः। अत्यासो व्यतिक्रमः सोऽपि गतिविशेष एवेति कर्तरिक्तः ॥ सुखप्राप्तः॥ दुःखापन्नः ॥ ग्रामं गमीति ग्रामगमी। गमेरिनिरित्यौणादिको भविष्यत्काले इनिः। भविष्यत्यकस्येति सूत्रेण षष्ठीनिषधाकर्मणि द्वितीया ॥ अन्नं बुभुक्षुरित अन्नबुभुक्षुः । सान्ताऽशंसभिक्षिभ्य इत्युप्रत्ययः ॥ द्वितीयान्तः खट्वाशब्दः कालवाची च क्तान्तेन समस्यते । खट्वारूढा जाल्मः । नित्यसमासोऽयम् । “जाल्मोऽसमीक्ष्यकारी स्यात्" इत्यमरः॥ मासं प्रमित इति मासप्रमितः। 'माङ् माने' कर्तरि क्तः॥ अत्यन्तसंयागे द्वितीयान्त: कालवाची स्याद्यन्तेन समस्यते ॥ मुहूर्त सुखमिति मुहूर्तसुखम् । कालाध्वनोरिति द्वितीया ॥ तृतीयान्तं तदर्थकृतगुणवचनेन सह समस्यते । गुणमुक्त्वा यो द्रव्यमुक्तवान् स गुणवचनः । कर्तरि युट् । गुणश्चात्र 'सत्त्वे निविशते' इत्यादिलक्षणलक्षितो गृह्यते । छिन्नमस्त्यस्मिन्निति छिन्नम् । दात्रेण छिन्नमिति दात्रच्छिन्नम् । करणे तृतीया । 'छिदिर द्वैधीकरणे ।' अस्माद्भावे क्ते छिन्नशब्दः क्रियारूपापन्ने गुणे वर्तित्वा पश्चात् छिन्नमस्त्यस्मिन्निति छिन्नमित्यस्त्यर्थे लक्षणया तद्वति द्रव्य वर्तते इति गुणवचनः । तृतीयान्तं पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णावरैः सह समस्यते । तुल्यार्थयागे इति समसदृशयोगे तृतीया । अन्योंगे तु समासविधानसाम
र्थ्यात् तृतीया । हेतौ तृतीया वा ॥ मासेन पूर्व इति मासपूर्वः ॥ मात्रा सदृश इति मातृसदृशः ॥ पित्रा सम इति पितृसमः ॥ माषेण उनम् इति माषोनम् ॥ माषण विकल इति माषविकलः ॥ वाचा कलह इति वाकलहः॥ आचारेण निपुण इति आचारनिपुणः ॥ गुडेन मिश्र इति गुडमिश्रः ॥ आचारेण श्लक्षण इत्याचारश्लक्ष्णः ॥ मासेन अवरोऽर्वागिति मासावरः । तृतीयान्ते कर्तृकरणे कृदन्तेन सह बहुलं समस्यते । हरिणा त्रात इति हरित्रातः । कणि क्तः । कर्तरि तृतीया ॥ नखैभिन्न इति नखभिन्नः। कणि क्तः । करणे तृतीया ॥ वातेन छेद्यम् इति वातच्छेद्य तृणम् । शक्याथै यः॥काकेन पेयेति काकपेया नदी । शक्याथै यः ॥ बहुलग्रहणात् क्वचिन्न । दात्रेण लूनवान् । हस्तेन कुर्वन् ॥ संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन सह समस्यते । दध्ना उपसिक्त आदन इति दध्योदनः। उपसकक्रियाद्वाराऽन्वयः । “भिस्सा स्त्री भक्तमन्धानमोदनोऽस्त्री" इत्यमरः ॥ गुडेन मिश्रा धानाः गुडधानाः । मिश्रणक्रियाद्वाराऽन्वयः। "धाना भृष्टयवे स्त्रियाम्" इत्यमरः ॥ तदर्थार्थवलिहितसुखरक्षितैः सह चतुर्थ्यन्तं समस्यते । यूपाय दारु इति यूपदारु । तादर्थं चतुर्थी ॥ अर्थेन नित्यसमासो विशेष्यलिङ्गता च एतद्वार्तिकाभावे तु विकल्पाधिकागत् पक्षे द्विजायार्थ इत्यपि स्यात् । द्वन्द्वतत्पुरुषयोः परपदस्यैवेति वक्ष्यमाणेन सर्वत्र पुँल्लिङ्गप्रयोगश्च स्यादर्थशब्दस्य पुँल्लिंगत्वादत इदमुक्तम ॥ भूतेभ्यो
Page #266
--------------------------------------------------------------------------
________________
(२५०) सिद्धान्तचन्द्रिका। समासप्र० ] बलिरिति भूतबलिः ॥ गोभ्यो हितमिति गोहितम् ॥ गोभ्यः सुखमिति गोसुखम् ।। गोभ्यो रक्षितमिति गोरक्षितम् ॥ भयभीतभीतिभीभिरपेतापोढमुक्तपतितापत्रस्तैश्च सह पञ्चम्यन्तं समस्यते । चौराद्भयमिति चौरभयम् ॥ एवं वृकभीतः ॥ सिंहभीतिः॥ राजभीः ॥ सुखादपेत इति सुखापेतः ॥ एवं कल्पनापोढः ॥ चक्रमुक्तः ॥ स्वर्गपतितः॥ तरङ्गापत्रस्तः इति ॥ राज्ञः पुरुष इति राजपुरुषा-संबन्धे षष्ठी । राजन् अस् पुरुष सि इत्यलौकिकविग्रहे समासे कृते समासप्रत्यययोरिति विभक्ते कि अन्तर्वतिनी विभक्तिमाश्रित्य पदत्वान्नानो नो लोपशिति नलोपः ॥ याजकादिभिः सह षष्ठयन्तं समस्यते । याजकपूजकपरिचारकपरिवेषकस्नातकाध्यापकोत्पादकहोतृपोतृभर्तृनप्तृगणका याजकादयः ॥
(तत्त्वदी० )-अमादौ तत्पुरुष इति ॥ अम् आदिर्यस्य स अमादिः प्रत्ययः सुप्पर्यन्तः । 'पूर्वेऽव्यये' इत्यतः पूर्वे इत्यनुवर्तते । अम् द्वितीयैकवचनमेव गृह्यते न त्वमो गत्यादिकर्तृवाची व्याख्यानात् । तस्य च प्रत्ययत्वात्प्रत्ययग्रहणे च तदन्तलाभः इत्याशयेनाह-द्वितीयाद्यन्त इति ॥ यत्तु वासुदेवेन अम् आदियेषां ते अमादय इत्युक्त्वा द्वितीयाद्याः सप्तम्यन्ता विभक्तयस्तासां चेत्याद्युक्तं तदविचारैः पुंल्लिंगस्य समासार्थत्वेन स्त्रीलिंगस्य विशेष्यत्वानुचितत्वात् । बहुवचनान्तविग्रहस्यायुक्तत्वाच्च ।।
(क्वचित्षष्ठी न समस्यते ) नृणां द्विजः । सतां षष्ठः । काकस्य कार्ण्यम् । फलानां सुहितः । इदमेषां शयितम् । अपां स्रष्टा । ओदनस्य पाचकः । भवतः शायिका ॥
( सुबोधिनी)-क्वचित्षष्ठी न समस्यते ॥ निर्धारणे या षष्ठी सा न समस्यते ॥ नृणां द्विज इत्यत्र क्रियागुणजातिसंज्ञाभिरिति षष्ठी॥ पूरणगुणतृत्त्यथैः सह षष्ठयन्तं न समस्यते । पूरणार्थे सतां षष्ठः । षण्णां संख्यानां पूरणः षष्ठः । षट्कतिकतिपयचतुर्य इति थट् ॥ गुणार्थे । काकस्य कार्यम् । कृष्णस्य भावः कार्ण्यम् । अनित्योऽयं गुणेन निषेधः । संज्ञाप्रमाणमर्थगौरवं बुद्धिमान्यमित्यादिनिर्देशात् ॥ फलानां सुहितस्तृप्तः । करणे षष्ठी ॥ तृतीयासमासस्तु स्यादेव ॥ अधिकरणवाचिना क्तेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा । स्थैर्यगतिभक्षणार्थेभ्य इत्यधिकरणे क्तः। एषामिति कर्तरि षष्ठी ॥ वर्तमानाधारार्थक्तस्येत्यनेन कर्थकाभ्यां अकाभ्यां सह षष्ठी न समस्यते । अपां स्रष्टा । ओदनस्य पाचकः । तृवुणाविति कर्तरि तृवुणप्रत्ययौ । अपामिति ओदनस्येति च कर्तृकार्ययोरित्यनेन कर्मणि षष्ठी ॥ कर्तृषष्ठ्यन्तमकेन सह न समस्यते । भवतः शायिका ।
Page #267
--------------------------------------------------------------------------
________________
[ समासप्र. ] टीकाद्वयोपेता।
(२५१) आधारे वुण प्रत्ययो भवतीति । कर्तरि षष्ठी ॥ वर्तमानार्थक्तेन सह षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राज्ञामिति कर्तरि षष्ठी॥
(क्वचिदमाद्यन्तस्य परत्वम् ) रायमतिकान्तोऽतिराः । नावमतिक्रान्तोऽतिनौः । पूर्व भूतो भूतपूर्वः । कायस्य पूर्वः पूर्वकायः । अपरकायः। अधरकायः। उत्तरकायः । अह्नो मध्यं मध्याह्नः। सायाह्नः। मध्यरात्रः । पश्चिमरात्रः । अर्द्धपिप्पली ॥
(सुबोधिनी)-क्वचिदमाद्यन्तस्य परत्वम्॥ तत्पुरुषे क्वचिदमाद्यन्तस्य पदस्य परनिपातो भवति ॥ रायमतिक्रान्त इति अतिराः। अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः। रै स्भि' इत्यनेनाकारः।। पूर्व भूत इति भूतपूर्वः ॥ पूर्वापराधरोत्तरावयवा एकसंख्यावयविना समस्यन्ते । कायस्य पूर्व इति पूर्वकायः ॥ कायस्यापरा देश: अपरकायः ॥ कायस्याधरो देश इति अधरकायः॥ कायस्योत्तरो देशः इति उत्तरकायः॥ एकदेशः कालवाचिना समस्यते। अह्नो मध्यमिति मध्याह्नः। राजाहःसखिभ्य इति टः । नो वेत्युपधालोपः ॥ अह्नः पूर्व इति पूर्वाहः ॥ अह्नः साय इति सायाह्नः। स्यतर्घत्रि अवसानवचनः सायशब्दः ॥रात्रेमध्यमिति मध्यरात्रः ॥ रात्रे: पश्चिममिति पश्चिमराः। टाडका इत्यनेनाप्रत्ययः॥ नपुंसकोऽर्द्धशब्दोऽवयविना सह समस्यते । “पुस्योऽदै समेंऽशके" इत्यमरः॥अर्द्ध पिप्पल्या इति अर्द्धपिप्पली । द्वन्द्वतत्पुरुषयोरिति परवल्लिङ्गत्वात् स्त्रीत्वम् । भाष्ये तु अर्द्धपिप्पलीति कर्मधारये उक्तम् । समुदाये दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते इति न्यायात् ॥
( तत्त्वदी० )-क्वचिदमाद्यन्तस्येति ॥ अन्त्यस्वरादिष्टिरिति ज्ञापकादिति भावः ।। अन्ते भवोऽन्त्यः । स्वरेषु अन्त्यः अन्त्यस्वरः । स आदिर्यस्य सः ॥
(क्वचिद्वा) द्वितीयं भिक्षायाः द्वितीयभिक्षा-भिक्षाद्वितीयम् । तृतीयभिक्षा-भिक्षातृतीयम् । चतुर्थभिक्षा-भिक्षाचतुर्थम् । तुरीयभिक्षा-भिक्षातुरीयम् । जीविकाप्राप्तः-प्राप्तजीविकः । आपन्नजीविकः-जीविकापन्नः॥ __ (सुबोधिनी )-क्वचिद्वा ॥ द्वितीयतृतीयचतुर्थतुर्याण्येकदेशिना सह समस्यन्ते अमाद्यन्तस्य परनिपातश्च वा ॥ द्वितीय भिक्षाया इति द्वितीयभिक्षा-भिक्षाद्वितीयम् ॥ तृतीय भिक्षाया इति तृतीयभिक्षा-भिक्षातृतीयम् ॥ चतुर्थे भिक्षाया इति चतुर्थभिक्षा-भिक्षाचतुर्थम् ॥ तुरीयं भिक्षाया इति तुरीयभिक्षा-भिक्षातुरीयम् ॥ द्वितीयान्तस्य प्राप्तापन्नयोः परयोर्वा परनिपातः । जीविकां प्राप्त इति जीविकाप्राप्तः । प्राप्तजीविकः । अन्यार्थे इति हस्वः । द्विगुप्राप्तापन्नेति वक्ष्यमाणेन परवल्लिङ्गं न ॥
Page #268
--------------------------------------------------------------------------
________________
( २५२) सिद्धान्तचन्द्रिका। [समासप्र० ]
(तत्त्वदी०)-प्राप्तजीविक इति ॥ तत्पुरुषसंज्ञाविधिसामर्थ्यात्तथा व्यवहारोऽनुमातव्यः । स च द्वन्द्वतत्पुरुषयोः परपदस्यैव लिङ्गमित्यादि तस्य च ज्ञापकसिद्धत्वात् ज्ञापकसिद्धं न सर्वत्रेति वचनादत्र न परस्य लिङ्गम् ॥ (परिमाणवता सह समस्यतेऽमायन्तस्य परनिपातश्च तत्पुरुषे)
( सुबोधिनी )-परिमाणवता सह समस्यतेऽमाद्यन्तस्य परनिपातश्च तत्पुरुषे ॥ परिमीयते परिच्छिद्यते येन तत्परिमाणं परिमाणमस्यास्तीति परिमाणवान् । तेन यस्य हि जननादूर्वं मासो जातः स मासजात उच्यते । इह विग्रहे षष्ठीनिर्दिष्टस्य प्राधान्यं द्योतयितुं यस्येत्युक्तम् । यद्यपि मासो जातो यस्येति बहुव्रीहिणाऽपि सिद्धयति बहुव्रीहौ कचिन्नति क्तान्तस्य पूर्वनिपातनिषेधात् । तथापि जातचतो मासो यस्येति स मासजातवानित्याद्यर्थमिदम् ॥
(समासे क्वचिदैकपद्यं णत्वहेतुः ) शराणां वनं शरवणम् । आम्रागां वनमाम्रवणम् । प्लक्षवणम् । शूर्पणखा ॥
(सुबोधिनी) समासे क्वचिदैकपद्यं णत्वहेतुः॥ एकपदस्य भाव ऐकपद्यम् । समासे क्वचित् णत्वस्य हेतुरस्ति ॥ शराणां वनमिति शरवणम् ॥ आम्राणां वनमिति आम्रवणम् ॥ प्लक्षाणांवनमिति प्लक्षवणम् ॥ शूर्पणखा। अत्र संज्ञायांणत्वम्॥ __ (क्वचिद्वा ) माषवापिणौ-माषवापिनौ । व्रीहिवापाणि-व्रीहिवापानि । व्रीहिवापण-व्रीहिवापेन । सुरापाणम्-सुरापानम् । अक्षेषु शौण्डोऽक्षशौण्डः ॥
(सुबोधिनी)-क्वचिद्वा ॥ क्वचित्समासे णत्वं वा भवति ॥ माषान् वारंवार वपतीति माषवापी । 'बहुलमाभीक्ष्ण्ये' इति णिनिः ॥ ब्रीहीन्वपतीति कार्येऽणित्यण ॥ व्रीहिवापं तानि व्रीहिवापाणि । णत्वाभाव व्रीहिवापानीति ॥ ब्रीहीन वारंवारं वपतीति व्रीहिवापः तेन व्रीहिवापेण । णत्वाभावे व्रीहिवापेनेति ॥ शौण्डधूर्तकितवव्याडप्रवीणसंवीताध्यन्तरपटपंडितकुशलनिपुणसिद्धशुष्कपक्वबन्धैः सह सप्तम्यन्तं समस्यते । अक्षेषु शौण्डः प्रवीण इति अक्षशौण्डः॥
(पात्रेसमितादयो निपात्याः) पात्रेसमिताः। गेहशूरः। गेहेनर्दी । (सुबोधिनी)-पात्रेसमितादयो निपात्याः॥ पात्रेसमितादयः शब्दा निन्दार्थे निपात्यन्ते ॥ पात्रेसमिताः । भोजनसमये एव संगता भवन्ति न तु कार्ये । सम्पू.
Page #269
--------------------------------------------------------------------------
________________
[ समासप्र० ] टीकाद्वयोपेता।
(२५३) वादिणः क्तः ॥ गेहेनर्दी । 'नर्द शब्दे।' अस्माण्णिानिः । सप्तम्या अलुगत्र । एषां समासान्तरे प्रवेशो न भवतीत्यर्थः ॥
(तत्त्वदी०)-पात्रेसमिता इति ॥ भोजनसमय एव संगता न तु कार्यकाल इत्यर्थः । अत्र सप्तम्या अलुक् ॥
(नत्रि) ननि पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञः समासो भवति ॥ (सुबोधिनी )-नजि ॥ द्वौ नौ प्रसज्यपर्युदासार्थको। पर्युदासार्थकस्य नत्र एकार्थीभाव समासः। व्यपेक्षायांतु वाक्यमेव भवति । प्रसज्यप्रतिषेधार्थस्य तु क्रिययैवान्वयो न नाम्ना। अनन्वयेऽपि क्वापि नाम्रा समासः। इण तन्यकर्तरीति ज्ञापकात् । कर्तरि न भवतीति तदर्थः। तेनासूर्यपश्या राजदारा इत्यादि सिद्धम् । तदन्यतविरुद्धतदभावा इति त्रयो नोर्थाः। "तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता॥ अप्राशस्त्यं विरोधश्च नर्थाः षट प्रकीर्तिताः॥१॥” इति केचित् । यथा। अब्राह्मणः।अपापम् । अनश्वः । अनुदरा कन्या । अपशवः । अधर्मः । नइसमासो हि अर्थाभावेऽव्ययीभावेन सह विकल्प्यते । अद्रुतायामसंहितमिति वार्तिकप्रयोगात् ॥
(तत्त्वदी० )-नजीति ॥ पर्युदासप्रसज्यार्थत्वेन नो द्विविधत्वात्पर्युदासार्थस्योत्तरपदेनान्वयात्समासः। व्यपेक्षायां वाक्यमपि । प्रसज्यार्थस्य तु क्रिययैवान्वयादुत्तरपदेनान्वयाभावान समासः ॥ नन्वेवमसूर्यपश्यानि मुखानीत्यादौ कथं समास इति चेत्सत्यम् । इण् तन्यकर्तरीत्यत्र हि नहि कर्तरीत्यर्थात्प्रसज्यार्थस्य समासदर्शनादनन्वयेऽपि क्वचित्समासः ॥
(ना) समासे नञो नस्यादेशः ॥ धर्मविरुद्धोऽधर्मः । ज्ञानविरुद्धमज्ञानम् । संशयस्यासंभवोऽसंशयः ॥
( सुबोधिनी)-ना ॥ न अ इति च्छेदः ॥ आख्तातान्ते परेऽपि समासे नजो नकारस्याऽदादेशो भवति निन्दार्थे ॥ अपचसि त्वं जाल्म । कुत्सितं पचसीत्यर्थः ॥
(तत्त्वदी० )-ना इति ॥ न अ इति च्छेदः ॥ अत्र नजीत्यनुवर्तते इत्याह-नञ इति।। ञकारस्यानुबन्धत्वादकारस्याकारादेशे प्रयोजनाभावात्सर्वादेशः । नञ्समासस्तु प्रतिपदोक्तोऽपि नानुवर्तते। अविघ्नमित्याद्यव्ययीभावेऽविद्य इत्यादिबहुव्रीहौ चाव्याप्तेः।परिभाषायास्त्वनित्यत्वात्।।
(अन्स्वरे) समासे नत्रो नस्याऽन् स्यात्स्वर ॥ अश्वादन्योऽनश्वः॥ (सुबोधिनी )-अन्स्वरे ॥ अनश्व इत्यत्र झ्नो ह्रस्वादिति द्वित्वं तु न अनपीति निर्देशात् ॥
( तत्त्वदी० )-अनश्व इति ॥ अनपीत्यादिलिङ्गात् झ्नो ह्रस्वादिति द्वित्वं न ।
Page #270
--------------------------------------------------------------------------
________________
( ३५४ )
सिद्धान्तचन्द्रिका |
[ समासप्र०
1
( निरनुबन्धकस्य तु नानौ ) नाकः । नक्षत्रम् | नक्रः । नास
त्यौ । नैकधा ॥
( सुबोधिनी) - निरनुबन्धकस्य तु नानौ ॥ निरनुबन्धकस्य अश्व अन् च आनौ तौ न भवतः । सानुबन्धकस्य तु भवत इत्यर्थः ॥ नम्राणून पान्नवेदाना सत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकनैकधाशब्देषु नशब्देन समासः । न भाजते इति नभ्राट् किवन्तः ॥ न पातीति नपात् । शत्रन्तः ॥ न वेत्तीति नवेदाः । असुप्रत्ययान्तः ॥ सत्सु साधव इति सत्याः । ण्यप्रत्ययः । न सत्या असत्याः । न असत्याः नासत्याः ॥ न मुञ्चतीति नमुचिः । नाम्युपधात्किरिति किः ॥ न कुलमस्येति नकुलः ॥ न खं छिद्रमस्येति नखः ॥ न स्त्रीपुंसौ इति नपुंसकः । स्त्रीपुंसयोः पुंसकभावो निपातनात् ॥ न क्षरतीति नक्षत्रम् । 'क्षर संचलने ।' भ्वादि: । निवासगत्योस्तुदादिः । अनयोः क्षत्रमिति निपात्यते । न कामतीति नः । डप्रत्ययः ॥ न अकमस्मिन्निति नाकः ॥ न एकधा नैकधा ॥ इति तत्पुरुषः ॥
ין
( तत्वदी ० ) - निरनुबन्धकस्येति ॥ निर्गतोऽनुबन्धो यस्येति निरनुबन्धकः । तस्येत्यर्थः । लक्ष्यानुसाराच्च व्यवस्था । तस्य समासो नित्यः ॥ इति तत्पुरुषः ॥
( चार्थे द्वन्द्वः) समुच्चयान्वाचयेतरेतरयोगसमाहाराश्वार्थाः ॥ तत्रेश्वरं गुरुं च भजस्वेति प्रत्येकमेकक्रियाभिसंबन्धः समुच्चयः ॥ बटो भिक्षामट गां चानयेति क्रमेण क्रियाद्वय संबन्धोऽन्वाचयः || मिलितयोरेकत्रान्वय इतरेतरयोगः ॥ संहतिः समाहारः । तत्राद्ययोर्न समासोऽस्त्यनन्वयात् ॥
(सुबोधिनी ) - चार्थे द्वन्द्वः ॥ चस्यार्थश्चार्थः । जातावेकवचनम् । चार्थाश्चत्वारः । प्रत्येकमेकक्रियाभिसंबन्धः समुच्चयः । एकमेकं प्रतीति प्रत्येकम् । परस्परं निरपेक्षस्यानेकस्यैकक्रियायामन्वय इत्यर्थः । त्वमीश्वरं गुरुं च भजस्वेत्यत्र भजनक्रियायाम् ईश्वरवः प्रत्येकं संबन्धात्समुच्चयः । एकक्रियायामित्युपलक्षणम् । तेन परस्परनिरपेक्षस्यानेकस्यैकस्मिन् संबन्धिन्यन्वयः समुच्चय इत्यर्थः । राज्ञो गजश्चाश्वश्वा द्रव्ये द्रव्ययोः समुच्चयः । पटः शुक्लो रक्तश्चात्र द्रव्ये गुणयोः समुच्चयः । रक्तः पटः कम्बलश्चात्र गुणे द्रव्ययोः समुच्चयः । अनेके एकस्मिन्समुच्चीयते इति समुच्चयः ॥ क्रमेण क्रियाद्वयसंबन्धोऽन्वाचयः । परस्परनिरपेक्षस्यानेकस्य क्रियाइयेऽन्वयोऽन्वाचयः । यदैकस्यप्राधान्यात् तदनुरोधेन त्वितरदन्वाचीयते तदाऽन्वाचयः । यथा । भिक्षाट गां चानयेत्यत्र भिक्षाटनस्य प्रतानता गवानयनस्य त्वानुषङ्गिकता मिलितयोर्मिलितानां वैकक्रियान्वय इतरेतरयोगः । परस्परसापेक्षकस्यानेकस्यैकक्रि
Page #271
--------------------------------------------------------------------------
________________
[ समासप्र० ]
टीकाद्वयोपेता ।
( २५५ )
यायामन्वय इतरेतरयोगः ॥ संहतिः समाहारः । परस्परसापेक्षस्यानेकस्य समूहरूपेणान्वयः समाहार इत्यर्थः ॥ चार्थे इन्द्वससासो भवति । द्वौ द्वावर्थी अभिदधात्ये कोस्मिन्निति द्वन्द्वः । बहूनामप्युपलक्षणमिदम् । ननु द्वन्द्वसंज्ञायाः किं प्रयोजनम् । उच्यते । द्वन्द्वतत्पुरुषयोः परपदस्यैव लिङ्गमिति द्वन्द्वेऽल्पस्वरप्रधाने कारोकारान्तानां पूर्वनिपात इति 'ऋतां इन्द्रे' पूर्वपदस्याऽऽत्वमित्यादि च प्रयोजनम् ॥ आद्ययोः समुच्चयान्वाचययोः समासो न । परस्परसाहित्याभावात् । अन्ययोः समाहारेतरेतरयोगयोः समासोऽस्ति । परस्परसाहित्य सत्त्वात् । इतरेतरयोगे साहित्यं विशेषणं द्रव्यं विशेष्यम् । समाहारे तु साहित्यं प्रधानं द्रव्यं विशेषणं साहित्यप्रधानत्वादेकवचनम् ॥
( तवदी ० ) - चार्थे द्वन्द्व इति ॥ चस्थार्थश्चार्थस्तस्मिन् । जातावेकवचनम् । चार्थानाह - समुच्चयेत्यादि । यदा परस्परनिरपेक्षाः पदार्थाः एकस्मिन्संबन्धिनि समुच्चीयन्ते तदा समुच्चयः । तत्स्वरूप निरुपपन्नान्वय योग्यत्वाभावात्समासाभाव इत्याहतत्रेति ॥ तेष्वर्थेष्वत्यर्थः । ईश्वरं भजस्व गुरुं च भजस्वेत्येकस्या एव भजनक्रियाया ईश्वरगुरुभ्यां प्रत्येकं संबन्धात्समुच्चयः । यदा त्वेकस्याप्राधान्यात्तदनुरोधेन त्वितरदन्याचीयते तदाऽन्वाचयः । तदाह - बटो भिक्षामटेति । अत्र प्रधानं भिक्षाटनं गवानयनं त्वप्रधानम् । अदर्शनाद्वामनानयन्नप्यत्येव मिक्षां भिक्षामनटंस्तु न गामानयति । अटन्नपि नान्विष्य गामानयति ॥ मिलितयोरिति ॥ परस्परसापेक्षयोरवयवप्राधान्येन एक क्रियायामन्वयः इत्यर्थः॥ संहतिरिति ॥ परस्परसापेक्षाणामेवावयवभेदतिरोधानेन संहतिरूपेणान्वय इत्यर्थः॥ तत्राद्ययोरिति ॥ समुच्चयान्वाचययोरित्यर्थः । अनन्वयादिति ॥ अन्वयः परस्परसापेक्षत्वं तदभावादित्यर्थः ॥
( इन्द्रेऽल्पस्वरप्रधाने कारोकारान्तानां पूर्वनिपातः ) पटुश्व गुप्तश्व पटुगुप्तौ । अभिश्व मारुतश्व अग्निमारुतौ । भोक्तृभोग्यौ । धवखदिरौ । इन्द्राश्वरथाः । तापसपर्वतौ ॥
(सुबोधिनी)- द्वन्द्वेऽल्पस्वरप्रधानेकारोकारान्तानां पूर्वनिपातः ॥ द्वन्द्वे ऽल्पस्वरशब्दस्य पूर्वनिपातः ॥ यथा धवश्च खदिरश्च धवखादिरौ । समासेनोक्तार्थत्वाच्चशब्दाप्रयोगः ||
( तत्त्वदी ० ) - पूर्वनिपात नियममाह - द्वन्द्व इति ॥ अल्पस्वरत्वं समस्यमानपदापेक्षया ॥ पटुश्चेति ॥ समासनेोक्तार्थत्वाच्च शब्दाप्रयोगः । अनेकप्राप्तावेकस्य नियमः ॥ हरिगुरुहराः ॥ (इन्द्रे स्वराद्यदन्तस्य पूर्वनिपातः ) ईशकृपणौ ॥
Page #272
--------------------------------------------------------------------------
________________
(२५६) सिद्धान्तचन्द्रिका। [ समासप्र०]
(सुबोधिनी)-द्वन्द्वे स्वराद्यदन्तस्य पूर्वनिपातः ॥ स्वर आदिर्यस्य स स्वरादिः । अत् अन्ते यस्य सोऽदन्तः । स्वरादिश्वासावदन्तश्च स्वराद्यदन्तस्तस्य ।। ईशश्च कृष्णश्च ईशकृष्णौ ॥ बहूनां द्वन्द्व नियमो न । इन्द्राश्वरथा:-अश्वरथेन्द्रा वा।। प्रधानस्य पूर्वनिपातो यथा तापसश्च पर्वतश्च तापसपर्वतौ ॥ भोक्ता च भाग्यश्च भोक्तृभोग्यौ ॥ इकारोकारान्तानां पूर्वनिपातो यथा । पटुश्च गुप्तश्च पटुगुप्तौ । अग्निमारुतौ ॥
(तत्त्वदी० )-स्वराद्यदन्तस्येति ॥ स्वर आदिर्यस्य स स्वरादिः । अत् अन्ते यस्य सोऽदन्तः । स चासौ स चेति स तस्येत्यर्थः ।।
(देवताद्वन्द्वे पूर्वपदस्याकारः ) इन्द्राबृहस्पती । अमाविष्णू ॥ (सुबोधिनी )-देवताद्वन्द्वे पूर्वपदस्याकारः ॥ इन्द्रश्च बृहस्पतिश्च इन्द्राबृहस्पती । अग्निश्च विष्णुश्च अग्नाविष्णू ॥
(तत्त्वदी० )-देवताद्वन्द्वे पूर्वपदस्याकार इति ॥ यत्तु प्राचा देवताद्वन्द्वे पूर्वपदस्य दीर्घ इत्युक्तम् । यच्च तद्वासुदेवेन व्याख्यातं देवतावाचकानामन्योऽन्यद्वन्द्वसमासे पूर्वपदान्त्यस्वरस्य दीर्घो वक्तव्य इत्यर्थ इति । तत्सर्वमनाकरत्वादुपेक्षितम् ॥ तथा च पाणिनिः'देवताद्वन्द्वे च' इहोत्तरपदे परे आनङ् । अमाविष्णू इत्यादावात्वमेवोक्तवान् ॥
(क्वचिन ) अभिवायू । ( सुबोधिनी ) क्वचिन ॥ देवताद्वन्द्वे पूर्वपदस्यात्वं न भवति क्वचित् ॥ अग्निवायू वाय्वनी वा ॥
(तत्त्वदी० )-क्वचिन्नेति ।। ज्ञापकसिद्धं न सर्वत्रेत्युक्तेः । ज्ञापितं चैतत् द्वन्द्वसंज्ञासा. मर्थ्यात् । अन्यथा चार्थत्वेनैव व्यवहारः स्यात् ॥ इति द्वन्द्वः ॥
(ईदग्नेः सोमवरुणयोः ) (सुबोधिनी )-ईदग्नेः सोमवरुणयोः ॥ आत्वस्यापवादोऽयम् । देवताबन्दे पूर्वपदस्य अग्नेरीत् स्यात् सोमवरुणयोः परयोः॥ ।
(अग्न्यादेः सोमादीनां सस्य षः ) अग्नीषोमौ । अनीवरुणौ ॥ (सुबोधिनी )-अग्न्यादेः सोमादीनां सस्य षः ॥ अग्नीषोमौ । आदिश. न्दात् अग्निः स्तूयतेऽस्मिन्नित्यधिकरणे क्विम् । अग्निष्टुत् यज्ञविशेषः ॥ अग्नीनां स्तोम इति अग्निष्टोमः सोमयज्ञस्य संस्थास्वाद्यसंस्था । ज्योतिष्टोमः । अयाष्टोमः। अङ्गुलिषङ्गः । भीरुष्ठानमित्यादि ॥ प्राणितूर्यसेनाङ्गानां द्वन्द्व एकवत् । प्राणितूर्य
Page #273
--------------------------------------------------------------------------
________________
[ समासप्र० ] टीकाद्वयोपेता।
(२५७) सेनानामङ्गानि प्राणितूर्यसेनाङ्गानि तेषाम् । अङ्गशब्दः प्रत्येकमन्वेति इन्दान्ते श्रूयमाणत्वात् । प्राण्यङ्गानां प्राण्यंगैः सह सेनांगानां सेनांगैः सह यो द्वन्द्वः स एकवद्भति । एकेन द्वन्दे त्वेकवद्भावो न । यथा । मार्दगिकाश्वारोही । प्राण्यंगे दन्ताश्च ओष्ठौ च दन्तोष्ठम् । तूर्यागे मृदंगवादन शिल्पमस्येत्यर्थ इकप्रत्ययः । णितो वेति वृद्धिः ॥ प्रणुवन्ति स्तुति कुर्वन्त्यननति पणवो गायनपटहः। 'णु स्तुतौ' अस्मात्स्वराद इत्यप्रत्ययः। प्रोपसर्गस्य निपातनादेफलोपे नस्य णत्वे च पणव इति । पणववादनं शिल्पमस्येतीकप्रत्ययः । मार्दगिकश्च पाणविकश्च मार्दगिकपाणविकम् ॥ सेनांगे रथेन चरन्ति इति रथिकाः। चरतीत्यर्थ इकः । रथिकाच अश्वारोहाश्च तेषां समाहारो रथिकाश्वारोहम् ॥ ननु समाहारस्यैकत्वादेकवे सिद्धे किमथेमिदम् उच्यते । प्राण्यंगादीनां प्राण्यंगादिभिः समाहार एव यथा स्यादिति नियमार्थमिति ॥ प्राणिवर्जजातिवाचिनां क्षुद्रजन्तूनां च द्वन्दे एकवत् । धानाश्च शष्कुल्यश्च तासां समाहारो धानाशष्कुलि ॥ प्राणिनां तु विट्शूद्राः ॥ द्रव्यजातिरेवात्र ग्राह्या । तेन रूपरसावित्यादौ न । यूकाश्च लिक्षाश्च यूकालिक्षम् ॥ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् । वृक्षादिसप्तानां भेदकानां पर्यायाणामश्ववडवत्यादीनां त्रयाणां च द्वन्द एकवद्वा ॥ भूताश्च अशोकाश्च तेषां समाहारी भूताशोकम्-भूताशोकाः ॥ रुरवश्च पृषताश्च तेषां समाहारो रुरुपृषतम्रुरुपृषताः ॥ कुशाश्च काशाश्च तेषां समाहारः कुशकाशम्-कुशकाशाः ॥ व्रीहयश्व यवाश्च तेषां समाहारो व्रीहियवम्-व्रीहियवाः ॥ दधि च घृतं च तयोः समाहारा दधिघृतम्-दधिवृते ॥ गावश्च माहिषाश्च तेषां समाहारो गोमहिषम्-गोमहिषाः॥ शुकाश्च बकाश्च तेषां समाहारः शुकवकम्-शुकबकाः ॥ अश्वश्च वडवा च तयोः समाहारोऽश्ववडवम्-अश्ववडवी । अश्ववडवयोईन्द्रः । पूर्वा च अपरा च तयोः समाहारः पूर्वापरम्-पूर्वापरे। अधरा च उत्तरा च तयोः समाहारोऽधरोत्तरम्-अधरोत्तरे॥ कलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिद्वन्द एकवत् । एषां बहुवचनान्ता प्रकृतिः कारणं यस्य स बहुप्रकृतिईन्छ एकवद्भवतीति नियम्यते । बदराणि च आमलकानि चेति बदरामलकम् । प्राणिवर्जजातीत्यनेन एकवद्भावे प्राप्ते नियमः ॥ रथिकाश्चाश्वारोहाश्चेति रथिकाश्वारोहम् । सेनाङ्गत्वान्नित्ये एकवद्भावे प्राप्त नियमः ॥ प्लक्षाश्च न्यग्रोधाश्चेति प्लक्षन्यग्रोधम् । विभाषा वृक्षेति वैकल्पिके एकवद्भावे प्राप्त नियमः ॥ रुरवश्च पृषताश्चेति रुरुपृषतम् ॥ शुकाश्च बकाश्चति शुकबकम् । विभाषेति वैकल्पिके एकवद्भावे प्राप्ते नियमः ॥ नकुलपर्यन्ताः क्षुद्रजन्तवः॥ यूकाश्च लिक्षाश्चेति यूकालिक्षम् । क्षुद्रजन्तूनामित्येकवद्भावे प्राप्त नियमः ॥व्रीहयश्च यवाश्चति व्रीहियवम् ॥ कुशाश्च काशाश्चेति कुशकाशम् । अत्रापि विभाषेति वैकल्पिके एकवद्भावे प्राप्त नियमः । द्विप्रकृतौ एकवचनान्तयोईयोः प्रकृत्योर्द्वन्द्वे
Page #274
--------------------------------------------------------------------------
________________
(२५८) सिद्धान्तचन्द्रिका। [समासप्र० ] नास्त्येकवद्भाव इत्यर्थः ॥ बदरामलके रथिकाश्वारोही प्लान्यग्रोधौ रुरुपृषतौ शुकबकौ यूकालिक्षे त्रीहियवौ कुशकाशाविति ॥ ऋता द्वन्दे पूर्वपदस्यात्वमिति वक्ष्यमाणेनात्वम् । 'उद्गातृनप्त' इत्यनेनार। होतापोतारौ ॥ 'पञ्च' इत्यनेनार् । मातापितरौ ॥ पुत्रे चेति वक्ष्यमाणेनात्वम् । पितापुत्रौ ॥ मातरपितरौ निपात्यौ । मातृशब्दस्यारङादेशो निपात्यते उदीचामाचार्याणां मते ॥ त्यदादीनि शिष्यन्ते सर्वैः शब्दै सहोक्तौ । सर्वैः शब्दैः सहोक्तानि त्यदादीनि शिष्यन्तेऽन्यानि पदानि लुप्यन्ते द्वन्दे इत्यर्थः॥
(समाहारे एकवद्भावः) ( सुबोधिनी)-समाहारे एकवद्भावः ॥ एकवद्भवनमित्येकवद्भावः ॥ ..
(एकत्वे द्विगुद्वन्द्वौ ) नपुंसकलिङ्गौ भवतः ॥ पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । पदकक्रमकम् । बदरामलकम् । शशकुशपलाशम् ॥
(सुबोधिनी )-एकत्वे द्विगुद्वन्द्वौ ॥ एकत्वे वर्तमानौ द्विगुद्वन्द्वौ नपुंसकलिङ्गौ भवतः ॥ एकत्वे किम् । पञ्चकपालाः पुरोडाशाः ॥ परवल्लिङ्गापवादोऽयं विधिः ॥ पाणी च पादों च तेषां समाहारः पाणिपादम् ॥ माद्देङ्गिकश्च पाणविकश्च तयोः समाहारो माईङ्गिकपाणविकम् ॥ रथिकाश्च अश्वारोहाश्च तेषां समाहारो रथिकाश्वारोहम् ॥ पदान्यधीते इति पदकः । क्रममधीते इति क्रमकः । कप्रत्ययः। पदकश्च क्रमकश्च तयोः समाहारः पदकक्रमकम् ॥ बदराणि च आमलकानि च तेषां समाहारो बदरामलकम् ॥ शशाश्च कुशाश्च पलाशाश्च तेषां समाहारः शशकुशपलाशम् ॥ अथ समासान्तप्रत्ययाः। चवगोन्तात् दषहान्ताच्च टः समाहारे। वाक्त्वचम्। वास्रजम् । शमीषदम् । वात्विषम् । छत्रोपानहम् ॥ समाहार किम् । प्रवृट्शरदौ । अहःपूर्वाद्रात्रिशब्दादः समाहारे।अहश्च रात्रिश्च तयोः समाहारोऽहोरात्रः। रात्राहाहान्ता इति पुंस्त्वम् ॥ इति द्वन्दः ॥
( संख्यापूर्वी द्विगुः ) तद्धितार्थे । पञ्चकपालः ॥ (सुबोधिनी)-संख्यापूर्वो द्विगुः ॥ संख्या पूर्वा यस्य स संख्यापूर्वः समासो द्विगुसंज्ञो भवति ॥ समाससंज्ञाफलं समासप्रत्यययोरिति । द्विगुसंज्ञाफलमेकत्वे द्विगुद्वन्द्वाविति ॥ द्वौ गावौ शब्दो यस्मिन्नित्यन्वर्थसंज्ञावलात् द्वयोरेव : द्विगसमाहारे द्विगावेकवद्भावः । तद्धितार्थे द्विगौ तु नैकवद्भावः । किंतु विशेषनिघ्नता ॥ पञ्चसु कपालेषु संस्कृतः पुरोडाशः । संस्कृतार्थेऽण् । लुग बहुत्वे क्वचिदित्यत्र क्वचिद्रह
Page #275
--------------------------------------------------------------------------
________________
[ समासप्र० ] टीकाद्वयोपेता।
(२५९) णात् द्विगोलुंगनपत्ये । द्विगोनिमित्तस्याऽनपत्यार्थस्य स्वरादेस्तद्धितस्य लुग्वक्तव्य इत्यर्थो बोध्यः। पञ्चकपालः॥
(तत्त्वदी०)-संख्यापूर्वी द्विगुरिति ॥ संख्या पूर्वा यस्य सः । संख्याशब्देन च तद्वाचकपदमुच्यते । तथा च संख्यावाचकपदयोर्योऽन्वयः स समाससंज्ञो द्विगुसंज्ञश्चेत्यर्थः ॥ समाहारेऽत ईबित्यस्य वक्ष्यमाणत्वात् समाहारे एवायमिष्यते तद्धितार्थे च । यत्तत्तरपदे वेत्युक्त्वा पञ्च गावो धनमस्येति विगृह्य पञ्चगवधन इति सिद्धये वासुदेवादिभिः पाणिनीयानुसारणोत्तरपदविषयत्वमप्यस्योक्तम् । तदिहानुपयोगीत्युपक्षितम् । तत्र तस्य स्वरार्थत्वात् स्वरस्यात्राव्युत्पादनात् । पञ्चानां गवां समाहारः पञ्चगवम् । टाडका इत्यः । एतद्धनमस्येति द्विगुगर्भबहुव्रीहिणा गतार्थत्वाच्च । अत्राहुः । द्वयोः पुत्रो द्विपुत्रः । द्वौ च दश च द्वादश । द्वौ पुत्रौ यस्य स द्विपुत्र इत्यादौ परत्वात्तत्पुरुषद्वन्द्वबहुव्रीहिसंज्ञा भवन्तीति । अत्रेदमवधेयम् । द्विगुसमासस्य समाहारतद्धितार्थयोरेव विधानादत्र तदभावादेवाप्राप्तौ किं परत्वानुधावनक्लेशेनेति विभाव्यम् ॥ पश्चकपाल इति ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः ॥ एवं चतुरो वेदानधीते चतुर्वेदः । अत्र संस्कृतादिष्वणादिः। तस्य लुग्बहुत्वे क्वचिदिति लुक् । यद्वा तद्धितार्थस्य द्विगुनैवोक्तत्वात्तद्धितार्थयोरप्रयोगः ॥
( समाहारेऽत ईप् द्विगुः ) समाहारेऽथ द्विगुः समासो भवति ततोऽकारान्तादीप् प्रत्ययः ॥ दशानां ग्रामाणां समाहारो दशयामी । पञ्चानि ॥
(सुबोधिनी)-समाहारेऽत ईयू द्विगुः ॥ समाहरणं समाहारः। भावे घञ् । समाहारे राशीकरणेऽर्थे द्विगुः समासो भवति । अदन्तात् द्विगोः स्त्रियामीप् ॥ दशानां ग्रामाणां समाहारा दशग्रामी। यस्येत्यलोपः ॥ ननु विप्रकीर्णानामेकत्र राशीकरणं समाहारार्थः। स च दशानां ग्रामाणां न संभवति । उच्यते । एकक्रियायां समन्वयात् बुद्धया राशीकरणस्य संभवात् । उदाहरणम् । पञ्च अग्नयः समाहृता इति पञ्चाग्नि ।।
(तत्त्वदी०)-समाहारेऽत ईप द्विगुरिति ॥ स औत्तराधर्य राशीकरणं समाहारः॥ दशग्रामीति ॥ ननु विप्रकीर्णानामेकत्र राशीकरणं समाहारार्थः । स च ग्रामाणां न संभतीति चेत् एकक्रियायां समन्वयाद् बुद्धया राशीकरणसंभवात् ॥
(कचिन ) पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥ आबन्ताहा ॥ पञ्चखट्टी-पञ्चखटम् ॥
(सुबोधिनी -क्वचिन्न ॥ क्वचिददन्तात् द्विगोरीप् न स्यात् ॥ पञ्चानां पात्राणां समाहारः पञ्चपात्रम् ॥ चतुणी युगानां समाहारः चतुर्युगम् ॥ त्रयाणां भुवनानां समाहारः त्रिभुवनम् ॥ समासान्तानग्रे वक्ष्यामि ॥ इति द्विगुः ।।
Page #276
--------------------------------------------------------------------------
________________
(२६०)
सिद्धान्तचन्द्रिका। [समासप्र०] (तत्त्वदी० )-अत्र वौर्गुणादित्यतो वेत्यस्यानुवृत्तस्तस्य च व्यवस्थितत्वात्-क्वचित्रेति॥ एकापूपमित्यत्र तु दरिद्रस्यैकस्मिन्ननेकत्वारोपेणारोपितबहुत्वाश्रये समाहारे द्विगुः ॥ त्रिलोकनाथ इत्यादौ तु व्यवयवो लोकस्त्रिलोकस्तन्नाथ इत्येवं प्रकारः ॥ इति द्विगुः ॥
(बहुव्रीहिरन्यार्थ) अन्यपदार्थे योऽन्वयः स बहुव्रीहिसंज्ञः॥ (सुबोधिनी)-बहुव्रीहिरन्यार्थे ॥ बहुव्रीहिरित्यस्य पूर्वोच्चारणसामर्थ्यादन्यपदार्थाभावेऽपि बहुव्रीहिः कुत्रचिद्भवति ॥ यथा दो वा त्रयो वा वित्राः । पञ्च वा षट् वा पञ्चषाः॥ द्वौ वा दश वा द्विदशाः ॥ त्रयश्च दश वा त्रिदशाः ॥ डप्रत्ययान्तानेतानग्रे प्रवक्ष्यामि । पदानां समासविधानादन्यशब्देन पदं गृह्यते । अन्यस्य समस्यमानपदाद्भिन्नस्य पदस्यार्थः अन्यार्थस्तस्मिन् । अमादावित्यस्यानुवर्तनात् द्वितीयाद्यन्तं विशेषणं कर्तव्यम् । अत्र हि द्वितीयाद्यन्तपदेन प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः कर्मादिभिरभिधीयते । प्रथमान्तेन तु प्रातिपदिकार्थमात्रम् यद्यपि त्रिकपक्षे संख्या प्रत्ययार्थस्तथापि तस्याः प्रकृत्यर्थे प्रति विशेषणत्वान्न प्रकृत्यर्थोपसर्जनकः प्रत्ययार्थः प्रथमान्तस्यास्ति । एवं च द्वितीयान्ताद्यर्थे इति स्थितम् । तथा परिशेषात् समस्यमानं प्रथमान्तमेव लब्धम् । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समा• नाधिकरणानामिति च फलितम् । अनेकं प्रथमान्तमप्रथमार्थेऽन्यार्थे वर्तमानं समस्यते स बहुव्रीहिः । समस्यमानपदेतरपदार्थे समस्यमानपदानामन्वयो बहुव्रीहिरित्यर्थः॥ कण्ठेकाल इत्यादिस्तु बहुव्रीहौ विशेषणसप्तम्यन्तक्तान्तानामिति ज्ञापकाद्भवतीत्यर्थः । अतः सः द्विधा । समानाधिकरण एव व्यधिकरणस्तु कुत्रचित् सम्भवति समानाधिकरणे वैयधिकरण्यस्यान्याय्यत्वमित्युक्तत्वात् । किश्च बहुव्रीहितत्पु. रुषयोर्विषयविभागो यथा विज्ञायेत एतदर्थं सूत्रेऽन्यग्रहणं कृतम् । द्वितीयाद्यन्तमन्यपदार्थ क्रमेणोदाहरति । प्राप्तमुदकं यमिति समासोक्तत्वात् कर्मादौ प्रथमा। प्राप्तोदको ग्रामः । उढो रथो येन स ऊढरथोनड्वान् । उपहृतः पशुर्यस्मै स उपहृतपशू रुद्रः । उद्धत ओदनो यस्याः सा उद्धतौदना स्थाली । पीतम् अम्बरं यस्य स पीताम्बरः । वीरः पुरुषो यस्मिन् स वीरपुरुषो ग्राम इति ।।
(तत्त्वदी० )-बहुव्रीहिरन्यार्थे इति ॥ अन्यस्य समस्यमानपदाद्भिन्नस्य पदस्यार्थः अन्यार्थस्तस्मिन् । यद्वा । अन्यस्याः प्रथमाभिन्नाया विभक्तरर्थः अन्यार्थस्तस्मिन् । यद्वा तन्त्रा. दिना उभयमपि । तथा चाप्रथमार्थे बहुव्रीहिः ॥
( बहुव्रीहौ विशेषणसप्तम्यन्तक्तान्तसदिसंख्यानां पूर्वनिपातः) बहु धनं यस्य स बहुधनः । अस्तिधनः । लम्बकर्णः । कण्ठेकालः । वहेगडुः । कृतकटः । सर्वप्रियः द्विपुत्रः ॥
Page #277
--------------------------------------------------------------------------
________________
[ समासप्र० 1
टीकाद्वयोपेता ।
( २६१ )
( सुबोधिनी ) - बहुव्रीहौ विशेषणसप्तम्यन्तत्तान्तसर्वादिसंख्यानां पूर्वनिपातः ॥ बहुव्रीहौ विशेषणं सप्तम्यन्तं क्तान्तं च पूर्वं प्रयोज्यम् । विशेषणं यथा । बहुधनः ॥ अस्तीति सत्तार्थेऽव्ययम् । अस्ति धनं यस्य सोऽस्तिधनः ॥ लम्बौ कर्णौ यस्य स लम्बकर्णः ॥ सप्तम्यन्तं यथा । कंठेकालः । वहेगड्डुः । सप्तम्या अलुग ॥ क्तान्तं यथा । कृतः कटो येन स कृतकटः ॥ सर्वादिः संख्या च यथा । बहुव्रीहौ सर्वादिगणः संख्या च पूर्वं प्रयोज्या । सर्वः प्रियो यस्य स सर्वप्रियः । द्वौ पुत्रौ यस्य स द्विपुत्रः ॥ त्रिपुत्रः ॥
( तत्त्वदी ० ) - बहुव्रीहि संज्ञाप्रयोजनं पूर्वनिपातनियममाह - बहुव्रीहाविति ॥ सर्वादिसंख्ययोस्तु संख्यायाः । त्र्यन्यः ॥ संख्ययोस्त्वल्पीयस्याः । द्वित्राः || बहुधन इति ॥ अतगुणसंविज्ञानोऽयम् || तस्यान्यपदार्थस्य गुणाः विशेषणानि समस्यमानपदार्थाः कार्यभाक्त्वेन संविज्ञायन्तेऽस्मिन्निति तद्गुणसंविज्ञानस्वदन्योऽतद्गुणसंविज्ञानः ॥ अस्तिधन इति ॥ अस्त तिबन्तप्रतिरूपकमव्ययम् । समासे भिन्नां शक्तिं मन्वानानां वैयाकरणानां मतं द्रढयितुं वाक्यसमासयोः शाब्दबोधे भेदः प्रदश्यते । तथाहि । प्राप्तमुदकं यमित्यस्य यत्कर्मकप्राप्तिकर्तृ उदकमिति बोधः ॥ प्राप्तोदक इत्यस्य उदककर्तृकप्राप्तिकर्मीभूतो ग्राम इति बोधः ॥ एवं प्राप्तानन्दः ॥ ऊढो रथो येनेत्यस्य यदाश्रयवहनसाध्यदेशान्तरप्राप्त्याश्रयो रथ इति बोधः ॥ ऊढरथ इत्यस्य तु रथकर्मकवहनाश्रयोऽश्वः ॥ छिन्नः वृक्षो येनेत्यस्य यत्करणकद्वैधीभावाश्रयो वृक्षः। छिन्नवृक्ष इत्यस्य वृक्षाश्रयद्वैधीभावानुकूलव्यापाराश्रयः कुठारः ॥ उपहृतः पशुर्यस्मै इत्यस्य यदुद्देश्यकोप हरणाश्रयः पशुरिति । उपहृतपशुरित्यस्य तु पशुकर्मकोपहारोद्देश्यो रुद्रः । एवं दत्ताः सूर्यः ॥ उद्धृतमन्नं यस्मादित्यस्य यवदधिकोद्धरणाश्रयोन्नमिति बोधः ॥ उदूधृतान्न इत्यस्यान्नकर्मोद्धरणावधिः कटाहः ॥ पीतमम्बरं यस्येत्यस्य यत्संबन्धि पीताभिन्नमम्बरमित्यर्थः ॥ पीताम्बर इत्यस्य तु पीताभिन्नाम्बरः स्वामीत्यर्थः । एवं चित्रगुरित्यस्य ॥ वीराः पुरुषा यस्मिन्नित्यस्य यदाधारसत्ताश्रयवीराभिन्नाः पुरुषा इति बोधः ॥ वीरपुरुष इत्यस्य तु वीराभिन्नपुरुषसत्ताश्रयो ग्राम इति ॥
( क्वचिन्न ) चन्द्रशेखरः । पद्मनाभः । दन्तजातः । ऊरुभिन्नः ॥
( सुबोधिनी ) - क्वचिन्त्र ॥ बहुव्रीहौ क्वचिद्विशेषणसप्तम्यन्तत्तान्तानां पूर्वनिपातो न भवति ॥ चन्द्रः शेखरे यस्य स चन्द्रशेखरः ॥ पद्मं नाभौ यस्य स पद्मनाभः । टाडका इत्यनेनाप्रत्ययः ॥ दन्ता जाता यस्य स दन्दजातः ॥ ऊरू भिन्नौ यस्य स ऊरुभिन्नः ॥
( तत्त्वदी ० ) - क्वचिनेति ॥ ज्ञापक सिद्धस्यासार्वत्रिकत्वादिति भावः ॥
( क्वचिद्वा ) प्रियगुडः । गुडभियः । आहिताग्निः । अग्न्याहितः । अस्युद्यतः । उद्यतासिः ।
Page #278
--------------------------------------------------------------------------
________________
( २६२ )
सिद्धान्तचन्द्रिका |
[ समासप्र० ]
( सुबोधिनी ) - क्वचिद्वा ॥ बहुव्रीहौ कचिद्विशेषणसप्तम्यन्तत्तान्तानां वा पूर्वनिपातो भवति ॥ प्रियो गुडो यस्य स प्रियगुडः । गुडप्रियो वा ॥ आहितः अग्नियैन स आहिताग्निः । अग्न्याहितो वा ॥ असिरुद्यतो येन स उद्यतासिः । अस्युद्यतो वा ॥
( नञदुः सुभ्यः प्रजामेधयोरसुक् ) अप्रजाः । दुर्मेधाः । सुप्रजाः ॥ (सुबोधिनी ) - नञदुः सुभ्यः प्रजामेधयोरसुकू ॥ नजादिभ्यः पराभ्यां प्रजामेधाभ्यामसुकू प्रत्ययः स्याद्बहुव्रीहौ ॥ न प्रजा यस्य सः । ना इत्यनेनादादेशः । असुकूप्रत्यये यस्य लोप इत्यालोपः । अत्वसोरिति दीर्घः । अप्रजाः ॥ दुःप्रजाः ॥ सुप्रजाः || अमेधाः ॥ दुर्मेधाः ॥ सुमेधाः । अल्पमेधस इति काशिका |
(तत्त्वदी ० ) नञ्दुः सुभ्य इति ॥ नन्दुःसुभ्यः परयोः प्रजामेधाशब्दयोर सुगागमो बहुव्रीहावित्यर्थः ॥ अप्रजा इति ॥ न प्रजा यस्येति विग्रहेऽसुकि यस्येत्यालोपे अत्वसोः साविति दीर्घे रूपसिद्धिः । एतच्च प्राचामनुरोधेन । वस्तुतस्तु प्रजामेघाभ्यामसित्येव वक्तुमुचितम् । तथा चास् प्रत्यय एव न त्वागमः । एतेन यद्यप्यसुक उकारानुबन्धत्वादूत्रितो नुमिति नुम् प्राप्नोति तथापि वाऽऽदीपोः शत्रुरित्यतो वानुकर्षणान्नेति वासुदेवोक्तिः प्रत्युक्ता ॥
(धर्मादन् ) सुधर्मा । रूपवती भार्या यस्य ॥
( सुबोधिनी ) - धर्मादन् ॥ धर्मशब्दादन् प्रत्ययः स्यात् द्विपदबहुव्रीहौ ॥ सुष्ठु धर्मो यस्य स सुधर्मा ॥ ननु अकारो व्यर्थः नप्रत्ययेनैव रूपसिद्धरिति चेत् । उच्यते । धर्मं करोत्याचष्टे वेति धर्मनाम्नो ञिर्डित्करणे इति ञ्यन्तात् क्विपि धर्मिति । परमो धर्म यस्य एकदेशविकृतस्यानन्यत्वात् अन् । स परमधर्मा । इत्याद्यर्थमकारोच्चारणं बोध्यम् ॥
( तत्व ० ) -
O
दिति ॥ केवलात्पूर्वपदात्परो यो धर्मशब्दस्तदन्ताद्बहुव्रीहेरन्प्रत्यय इत्यर्थः ॥ केवलात्किम् । परमः स्वो धर्मो यस्येति त्रिपदे बहुवीहौ मा भूत् । यत्तु वासुदेवे - नोक्तम् । केवलात्यदाद्यः केवलो धर्मशब्दस्तस्मादनुप्रत्ययो वक्तव्य इत्यर्थः ॥ तेनेह न । परमः स्वो धर्मः परमः स्वधर्मो वा यस्य स परमस्वधर्म इत्यत्रेति तन्न । आद्ये परमस्व इस्यस्य कर्म - धारयेणैकपद्यात्केवलमस्त्येव । अन्ते धर्मशब्दस्य केवलविशेषणत्वं व्यर्थम् । धर्मशब्दस्य बहुत्रीह्यवयवी भूतपूर्वपदात्परत्वस्याभावात् । उक्तं च दीक्षितैरपि संदिग्धसाध्यधर्मेत्यादौ तु कर्मवारयपूर्वपदो बहुव्रीहिः । एवं परमस्वधर्मेत्यपि साध्वेवेति ॥
( अन्यार्थे ) स्त्रीप्रत्ययान्तस्यान्यार्थे वर्तमानस्य ह्रस्वः ॥
( सुबोधिनी ) - अन्यार्थे | अन्यार्थे गौणत्वं वर्तमानस्य स्त्रीप्रत्ययान्तस्य नाम्नो ह्रस्वो भवति ॥ स्त्रीप्रत्ययस्यति किम् । अतिलक्ष्मीः | अतिचमूः ॥ गौणत्वे किम् ।
Page #279
--------------------------------------------------------------------------
________________
[ र मास०] टीकाद्वयोपेता।
(२६३) राजकुमारी । ब्रह्मविद्या ॥ किंच नपुंसकात्स्यमोटुंगित्यतो लुगित्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तथाहि अन्यस्य तद्वितस्यार्थे वर्तमानं यत् स्त्रीप्रत्ययान्तं तदवयवस्य स्त्रीप्रत्ययस्य लुक् स्यात् । यथा पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः ॥ पञ्चभिर्तीह्मणीभिः क्रीतः पञ्चब्राह्मणः ॥ पञ्चभिरिन्द्राणीभिः क्रीतः पञ्चेन्द्रः ॥ पञ्च आनाय्यो देवता अस्येति पञ्चाग्निः ॥ पञ्च मनाय्यो देवता अस्येति पञ्चमनुः ॥ अत्र हि संख्यापूर्वो द्विगुरित्यनेन तद्धितार्थे द्विगुः । ततोऽण प्रत्ययः । तस्य लुग बहुत्वे क्वचिदित्यनेन लुकू तद्धितार्थे गौणस्य स्त्रीप्रत्ययस्यानेन लुक् क्रियते इत्यर्थः ॥ रूपवती भायों यस्यति लौकिकविग्रहः ॥
(तत्त्वदी )-अन्यार्थे इति ॥ अन्यस्यार्थः अन्यार्थस्तस्मिन् । वर्तमानस्येत्यध्याहार्ये कारकविभक्तः क्रियान्वयस्य नियमात् । ह्रस्वो वेत्यतो ह्रस्वानुवृत्तः स्वरस्यति लभ्यते । त्रिचतुरोरित्यतः स्त्रियामित्यनुवृत्तं तच्च विहितविशेषणमित्याशयेनाह-स्त्रीप्रत्ययान्तस्येत्यादि ।। अन्यार्थे किम् । राजकुमारी ॥ स्त्रीप्रत्ययान्तस्येति किम् । अतिलक्ष्मीः । स्त्रीप्रत्ययान्तस्येति समासविशेषणाद्विद्याफलमित्यादौ न ह्रस्वः । न चात्रान्यार्थत्वमेव कथमिति चेच्छृणु । अन्यार्थवृत्तित्वं हि गौणत्वम् । तच्चात्राप्यम्त्येव । अत्रोत्तरपदार्थस्यैव प्राधान्यात्पूर्वपदार्थस्य गौणत्वस्वीकारात् । वेत्यस्याप्यनुवृत्तेस्तस्य च व्यवस्थितत्वाश्रयणाबहुश्रेयसीत्यादौ न । यत्तु प्राचोक्तं स्त्रीलिङ्गस्येति । यच्च वासुदेवन व्याख्यातं त्रिचतुरोः स्त्रियामित्यतो विभक्तिविपरिणामेन स्त्रिया इति षष्ठयन्तमनुवर्तते इति । तन्न । अतिलक्ष्मीरित्यादावतिव्याप्तेः ॥
(पुंवद्वा) समासे समानाधिकरणे स्त्रीलिङ्गे परे पूर्वस्योक्तनपुंसकस्य स्त्रीलिङ्गस्य पुंलिङ्गस्येव रूपम् ॥ रूपवद्भायः ॥ उक्तपुंस्कस्य किम् । छायाद्वितीयः। गङ्गाभार्यः॥
(सुबोधिनी)-पुंवद्वा ॥ उक्तः पुमान् येन तदुक्तपुंस्कं तस्योक्तपुंस्कस्य स्त्रीवाचकप्रत्ययान्तस्य नाम्नः पुंवाचकस्येव रूपं भवति समानाधिकरणे स्त्रीलिङ्ग समासस्य चरमावयवे रूढमुत्तरपदं तस्मिन्नुत्तरपदे सति ॥ एकविभक्त्यन्तानाम् एकार्थनिष्ठत्वं समानाधिकरणत्वम् ॥ किंच यद्यत्र उक्तः पुमान् येन तदुक्तपुंस्कमित्युच्यते तहि कुटीभार्यः । द्रोणीभार्य इत्यादावतिप्रसङ्गः स्यात् । कुटीद्रोणीशब्दाभ्यामर्थान्तरे पुल्लिंगस्याप्युक्तत्वात् । तथा च । “कुटः कोटे शिलाकुट्टे घटे गेहे कुटी सुरा । चित्रगुच्छे कुम्भदास्योः कूटं पूरयन्त्रयोः" इति हैमः ॥ "द्रोणः पार्थगुरौ काके माने द्रोणी तु नीवृति । नौभेदे शैलसंधौ च" इति हैमः ॥ उक्तपुंस्कस्येति किम् । छायाद्वितीयः ॥ गंगा भार्या यस्य स गंगाभार्यः । अत्रानयोनित्यस्त्रीत्वम् । अलौलिकविग्रहे रूपवती स भार्या स् इति 'अन्यार्थे' इत्यनेन ह्रस्वः । पुववेत्यनेनेपोनिवृत्तिः॥
Page #280
--------------------------------------------------------------------------
________________
(२६४)
सिद्धान्तचन्द्रिका। [समासप्र०] ( उप्रत्ययान्तस्य न ) वामोरूभायः॥ (सुबोधिनी)-प्रत्ययान्तस्य न ॥ उक्तपुंस्कस्य उप्रत्ययान्तस्य स्त्रीलिंगस्य पुंवद्भावो न भवति समानाधिकरणे स्त्रीलिंगे परे ॥ वामोरूः भार्या यस्य स वामोरूभार्यः । संहतिशफलक्षणवामसहितसहादेरित्यूप्रत्ययः ।।
( पूरणार्थप्रत्ययान्ते प्रियादौ च न) कल्याणी पञ्चमी यासां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । कल्याणीप्रियः ॥
(सुबोधिनी)-पूरणार्थप्रत्ययान्ते प्रियादौ च न ॥ उक्तपुंस्कस्य स्त्रीलिंगस्य पुंवद्भावो न भवति समानाधिकरणे स्त्रीलिंगे पूरणार्थप्रत्ययान्ते प्रियादौ च परे ॥ अलौकिकविग्रहे कल्याणी स् पञ्चमी स् इति । 'अन्यार्थे' इत्यनेन हस्वः । 'पूरणार्थे पश्चादेमंट्' इति मह्प्रत्ययः । पूरणार्थप्रत्ययान्ते इत्यनेन कल्याणी इत्यत्र पुंवद्भावो न । ततः समासान्तप्रत्ययः । यस्येतीकारलोपे ततः स्त्रियामाप् । कल्याणीपञ्चमाः ॥ प्रिया मनोज्ञा कल्याणी सुभगा दुर्भगा भक्तिः सचिवा स्वसा कान्ता क्षान्ता समा चपला दुहिता वामा अबला तनया । षोडश प्रियादयः ॥ कल्याणी प्रिया यस्य स कल्याणीप्रियः॥
(तत्त्वदी०)-पुंवद्वेति || वाशब्दस्य व्यवस्थितत्वाश्रयणादप्रत्ययान्तस्य नेत्यादिकं दर्शयति कल्याणीपश्चमा इति ॥
(तरतमचरट्कल्पदेश्यदेशीयरूपपाशादौ पुंवत् ) दर्शनीयतरा । दर्शनीयतमा । दर्शनीयचरी । दर्शनीयपाशा ॥
(सुबोधिनी )-तरतमचरट्कल्पदेश्यदेशीयरूपपाशादौ पुंवत् ॥ एषु परंषु स्त्रियाः पुंवद्भवति ॥ अतिशयेन दर्शनीयेति दर्शनीयतरा । दर्शनीयतमा । तरतमेयस्विष्ठा इति तरतमौ ॥ भूतपूर्वा दर्शनीयेति दर्शनीयचरी । भूतपूर्व चरडिति चरट् । व्रित इतीप् ॥ ईषन्यूना दर्शनीयेति दर्शनीयकल्पा । दर्शनीयदेशीया । ईषदसमाप्तौ कल्पदेश्यदेशीया इति कल्पदेशीयौ ॥ प्रशस्ता दर्शनीयेति दर्शनीयरूपा । प्रशंसायां रूप इति रूपः ॥ कुत्सिता दर्शनीयेति दर्शनीयपाशा । कुत्सायां पाश इति पाशः ॥ आदिशब्दात् तस्जातीयधाथ्यादयो ज्ञेयाः । बहीषु बहुत्र बहुतः। पट्वीप्रकारवती पटुजातीया । प्रकारे जातीय इति जातीयप्रत्ययः॥ बहुधा । किंसर्वादिबहुभ्यः प्रकारे धा॥ अजाभ्यो हिता अजथ्या। अजाविभ्यां थ्य इति थ्यप्रत्ययः॥
(तत्त्वदी० )-दर्शनीयतरेति ॥ अतिशयेन दर्शनीयेति विग्रहः ॥ . . (शसि बह्वल्पार्थस्य पुंवत् ) बह्वीयो देहि बहुशः । अल्पशः ॥
Page #281
--------------------------------------------------------------------------
________________
[ समापप्र• 1
टीकाद्वयोपेता ।
(२६५)
( सुबोधिनी ) - शसि बह्वल्पार्थस्य पुंवत् ॥ बह्वल्पार्थस्य स्त्रीप्रत्ययान्तस्य पुंवद्भावो भवति शसि । बह्नीभ्य इति बहुशः । अल्पाभ्य इत्यल्पशः । बह्वल्पार्था - 11 त्कारकादिति शम् ॥
1
( त्वतलोर्गुणवचनस्य ) शुक्लाया भावः शुक्लत्वम् । शुक्लता ॥ (सुबोधिनी )--त्वतलोर्गुणवचनस्य ॥ गुणवचनस्य शब्दस्य पुंवद्भावो भवति त्वतलोः परयोः ॥
(तत्त्वदी०) --त्वतलो गुणवचनस्येति ॥ गुणवचनस्येति किम् । कर्व्यां भावः कर्त्रीत्वम् ॥ ( कुक्कुटचादीनामण्डादिषु ) कुक्कुटचा अण्डं कुक्कुटाण्डम् । मृगपदम् । मृगक्षीरम् । काकशावः ॥
(सुबोधिनी) - कुक्कुटचादीनामण्डादिषु ॥ कुक्कुय्यादीनां पुंवद्भावो भवत्यण्डादिषु परतः ॥ कुक्कुट्या अण्डमिति कुक्कुटाण्डम् । मृग्याः पदमिति मृगपदम् । मृग्याः क्षीरमिति मृगक्षीरम् । काक्याः शावः इति काकशावः ॥
( सर्वादेः समासादौ पुंवत् ) दक्षिणस्याः पूर्वस्याश्च अन्तरालं मध्ये या दिकू सा दक्षिणपूर्वा ॥ सर्वा प्रधानमस्येति सर्वमयः । सर्वा करोति सर्वकरः ॥
(सुबोधिनी) - सर्वादेः समासादौ पुंवत् ॥ सर्वादेर्गणस्य पुंवद्भावो भवति समासादी | आदिशब्दात् कृत्तद्वितयङाद्यन्तधातुषु च ॥ समासे यथा । दक्षिणस्याः पूर्वस्याश्च दिशोर्मध्ये या दिक् सा दक्षिणपूर्वा ॥ तद्धिते यथा । सर्वा प्रधानमस्येति प्राचुर्यविकारप्राधान्यादिषु मयडिति मयट् । सर्वमयः ॥ कृति यथा । सर्वां करोतीति सर्वकरः । इखखीति खः । खिति पदस्येति मुम् ॥ यङाद्यन्तधातुषु यथा । सर्वामिच्छतीति काम्यश्चेति काम्यप्रत्ययः । सर्वकाम्यः ॥
(तत्त्वदी ० ) - समासादाविति ॥ समासादिवृत्तावित्यर्थः । तथा च कृत्तद्धितसमासैकशेषधातुसंज्ञाप्रयोजकप्रत्ययेष्वित्यर्थः ॥
( यक्ष्मानिनोः पुंवत् ) एनीवाचरति एतायते । दर्शनीयां मन्यते दर्शनीयमानी चैत्रः ॥
(सुबोधिनी) - यमानिनोः पुंवत् ॥ एतयोः परतः स्त्रीलिंगस्य पुंवद्भवतेि ॥ नवचरतीति कर्तुर्यडति यङि ईपो निवृत्तौ तन्निमित्तकस्य नत्वस्यापि निवृत्तिः ।
Page #282
--------------------------------------------------------------------------
________________
(२६६) सिद्धान्तचन्द्रिका। [समासप्र०] 'ये' इति दीर्घः । एतायते ॥ दर्शनीयां मन्यते इति मनेः कतारे णिनिः। दर्शनीयमानी । प्रातिपदिकग्रहणे लिंगविशिष्टस्यापि ग्रहणमिति स्वभिन्नां कांचिद्दर्शनीयां मन्यते या सा दर्शनीयमानिनी । इहापि पुंवत् । व्रण ईप् ॥ (तत्त्वदी० )-एतायत इति ॥ ईपो निवृत्तौ तन्निमित्तकस्य नत्वस्यापि निवृत्तिः ।। ( अकतद्धिताभ्यां कोपधस्य न ) पाचिकाभार्यः । रसिकाभार्यः । (सुबोधिनी)-अकतद्धिताभ्यां कोपधस्य न ॥ अकतद्धितप्रत्ययाभ्यां कृत्वा कोपधस्य स्त्रीलिङ्गस्य पुंवद्भावा न भवति ॥ पचतीति तृवुणाविति वुण् । युवोरित्यकादेशे आवत इत्याए । काप्यत इतीत्वम् । पाचिका भार्या यस्य स पाचिकाभार्यः। 'अन्यार्थे' इति हस्वः ॥ रसोऽस्त्यस्या इति 'अइकौ च मत्वर्थे' इतीकः । रसिका भार्या यस्येति रसिकाभार्यः। 'अन्यार्थे' इति ह्रस्वः॥ एवं मद्रेषु भवा मद्रिका। भवार्थे कः । आप् । काप्यत इतीत्वम् । माद्रेकेवाचरतीति मद्रिकायते । मद्रिकां मन्यते इति मद्रिकामानिनी । अत्र यङ्मानिनारिति पुंवद्भावे प्राप्ते निषेधः ।।
(संज्ञापूरणार्थप्रत्यययोन ) दत्ताभार्यः । पञ्चमीभार्यः॥ (सुबोधिनी)-संज्ञापूरणार्थप्रत्यययोर्न ॥ अनयाः पुंवद्भावो न भवति । दत्ता भार्या यस्येति दत्तां मन्यते इति स्त्रियां पुंसि च संज्ञाभूतोऽयं दत्तशब्दो भाषितपुंस्कोऽस्ति । दत्ताभार्यः ॥ दत्तामानिनी ॥ पञ्चमी भार्या यस्येति पञ्चमीभार्यः। कुत्सिता पञ्चमीति पञ्चमीपाशा । पञ्चादेर्मडिति संख्यापूरणे मट् । पञ्चमीपाशेत्यत्र तरतमोत प्राप्ते निषेधः॥
(वृद्धिहेतोस्तद्धितस्यारक्तविकारार्थस्य न) माथुरीभार्यः ॥ अरक्ते किम् । कषायेण रक्ता कन्था काषायी । काषायी कन्था यस्य स काषायकन्थः ॥ अविकारे किम् । हेनो विकारो हैमी मुद्रिका यस्येति हैममुद्रिकः ॥
(सुबोधिनी)-वृद्धिहेतोस्तद्धितस्यारक्तविकारार्थस्य न ॥ आदिस्वरस्येति सूत्रेण विहिता या वृद्धिस्तस्या हेतुर्यस्तद्धितोऽरक्तविकारोऽर्थो यस्य सोऽरक्तविकारार्थस्तस्यारक्तविकारार्थस्य तद्धितस्य पुंर्वद्भावनिषेधो भवति ॥ मथुरायां भवा माथुरी । भवार्थेऽण आदिस्वरस्यति वृद्धिः। व्रण इतीए । माथुरी भार्या यस्य स माथुरीभार्यः। माथुरीवाचरतीति माथुरीयते । कर्तुङिति यङ् । माथुरी मन्यते इति माधुरीमानिनी । अत्र पुंवद्भावो न ॥ वृद्धिहेतोरीत किम् । मध्ये भवा मध्यमा। मध्यान्म इति भवाथै मःमध्यमा भार्या यस्य स मध्यममार्यः॥ तद्धितस्येति किम् ।
Page #283
--------------------------------------------------------------------------
________________
[ समासप्र. ] टीकाद्वयोपेता।
(२६७) काण्डं लुनातीति काण्डलावी । कार्येऽणित्यण् । कृदयम् । काण्डलावी भार्या यस्य स काण्डलावभार्यः॥ आदिस्वरस्येति विहिता वृद्धिरिति किम् । तत्परिमाणमस्या अस्तीति तावती । एतत्किंयत्तद्भय इति वतुः। यत्तदेतदामित्याकारः। तावती भायों यस्य स तावद्भार्यः ।। अरक्तविकारार्थस्यति किम् । कषायण रक्ता काषायी । 'कारकात् क्रियायुक्ते' इति तेन रक्तमित्यर्थऽण् । व्रण इतीए । काषायकन्थः । पुंवद्भावादीपो निवृत्तिः ॥ हेनो विकारो हैमी । विकारार्थेऽ' । व्रण इती। हैमी मुद्रिका यस्य स हेममुद्रिकः । पुंवद्भावः॥ (तत्त्वदी०)-वृद्धिहेतोरिति ॥ यस्मिन् तद्धिते आदिस्वरस्य वृद्धिरित्यर्थः ।। (युटि सति पुंवत् ) वैयाकरणभार्यः ॥ (सुबोधिनी )-युटि सति पुंवत् ॥ वृद्धिहेतोस्तद्वितस्यारक्तविकारार्थस्य स्त्रीप्रत्ययान्तस्य पुंवद्भावो भवति युडागमे कृते सति ॥ व्याकरणमधीते वेत्ति वा इत्यर्थे अण । न संधिय्वोरिति युट । पश्चाद्वद्धिः। व्रण इतीप् । वैयाकरणी भार्या. यस्य स वैयाकरणभार्यः ॥ सुष्टु अश्वो यस्य स स्वश्वः । स्वश्वस्यापत्यं स्त्री उट्वृद्धी । सौवश्वी भार्या यस्य स सौवश्वभार्यः॥
(स्वाङ्गादीपोऽमानिनि न ) सुकेशी भार्या यस्य स सुकेशीभार्यः। मानिनि तु सुकेशमानिनी ॥
( सुबोधिनी)-स्वाङ्गादीपोऽमानिनि न ॥ स्वाङ्गात्परस्य ईप्प्रत्ययस्य पुंवद्भावो न भवति । मानिन्शब्दे परे तु पुवद्भावो भवतीत्यर्थः ।। सुष्टु केशा यस्याः सा स्वाङ्गादतीपू । सुकेशी भायो यस्य स सुकेशीभार्यः॥स्वाङ्गात्किम् । पट्टी भार्या यस्य स पटुभायः॥ ईपू इति किंम् । न विद्यन्ते केशा यस्याः सा अकेशा । सहनजितीनिषेधः । अकेशा भार्या यस्य सोऽकेशभार्यः। पुंवद्भावः। सुकेशी मन्यते यः स सुकेशमानी। स्त्री तु सुकेशमानिनी ॥
(जातिवाचिनः स्त्रीप्रत्ययान्तस्य न ) शूद्राभार्यः । ब्राह्मणीभार्य, इत्यादि ॥
(सुबोधिनी)-जातिवाचिनः स्त्रीप्रत्ययान्तस्य न ॥ जातिवाचिशब्दास्परस्य स्त्रीप्रत्ययस्य पुंवद्भावो न भवति ॥ शूद्रा भार्या यस्य स शूद्राभार्यः। अजादेरित्याप् ॥ ब्राह्मणी भार्या यस्य स ब्राह्मणीभार्यः । जातेरिती ॥
(गोः) गोशब्दस्यान्यार्थे वर्तमानस्य ह्रस्वो भवति ॥ पञ्च गावो यस्य स पञ्चगुः ॥
Page #284
--------------------------------------------------------------------------
________________
(२६८)
सिद्धान्तचन्द्रिका। [समासप्र०] (सुबोधिनी ) गोः ॥ अन्याथै वर्तमानो यो गोशब्दस्तदन्तस्य नाम्नो हस्वो भवति ॥ पञ्च गावो यस्य स पञ्चगुः । पञ्चभिगोभिः क्रीतः स पञ्चगुः । क्रीतार्थे इकस्य लुक् वा ॥ अन्यार्थे किम् । अतिशयितो गौरतिगौः ॥
(तत्त्वदी०)-गोरिति ॥ अन्यार्थे यो गोशब्दस्तस्य नान्नो हंस्त्र इत्यर्थः ॥ यथाश्रुते तु गोक्षीरमित्यत्रापि गोशब्दस्योत्तरपदार्थे वर्तमानत्वेनान्यार्थत्वाद्धस्वः प्रसज्येत । गोरन्यार्थे इत्येकयोगस्तु न कृतः स्त्रीप्रत्ययस्याग्रहणप्रसङ्गात् । गोश्चत्यपि गौरवादेव नोक्तम् ॥
(संख्यासुव्याघ्रादिपूर्वस्य पादशब्दस्यान्तलोपः) सहस्रं पादा यस्य स सहस्रपात् ॥
( सुबोधिनी)-संख्यासुव्याघ्रादिपूर्वस्य पादशब्दस्यान्तलोपः ॥ संख्यासुपूर्वस्य व्याघ्रादिपूर्वस्य च पादस्यान्तस्य लोपः स्यात् बहुव्रीहौ। समासान्तोऽयमादेशो ज्ञेयः । अन्यथा समासान्तः कः प्रसज्येत । सहस्रे पादा यस्य स सहस्रपाद् ॥
(शसादौ स्वरे तद्धितयस्वरयोरीपीकारे च पदादेशः ) सहस्रपदः । व्याघ्रपदी कुले । वैयाघ्रपदः। वैयाघ्रपद्यः । द्विपाद् , द्विपादौ, द्विपादः । सुपात् । व्याघपात् ॥ टाडकाः । मध्याह्नः। पूर्वाह्नः ॥
(सुबोधिनी )-शसादौ स्वरे तद्धितयस्वरयोरीपीकारे च पदादेशः । पादशब्दस्य पदादेशः स्यात् । शसादौ स्वरे ॥ सहस्रपदः॥ ईपि । द्विपदी । पादो वेतीय ॥ ईकारे व्याघ्रपी कुले ॥ तद्धितये वैयाघ्रपद्यः । ण्ययुटौ॥ तद्धितस्वरे वैयाघ्रपदः । अण ॥ अन्यपदार्थाभावे समानाधिकरणाऽभावे च क्वचिद्रहुव्रीहिर्भवति । यथा । पुत्रेण सह वर्तते यः स सपुत्रः। सह इत्यस्य तृतीयान्तेन समासः संख्येयार्थया संख्यया सहाव्ययासन्नादूराधिकसंख्याः समस्यन्ते स बहुव्रीहिर्भवति । दशानां समीपे ये सन्ति ते उपदशाः। नव एकादश वेत्यर्थः। उपशब्दो हि समीपे समीपिनि च वर्तते । समीपेऽव्ययीभावः । समीपिनि तु बहुव्रीहिर्भवतीति ॥ आसन्ना विंशतेयें सन्ति ते आसन्नविंशाः । डप्रत्ययः विंशतेस्तिलोपोडितीति तिलोपः ॥ अदूरास्त्रिंशत इति अदूरत्रिंशाः॥ अधिकाश्चत्वारिंशत इति अधिकचत्वारिंशाः॥ द्वौ वा त्रयो वा द्विवाः । चार्थेऽयं बहुव्रीहिः॥ द्विरावृत्ता दश द्विदशाः। विंशतिरित्यर्थः॥ सुप्रत्ययार्थेऽयं बहुव्रीहिः । दिङ्नामान्यन्तराले समस्यन्ते स बहुव्रीहिः । दक्षिणपूर्वा ॥ तेषु गृहीत्वा इदं युद्धं प्रवृत्तमित्यर्थे तेन प्रहत्येदं युद्धं प्रवृत्तमित्यर्थे च सप्तम्यन्तयोस्तुतीयान्तयोश्च पदयोः समासो भवति क्रियाव्यतिहारे द्योत्ये स बहुव्रीहिः। अत्र पूर्वपदस्य दीर्घः । वक्ष्यमाणः समासान्त इप्रत्ययः । इप्रत्ययान्तस्याव्ययसंज्ञा च । केशेषु
Page #285
--------------------------------------------------------------------------
________________
[ समासप्र० ]
टीकाद्वयोपेता। (२६९) केशेषु गृहीत्वा इदं युद्धं प्रवृत्तमिति केशाकेशि ॥ दंडैश्च दंडैश्च प्रत्येदं युद्धं प्रवृत्तमिति दंडादांड ॥ मुष्टिभिर्मुष्टिभिः प्रत्येदं युद्धं प्रवृत्तमिति मुष्टीमुष्टि ॥ बाहुषु बाहुषु गृहीत्वा इदं युद्धं प्रवृत्तमिति वोऽव् यस्वरे इत्यवादेशः। बाहूबाहवि ॥ अथ समासान्तप्रत्यया उच्यन्ते ॥ पूरणार्थप्रत्ययान्तं यत् स्त्रीलिङ्गं तदन्तात् प्रमाण्यन्ताच्च बहुवीरः ॥ कल्याणीपञ्चा रात्रयः । अत्र संख्यापूरणे मट् । पूरणार्थप्रत्ययान्ते इति पुंवद्भावनिषेधः॥ स्त्री प्रमाणी यस्य स स्त्रीप्रमाणः। नित्यस्त्रीत्वान्न पुंवद्भावः।। प्रमाति अनयेति प्रमाणी । करणे युट् । प्रधाने कार्यसंप्रत्यय इति न्यायात् प्रधान पूरणार्थप्रत्यययान्तस्त्रीलिङ्ग एवाप्रत्ययः पुंवद्भावानषेधश्च । रात्रिः पूरणार्थप्रत्ययवाच्या चेत्युक्तोदाहरणे मुख्या। अन्यत्र तु कल्याणपञ्चमीका पक्षः। क एव ॥ नक्षत्रार्थ नेतृशब्दान्तात् बहुव्रीहरः । मृगो मृगशीर्षनक्षत्रं नेता नायको यासां ताः मृगनेत्रा रात्रयः॥ अन्तर्बहिःपूर्वपदालोमन्नन्ताद्बहुव्रीहरः। अन्तलामः। बहिलोमः । नो वेति टिलोपः॥ नासिकान्ताद्वहुव्रीहरः । स्थूलपूर्वोत्तु न । द्राव नासिका यस्येति सहादेरिति नासिकाया नम् । गुणसः। खरा नासिका यस्य स खरणसः । उभयत्र संज्ञायामः । असंज्ञायां खुरखराभ्यां नासिकाया वा अप्रत्ययः । खुरणसः-खुरणाः । खरणस:खरणाः ॥ उपसगाँच्च नासिकाया अः असंज्ञायाम्। उन्नता नासिका यस्य स उन्नसः। प्रगता नासिका यस्य स प्रणसः ॥ स्थूलपूर्वोत्किम् । स्थूलनासिकः ।। सुपातमुश्वसुदिवशारिकुक्षिचतुरस्रणीपदाजपदप्रोष्ठपदा अप्रत्ययान्ता निपात्यन्ते बहुव्रीहौ।शोभनं प्रातरस्येति सुप्रातः। रनिवृत्तिनिपातनात् ॥ शोभनं श्वोऽस्यति सुश्वः। सनिवृत्तिनिपातनात् ॥ शोभनं दिवाऽस्येति सुदिवः ॥ शारेरिव कुक्षिरस्यति शारिकुक्षः ॥ चतस्रोऽश्रयोऽस्येति चतुरस्रः।तालव्यशस्य दन्त्यः सो निपातनात्॥ एण्या इव पादा यस्यति एणीपदः ॥ अजपदः । प्रोष्ठपदः । निपातनात्पदादेशः ॥ नजदुःसुपूर्वपदालिसक्थिशक्त्यन्ताबहुव्रीहेरो वा । अहल:-आहिलः । असक्थः-असक्थिः। अशक्तः-अशक्तिः॥ईदूदन्तस्त्रीलिङ्गोत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहेः कः। कल्याणी पञ्चमी रात्रियस्मिन् स कल्याणपञ्चमीकः पक्षः ॥ बहवः कर्तारो यस्य स बहुकर्तृकः प्रसादः ।। उरःप्रभृत्यन्ताबहुव्रीहेः कः । व्यूढं विशालमुरो स व्यूढोरस्कः ॥ प्रियं सर्पिर्यस्य स प्रियसर्पिष्कः । वाचस्पत्यादित्वात् सषौ । इहोर प्रभृतौ पुमान् अनड्वान् पयः नौः लक्ष्मीरित्यायेकवचनान्तादेव कः । द्विवचनबहुवचनान्तेभ्यस्तु वैकल्पिकः को भवतीति विवेकः । यथा। द्विपुमान्-द्विपुंस्कः। नपूर्वादर्थात्को बहुव्रीहौ । अनर्थकः ॥ इन्नन्ताद्वहुव्रीहेः कः स्त्रियाम् । बहुदंडिका नगरी ॥ अनुक्तसमासान्तादहुबोहेर्वा कः। महायशस्क:-महायशाः ॥ आवन्तस्य वा ह्रस्वः के । बहुमालाक:-बहुमालकः । काभावे बहुमालः॥ ईयम्प्रत्ययान्तोत्तरपदागहुव्रीहर्ने कः। बहवः श्रेयांसोऽस्य स बहुश्रेयान् । 'अन्यार्थ' इति ह्रस्वे प्राप्ते ईयस्प्रत्ययान्तस्य स्त्रीलिङ्गस्य ह्रस्वो न बहुव्रीहौ ।
Page #286
--------------------------------------------------------------------------
________________
(२७०) सिद्धान्तचन्द्रिका। [समासप्र० ] बवयः श्रेयस्योऽस्य स बहुश्रेयसी ॥ बहुव्रीहौ किम् । आश्रेियासः ॥ संख्ये बहुबीहेडों न तु बहुगणाभ्याम् । उपदशाः ॥ बहुगणाभ्यां तु उपबहवः। उपगणाः । स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेष्टः । टित्त्वादीप् । दीर्घे सक्थिनी यस्य स दीर्घसक्थः। जलजाक्षी ॥ स्वाङ्गवाचीति किम् । दीर्घसक्थि शकटम् । स्थूलानि अक्षीणि पर्वाणि यस्याः सा स्थूलाक्षा वेणुयष्टिः। वक्ष्यमाणो डपत्ययः ॥ अङ्गुल्यन्ताद्वहुव्रीहेष्टो दारुण्यर्थे । पञ्चाङ्गुलयो यस्य तत्पश्चाङ्गुलं दारु।अङ्गलिसदृशावयवं धान्यादिविक्षेपकाष्ठम् ॥ बहुव्रीहोरति किम्। अङ्गुली प्रमाणमस्या इति व्यङ्गुला यष्टिः॥ तद्धितार्थे द्विगुः। प्रमाणे द्वयसट्दघ्नट्मात्रटः' इति मात्रट् तस्य लुक् चाततः समासान्तोऽप्रत्ययः।। दारुणि किम्। पञ्चाङ्गुलिहस्तः ॥ द्वित्रिपूर्वात मूर्द्धान्ताद्वहुव्रीहेष्टः । द्विमूर्द्धः। त्रिमूर्द्धः । नो वेति टिलोपः ॥ सुहरिततृणसोमेभ्यः पराद् जम्भादन बहुव्रीहौ ।'जम्भो भक्ष्ये च दन्ते च' इति ॥ शोभनो जम्भो यस्य स सुजम्भा । हरितजम्मा । तृणं जम्भो भक्ष्यं यस्य तृणमिव जम्मा दन्ता यस्येति वा तृणजम्मा । सोमजम्भा ॥ व्याधयोगे दक्षि
मैत्यन्नन्तं निपात्यते बहुव्रीहो । दक्षिणे ईमै व्रणं यस्य स दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥ क्रियाव्यतिहारे बहुव्रीहरिः । केशाकेशि । मुसलामुसाले । प्रहरणेऽर्थे द्विदण्डि । दिमुसाल । उभाहस्ति । उभयाहस्ति । इति इप्रत्ययान्ता निपात्यन्ते बहुव्रीहौ । द्वौ दण्डौ यस्मिन् प्रहरणे तद्विदण्डि । द्विमुसलि । उभाहस्ति । उभयाहस्ति । निपातनाद्वा उभयति ॥ इति बहुव्रीहिः ॥ अथ द्विगुतत्पुरुषकर्मधारयसमासान्ताः॥ गोन्ताद् द्विगुतत्पुरुषकर्मधारयाट्टो न तु तद्धितलुकि । पञ्चगवम् ॥ तद्धितलुकि नति किम् । पञ्चभिगोभिः क्रीत इति पञ्चगुः । क्रीतार्थ इकस्तस्य लुक च । देवगवी ॥ परमगवी ॥ संख्याव्ययादरमुल्यन्ताद् द्विगुतत्पुरुषकर्मधारयादः। हे अंगुली प्रमाणमस्येति यंगुलं दारु । प्रमाणे द्वयसडिति मात्रट तस्य लुक् च ॥ निर्गतमंगुलिभ्य इति निरंगुलम् ॥ एकांगुला । सवैकदशसंख्यातपुण्यसंख्याव्ययेभ्यो रात्रेरः दिमुतत्पुरुषकर्मधारये । सो चासो रात्रिश्चति । रात्राहाहान्ता इति पुंस्त्वम् । सर्वरात्रः । रात्रे पूर्वमिति पूर्वरात्रः । संख्यातरात्रः । पुण्यरात्रः। द्वयोः रात्र्योः समाहार इति संख्यापूर्व रात्रमिति क्लीवता । द्विरात्रम् । अतिक्रान्तो रात्रिमित्यतिरात्रः ॥ राजाहःसखिभ्यष्टो द्विगुतत्पुरुषकर्मधारये । कविराजः। उत्तमाहः। रात्राहाहान्ता इति पुंस्त्वम् ॥ पुण्याहम् । पुण्यसुदिनाभ्यामिति क्लीबता ॥ कृष्णसखः ॥ पञ्चाङ्गम् ॥ मुख्यवाचिन उरसष्टः तत्पुरुष । अश्वानामुर इत्येवेत्यश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥ अनोऽश्माऽयःसरोभ्यष्टो जातिसंज्ञार्थे तत्पुरुषकर्मधारये । उपानसम् ॥ अमृताश्मः॥ कालायसः। मण्डूकसरसमिति जातिः ॥ महानसम् ॥ पिण्डाइमः॥ लोहितायसम् ॥ जलसरसमिति संज्ञा ॥ ग्रामकोटाभ्यां तक्ष्णस्तत्पुरुषकर्मधारये । ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः। कुट्यां भवः कौटः स्व
Page #287
--------------------------------------------------------------------------
________________
[ समासप्र ० ]
टीकाद्वयोपेता ।
(२७१ )
तन्त्रः । कौटश्चासौ तक्षा च कौटतक्षः | अतेः शुनष्टस्तत्पुरुषे । श्वानमतिक्रान्तो जवेनेत्पतिश्वो वराहः । अतिश्वी सेनेत्यर्थः ॥ अप्राणिविषय कोपमानवाचिनः शुनष्टस्तत्पुरुषे । आकृष्यतेऽनेन खलादिगतं धान्यमित्याकर्षः । काष्ठविशेषः । आकर्षः इति आकर्षश्वः ॥ अप्राणिविषयकेति किम् । वानरः श्वेवेति वानरश्वा ॥ उत्तरमृगपूर्वोपमानात् सक्थ्नष्टस्तत्पुरुषे । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकसक्थम् ॥ नौशब्दान्तात् द्विगोष्टो न तु तद्धितलुकि । द्विनावम् । त्रिनावम् ॥ न तु तद्धितलुकीति किम् । पञ्चभिनभिः क्रीत इति पञ्चनौः । अत्र क्रीतार्थे इकस्तस्य लुक् च ॥ अर्द्धपूर्वान्नावष्टस्तत्पुरुषे । नावोऽर्द्धमित्यर्द्धनावम् | क्लीचत्वं लोकात् ॥ खारीशब्दान्ताद् द्विगोरर्द्धपूर्वात् । खार्यन्तात् तत्पुरुषाच्च वा टः । द्विखारम् । टाभावे । द्विखारि । क्लीवं लोकात् । अर्द्धखारम् ॥ इन्द्वतत्पुरुषयोरिति परपदलिंगे अर्द्धखारी ॥ द्विगौ द्वित्रिभ्यामष्टो वा न तु तद्धितलुकि । इयञ्जलम् । इयञ्जलि || न तु तद्धितलुकीति किम् । द्वाभ्यामञ्जलिभ्यां क्रीत इति द्वयञ्जलिः । क्रीतार्थे इकस्तस्य लुक् च ॥ ब्रह्मशब्दान्तात्तत्पुरुषाट्टो जानपदेऽर्थे । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ॥
मां ब्रह्मण वा तत्पुरुष कर्मधारये । कुत्सितो ब्रह्मा कुब्रह्मः - कुब्रह्मा । महाब्रह्मः । महाबला । ब्राह्मणपर्यायी ब्रह्मन् शब्दः || संख्यान्तात्तत्पुरुषाडु: । निर्गतानि त्रिंशत इति निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतत्रिंशतोऽङ्गुलिभ्य इति निस्त्रिंशः खड्गः ॥ इति द्विगु तत्पुरुष कर्मधारय समासान्ताः ॥ अथ सकलसमाससाधारणसमासान्ताः ॥ ऋक्पूरब्धूः पथामोऽक्षे या धूस्तत्र तु न ॥ ऋचोऽर्द्धमिति अर्द्धर्चः । अर्द्धर्चादय इति पुंस्त्वम् | अनृचबहूवृचशब्दावध्येतर्येव । नेह । अनृक् साम बहूवृक सुक्तम् । वैकल्पिकः कप्रत्ययस्तु भवत्येव । अनृक्कम बहूवृक्कामिति ॥ विष्णोः पूरिति विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ॥ इयन्तरुपसर्गेभ्यः कृतसमासान्तस्याऽपस्यादेरिः । द्विता आपो यस्मिन्निति द्वीपम् । अन्तर्गता आपोऽस्मिन्निति अन्तरीपम् । प्रतिकूला आपोऽस्मिन्निति प्रतीपम् । सङ्गता आपो ऽस्मिन्निति समीपम् । कथं तर्हि समापो देवयजनमिति । समा आपो यस्मिन्निति समापः । देवा इज्यन्तेऽस्मिन्निति देवयजनम् । यज्ञभूमिरिति ज्ञेयम् । कृतसमासान्तग्रहणान्नेह । स्वप् सरः । पूजनार्थेति निषेधात्समासान्ताभावः । अवर्णान्तादुपसर्गात्कृतसमासान्तस्यापस्यादेर्वा । प्रेपम् परेपम् । प्रापम् - परापम् ॥ अनोः कृतसमासान्तस्यापस्यादेरुः । अनुगता आपोऽस्मिन्निति अनूपो देशः । “जलप्रायमनूपं स्यात् ” इत्यमरः || राजधुरा || अक्षे इति किम् | अक्षधूः । दृढधूरक्षः । सखिपथो रम्यपथो देशः । प्रत्यन्ववपूर्वाभ्यां सामलोमभ्यामः । प्रतिसामम् | अनुसामम् । अव - सामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । बहुव्रीह्यव्ययीभावप्रादिसमासा अत्र ॥ कृष्णोदकपाण्डुसंख्यापूर्वाया भूमेरः । कृष्णभूमः । उद्गूभूमः । पाण्डुभूमः ।
Page #288
--------------------------------------------------------------------------
________________
(२७२)
सिद्धान्तचन्द्रिका। [ समासप०] द्विभूमः । त्रिभूमः प्रासादः। बहुव्रीहावेव ॥ संख्यामा नदीगोदावरीभ्यामः । पञ्चनदम् । सप्तगोदावरम् । अव्ययीभावे एतौ॥ नाभेरः । पद्म नामावस्येति पद्माकारा नाभिरस्येति वा पद्मनाभः ॥ अचक्षुः पर्यायादक्ष्णोऽप्रत्ययः। गवां किरणानामक्षि रन्ध्रमिवेति गवाक्षः ॥ ब्रह्महस्तिपल्यराजभ्यो वर्चसोऽप्रत्ययः । ब्रह्मवर्चसम् । हस्तिवर्चसम् । पलं मांसमर्हतीति पल्यो मांसभोजी पल्यवर्चसम् । राजवर्चसम् । षष्ठीतत्पुरुषोऽत्र ॥ अवसमन्धेभ्यस्तमसोऽप्रत्ययः। अवहीनं तम इति अवतमसम् । समन्तात् तम इति संतमसम् । अन्धयतीति अन्धम् । 'अन्ध दृष्टयुपघाते' चुरादिरस्मात्पचाद्यप्रत्ययः । अन्धं गाढं तम इत्यन्धतमसम् ।। श्वस्शब्दावसीय श्रेयोभ्यामः । वसुशब्दः प्रशस्तवाची तस्मादीयसुप्रत्यये वसीय इति । श्वस्शब्दस्तु कालवाच्यप्यत्राशीविषयताद्योतकोऽस्ति । श्वोवसीयसम् । श्वःश्रेयसम् । कर्मधारयोऽत्र ॥ अन्वव. तप्तेभ्यो रहाशब्दादः। रह इत्यनेनाऽप्रकाशमुच्यते । अनुगतं रह इत्यनुरहसम् । अवहीनं रह इत्यवरहसम् । अनुगतं रहोऽस्मिन्नित्यादि बहुव्रीहिर्वा । तप्तं च तद रहश्चति तप्तरहसम् । परेणानधिगम्यमित्यर्थः ॥ प्रतेरुरस्शब्दादः । उरसि इति प्रत्युरसम् । सप्तम्यर्थे अव्ययीभावोऽयम् ॥ अप्रत्ययान्तमनुगवं दीर्घत्वे निपात्यते । अनुगवं यानम् । गोदैर्घ्यसदृशदैोपलक्षितमित्यर्थः ॥ उपसर्गादध्वशब्दादः। प्रगतोऽध्यानामति प्राध्वो रथः ॥ अचतुरविचतुरसुचतुरात्रिचतुरउपचतुरस्त्रीपुंसधेन्वनडुहऋ. क्सामवाङ्मनसाऽसिभुवदारगर्विष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाऽहर्दिवसरजसनिःश्रेय सपुरुषायुषद्वयायुषत्र्यायुषऋग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः । अप्रत्ययान्ता निपात्यन्ते । अविद्यमानानि चत्वार्यस्येति अचतुरः । विचतुरः। सुचतुरः । त्रयश्चत्वारो वेति त्रिचतुराः । चतुणी समीपे ये सन्ति ते उपचतुराः । एते पञ्च बहवीहयः। तेन तत्पुरुषे अचत्वारो विचत्वार इत्येवं भवतीति भावः ॥ स्त्रीपुसौ ॥धेन्वनडुहौ ॥ ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवा च अक्षिध्रुवम् । प्राण्यङ्गत्वादेकवद्भावः । दाराश्च गावश्च दारगवम् । ऊरू च अष्ठीवन्तौ च उर्वष्ठीवम् । निपातनाहिलोपः । “जानूरुपष्ठिीवदस्त्रियाम्” इति “ सक्थि क्लीवे पुमानूरुः" इति चामरः ॥ पदष्ठीवम् । निपातनात् पादस्य पद् । प्राण्यंगत्वादेकवदुभयत्र । नक्तं च दिवा च नक्तंदिवम् । रात्रौ च दिवा च रात्रिंदिवम् । रात्रेन्तित्वं निपातनात । अहनि च दिवा चेति अहर्दिवम् । वीप्तायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । एते एकादश द्वन्द्वाः॥ रजः अपि अपरित्यज्येति सरजसम् । साकल्येऽव्ययीभावोऽयम् । बहुव्रीहौ तु रजप्ता सह वर्तते इति सरजसं पङ्कजमिति । निश्चितं श्रेय इति निःश्रेयसम् । तत्पुरुष एवायम् । बहुव्रीहौ तु न। निश्चितं श्रेयो यनेति निःश्रेयान् पुरुषः। पुरुषस्यायुः पुरुषायुषम् । तत्पुरुषोऽयम् । व्यायुषम् । व्यायुषम् । एतौ द्विगू । ऋग्यजुषम । द्वन्दोऽयम् । जातोक्षः । महोक्षः । वृद्धोक्षः । एते त्रयः
Page #289
--------------------------------------------------------------------------
________________
[समासप्र] टीकाद्वयोपेता।
(२७३) कर्मधारयाः। शुनः समीपम् उपशुनम् । टिलोपाभावः संप्रसारणं च निपात्यतेऽव्ययीभावे । गोष्ठे श्वाति गोष्ठश्वः । ससमीतत्पुरुष एवायम् । षष्ठीतत्पुरुषे तु न । गोष्ठश्वा । पूजनार्थस्वस्तिपूर्वकान्नाम्नः समासान्ता न । बहुव्रीहौ तु भवंति । सुराजा । अतिराजा। पूजनार्थेति किम् । गामतिक्रान्तोऽतिगवः । बहुव्रीहौ किम् । सुष्टु सक्थिनी यस्य सः सुसक्थः । सुष्टु अक्षिणी यस्य स स्वक्षः। टप्रत्ययाऽत्र । निन्दार्थककिम्पूर्वान्नाम्नः समासान्ता न । कुत्सितो राजा किंराजा । किंसखा। किंगौः ॥ निन्दाथकेति किम् । किंराजः। किंसखः । किंगवः । नतत्पुरुषात्समासान्ता न । अराजा । असखा ॥ तत्पुरुषात् किम् । न विद्यते धूर्यस्य तत् अधुरं शकटम् । नजपूर्वपाथशब्दादा समासान्तस्तत्पुरुष । अपथम्-अपन्थाः। अपथः । तत्पुरुष क्लीवमिति क्लीवत्वम् ॥ तत्पुरुष किम् । अपथो देशः । बहुव्रीहिरत्र । अपथम् । अर्थाभावेऽव्ययीभावोऽयम् ॥ इति सकलसमाससाधारणाः प्रत्ययाः॥ अथ प्रकृतमनुसरामः॥ अहो मध्यमिति मध्याह्नः। अह्नः पूर्वः इति पूर्वाह्नः। कवीनां राजेति कविराजः। कृष्णस्य सखेति कृष्णसखः । 'राजाहःसखिभ्यष्ट' इति टप्रत्ययः॥
(तत्त्वदी० )-मध्याह्न इति ॥ अह्रो मध्य इति विग्रहे क्वचिदमाद्यन्तस्य परत्वमित्यहन् शब्दस्य परनिपातो नो वेत्यनेनोपधालोपे रूप सिद्धिः। रात्राहाहान्ताः पुंसीति नियमात्पुंस्त्वम् ।।
(नो वा) नान्तस्य टेर्लोपः स्वरे यकारे च परे । वाग्रहणात्वचिन्न । क्वचिदुपधालोपः॥ कविराजः । कृष्णसखः । देवगवी । परमगवी । राजपुरम् । एकधुरम् । सर्वधुरम् । वाङ्मनसे । दक्षिणापथः। अहोरात्रः। द्वित्राः। पञ्चषाः । बहुकर्तृकः । बहुलक्ष्मीकः स्त्रीपुंसौ। ऋक्सामे । महोक्षः । वृद्धोक्षः । व्यायुषम् । व्यायुषम् । ग्रामतक्षः । फलकसक्थम् । मृगसक्थम् । पूर्वसक्थम् । अर्द्धखारम् । अर्द्धनावम् ।
(सुबोधिनी)-नो वा ॥ नान्तस्य नाम्नष्टोपस्तद्धिते ये स्वरे च ॥ अत्र समासान्तास्तद्धितान्तर्भूता ज्ञेयाः । अत्र वेति व्यवस्थार्थम् । तेन क्वचिट्टिलोपः। क्वचिदुपधालोपः। क्वचिन्नोभयम् । टिलोपो यथा । उडुलोम्नोऽपत्यमिति औडुलोमिः॥ राज्ञः कर्मेति राज्यम् ॥ कविराजः ॥ उपाधालापो यथा। वृत्रघ्नोऽपत्यं वार्चनः । तक्ष्णोऽपत्यं ताक्षणः । अह्नः पूर्वः पूर्वाह्नः ॥ नोभयं यथा । ब्रह्मणोऽपत्यं ब्राह्मण इत्यादि ॥ देवानां गौवंगवी । परमा चासौ गोश्च परमगवी । गोन्ताद् द्विगुतत्पुरुषकर्मधारयाह इति टः ॥ राजपुरम् । एकधुरम् । सर्वधुरः । कर्मधारये पुंवत् । ऋक्पूरबधूःपथाम इत्यप्रत्ययः ॥ वाक् च मनश्च वाङ्मनसम् । अचतुरविचतुरेत्यनेनाप्रत्यया द्वन्दे ॥ दक्षिणापथः। ऋकूपूरब्धःपथाम इत्यप्रत्ययः ॥ अहश्च रात्रिश्च
Page #290
--------------------------------------------------------------------------
________________
(२७४)
सिद्धान्तचन्द्रिका। [समासप्र.] अहोरात्रः। 'अहःपूर्वाद्रात्रिशब्दादः समाहारे' इत्यप्रत्ययः॥ रात्राहाहान्ता इति पुंस्त्वम् ॥ द्वौ वा त्रयो वा वित्राः । पञ्च "वा षड् वा पञ्चषाः । संख्येये बहुव्रीहेर्ड इति डः ॥ बहुकर्तृकः । बहुलक्ष्मीकः । इंदूदन्तस्त्रीलिङ्गोत्तरपदादृदन्तोत्तरपदाच्च बहुव्रीहे: क इति कप्रत्ययः॥ स्त्रीपुंसौ ॥ ऋक्साम । अचतुरविचतुरेहानेन इन्दऽप्रत्ययः॥ महोक्षः । जातोक्षः। वृद्धोक्षः। अचतुराविचतुरेत्यनेन कर्मधारयेऽप्रत्ययः॥ पुरुषायुषम् । अचतुरविचतुरेत्यनेन तत्पुरुषेऽप्रत्ययः । व्यायुषम् । व्यायुषम्। अचतुरेत्यनेन द्विगावप्रत्ययः ॥ ग्रामतक्षः। ग्रामकौटाभ्यां तक्ष्णष्ट इति तत्पुरुषे टः॥ फलकसक्थः । मृगसक्थः । पूर्वसक्थः । 'उत्तरमृगपूर्वोपमानात सक्थ्नष्टस्तत्पुरुषे' इति टप्रत्ययः । फलकमिव सक्थि अस्येति बहुव्रीही तु स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्वहुव्रीहेष्ट इति टप्रत्ययो बोध्यः॥ अर्द्धवारम् । खारीशब्दान्ताद द्विगो. रर्धपूर्वात्वार्यन्तात्तत्पुरुषाच्च वा ट इति टः॥ अर्द्धनावम् । 'अर्द्धपूर्वानावष्टस्तत्पुरुषे' इति टः ॥ इति बहुव्रीहिः॥
(तत्त्वदी)-नो वेति ॥ वोऽव्यस्वर इत्यतः यस्वरयोरनुवृत्तिः । डिति टेरित्यतष्टेरित्यस्य । नामाधिकारान्नान्तस्यैवेत्याशयेनाह-नान्तस्येति ॥ नाम्न इति शेषः । वेत्यस्य व्यस्थितत्वादाह ॥ वाग्रहणादिति ॥ पूर्वसक्थमिति ।। सक्नः पूर्वमिति विग्रहः ।। अर्द्ध खारमिति ॥ खार्या अर्द्धमिति विग्रहः । एवमर्द्धनावमित्यपि ।। इति बहुबोहिः ।
(कर्मधारयस्तुल्यार्थे ) पदद्वये तुल्यार्थे एकार्थनिष्ठे सति कर्मधारयः समासो भवति ॥
(सुबोधिनी )-कर्मधारयस्तुल्यार्थे ॥ समस्यमानयोईयोः पदयोर्विशेषणविशेव्यधर्मयोर्यत्र परस्परं तुल्यार्थता तत्रैव समासो भवति नान्यत्र । भ्रमरादिसाधारणरूपेण प्रतिपन्नो नीलार्थः उत्पलार्थेन नीलोत्पले स्थाप्यते।रक्तादिसाधारणरूपेण प्रतिपन्न उत्पलार्थोऽपि नीलार्थन नीले स्थाप्यते इति भवति द्वयोस्तुल्यार्थता । पदयोदय पदद्वयं तस्मिन्नेकार्थे निष्ठा वृत्तिर्यस्य भिन्नप्रवृत्तिनिमित्तकस्य पदद्वयस्य तदेकार्थनिष्ठं तस्मिन् सति य एकार्थीभावः स कर्मधारयसंज्ञकः समासो भवति ॥ भिन्नार्थानामेकरूपेणैकत्रान्वयविवक्षायां इन्दः ॥ भिन्नार्थयाविशेष्यविशेषणभावनैकत्रान्वयविवक्षायां कर्मधारय इत्यर्थः ॥ विशेष्यतेऽनेनति विशेषणम् । 'शिष्ल विशेषणे' करणे युटू । भेदकं व्यावर्तकामिति । यत्साधारणाकारेण प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्य एकस्मिन् प्रकारे व्यवस्थापयति तद्विशेषणम् । व्यवस्थाप्यमानं तु विशेष्यं भेद्यं प्रधानमिति । अत्र लौकिकविग्रहे भेदद्योतकश्चशब्दो धर्मभेदद्योतनाय प्रयुज्यते । धर्मभेदबोधनाय सर्वादिश्च । द्रव्यगुणक्रियासन्निधाने द्रव्यवाचकस्यैव प्राधान्यमित्यतो द्रव्यस्य प्राधान्यात् गुणक्रिययोश्चाप्राधान्याद् गुण
Page #291
--------------------------------------------------------------------------
________________
[ समासप्र०] टीकाद्वयोपेता।
(२७५) द्रव्ययोः क्रियाद्रव्ययोश्च समासे गुणक्रिययोरेव पूर्वनिपातो बोध्यः । यत्र तु गुणशब्दयोः क्रियाशब्दयोर्गुणक्रियाशब्दयोर्वा समासस्तत्रानियम एव । खञ्जकुब्जः। कुब्जखञ्जः। याचकपाठकः । पाठकयाचकः । खञ्जपाचकः । पाचकखञ्जः। द्रव्यशब्दयोः समासे तु इत्थं नियमः। शिशपावृक्षः । इह वृक्षत्वस्य व्यापकत्वात्प्राधान्यं शिंशपात्वस्य तु विपर्ययादग्राधान्यम् इत्येवं सर्वत्र विशेषणस्य पूर्वनिपातो बोध्यः। हसादिरिति निर्देशाद्विशेष्यस्यापि पूर्वनिपातश्च ॥
(तत्त्वदी०)-कर्मधारयस्तुल्यार्थ इति ॥ पदद्वय इति । एकार्थनिष्ठे इति ॥ भिन्नप्रवृत्तिनिमित्ते सति एकस्मिन्नर्थे निष्ठा वृत्तिर्यस्येत्यर्थः ॥ भिन्नार्थानामेकरूपेणैकान्यविकक्षायां द्वन्द्वः ॥ विशेषणविशेष्यभावे तु कर्मधारय इति विवेकः ॥ पूर्वनिपाते त्वनियमः ॥ हसादिरिति लिङ्गात् । तथाहि । आदिश्वासौ हसश्चति आदिहस इति स्यात् । लक्ष्यानुसाराच्च व्यवस्था । विशेष्यतेऽनेनेति विशेषणम् । 'शिष्ल विशेषणे' इत्यतः करणे युट् । यत्साधारण्येन प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्य एकस्मिन् प्रकारे व्यवस्थापयति तद्विशेषणम्।। — (कर्मधारये पूर्व पुंवत) नीलमुत्पलं नीलोत्पलम् । रक्तलता । पुंस्कोकिलः । ब्राह्मणभार्या । दत्तभार्या । सुकेशभार्या । स्नातानुलिप्तः। एकनाथः । सर्वयाज्ञिकाः । जरन्नैयायिकाः। पुराणमीमांसकाः। नवपाठकाः। केवलवैयाकरणाः ॥
(सुबोधिनी )-कर्मधारये पूर्व पुवत् ॥ स्त्रीलिङ्गमुक्तपुंस्कं पूर्वपदं पुंवद्भवति कर्मधारये॥ पूरणार्थप्रत्ययान्ते प्रियादौ च नेत्यप्राप्तः पुंवद्भावो विधीयते ॥ महती चासौ नवमी चेति । पञ्चादेरिति मट् । पुंवद्भावे कृते सहादेरित्या त्वम् । महानवमी। महाप्रिया ॥ तथाऽकतद्धिताभ्यां कोपधस्य नेति १ संज्ञापूरणार्थप्रत्यययोर्नेति २ वृद्धिहेतोस्तद्धितस्यारक्तविकारार्थस्य नेति ३ स्वागादीपोऽमानिनि नेति ४ जातिवाचिनः स्त्रीप्रत्ययान्तस्य नेति ५ पञ्चसूत्र्या प्रतिषिद्धः पुंवद्भावोऽप्यत्र विधीयते । क्रमेणोदाहरणानि । यथा पाचकस्त्री॥ दत्तभार्या ॥ पञ्चमभायाँ ।। त्रुघ्ने भवा सोनी भवार्थेऽण । स्रौनी चासो भायों च सौनभार्या ॥ सुकेशभायों ॥ ब्राह्मणभार्या ॥ रक्ता चासौ लता च रक्तलता ॥ पुमांश्चासौ कोकिलश्च पुस्कोकिलः॥ ब्राह्मणी चासौ भार्या च ब्राह्मणभार्या ॥ दत्ता चासो भार्या च दत्तभार्या ॥ सुकेशी चासौ भार्या च सुकेशभार्या ॥ पूर्व स्नातः पश्चादनुलिप्तःस्नातानुलिप्तः ॥ एकश्चासौ नाथश्चैकनाथः ॥ दिकसंख्ये इति नियमबाधनार्थमुदाहरणम् । यज्ञमधीयते विदन्ति वा ते याज्ञिकाः । इकप्रत्ययः । सर्वे च ते याज्ञिकाश्च सर्वगाज्ञिकाः ॥ जरन्तश्च ते नैयायिकाश्चति । जीर्यतेरत' इति भूतेऽर्थेऽन् । न्यायमधीयते विदन्ति वा ते नैयायिकाः।
Page #292
--------------------------------------------------------------------------
________________
( २७६ )
सिद्धान्तचन्द्रिका |
[ समासप्र० ]
जरन्नैयायिकाः । जीर्णनैयायिका इत्यर्थः । युट् वृद्धिश्च ॥ मीमांसामधीयते विदन्ति वा ते मीमांसकाः । केनेयेका इति कप्रत्यये हस्वत्वम् । पुराणाश्च ते मीमांसकाच पुराणमीमांसकाः ॥ पठन्ति ते पाठकाः । तृवुणाविति वुण् ॥ नवशब्दः संख्यावाच्यत्र न गृह्यते । 'दिक्संख्ये' इति नियमात् । नवाश्च ते पाठकाश्च नवपाठकाः ॥ व्याकरणमधीयते विदन्ति वा वैयाकरणाः ॥ अण् युट् वृद्धिश्च । केवलाश्च ते वैयाकरणाश्च केवलवैयाकरणाः ॥ इति कर्मधारयः ॥
( तत्त्वदी ० ) - नीलमुत्पलमिति ॥ अत्र हि नीलार्थो भ्रमरादिसाधारणरूपेण प्रतिपन्न उत्पलार्थेनोत्पले व्यवस्थाप्यते । उत्पार्थोऽपि रक्तादिसाधारणरूपेण प्रतिपन्नो नीलार्थेन नीले 1 व्यवस्थाप्यते इति । यत्तु वासुदेवनोक्तम् । तुल्यार्थत्वं नाम समानार्थत्वं तच्च प्रायशः पदयोईष्टमिति 'पदद्वये' इत्युक्तम् । तेन नीलोज्ज्वलघट इत्यादौ बहुपदोऽप्यदोष इति । तन्न । बहुपदानां कर्मधारयत्वासंभवात् । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेवेति दीक्षितेनोक्तनियमोऽप्यत्रानुकूलः | कर्मधारयसंज्ञाविधानानुमितफलं तु पूर्वपदस्योक्तपुंस्कस्य पुंवद्भाव इत्याशयेनाह - रक्तलतेति ॥ रक्ता चासौ तेति विग्रहः । अत्र रक्तशब्दस्य गुणवचनत्वेन विशेषणत्वात्पूर्वनि पातः । तथा च गुणद्रव्ययोर्गुणस्य क्रियाद्रव्ययोश्च क्रियायाः गुणशब्द क्रियाशब्दयोस्त्वनियमः पूर्वनिपाते इति बोध्यम् । अत्र लौकिकविग्रहे भेदद्योतकश्धशब्दो धर्मभेदद्योतनाय प्रयुज्यते । सर्वादिश्च धर्मभेदबोधनाय प्रयुज्यते । अत्रार्थे च स्थूला चासौ पृषती चेति शेषोक्तिरनुकूला । तदभावे च एकोऽसहायोऽच् एकाजिति तदुक्तिरेवेति द्वयमपि सम्यगेवेति ॥ इति कर्मधारयः ॥
( नानश्च कृता समासः ) प्रादेरुपसर्गस्य नानश्व कृदन्तन सह वत्पुरुषः समासो भवति ॥ व्याघ्रः । कच्छपः । कुम्भकारः ॥
(सुबोधिनी) - नाम्नश्च कृता समासः ॥ पुनस्तत्पुरुषमाह । स्याद्यन्तस्य नाम्नः कृता कृत्प्रत्ययान्तेन सह योऽन्वयः स च पुनः प्रादेः कृता योऽन्वयः स च तत्पुरुषसंज्ञः स्यात् ॥ व्याजिघ्रतीति व्याघ्रः । उपसर्गे आदन्तादिति कः । घ्रशन्देन प्रादेः समासः ॥ कच्छेन पिवतीति कच्छपः । नाम्नि चेति ङः । कच्छेनेति नाम्नः कृदन्तेन समासः ॥ कुम्भं करोतीति कुम्भकारः । कार्येऽण् इत्यण्प्रत्ययः । इह कुम्भ डस् कार स इत्यलौकिकं प्रक्रियावाक्यम् । अमिति तु नोक्तम् । कृद्योगे षष्ठीविधानात् । उपपदस्य कृता समासः ॥
( तत्त्वदी ० ) - नाम्नश्चेति ॥ प्रादिरुपसर्ग इत्यतो विभक्तिविपरिणामेन प्रादिरित्यनुवर्तते । प्रादेरपि नामत्वेन ग्रहणेऽपि नामाख्यातनिपातोपसर्गेत्यत्र भिन्नत्वेन निर्देशात्पृथगुक्तिः ॥
( शाकपार्थिवादीनां मध्यमपदलोपः ) शाकप्रियः पार्थिवः शाकपार्थिवः । देवपूजको ब्राह्मणो देवत्राह्मणः ||
Page #293
--------------------------------------------------------------------------
________________
[ समासप्र० ] टीकाद्वयोपेता।
(२७७) (सुघोधिनी )-शाकपार्थिवादीनां मध्यमपदलोपः ॥ पृथिव्या ईश्वरः पार्थिवः । ईश्वरेऽर्थः । शाकः प्रियो यस्य स शाकप्रिय इत्यस्य पार्थिवशब्देन , सामामे कृते प्रिय इति मध्यमपदस्य लोपः । शाकपार्थिवः । बहुव्रीहिः कर्मधारयः ॥ देवानां पूजक इति षष्ठीतत्पुरुषः। तस्य ब्राह्मणशब्देन कर्मधारये पूजक इति मध्यमपदस्य लोपः । देवब्राह्मणः ॥
तत्त्वदी०) शाकपार्थिवादानीमिति ॥ मध्यमपदलोप इति पाठस्तु पूर्वपदस्य द्विपदखापेक्षयैव । अन्यथा कर्मधारयस्य त्रिपदत्वासम्भवादसंगतं सम्पद्येत । शाकपार्थिव इति बहुव्रीहिगर्भः कर्मधारयः । देवब्राह्मण इति षष्ठीतत्पुरुषगर्भः । उत्तरपदलोपः इति पाठे पूर्वपदान्तर्गतमुत्तरपदं ग्राह्यं न तु कर्मधारयस्य पार्थिवादेर्लोपप्रसङ्गात् ॥
(सहादेः सादिः) समासे सति सहादेः सादिरादेशः । सह पुत्रेण सपुत्रः । सहाश्चतीति सध्यङ् । समञ्चतीति सम्यङ् । तिरोऽञ्चतीति तिर्यङ् । विष्वव्यङ् । देवव्यङ् । लक्ष्मीर्जाया यस्य स लक्ष्मीजानिः । कुत्सितमन्नं कदन्नम् । ईषदुष्णं कोणम् । कवोष्णम् । कदुष्णम् । यौश्च भूमिश्च द्यावाभूमी । जाया च पतिश्च जम्पती । दम्पती । मातरपितरौ। कुपुरुषः । कापुरुषः॥ __ (सुबोधिनी)-सहादेः सादिः ॥ अनन्ताः सहादयः । सहादयश्च प्रयोगानुसारेण बोध्याः । बहुव्रीहेरवयवस्य सहस्य सो वा । यथा । पुत्रेण सहेति स सपुत्र: सहपुत्रो वा । बहुव्रीहिरयम् ॥ सहाञ्चतीति सहस्य सधिरादेशः क्विवन्तेऽञ्चतौ परे । सध्यङ् ॥ सङ्गतमश्चतीति संशब्दस्य समिरादेशः क्विवन्तेऽञ्चतौ परे । सम्यङ । तिरोऽश्चतीति तिरःशब्दस्य तिरिरादेशः विवन्तेऽश्चतौ । तिर्यङ्॥ विष्वगश्चतीति विष्वग्देवयोरदसश्च टेरदिरादेशः विवन्तेऽञ्चती विष्वद्रयङ् ॥ देवानञ्चतीति देवद्रयङ् ॥ एते तत्पुरुषा बोध्याः ॥ लक्ष्मीर्जायाऽस्येति जायाया जानिरादेशो बहुव्रीहौ। लक्ष्मीजानिः । कुत्सितमन्नमिति कुशब्दस्य कत् स्वराद्युत्तरपदे तत्पुरुषे । कदन्नम्।। त्रिवदरथतृणेषु कुशब्दस्य कत् । कुत्सितास्त्रय इति कत्रयः। कद्वदः । कद्रथः । कत्तुणम् ।। ईषदर्थे कुशब्दस्य कादेशः। ईषज्जलं काजलम् ॥ कुत्सितः पन्था इति। ऋक्पूरित्यप्रत्ययः । संख्याव्ययाभ्यामिति क्लीवता । कापथम् । काक्षः अक्षशब्देन तत्पुरुषोशिशब्देन बहुव्रीहिवा समासः॥ उष्णे परे कुशब्दस्य काकवकदादेशा इषदर्थे । कोष्णम् । कवोष्णम् । कदुष्णम् ॥ द्योश्च भूमिश्चेति देवताहन्दे दिवशब्दस्य द्यावा । द्यावाभूमी । पृथिवीशब्दे दिवशब्दस्य द्यावा दिवश्व । द्यावापृथिव्यौ । दिवस्पृथिव्यौ ॥ जाया च पतिश्चेति जायाया जं दं वा इन्दे । जम्पती । दम्पती । जद
Page #294
--------------------------------------------------------------------------
________________
(२७८ )
सिद्धान्तचन्द्रिका |
[ समासप्र० ] शब्दावव्ययौ दावचनी । तयोः पत्या सह द्वन्द्वे जम्पती । दम्पती । इति चान्द्राः । " दाराः पुंसि बहुत्वे च दं कलत्रे नपुंसकम् " इत्यमरमाला ॥ " पत्न्यां जं दमलिगत्वे ” इति नामप्रपञ्चः । माता च पिता चेति मातुररङ इन्द्रे । मातरपितरौ ॥ पुरुषे कुशब्दस्य वा च का । कुपुरुषः । कापुरुषः ॥
(तत्त्वदी ० ) - सहादेः सादिरिति ॥ आदिशब्द उभयत्र प्रकारे । प्रकारश्च सादृश्यम् । लह आदिः सदृशो यस्य । सादृश्यं च अविहितादेशाश्रयत्वेन ग्राह्यम् । स आदिः सदृशो यस्य । सादृश्यं चाविहितादिश्यमानत्वरूपेण ग्राह्यम् । अत्र सहादयः सादयश्चानन्ताः प्रयोगवशात् । ज्ञातव्याः॥ सध्यङिति ॥ सहस्य सधिरादेशः ॥ समः समिः तिरसस्तिरिरित्यादि सर्वमूह्यम् ॥
(षष उत्वं तृदशधा सूत्तरपदादेः ष्टुत्वम्) षट् च दश च षोडश । षट् दन्ता यस्य षोडन् । संख्यायाः प्रकारे धा । षट् प्रकाराः षोढा । पधा । महान् ईश्वरो महेश्वरः । महादेवः । खरा नासिका यस्य स खरणसः-खरणाः । खुरणसः - खुरणाः । उन्नता नासिका यस्य स उन्नसः । प्रणसः । विगता नासिका यस्य स विग्रः । विख्यः । चतस्रो भयो यस्य स चतुरस्रः । प्रोष्ठो गौस्तस्येव पादौ यस्य स प्रोष्ठपदः । प्रगते जानुनी अस्य प्रजुः । संज्ञः ॥
1
(सुबोधिनी) - षष उत्वं दतृदशधा सूत्तरपदादेः ष्टुत्वम् ॥ षट् च दश चेति॥ दतृदशधापरस्य षष उत्वं परस्य ष्टुत्वं च धाप्रत्यये वा ॥ षोडश । षोढा । षड़धा । षट् प्रकारा अस्येति प्रकारे धोते धाप्रत्ययः ॥ षट् दन्ता अस्येति संख्यासुपूर्वस्य दंतस्य वोऽर्थे | तो नुमिति नुम् | षोडन् । सुदन् । स्त्रियां व्रित इतीप् । सुदती महांश्चासौ ईश्वरश्चेति । महत आकारोऽन्तादेशः समानाधिकरणे उत्तरपदे जातीये च । महेश्वरः ॥ महादेवः ॥ समानाधिकरणे किम् । महतः सेवा महत्सेवा || महान् प्रकारो महाजातीयः॥खरा नासिका यस्येति खुरखन्नासिका यस्येति च नासिकाया नस बहुव्रीहावप्रत्यये । खुरखराभ्यां नासिकाया नस् अप्रत्ययश्च वा खरणसः अप्रत्ययः । पुंवद्वेति पुंवत् । अत्वसोः साविति दीर्घे खरणाः ॥ खुरणसः । अप्रत्ययः । खुरणाः ॥ उन्नता नासिका अस्येति उन्नसः । अप्रत्ययः ॥ प्रगता नासिकास्यति प्रणसः । अप्रत्ययः ॥ वेर्नासिकायाः ग्रख्यौ । विगता नासिकाऽस्येति विग्रः । विख्यः । वेः खुररव्यग्रा इति शाकटायनसूत्रा द्विखुर्विख्यो विग्र इति रूपत्रयं च ॥ खरणाः स्यात् खरणसो वो विखुर्विनासिकः" इति रभसः ॥ चतस्रोऽश्रयाऽस्येति तालव्यस्थाने दन्त्यसो निपात्यते । चतुरस्रः । अप्रत्ययः । प्रोष्ठो गौस्तस्येव पादावस्येति पादस्य
Page #295
--------------------------------------------------------------------------
________________
[समासप्र०] . टीकाद्वयोपेता।
(२७९) पद् निपात्यते । अप्रत्ययः। प्रोष्ठपदः ॥ प्रसम्भ्यां जानुशब्दस्य जुश्च वा बहुव्रीहौ । प्रगते जानुनी यस्य स प्रजुः संजुः ॥
(ऊर्ध्वाद्वा जुः) ऊर्ध्वजः । ऊर्ध्वजानुः॥ ( सुबोधिनी )-ऊर्ध्वाद्वा जुः॥ अर्ध्वजः। ऊर्ध्वजानुः ॥
(बहुव्रीहौ धनुषोऽनङ् ) अधिज्यधन्वा । शाङ्ग धनुरस्य शार्ङ्गधन्वा । उद्गन्धिः । सुगन्धिः । पूतिगन्धिः। सुरभिगन्धिः । द्विदन् । चतुर्दन् । अमुमश्चतीति अमुमुयङ् । अदमुयङ् । अदयङ् । कौमुदगन्ध्यायाः पुत्रः कौमुदगन्धीपुत्रः। कौमुदगन्धीपतिः । समान ज्योतिरस्य सज्योतिः ॥ सनाभिः। सनामा । सवयाः। सब्रह्मचारी । सतीर्थ्यः । क्षीरोदः । सुरोदः । लवणोदः । शुद्धोदः । पृषोदरः । वारिवाहको बलाहकः । गूढोत्मा । दक्षिणतीरम् । दक्षिणतारम् । इत्यादि ॥
(सुबोधिनी )-बहुव्रीहौ धनुषोऽनङ् ॥ धनुरन्तस्य बहुव्रीहेरनङ् संज्ञायां च वा ॥ शृङ्गस्य विकारः शाङ्गम् अण । शाङ्ग धनुरस्येति शाङ्गधन्वा ॥ संज्ञायां तु शतधन्वा । शतधनुः ॥ उत्पूतिमुसुरभिभ्यः गुणवाचिनो गन्धकस्येकागन्तादेशो बहुव्रीहौ । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ गुणवाचिन इति किम् । शोभना गन्धा द्रव्याण्यस्य सुगन्ध आपणिकः ॥ अल्पवाचिनो गन्धस्येत्वं बहुव्रीहौ । सूपस्य गन्धा लेशो यस्मिन् तत् सूपगन्धि भोजनम् । घृतगन्धि ॥ उपमानाद्गन्धस्येकारान्तादेशः। पद्मस्येव गन्धोऽस्य पद्मगन्धिः ॥ “गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुसि च स्मृतः" इति । दो दन्तावस्येति संख्यासुपूर्वस्येति दतृ द्विदन् ॥ चतुर्दन् ॥ अमुमश्चतीति अदम् अच् इति स्थिते । विष्वगिति टेरद्रिः। अदद्रि अच् इत्यत्र यत्वम् । अदसोऽसेर्दादु दो म इत्यनेन दाभ्यां परयोः रकाराकारयोरुकारौ दकारयोश्च मकारौ । अमुमुयङ् । अन्त्यबाधेश्त्यसदेशस्यादेश इति वदतां मते परदकाररकारस्यैव मुत्वम् । अदमुयङ् ॥ त्यदायत्वे एव मुत्वं नान्यत्रेति पक्षे अदव्यङ् ॥ कुमुदस्येव गन्धो यस्येति उपमानाद्गन्धस्येतीकारादेश इति कुमुद्गन्धिः । कुमुदगन्धरपत्यं स्त्री कौमुदगन्ध्या । अपत्ये ण्यः। कौमुदगन्ध्यायाः पुत्र इति कौमुदगन्ध्यायाः पतिरिति या इत्यस्य स्थाने ईत्वं निपात्यते । कौमुदगन्धीपुत्रः कौमुदगन्धीपतिः ॥ समान ज्योतिरस्यति । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुतीर्थ्यब्रह्मचारिषु । समानस्य सः। सज्योतिः । सनाभिः । सनामा । सदयाः । ब्रह्मवेदः तदध्ययनार्थ व्रतमपि
Page #296
--------------------------------------------------------------------------
________________
(२८०) सिद्धान्तचन्द्रिका। [समासप्र० ] ब्रह्म । ब्रह्म चरतीति ब्रह्मचारी 'व्रते' इति णिनिः । समानः ब्रह्मचारीति सब्रह्मचारी ॥ समाने तीर्थे वसतीति सतीर्थ्यः। वसत्यर्थे ण्यप्रत्ययः॥ उत्तरपदोदकस्योदः। क्षीरोदः। मुरोदः । लवणोदः । शुद्धोदः ॥ पृषतः उदरमिति तलोपः । पृषोदरम् ॥ वारिणो वाहक इति पूर्वपदस्य वः उत्तरपदादेश्च लत्वं बलाहकः ॥ गूढोत्मा अत्राकारस्य स्थाने उत्वम् ॥ “भवेद्वर्णागमाद्धंसः सिंहो वर्णविपर्ययात् । गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदग्म् ॥ १॥" हन्तेः पचादित्वादप्रत्यये सगागमात् हंस इति । हिंसेः पचादित्वादप्रत्यये हकारसकारयोर्व्यत्ययात् सिंह इति ॥ दिकशब्देभ्यस्तीरस्य तारो का । सर्वादेः समासादाविति पुंवत् । दक्षिणतारं दक्षिणतीरमित्यादि ॥
(अलुक् क्वचित् ) कचित्समासे तद्धितं च विभक्तेरलुक् ॥ कच्छ्रान्मुक्तः । स्तोकान्मुक्तः । दूरान्मुक्तः । निटान्मुक्तः । अप्सुयोनिः । सरसिजम् । उरसिलोमा । हृदिस्पृक् । कण्ठेकालः । वाचोयुक्तिः। दिशोदण्डः । पश्यतोहरः । खेशयः। ग्रामेवासः । ग्रामवासी । चोरस्य कुलम् । ओजसाकृतम् । सहसा कृतम् । अम्भसाकृतम् । पुंसानुजः । जनुषान्धः । आत्मनापञ्चमः । त्वचिसारः। गविष्ठिरः । युधिष्ठिरः। परस्मैपदम् । परस्मैभाषा । आत्मनेपदम् । आत्मनेभाषा । मध्यगुरुः । अन्तेगुरुः । स्तम्बेरमः । कर्णेजपः । पूर्वाह्नेतरे । पूर्वाह्नतमे । आमुष्यायणः । आमुष्यकुलिका । आमुष्यपुत्रिका । मातृपितृभ्यां स्वसुः सस्य षः मातृष्वसा । पितृष्वसा । मातृपितृपयां वा मातुःस्वसा-मातुःष्वसा । पितुःस्वसापितुःष्वसा । होतुरन्तेवासी । हातुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः । देवानां-प्रिय इति च मूर्ख । दिवोदासः । शुनःशेपः । शुनःपुच्छः । इत्यादि ॥
(सुबोधिनी )-अलुक क्वचित् ॥ समासप्रत्यययोरित्यस्यापवादः । कृच्छ्रस्तोकदूरार्थनिकटार्थभ्यः पञ्चम्या अलुक् उत्तरपदे ॥ कृच्छ्रान्मुक्तः। “स्यात्कष्टं कृच्छ्रमाभीलम्" इत्यमरः ॥ उत्तरपदे किम् । निष्क्रान्तः स्तोकादिति निःस्तोकः ॥ द्विवचनबहुवचनान्तानां तु समासो नेष्यतेऽनभिधानात् । तेन स्तोकाभ्यां मुक्त इत्यादौ वाक्यमेव ॥ अप्सु योनिरुत्पत्तिर्यस्येति अपः सप्तम्या अलुक् योनिजचरमतिषु । अप्सुयोनिः अप्सुजः। अपमुचरः। अपमुमतिः ॥ हसान्ताददन्ताच्च सप्तम्या अलुक संज्ञायाम् । सरसिजम् । अदन्तात्तु अरण्यातिलक इत्यादि । स्वाङ्गात् सप्तम्या अलुग
Page #297
--------------------------------------------------------------------------
________________
[ समासप्र०] . टीकाद्वयोपेता।
(२८१) अकामे परे । मूर्द्धमस्तकाभ्यां तु न । उरसिलोमा ॥ अकामे किम् । मुखे कामोऽस्य मुखकामः ॥ मूद्धमस्तकाभ्यां नेति किम् । मूद्धशिखः । मस्तकशिखः ॥ हृदयं स्पृशतीति दिवहृद्भयां सप्तम्या अलुक् । हृदिस्पृक् । कर्मणोऽधिकरणत्वविवक्षायां सप्तयी । एवं दिविस्पृक् ॥ कण्ठेकालः । स्वाङ्गात् सप्तम्या अलुगित्यलुक् ॥ वाग्दिपश्यद्भयः षष्ठयाः अलुर युक्तिदण्डहरेषु । वाचोयुक्तिः । दिशोदण्डः। पश्यतोहरः । पश्यन्तमनादृत्य हरतीत्यर्थः ॥ 'अनादराधिक्ये' इति षष्ठी । अकालासप्तम्या अलुग्वा शयवामवासिषु । खेशयः-खशयः। ग्रामेवासः ग्रामवासः । ग्रामेवासी ग्रामवासी ॥ षष्ठया अलुगाकाशऽथे। चोरस्यकुलम् ॥ आक्रोशे किम् । ब्राह्मणकुलम् ॥ ओजसंभस्सहस्तमसञ्जाभ्यस्तृतीयाया अलुक् । ओजसाकृतम् । अम्भसाकृतम् । सहसाकृतम् । तमसाकृतम् । अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः। पुसोऽनुजे जनुषोऽन्धे च तृतीयाया अलुक्। यस्याऽग्रजः पुमान् स पुंसानुजः। जनुषान्धः । जात्यन्ध इत्यर्थः । “जनुजननजन्मानि" इत्यमरः ॥ आत्मनस्तृतीयाया अलुक पूरणार्थप्रत्ययान्ते परे । आत्मनापञ्चमः ॥ पूरणार्थे किम् । आत्मकृतम् ॥ त्वचिसारः ॥ हसान्ताददन्ताच सप्तम्या अलुक् संज्ञायामित्यलुक् ।। गोः सप्तम्या अलुक स्थिरे । गविष्ठिरः ॥ युधिष्ठिरः । हसान्तादिति सप्तम्या अलुक् ॥ परशब्दादात्मशब्दाच चतुर्थ्या अलुक वैयाकरणाख्यायाम् । परस्मैपदम् । परस्मैभाषा । आत्मनेपदम् । आत्मनेभाषा। तादयें चतुर्थ्यां अलुगत्र ॥ मध्यान्ताभ्यां सप्तम्या अलुग्गुरौ परे । मध्ये गुरुः । अन्तगुरुः ॥ तत्पुरुष सप्तम्या अलुक् कृत्प्रत्ययान्ते बहुलम् । स्तम्बरमः । स्तम्बे तीरे रमते इति स्तम्बेरमो हस्ती । कर्णेजपः। कर्णेजपःसूचकः॥कालवाचकात्सतम्या अलुग्वा तरतमकालतनेषु पूर्वाहेतरे-पूर्वाह. तरे । पूर्वाहेतमे-पूर्वाह्नतमे । पूर्वाहेकाले-पूर्वाह्नकाले । पूर्वाह्नतने-पूर्वाह्नतने ॥ अदसः षष्ठया अलुगायनपुत्रिकाकुलिकासु । अमुष्यापत्यं नडादित्वादायनण । आमुष्यायणः । अमुष्य पुत्रस्य भावः आमुष्यपुत्रिका । अमुष्य कुलस्य भावः आमुष्यकुलिका । भावार्थ कः ॥ ऋदन्तात्षष्टया अलुगू वा । स्वसृपत्योः । मातृपितृभ्यां स्वसुः सस्य षः स्यात्समासे । मातृष्वसा । पितृष्वसा । मातृपितृभ्यां वा। आभ्यां स्वसुः सस्य षो वा स्यात् समासे । मातुःष्वसा मातुःस्वसा । पितुःष्वसा पितुःस्वसा ॥ विद्यासंबन्धयोनिसंवन्धवाचिन ऋदन्तात्षष्ठया अलुक् । होतुरन्तेवा. सी होतुःपुत्रः । पितुरन्तेवासी पितुःपुत्रः ॥ देवानांप्रिय इति मूर्वेऽर्थे षष्ट्या अलुक् । अन्यत्र देवप्रियः ॥ दिवो दासे परे षष्ठया अलुक् । दिवोदासः॥ शुनः षष्ट्या अलुक शेपपुच्छलाङगूलेषु । शेपः सकारान्तः । “स्याल्लिङ्गं चिह्नशेफसाः" इत्यमरोक्तः । शीङ औणादिके पप्रत्यये पोपधतोऽपि । शुन इव शेपमस्य स शुनःशपः । शुन इव
Page #298
--------------------------------------------------------------------------
________________
(२८२) सिद्धान्तचन्द्रिका। [ समासप्र.] पुच्छमस्य स शुनःपुच्छः । शुन इव लाशूलमस्य स शुनोलागूलः । बहुव्रीहयस्त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः ॥ इत्यलुक् समासः॥
(तत्त्वदी.)-अलुक् क्वचिदिति ॥ समासप्रत्यययोरित्यस्यापवादः ॥ कृच्छ्रान्मुक्त इत्यस्य पक्षे सिद्धत्वेऽपि कृच्छ्रमुक्तमित्यनिष्टापत्तिवारणायेदमावश्यकम् ॥ हृदिस्पृगिति ॥ हृदयं स्पृशतीति विग्रहः । कर्मणोऽधिकरणत्वविवक्षायां सप्तमी ॥ आमुष्यकुलिकेति ॥ असुष्य कुलस्य भावः । एवममुष्य पुत्रस्य भाव इत्यपि ॥ देवानांप्रिय इति ॥ मूर्खा हि देवानां प्रीतिं जनयन्ति देवपशुत्वात् ॥ शुनःशेप इति ।। शुन इव शेपमस्येति विग्रहः । एवं पुच्छलाङ्गुलाभ्यामपि बहुव्रीहिः । ऋषिविशेषाणामेताः संज्ञाः ॥
(तरतमरूपकल्पचेल वगोत्रमतहतेष्ठ ईबन्तस्यानेकस्वरस्य बस्वो भाषितपुंस्कस्य ) ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली ॥
(सुबोधिनी)-तरतमरूपकल्पचेलअवगोत्रमतहतेषु ईबन्तस्यानेकस्वरस्य द्वस्वो भाषितपुंस्कस्य ॥ अतिशयेन ब्राह्मणीति ब्राह्मणितरा । ब्राह्मणितमा। तरतमचरडिति पुंवद्भावो न । जातिवाचिनः स्त्रीप्रत्ययान्तस्य नेति निषेधात् । 'तरतमेयस्विष्ठाः प्रकर्षे' इति तरतमौ । प्रशस्ता ब्राह्मणीति ब्राह्माणरूपा । प्रशंसायामिति रूपः ॥ ईषन्यूना ब्राह्मणीति ब्राह्मणिकल्पा । ईषदसमाप्तौ कल्पेति कल्पप्रत्ययः ॥ चेलडादीनि वृत्तिविषये समासादौ कुत्सनवाचीनि सन्ति । कुत्सिता ब्राह्मणी । ष्टवित इतीप् । ब्राह्मणिचेली ॥ उक्तपुंस्कस्योत किम् । आमलकीतरा। कुवलीतरा । आमलकीकुवलीशब्दौ वृक्षे नित्यस्त्रीलिङ्गौ ॥
(अनीबन्तस्य स्त्रीप्रत्ययान्तस्येबन्तस्यैकस्वरस्य वा ह्रस्वस्तरादौ ) ब्रह्मबन्धूतरा--ब्रह्मबन्धुतरा । स्वीतरा--स्त्रितरा ॥
(सुबोधिनी )-अनीबन्तस्य स्त्रीप्रत्ययान्तस्य ईबन्तस्यैकस्वरस्य वा द्वस्वस्तरादौ ॥ अनीबन्तस्य स्त्रीप्रत्ययान्तस्य वा ह्रस्वः एकस्वरस्य ईबन्तस्य च वा हस्वो भवति तरतमरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु परेषु ॥ उत ऊरित्यूप्रययः । अतिशयेन ब्रह्मबन्धूरिति तरतमयस्विष्टा इति तरप्रत्ययः ब्रह्मवन्धूतरा ॥ .
(त्रितः परस्य वा, विदुषितरा--विद्वत्तरा । भवतितरा--भवत्तरा । पचतितरा--पचत्तरा॥
Page #299
--------------------------------------------------------------------------
________________
[ समासप्र० ]
टीकाद्वयोपेता। (२८३) (सुबोधिनी )-ब्रितः परस्य वा ॥ उश्च आ च तयोः समाहारः वृ । वृ इत यस्य स वित् तस्मात् वितः ॥ उकारेत ऋकारेतश्च परस्य ईप्प्रत्ययस्य ह्रस्वो वा भवति तरादा ॥ विदुषितराष्ट्रवित इती । वसोर्व उरित्युत्वम् । ह्रस्वाभावे तरतमचरडिति पुंवद्भावः । विद्वत्तरा । विदुषीतरेत्यापि कैश्चिदुदाहृतं तन्निर्मूलम् ॥ (तत्त्वदी )-वितः परस्येति ॥ उश्च आ च नौ तावितौ यस्य स तथा तस्मात् ।।
(इष्टकेषीकामालानां चिततूलभारिषु इस्वः) इष्टकचितम् । पक्केष्टकचितम् । इषीकतूलम् । मुझेषीकतूलम् । मालभारी । उत्पलमालभारी॥
(सुबोधिनी)-इष्टकेषीकामालानां चिततूलभारिषु द्वस्वः ॥ इष्टकादीनां तदन्तानां च हस्वो भवति चितादिषु ॥ इष्टकाभिश्चितमितीष्टकचितम् । तदन्ते पक्केष्टकचितम् ॥ इषीकाणां तूलमिषीकतूलम् ॥ मालां विति इति मालभारी। कर्तरि णिनिः । हारिधिति पाठान्तरम् ॥ (तत्त्वदी० )-मालभारीति ॥ मालां बिभर्तीति विग्रहः । ताच्छील्ये णिनिः ॥ (कारे सत्यागदस्य मुम् ) सत्यंकारः। अगदंकारः ॥ (सुबोधिनी)-कारे सत्यागदस्य मुम् ॥ सत्यागदयोर्मुम् स्यात् कारे ॥ सत्यंकारः। शपथकरणमित्यर्थः॥ अगदकारा वैद्यः ॥ (तत्त्वदी० )-सत्यकारः इति । समयकरणम् ॥ अगदंकारो वैद्यः ।। (अस्तोश्च ) अस्तुंकारः ॥ सुबोधिनी)-अस्तोश्च ॥ अस्तु इत्यस्य मुम् स्यात् कारे ॥ अस्तु इत्याख्यानप्रतिरूपकमव्ययम् । अस्तुंकारः अभ्युपगम इत्यर्थः ॥ (तत्त्वदी० )-अस्तुंकारोऽभ्युपगमः ॥ अस्त्विति तिबन्तप्रतिरूपकमव्ययम् ॥ (धेनोभव्यायाम् ) धेनुभव्या ॥ (सुबोधिनी )-धेनोव्यायाम् ॥ धेनुशब्दस्य मुम् स्यात् भव्यायां परस्याम् ॥ धेनुश्चासौ भव्या चेति विग्रहः । धेनुंभव्या । भविष्यन्ती धेनुरित्यर्थः । निपातनाद्भविष्यति कर्तरि कृत्प्रत्ययः॥ (तत्त्वदी० ) धेनुभव्येति ॥ धेनुश्चासौ भव्येति विग्रहः । भविष्यन्ती धेनुरित्यर्थः । (लोकस्य पृणे ) लोकंपृणः ।।
Page #300
--------------------------------------------------------------------------
________________
( २८४)
सिद्धान्तचन्द्रिका |
[ समासप्र० ]
(सुबोधिनी ) - लोकस्य पृणे ॥ लोकस्य मुम् स्यात् पृणे परे ॥ पृणधातुः प्रीणनार्थः । लोकंपूणः सूर्यः ॥
( इत्येऽनभ्यासस्य ) मुम् || अनभ्यासमित्यः ||
( सुबोधिनी ) - इत्येऽनभ्यासस्य ॥ अनभ्यासस्य मुम् स्यात् इत्ये परे ॥ अभ्यासं समीपम् अभ्यासभिन्नमनभ्यासम् । एतिस्तुशासिति इण क्यप् । अनभ्यासमित्यः । दूरतः परिहर्तव्य इत्यर्थः ॥
( तत्त्वदी ० ) - अनभ्यासमित्य इति ॥ दूरतः परिहर्तव्य इत्यर्थः ॥ ( भ्रष्ट्राग्नयोरिन्धे ) भ्राष्ट्रमिन्धः । अग्निमिन्धः ॥
(सुबोधिनी) - भ्रष्टाग्न्योरिन्धे ॥ अनयोर्मुम् स्यादिन्धे परे || 'इन्धी दीप्ती' कार्येऽणित्यण् । भ्राष्ट्रमिन्धः । अग्निमिन्धः । नाम्नश्च कृतेति समासः ॥
( गिलेsगिलस्य ) मुम् ॥ तिमिङ्गिलः ||
(सुबोधिनी) - गिलेsगिलस्य || अगिलस्य गिलभिन्नस्य मुम् भवति गिले परे ॥ तिमिङ्गिलो मत्स्यविशेषः । गिरतेर्मूलविभुजादित्वात्कप्रत्ययः । गिरते रेफस्य वा लत्वमिति लत्वम् ॥
( तत्वदी ० ) - तिमिङ्गिल इति ॥ मत्स्यविशेषः ॥
( गिलगिले च ) तिमिङ्गिलगिलः ॥
(सुबोधिनी) - गिलगिले च ॥ अगिलस्य मुम् भवति गिलगिले परे ॥ तिमीनां गिलगिल इति तिमिङ्गिलगिलः ॥
( तत्त्वदी ० ) - गिलगिले चेति ॥ गिलं गिलतीति गिलगिलः । तिमीनां गिलगिलतिमिङ्गिलगिल इति विग्रहः ॥
(उष्णभद्रयोः करणे ) उष्णंकरणम् । भद्रंकरणम् ॥ (सुबोधिनी) - उष्णभद्रयोः करणे ॥ उष्णभद्रयोर्मुम् स्यात् करणे परे ॥ ( रात्रः कृति वा ) रात्रिञ्चरः - रात्रिचरः । रात्रिमटः । रात्र्यटः ॥ (सुबोधिनी) - रात्रेः कृति वा । रात्रेर्मुम् वा स्यात् कृत्प्रत्ययान्ते परे ॥ अखिदर्थमिदं सूत्रम् । खिति प्रत्यये सिति पदस्येति नित्यमेव मुम् स्यात् । अटाविति प्रत्ययः । रात्रिञ्चरः ॥
Page #301
--------------------------------------------------------------------------
________________
[समासप्र०] टीकाद्वयोपेता।
(२८५) (नहिवृतिवृषिव्यधिरुचिसहितनिषु ) किबन्तेषु पूर्वस्य दीर्घः। उपानत् । नीवृत् । प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषटू । परीतत् ॥
(सुबोधिनी )-नहिवृतिवृषिव्यधिरुचिसहितनिषु ॥ विवन्तेषु पूर्वस्य दीर्घः ॥ विवन्तेषु परेषु पूर्वस्योपसर्गकारकस्य दीर्घः स्यात् ॥ मह बन्धने । वृतु वर्तने । वृषु सेचने । व्यध ताडने । रुच दीप्तौ । सह मर्षणे । तनु विस्तारे ॥ उप समीपे नह्यते इति उपानत् । कर्मणि विप् ॥ निवर्तते इति नीवृत् । “नीवृजनपदो देश" इत्यमरः ॥ प्रवर्षतीति प्रावृट् ॥ मर्माणि विध्यतीति मर्मावित् । श्वानं विध्यतीति नाम्नो नो लोपशिति नलोपः । श्वावित् । व्यधेः ग्रहां डिति चेति संप्रसारणम्॥ निरोचते इति नीरुक् ॥ ऋतिं सहत इति ऋतीषट् । “ऋतिर्जुगुप्साकल्याणगतिस्प
_स्वथो ऋतुः" इति हैमः ॥ परि तनोतीति परीतत् ॥ विवन्तेष्विति किम् । परिणहनम् ॥ उपसर्गकारकस्येति किम् । पटुरुक् । तिग्मरुक्॥
(तत्त्वदी० )-नहिवृतीति ॥ उपनह्यत इति उपानत् ॥ निवर्तत हति नीवृत् ॥ प्रवप्रतीति प्रावृट् ॥ मर्माणि विध्यतीति मर्मावित् ॥ निरोचते इति नीरुक् ॥ ऋतिं सहते इति ऋतीषट् ॥ परितनोतीति परीतत् ॥
(मत्वर्थे बहुस्वरस्य) अमरावती ॥ (सुबोधिनी )-मत्वर्थे बहुस्वरस्य ॥ बहुस्वरस्य दीर्घः स्यात् संज्ञायामस्त्यर्थे परे ॥ अमराः सन्त्यस्याममरावती। मान्तोपधाद्वत्विनौ इति वत्। ष्टवित इतीप् ॥ संज्ञायामिति किम् । बलवती ॥ बहुस्वरस्यति किम् ॥ व्रीहिमती ।।
(शरादेश्च ) शरावती ॥ (सुबोधिनी )-शरादेश्च ॥ शरादेर्दीर्घः स्यात् अस्त्यर्थे । शराः सन्त्यस्यामिति शरावती ॥
(अजिरादेन ) अजिरवती ॥ (सुबोधिनी)-अजिरादेर्न ॥ अजिरादेर्दी? न भवति अस्त्यर्थे ॥ अजिरमस्त्यस्यां सा अजिरवती । “ अङ्गणं चत्वराजिरे" इत्यमरः ।।
( उपसर्गस्य घन्यमनुष्ये वा दीर्घः) परिपाकः-परोपाकः । परिहासः-परीहासः ॥ अमनुष्ये किम् । निषादः ॥
Page #302
--------------------------------------------------------------------------
________________
(२८६) सिद्धान्तचन्द्रिका। [ समासप्र० ]
( सुबोधिनी )-उपसर्गस्य घञ्यमनुष्ये वा दीर्घः ॥ उपसर्गस्य वा दीर्घः स्यात् घजन्ते परे न तु मनुष्येऽयं ॥ अमनुष्ये किम् । निषीदत्यस्मिन्नघमित्यधिकरणे घज्ञ । निषादः पुलिन्दो मनुष्यजातिः॥
(आदेश्च द्वन्द्वे ) इन्वे सति कचिदादेर्लोपः ॥ माता च पिता च पितरौ । श्वश्रूश्च श्वशुरश्च श्वशुरौ। दुहिता च पुत्रश्च पुत्रौ । स्वसा च धाता च भातरौ ॥
(सुबोधिनी )आदेश्च द्वन्द्वे ॥ इन्दविषये भिन्नार्थानांच तुल्यार्थानां नाम्नामन्त्योऽवशिष्यते । आदीनां च लोपो भवतीत्यर्थः ॥ रामश्च रामश्च रामौ । घटश्च कुम्भश्च कुम्भौ । घटश्च कुभश्च कलशश्च कलशाः ॥ मातृश्वश्रूभ्यां सहोक्तो पितृश्वशुरौ वा शिष्यते । माता च पिता चेति पितरौ मातापितरौ वा । “पितुर्दशगुणा माता गौरवेणातिरिच्यते" इति स्मृतेर्मातुः प्रधानत्वात्पूर्वनिपातः । 'ऋतां इन्दे' इति पूर्वस्यात्वम् ॥ श्वशुरौ । श्वश्रूश्वशुरौ वा ॥ स्वसृदुहितृभ्यां सहोक्तो भ्रातृपुत्रों शिष्यते । दुहिता च पुत्रश्च पुत्रौ ॥ स्वसा च भ्राता च भ्रातरौ ॥
(तत्त्वदी० )-आदेश्च द्वन्द्वे इति ॥ द्वन्द्वे समासे क्वचिदादिभूतस्य' पदस्य लोपः । अत्र यस्य लोप इत्यतो लोपग्रहणमनुवत्ये व्याख्यानम् । तदुदाहरणं पितरावित्यादि इति तु वृद्धाः । नव्यास्त्वेवमाहुः । अत्र नाम्नामित्यनुवृत्त सद्विभक्तिपरं बोध्यं न तु पदार्थपरम् । द्वन्द्वे इत्यप्यर्थपरम् । आदेरित्येकवचनं विवक्षितम् । सूत्रे लिङ्गवचनमविवक्षितमित्युत्सर्गात् । 'तुल्यार्थे ' इत्यनुवर्त्य विभक्तिव्यत्ययेन वाक्यभेदेन च व्याख्येयम् । तथा च समानानुपूर्वीकाणां भिन्नार्थानां तुल्याथांनां भिन्नानुपूर्वीकाणां च नाम्नां मध्ये आदेः आद्योः आदीनां चान्त्य आदेशः स्यात् । रामश्च रामश्च रामौ । घटश्च कुम्भश्च कुम्भौ । घटश्च कुम्भश्च कलशश्च कलशाः । पूर्वपदानामन्त्यपदादेशस्तु न कृतः सविभक्तिकस्यादेशे तस्यैव श्रवणप्रसङ्गात् । द्विवचनबहुवचनयोरभावात् । द्वन्द्वे कृते इत्यपि न सर्वे सर्वेषामित्यादावीत्वविकल्पसुडभावादेः प्रसङ्गात् । द्वन्द्वार्थश्च सहविवक्षया । सहविवक्षा चेयम् । " अनुस्यूते च भेदानामेका प्रज्ञा प्रजायते । यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः" इति ॥
(ऋता द्वन्द्वे) पूर्वस्यात्वम् ॥ मातापितरौ । होतापोतारौ । नेष्टोदातारौ ॥
(सुबोधिनी) ऋता द्वन्द्वे॥ पूर्वपदस्यात्वम् । विद्यायोनिसम्बन्धवाचिनाम् ऋदन्तानां यो द्वन्द्वस्तत्र पूर्वपदस्यात्वं भवति ॥ षष्ठीनिर्दिष्टत्वादन्त्यस्यादेशः । योईन्दे एवात्वम् । माता च पिता चेति एकशेषाभावे मातापितरौ । पुत्रोत्पादनेऽनयो
Page #303
--------------------------------------------------------------------------
________________
[ समासप्र.] टीकाद्वयोपेता। - (२८७) योनिकृतः सम्बन्धोऽत्र ।। होता च पोता चेति होतापोतारौ। नेष्टा चोद्गाता च नेष्टोद्गातारौ । इह होमादिरूपविद्याकृतः सम्बन्ध एकस्मिन् यज्ञ आत्विज्यरूपो बोध्यः॥
(तत्त्वदी० )-ऋता द्वन्द्व इति ॥ विद्यायोनिसंबन्धवाचिनामेव ऋदन्तानामित्यर्थः । तेनेह न कर्तृभोक्तारौ ॥
(पुत्रे च ) पितापुत्रौ । गावश्च गावश्च गाव इमाः । शुक्लश्च शुक्ला च शुक्लं च शुक्लम् । स च यश्च यौ। तौ वा ॥
(सुबोधिनी )-पुत्रे च ॥ विद्यायोनिसंबन्धवाचिनाम ऋदन्दानामात्वं भवति पुत्रे। पिता च पुत्रश्च पितापुत्रौ । अनयोयोोनिकृतः सम्बन्धो जन्यजनकभावलक्षणोऽत्र ॥ ग्राम्यपशुसमूहेष्वतरुणेष्वनेकखुरेषु सहोक्ती स्त्रीलिङ्गोऽवशिष्यते । गावश्च गावश्चेति गावः । उभयत्र रूपस्य समानत्वात् स्त्रीलिङ्गशेषस्य फलमाह । इमा इति ॥ ग्रामे भवा ग्राम्याः यण ।। ग्राम्योत किम् । रुरव इमे । मृगविशेषा वनचारिण इत्यर्थः ॥ पशुग्रहणं किम् । ब्राह्मण्यश्च ब्राह्मणाश्च ब्राह्मणाः॥ समूहेषु किम् । एतो गावों ॥ अतरुणेषु किम् । वत्सा इमे ॥ अनेकखुरेषु किम् । अश्वा इमे । अश्वानामेक एव खुर इत्यर्थः ॥ अक्लीवेन सहोक्तौ क्लीवं शिष्यते। तच्च वा एकवत तल्लक्षण एव विशेषश्चत् । शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रम् । तानीमानि शुक्लानि ॥ त्यादीनां मिथः सहोक्तौ परं पूर्वं च शिष्यते । स च यश्च यौ तौ वा॥ स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसीच हंसश्च हंसौ । इह सर्वत्र एकशषे कृतेऽनेकाभात् इन्द्रसमासो न । तेन शिरसी शिरांसि इत्यादौ प्राण्यङ्गत्वादेकवद्भावो न । पन्थानौ पन्थान इत्यादौ समासान्तप्रत्ययो न भवति ।। इत्येकशेषः ॥
(तत्त्वदी०)-गाव इमा इति ॥ ग्राम्यपशुसोवतरुणेषु स्त्रिया एव एकशेष इत्यर्थः॥ शुक्लमिति ॥ अक्लीवैः सहोक्तौ क्लीबमेव शिष्यते इत्यर्थः । यो तो वेति ॥ त्यदादिषु परं विकल्पेनेत्यर्थः॥
(दिक्संख्ये संज्ञायाम् ) दिग्वाचिनः संख्यावाचिनश्च शब्दाः समानाधिकरणेन संज्ञायामेव समस्यन्ते स कर्मधारयः समासः॥ दक्षिणामिः। सप्तर्षयः ॥ संज्ञायां किम् । पञ्च फलानि ॥ दिसंख्ये किम् । शूर्पणखा।
(सुबोधिनी )-पुनः कर्मधारयमाह-दिक्संख्ये संज्ञायाम् ॥ दिक् च संख्या च दिसंख्ये । दिग्वाचिनः संख्यावाचिनश्च-शब्दास्तुल्यार्थेन सह समस्यन्ते स · कर्मधारयः ॥ कर्मधारयस्तुल्यार्थे इत्यनेनैव सिद्ध नियमार्थमिदम् । संज्ञायामेवेति ॥
Page #304
--------------------------------------------------------------------------
________________
(२८८)
सिद्धान्तचन्द्रिका। [ समासप्र०] दक्षिणश्चासौ आग्निश्चेति दाक्षणाग्निः। सप्त च ते ऋषयश्च सप्तर्षयः । “दक्षिणाग्निर्हिपत्याहवनीयौ त्रयोऽग्नयः" इत्यमरः ॥
(तत्त्वदी०)-दिकसंख्ये संज्ञायामिति ॥ दिक् च संख्या च दिसंख्ये । दिग्वाचिसंख्यावाचिनावित्यर्थः। कर्मधारयस्तुल्यार्थ इत्यनेनैव सिद्ध नियमार्थमिदम् । संज्ञायामेव नान्यत्रेत्यर्थः ॥ दक्षिणाग्निरिति ॥ दक्षिणदिगवस्थिते वस्तुनि दक्षिणशब्दः । अतो दानादेावृत्ती दिगवस्थिते व्यवस्थाप्यते । अनिशब्दोऽपि चित्रकादेावृत्ती हुताशे व्यवस्थाप्यते । अतो विशेषण विशेष्यभावात्कर्मधारयः ॥ संज्ञायां किम् । पञ्च फलानि ॥ दिकसंख्ये किम् । शूर्पणखा ॥ दक्षिणोऽग्निरित्यादौ वाक्ये संज्ञानवगमान्नित्यसमासत्वम् । अविग्रहस्य नित्यसमासत्वात् । न विग्रहो यस्य लोके प्रयुज्यत इति शेषः। अन्यथा दक्षिणोऽग्निरुन्मत्ता गङ्गा यत्रेत्यादिविग्रहस्टर सर्वत्र दर्शनादविग्रहत्वासंभव एव स्यात् । अयमत्र संग्रहः ॥ कृत्तद्धितसमासैकशेषयङाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभिधानं वृत्तिः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विधा। लौकिकोऽलौकिकश्च । तल्लक्षणं चोक्तमेव । समासोऽपि द्विविधः । नित्योऽनित्यश्चेति । नित्योऽपि द्विविधः । अविग्रहोऽस्वपदविग्रहश्च । न स्वस्य समासस्य पदविग्रहो यत्र सः । समासः षड्विध इति प्रायोवादः । द्विग्वव्ययीभावतत्पुरुषद्वन्द्वबहुव्रीहिकर्मधारयभिन्नस्यापि नाम्नश्च कृतेति विधानात् । एतेन नाम्नश्च कृता समास इति सूत्र समासग्रहणं तत्पुरुषपरं समासस्य पूर्वेणैव विधानात् । अमादौ तत्पुरुष इत्यतो मण्डूकप्लुत्याऽनुवृत्तति वासुदेवोक्तिः परास्ता ॥ तथा पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः । विशेष्यपूर्वः कर्मधारयः पूर्वपदार्थप्रधानः । विशेषणपूर्वस्तूत्तरपदार्थप्रधानः। द्विगुरन्यपदार्थप्रधान इत्यपि प्राचां प्रवादः प्रायोऽभिप्राय सूचयति ॥ उन्मत्तगङ्गमित्याद्यव्ययीभावे अतिमालादौ तत्पुरुषे द्वित्रा इत्यादिबहुव्रीहौ दन्तोष्ठमित्यादिद्वन्द्वे चाभावात् । अनेकपदत्वं द्वन्द्वबहुवीह्योरेव । ऐकपद्यमेकविभक्तिकत्वं च समासप्रयोजनं पूर्वनिपातः समासान्तप्रत्ययादिश्च प्रयोजनम् ॥
(द्वन्द्वतत्पुरुषयोः परपदस्यैव लिङ्गम् ) कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ । अर्द्धपिप्पलीयम् ॥
(सुबोधिनी)-द्वन्द्वतत्पुरुषयोः परपदस्यैव लिङ्गम् ॥ इतरेतरयोगद्वन्द्वोन गृह्यते न समाहारद्वन्दः॥ एकत्वे द्विगुद्वन्द्वावित्युक्तत्वात् । द्वन्द्वतत्पुरुषयोरिति संव. न्धे षष्ठी । एतयोः परपदतुल्यं लिङ्गं भवति ॥ कुक्कुटश्च मयूरी च कुक्कुटमयूयौँ । इमे इति स्त्रीलिङ्गनिर्देशः॥ मयूरी च कुक्कुटश्च मयूरीकुक्कुटौ । इमाविति पुंलिंगनिर्देशः ॥ पिप्पल्या अर्द्धमित्यर्धपिप्पली । इयमिति स्त्रीलिंगनिर्देशः।
(द्विगुप्राप्तापनालंपूर्वप्रादिसमासे न ) पश्चकपालः । प्राप्तो
Page #305
--------------------------------------------------------------------------
________________
[ समासप्र० ] टीकाद्वयोपेता।
(२८९) जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । निष्कौशाम्बिः॥ __ (सुबोधिनी )-द्विगुप्राप्तापन्नालंपूर्वप्रादिसमासे न ॥ द्विगुसमासे प्राप्तापन्नालंपूर्वसमासे प्रादिसमासे च परपदतुल्यं लिंगं न भवति ॥ पञ्चमु कपालेषु संस्कृतः। तद्धिताथें द्विगुः । संस्कृतार्थेऽण् । तस्य लुक् च । तद्धितार्थे द्विगुर्विशेष्यानिघ्नः। पुरो दाश्यते इति । 'दाश दाने' कर्मणि घञ् । निपातनादस्य डः । पुरोडाशः ॥ प्राप्तजीवकः ॥ आपन्नजीविकः । अलंकुमारिः। तत्पुरुषा एते । 'अन्यार्थ' इति ह्रस्वः ॥ प्रादिसमासो यथा । प्रादयो गताद्यर्थे प्रथमया । प्रगत आचार्यः प्राचार्यः। दुराचारः पुरुषो दुष्पुरुषः। प्रगतः पितामहः प्रपितामह इत्यादि ॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अतिक्रान्तो मालाम् अतिमालः। 'अन्याथें' इति ह्रस्वः ॥ अभिगतो मुखम् अभिमुखः । उद्गतो वेलाम् उद्देलः । प्रतिगतोऽसं प्रत्यक्ष इत्यादि। अवादयः कुष्टाद्यर्थे तृतीयया । अवक्रुष्टः कोकिलया अवकोकिलः । 'अन्यार्थे' इति ह्रस्वः । परिणद्धो वीरुधापरिवीरुत् । पर्यादयो ग्लानाद्ययें चतुर्थ्या। परिग्लानोऽध्ययनाय पर्यध्ययनः । गुरुकुलवासादिना परिग्लानोऽध्ययनायेत्यर्थः ॥ निरादयः क्रान्ताद्यर्थे पञ्चम्या । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । 'अन्यार्थ' इति ह्रस्वः । उत्कान्ता कुलातु उत्कुला । निर्गतमगुलिभ्यो निरगुलम् । अस्वपदविग्रहेण नित्यसमासा एते ॥ इति प्रादिसमासाः॥ . ( तत्त्वदी०)-निष्कौशाम्बिरिति ॥ कौशाम्व्या निर्गत इति विग्रहः ॥
(अश्ववडवयोर्द्वन्द्वः पूर्ववल्लिङ्गः ) अश्ववडवान् ॥ ( सुबोधिनी )-अश्ववडवयोर्द्वन्द्वः पूर्ववल्लिङ्गः ॥ सूत्रे द्विवचनमविवक्षितम् । बहुत्वेशप (लिंगस्य दर्शनात् ॥ अश्वश्च वडवा च अश्ववडवौ । निपातनादापो निवृत्तिः । बहुत्वे पुंलिंगं दर्शयति । अश्ववडवान् । अश्ववडवैः । विभाषा वृक्षेति पक्षे समाहारद्वन्द्वेऽश्ववडवम् । क्रियाव्ययविशेषणानां क्लीवत्वमेकवचनं च । क्रियाविशेषणानामव्ययविशेषणानां चैकवचनं क्लीवत्वं च भवति ॥
(राबाह्नाहान्ताः पुंस्येव ) अहोरात्रः। पूर्वरात्रः । पूर्वाह्नः । व्यह्नः ॥ (सुबोधिनी)-रात्राहाहान्ताः पुंस्येव ॥ परवलिंगतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते ॥ अप्रत्ययान्तो रात्रिशब्दष्टप्रत्ययान्तोऽहन्शब्दः । एतदन्ता द्वन्द्वद्विगुतत्पुरुषकर्मधारयाः पुंल्लिंगे एव भवन्ति । अहश्च रात्रिश्च अन इति नस्य सः। अहोरात्रः । अहःपूर्वाद्रात्रिशब्दादः समाहारे इत्यप्रत्ययः । रात्रेः पूर्वभागः
Page #306
--------------------------------------------------------------------------
________________
(२९०) सिद्धान्तचन्द्रिका। [ समासप्र.] पूर्वरात्रः । सबैकदेशत्यप्रत्ययः ॥ अह्नः पूर्व इति पूर्वाह्नः । राजाहःसखिभ्य इति टप्रत्ययः । नो वेत्युपधालोपः॥ द्वयोरहोः समाहारः इति टः । नो वेति टिलोपः व्यहः।
(संख्यापूर्व रात्रं क्लीबम् ) द्विरात्रम् । त्रिरात्रम् ॥ (सुबोधिनी)-संख्यापूर्व रात्रं क्लीबम् ॥ यो रात्र्योः समाहारः तिसृणां रात्रीणां समाहार इति । सर्वैकदेशेत्यप्रत्ययः । द्विरात्रम् । त्रिरात्रम् ॥
(अपथं तत्पुरुषे क्लीबम् ) अपथम् ॥ . (सुबोधिनी )-अपथं तत्पुरुषे क्लीवम् ॥ नपूर्वः कृतसमासान्तः पथशब्दः क्लीवे स्यात् ॥ न पन्था इत्यपथम् । ऋक्पूरब्धूःपथामित्यप्रत्ययः ॥ तत्पुरुषे इति किम् । अपथो देशः। कृतसमासान्तनिर्देशात् नेह । अपन्थाः । अत्र नपूर्वात्पथिशब्दाद्वा समासान्तस्तत्पुरुषे इति विकल्पः॥
(अर्द्धर्चादयः क्लीबपुंसोः ) अईर्चम्-अर्द्धर्चः । ध्वजम्-ध्वजः । तीर्थम्-तीर्थः । एवं शरीरमण्डपयूषदेहदेशाङ्कुशकलश इत्यादि ॥
(सुबोधिनी)-प्रसंगादाह ॥ अर्द्धचादयः कीबसोः॥ अर्द्धर्चादयः शब्दाः पांस क्लीवे च स्युः॥ (आबन्तोत्तरपदाद द्विगोर्वेप् ) पञ्चखट्टी-पञ्चखट्टुम् ॥
(सुबोधिनी)-आबन्तोत्तरपदाद्विगोर्वे ॥ आवन्तोत्तरपदो द्विगुर्वा स्त्रियाम् । पञ्चाना खट्वानां समाहारः। नपुंसकस्येति ह्रस्वे कृते इदं प्रवर्तते । पञ्चखट्वम् । स्त्रियां तु समाहारेऽत इतीप् । पञ्चखट्दी ॥ ( तत्त्वदी )-पश्चखष्ट्वमिति ॥ पञ्चानां खट्वानां समाहार इति विग्रहः ।।
(अनो नलोपो द्विगोर्वेप ) पञ्चतक्षम्-पञ्चतक्षी ॥ , (सुबोधिनी)-अनो नलोपो द्विगोर्वेप् ॥ अनो नलोपो द्विगोर्वा स्त्रियाम् ॥ इह वाशब्दः स्त्रियामित्यनेन संबध्यते न तु नलोप इत्यनेन ॥ अन्नन्तस्य द्विगोनित्यं नलोपो भवति । अन्नन्तो द्विगुः स्त्रियां च वा । पञ्चानां तक्ष्णां समाहारः पञ्चतक्षम् । स्त्रियां तु समाहारेऽत इति ईप् । पञ्चतक्षी ॥ - (पुण्यसुदिनाभ्यामह्नः क्लीबता) पुण्याहम् । सुदिनाहम् ॥
(सुबोधिनी)-पुण्यसदिनाभ्यामहः क्लीवता ॥ आभ्यां परस्याहनशब्दस्य क्लीबत्वं स्यात् ॥ पुण्यं च तदहश्चति। राजाहःसखिभ्यः इति टः। नो वेति टिलोपः।
Page #307
--------------------------------------------------------------------------
________________
[ समासप्र० ] टीकाद्वयोपेता।
(२९१) पुण्याहम् । सुदिनं च तदहश्चेति सुदिनशब्दः प्रशस्तपर्यायः । मुदिनाहम् । रात्राबाहान्ताः पुंस्येवेत्यस्यापवादोऽयम् ॥
(तत्त्वदी० )-सुदिनाहमिति ॥ सुदिनशब्दः प्रशस्तपर्यायः । “ सुदिनासु निशामु कार्यमेतत्प्रविचिन्वीत विशेषतः" इत्यादिप्रयोगदर्शनात् ॥ : (संख्याव्ययाभ्यां परस्य पथः क्लीबता) त्रिपथम् । विपथम् ॥
(सुबोधिनी)-संख्याव्ययाभ्यां परस्य पथः क्कीबता ॥ आभ्यां परः कृतसमासान्तः पथशब्दः क्लीवमित्यर्थः ॥ त्रयाणां पन्था इति ऋक्पूरबधूरित्यप्रत्ययः। त्रिपथम् ॥ विरूपः पन्था इति विपथम् ॥ ननु “व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः" इत्यमरे कथं पुंस्त्वम् । उच्यते । प्रमाद एवायमिति बहवः । वस्तुतस्तु 'पथ गतौ' इत्यस्मात्पचाद्यप्रत्यये पथति व्यामोतीति व्युत्पादितः पथशब्दः । तथा च त्रिकाण्डशेषः। “वाटः पथश्चः मार्गः स्यात्" इति । अनेन समासे पुंस्त्वमुपपन्नम् । कापथ इत्यत्र कादेशस्तु ईषदर्थे बोध्यः। अथ च परवल्लिङ्गापवादत्वात्तत्पुरुषे एवंदं प्रवर्तते नान्यत्र । विपथा नगरी । बहुव्रीहिरयम् । पन्थानमतिकान्ता अतिपथा। इहापि न द्विगुप्राप्तापन्नालमिति परपदलिङ्गप्रतिषेधात् इति माधवः ॥ __ (तत्त्वदी०)-त्रिपथं विपथमिति ॥ "व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः।" इत्यमरे "विपथकापथौ" इति रभसकोशे च पथ गतावित्यस्मात्पचाये बोध्यम् । “ वाटः पथश्च मार्गः स्यात्" इति त्रिकाण्डशेषोऽप्यत्रानुकूलः ॥
( सामान्ये नपुंसकम् ) मृदु पचति । प्रातः कमनीयम् ॥ (सुबोधिनी )-सामान्ये नपुंसकम् ॥ अनियतलिङ्गविषयकमिदम् । तेनादिः पचतीत्यादौ पुंस्त्वमेव ॥ मृदु पचति । क्रियाविशेषणत्वात् द्वितीयान्तमिदम् । धातू. पात्तक्रियां प्रति हि फलांशः कर्मीभूतः । फलसामानाधिकरण्ये द्वितीया ॥ _(तत्त्वदी० )-मृदु पचतीति ॥ क्रियाविशेषणत्वाद्वितीयान्तम् । धातूपात्तभावनां प्रति फलांशः कर्मीभूतः । तथा च फलसामानाधिकरण्ये द्वितीया । सामान्ये नपुंसकमिति त्वनियतलिङ्गविषयम् । तेन आदिः पचतीत्यादौ प्रातरादिरिति पुंस्त्वमेव ॥ __ (उपज्ञोपक्रमान्तस्तत्पुरुषः क्लीबम् ) उपज्ञायमानोपक्रम्यमाणयोः प्राथम्यं चेदाख्यातुमिष्यते पाणिन्युपज्ञं ग्रन्थः। नन्दोपक्रमं द्रोणः।।
( सुबोधिनी)-उपज्ञोपक्रमान्तस्तत्पुरुषः क्लीबम् ॥ अनञ्तत्पुरुषाधिकाराऽत्र ॥ उपज्ञान्त उपक्रमान्तश्च तत्पुरुषः क्लीव स्यात् ॥ उपज्ञायते इत्युपज्ञा।
Page #308
--------------------------------------------------------------------------
________________
(२३)
सिद्धान्तचन्द्रिका |
'षिद्भिदामङ्' इति कर्मण्यङ् ॥ उपक्रम्यते इत्युपक्रपः । कर्मणि घञ् । मान्तस्य सेटो न वृद्धिरिति वृद्धयभावः । उपज्ञा च उपक्रमश्च उपज्ञोपक्रमौ उपज्ञोपक्रमौ अन्ते यस्य स उपज्ञोपक्रमान्तः । " उपज्ञा ज्ञानमाद्यं स्याद् ज्ञात्वाऽऽरम्भ उपक्रमः" इत्यमरः ॥ उपज्ञायमानस्योपक्रम्यमाणस्य च प्रथमस्य भावः प्राथम्यं चेद्यदि आख्यातुं वक्तुमिष्यते वाञ्छ्यते । पाणिनेरिति कर्तरि षष्ठी । नन्दस्योपक्रम इति नन्दोपक्रमम् ॥
[ समासप्र•
]
(छायान्तश्च पूर्वपदार्थबाहुल्ये) इक्षूणां छाया इक्षुच्छायम् ॥ (सुबोधिनी ) - छायान्तश्च पूर्वपदार्थबाहुल्ये ॥ छायान्तस्तत्पुरुषो नपुंसकं स्यात् पूर्वं च तत्पदं च पूर्वपदं पूर्वपदस्यार्थः पूर्वपदार्थ: बहुलस्य भावो बाहुल्यम् पूर्वपदार्थस्य बाहुल्यं पूर्वपदार्थबाहुल्यं तस्मिन् ॥ सेनासुराच्छायेत्यस्य विकल्पस्थापवादोऽयम् ॥
( दी ० ) - इक्षुच्छायमिति ॥ “इक्षुच्छायानिषादिन्यः" इत्यत्र त्वाङ्प्रश्लेषो बोध्यः ॥ (राजपर्यायपूर्वो रक्षः पिशाचादिपूर्वश्च सभान्तः क्लीबम ) इनसभम् । ईश्वरसभम् । नेह | राजसभा | रक्षः सभम् । पिशाचसभम् ||
(सुबोधिनी) - राजपर्यायपूर्वो रक्षः पिशाचादिपूर्वश्च सभान्तः क्लीबम् ॥ राजपर्यायपूर्वः सभान्तस्तत्पुरुषो रक्षःपिशाचादिपूर्वः सभान्तस्तत्पुरुषश्च नपुंसकं स्यात् ॥ इनेश्वरशब्दौ राजपर्यायौ । इनस्य सभा इनसभम् । ईश्वरस्य सभा ईश्वरसभम् || राजपर्याय पूर्व इति किम् | राजसभा | रक्षसः सभा रक्षःसभम् । पिशाचस्य सभा पिशाचसभम् ॥
O
( तत्वदी ० ) - इनसभमिति || ' नृपतिसभामगमन्न चेयमाना' इत्यत्र तु राजविशेषवाची नृपतिशब्दो बोध्यः ॥
( सङ्घातार्थे सभान्तः ) स्त्रीसभम् । स्त्रीसंघात इत्यर्थः ॥
( सुबोधिनी ) - सङ्घातार्थे सभान्तः ॥ सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीवं स्यात् ॥
(सेनासुराच्छायाशाला निशान्तो वा ) ब्राह्मणसेनम् | यवसुरम् । कुडचच्छायम् गोशालम् । वनिशम् । पक्षे ब्राह्मणसेनेत्यादि । इति समासप्रक्रिया |
( सुबोधिनी ) - सेनासुराच्छायाशालानिशान्तो वा ॥ एतदन्तस्तत्पुरुषः क्लीवं स्याद्वा ॥ श्रवनिशम् । कृष्णचतुर्दशी ॥ अनजूतत्पुरुष इत्यधिकारान्नेह | दृढ
Page #309
--------------------------------------------------------------------------
________________
[ समासप्र० ] टीकाद्वयोपेता।
(२९३) सेनो राजा । दृढा सेना यस्योत बहुव्रीहिः। असेना अविद्यमाना सेना इति नपूर्वस्तत्पुरुषः ॥ अथ शेषमाह ॥ कृत्तद्धितसमासैकशेषयङाद्यन्तधातुरूपाः पञ्च वृत्तयः ॥ पञ्चानां वृत्तिरिति पूर्वाचार्यसंज्ञा । वृत्तिलक्षणमाहः॥ परार्थाभिधानं वृत्तिः॥ परस्य शब्दस्य योऽर्थस्तस्याभिधानं शब्दान्तरेण यत्र सा वृत्तिः । यथा राजपुरुष इत्यत्र राजशब्देन वाक्यावस्थायामनुक्तः पुरुषार्थोऽभिधीयते ॥ विग्रहलक्षणमाह ॥ वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विधा । लौकिकोऽलौकिकश्च । परिनिष्ठितत्वात्साधुलौकिकः ॥ प्रयोगानोऽताधुरलौकिकः । यथा । राज्ञः पुरुष इति लालिकाविग्रहः । राजन् अस् पुरुष स् इत्यलौकिकविग्रहः ॥ नित्यसमासलक्षणमाह ॥ अविग्रहो नित्यसमासः ॥ लौकिकविग्रहरहितो नित्यसमासो ज्ञेयः। लोके यस्य विग्रहो न प्रयुज्यते इति भावः । अस्वपदविग्रहो वा । समस्यमानयावत्पदैरघटितः अस्वपदविग्रहः । समासः षड्विध इति प्रायोवादः ॥अव्ययीभावतत्पुरुषद्वन्द्वद्विगुबहुव्रीहिकर्मधारयाधिकारबहिर्भूतस्यापि नाम्नश्च कृतेति विधानात् । तद्व्याख्याने तत्पुरुष इत्युक्तिस्तु प्राचामनुरोधनेति ध्येयम् ॥ पूर्वपदार्थप्रधानोऽव्य. यीभावः ॥ उत्तरपदार्थ वानस्तत्पुरुषः ॥ उभयपदार्थप्रवाना द्वन्द्वः ॥ संख्यापूर्वान्यपदार्थपधानो द्विगुः ॥ अन्यपदार्थप्रधानो बहुव्रीहिः ॥ विशेषणपूर्वः कर्मधारयः उत्तरपदार्थप्रधानः ॥ विशेष्यपूर्वस्तु पूर्वपदार्थप्रधानः ॥ इत्यपि न तु सार्वत्रिकः । सूपप्रति उन्मत्तगङ्गमित्याद्यव्ययीभाव अतिमालादौ तत्पुरुष दन्तोष्ठमित्यादौ द्वन्दे दिवा इत्यादी बहुव्रीहौ चाभावात् ॥ अनेकपदत्वं द्वन्दबहुव्रीह्योरेव । किंच "सिपां सिपा तिपा नाम्ना धातुनाऽथ तिपां तिपा । सिवन्तेनेति विज्ञेयः समासः षड्विधो बुधः ॥ १॥" प्रायोऽभिप्रायः। सिवन्तानां सिवन्तेन यथा । राजपुरुषः ॥ सिबसानां तिपा समासो वेदे एव भवति नान्यत्र । यथा पर्यभूषत् ॥ सिवन्तानां नाना प्रातिपदिकेन यथा कुम्भकारः। अत्र सिबुत्पत्तेः प्रागेवोपपदसमासः॥ सिवन्तानां धातुना यथा । विपि वचिप्रच्छयायतस्तुकटग्रुजुश्रीणामित्यादिनिपातनाद्धातुना समासः । कटप्रूः । अजस्रम् ॥ तिपां तिपा समासो यथा । क्रियासातत्ये आख्यातेन समस्यते । अश्नीत पिवतेत्येवं सततं यत्राभिधीयते सा अश्नीतपिवता । पचतभृज्जता । खादतमोदता ॥ तिपां सिपा यथा । एहीडादयोऽन्याथै समस्यन्ते । एहि ईड इति यस्मिन् कर्मणि तत् एहीडम् । कृन्त विचक्षण इति यस्यां क्रियायां सा कृन्तविचक्षणा ॥ इवेन नित्यसमासो विभक्त्यलोपश्च । जीमूतस्येव ॥ इति सर्वसमासशेषः॥ जात्याख्यायामेकस्मिन्बहुवचनं वा । ब्राह्मणाः पूज्याः ब्राह्मणः पूज्यः। एकत्वे द्वित्वे चास्मदो बहुवचनं वा । वयं ब्रूमः। अहं ब्रवीमि । आवा ब्रूवो वा॥ उपमानानि सामान्यवचनैः सहः समस्यन्ते । घनश्यामः । इह पूर्व पदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । उपमानस्य
Page #310
--------------------------------------------------------------------------
________________
(२९४) सिद्धान्तचन्द्रिका। [तद्धितप्र०] पूर्वनिपातनार्थमिदम् ।। उपमेयं व्याघ्रादिभिः सामान्याप्रयोगे समस्यते । विशेष्यस्य पूर्वनिपातनार्थमिदम् । पुरुषो व्याघ्र इव शूर इत्यर्थः ॥ सुबोधिन्यांसमासप्रक्रिया ।। (तत्त्वदी०)-श्रीविद्यानगरस्थायिलोकेशकरशर्मणा । कृतायामिह टीकायां समासविवृति
गंता ॥ इति तत्त्वदीपिकायां समासप्रक्रिया ॥
अथ तद्धितप्रक्रिया। (अपत्येऽण् ) नाम्नोऽपत्येऽर्थेऽण् प्रत्ययः । (सुबोधिनी)-अथ तद्धितो निरूप्यते ॥ तेभ्यः स्याद्यन्तपदेभ्यो हितस्तद्धितः। विभक्त्यन्तनाम्न एव तद्वितोत्पत्तिर्भवतीत्यर्थः ॥ अपत्येण । षष्ठयन्तानाम्नोऽण प्रत्ययो भवति अन्वये सत्यपत्यार्थे । अन्वयस्तु एकार्थीभाव एव वृत्तौ । वाक्यं तु व्यपेक्षालक्षणः । “आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी । आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे" इत्यमरः ॥ ___ (तत्त्वदी०)-अपत्येऽणिति ॥ अत्र प्रकरणादिनाऽपत्यान्वयस्यासंभवात्परिशेषाद्वा नामलाभः । नाम्नोऽण इति ॥ अतः षष्ठयन्तस्यैवापत्यवद्भावसंबन्धे षष्ठया एवोचितत्वात् ॥
(आदिस्वरस्य णिति च वृद्धिः ) स्वराणां मध्ये य आदिस्वरस्तस्य वृद्धिनिति णिति च तद्धिते ॥
(सुबोधिनी)-आदिस्वरस्य णिति च वृद्धिः॥ स्वरेषु आदिः आदिस्वरः। निर्झरणार्थसप्तम्या समासः । क्वचिदमाद्यन्तस्य परत्वमिति परनिपातः । निद्धारणषष्ट्या तु न समासः निर्धारणे या षष्ठीति निषेधात् । यद्वा 'वोऽव्यस्वरे' इत्यतः 'स्वरे' इत्यनुवर्त्य तच्च जातावेकवचनं निर्धारणसप्तम्यन्तम् । तथा च स्वरेषु य आदिस्वरस्तस्य वृद्धिरिति व्याख्याने आदिश्चासौ स्वरश्चेति कर्मधारयः। न च ण च णौ तौ इतौ यस्य स णित् तस्मिन् णिति । प्रकरणात्तद्धिते इति लभ्यते । इच्छब्दस्तु प्रत्येकं संबध्यते द्वन्दान्ते श्रूयमाणत्वात् ॥
(तत्त्वदी० )-आदिस्वरस्य णिति च वृद्धिरिति । अत्र स्वराणाम् आदिः आदिस्वरः । स्वरेषु वा। निर्धारणार्थया षष्ठया सप्तम्या वा समासः । कचिदमाद्यन्तस्य परत्वस्येदमपि ज्ञापकम् । निर्धारणं च सजातीयापेक्षम् । तेन स्वर एव गृह्यते न तु हस इति लघुभाष्ये । अत्रेदमवधेयम् । निर्धारणषष्ट्या समास इति तावत् व्याहतम् । तथाहि। क्वचिषष्ठी न समस्यत इत्युक्तत्वात् । क्वचित्पदेन ग्रन्थान्तरोक्तनिरिणादिलाभात् । न निर्धारण इति । पाणिनिसूत्रमेवात्रार्थेऽनुकूलमिति । तस्मात्सप्तम्यन्तेन समासः । कर्मधारयो वा । कर्मधारये च
Page #311
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ]
टीकाद्वयोपेता ।
( २९५ )
'वोsव्यस्वरे' इत्यतः स्वरे इत्यनुवर्त्य जातावेकवचनं बोध्यम् । तथा च स्वरेषु य आदिस्वरस्तस्य वृद्धिरिति व्याख्येयम् । व् च ण् च णौ णौ इतौ यस्य स गत् तस्मिन् प्रकरणात्तद्धितस्यैव विशेषणम् । अत्र णितीति वा जितीति वा एकमेव कर्तव्यं सर्वत्र णकार एव ञकार एव वाऽनुबन्धत्वेन कार्य इत्युक्तिस्तु अनेकस्थलेऽनुबन्धव्यत्यासकरण क्लेशादुपेक्षिता ॥ नन्वा - दोति च वृद्धिरित्येवास्तु किं स्वरग्रहणेनेति चेत्सत्यम् । हसस्य वृद्धिग्रहणेन वारण संभवेऽपि यत्रादावेकस्वरः स्यात्तत्रैव वृद्धिर्न त्वादिहसात्परस्य स्वरस्येति शङ्कानिरासाय स्वरग्रहणस्यावश्यकत्वात् । आदित्वं तु यस्मात्पूर्वं नास्ति तत्त्वम् । एवमन्तत्वमपि यस्मात् परो नास्ति तत्त्वमेव । इत्थं च व्यपदेशिवद्भावो नापेक्ष्यः । यदि तु सत्यन्यस्मिन्नित्यपि विशेषणमुपादेयम् तदा व्यपदेशिवद्भावेनैकस्वरस्य सिद्धिः ॥
( वोsव्यस्वरे ) उवर्णस्यौतश्वाव् तद्धितस्य यकारे स्वरे च ॥ उपगोरपत्यमौपगवः । वैदुषः । वासिष्ठः । गौतमः । भार्गवः । आंगिरसः । बैदः । और्वः । वार्त्रघ्नः ॥
( सुबोधिनी ) - वोsव्यस्वरे || उश्व ओश्वानयोः समाहारो वो । एकत्वे द्विगुद्वन्द्वाविति नपुंसकत्वेऽपि न ह्रस्वः । अनुकार्यस्वरूपस्पष्ट प्रतिपत्त्यर्थत्वात् ॥ यश्च स्वरश्च तयोः समाहारः यस्वरं तस्मिन् यस्वरे तद्धितसंबन्धिनि ॥ अत्रौकारस्य स्वरे अविसिद्धे यकारार्थं तद्ग्रहणम् । वस्तुतस्तु क्वचिद्यकारेऽपि स्वरकार्यातिदेशादेव सिद्धिरित्योग्रहणं व्यर्थमिति ध्येयम् ॥ गामुपगत इत्युपगुः । नाम्नश्चेति समासः । गोरिति ह्रस्वः । यादव विशेषस्य उद्धवस्य पूर्वजः कश्चित् । "उद्धवं प्रकृत्योपगविर्जगाम ॥” इति भागवतात् || उपगोरपत्यमिति अणः प्रयोगे उक्तार्थानामप्रयोग इति न्यायादपत्य शब्दस्याप्रयोगः । वा टाङचोरित्यतो वेत्यनुवर्तते । तेन पक्षे षष्ठीसमासोऽपि । उपग्वपत्यमिति । समासस्य वैकल्पिकत्वाद्वाक्यमपि । औपगवः । स्त्रियां तु जातेरितीप् । औपगवी || अन्वये किम् । वस्त्रमुपगोरपत्यं चैत्रस्य ॥ विदुषोऽपत्यं वैदुषः ॥ वसिष्ठस्य ऋषेरपत्यं वासिष्ठः ॥ गौतमस्य ऋषेरपत्यं गौतमः ॥ भृगोर्ऋऋषेरपत्यं भार्गवः ॥ अंगिरस ऋषेरपत्यम् आंगिरसः ॥ विदस्यापत्यं बैदः ॥
स्थापत्यम् और्वः ॥
( तत्त्वदी ० ) - वोsव्यस्वर इति || वो अबू यत्वरे इतेि छेदः । उश्व ओश्व एतयोः समाहारः वो । एकत्वे द्विगुद्वन्द्वावित्यस्यानित्यत्वान्नपुंसकाभावः । नपुंसकत्वं वा हस्वस्यैवानि - त्यत्वम् । यश्चस्वरश्च यस्वरं तस्मिन् । अत्र ओकारस्य स्वरे अविधानस्य सिद्धत्वेऽपि यकारार्थमोग्रहणस्यावश्यकत्वात् तद्ग्रहणम् । वस्तुतस्तु क्वचिद्यकारेऽपि स्वरकार्यातिदेशादसिद्धिरित्यो कारग्रहणं न कर्तव्यम् । यस्वरयोश्च प्रकरणात्तद्धितयोरेव ग्रहणम् ॥ उपगोरपत्य
Page #312
--------------------------------------------------------------------------
________________
(२९६) सिद्धान्तचन्द्रिका। [तद्धितप्र०] मिति ॥ गामुपगत उपगुः । नाम्नश्चेति समासो गोरिति ह्रस्वः ॥ उपगुर्यादवविशेषः उद्धवपूवजेषु कश्चन । अणः प्रयोगे उक्तार्थानामप्रयोग इति न्यायादपत्यशब्दस्याप्रयोगः ॥ मृगापत्ये मृगत्वसत्त्वान्न तद्वाचिभ्यस्तद्धितः । उपगुत्वं त्वौपगवे नास्तीति भवत्यपत्यप्रत्ययः ॥ * (ऋ उरणि) संख्यासंभद्रपूर्वस्य मातृशब्दस्य ऋत उर्भवत्यणि परे ॥ पाण्मातुरः । सामातुरः । भाद्रमातुरः ॥ . (सुबोधिनी)-ऋउरणि ॥ सामान्यशब्दस्यापि लक्ष्यानुसारात् विशेषपरत्वं बोध्यम् । तेन संख्यादिपूर्वस्य मातृशब्दस्य लाभः । षष्णां मातृणामपत्यमिति तद्धितार्थे द्विगुसमासोऽयम् । न तु षण्मातृणामपत्यमिति विग्रहः। दिक्संख्ये संज्ञायामिति नियमेनासंज्ञायां समासाभावात् । तद्धितान्तस्य संज्ञात्वेऽपि समासस्यासंज्ञात्वात् । आदिस्वरवृद्धिः षो ड इति डत्वम् । क्वचिजबस्यापि म इति डस्य णः । उर् । पाण्मातुरः ॥ द्वयोर्मात्रोरपत्यं द्वैमातुरः। द्वैमात्रेयश्च विनायकः ॥ संमातुरपत्यं सांमातुरः ॥ भद्रमातुरपत्यं भाद्रमातुरः॥
(तत्त्वदी०)-ऋ उरणीति ॥ मातृशब्दस्येति जननीवाचकस्यैव ग्रहणं व्याख्यानात् ॥ षण्णां मातृणामपत्यमिति ॥ संख्यापूर्वो द्विगुरिति तद्धितार्थे द्विगुः । अमे जमा वेत्यत्र व्यवस्थितत्वाश्रयणात्क्वचिज्जबस्यापि डकारस्य जमानां मध्ये सवर्णत्वेन णकारः ॥
(शिवादेवाण ) शैवः। गांगः ॥ (सुबोधिनी) शिवादेश्चाण ॥ शिवादेरण स्यादपत्येऽथें ॥ इञपवादोऽयम् ॥ शिवस्यापत्यं शैवः ॥ लह्यस्यापत्यं लाह्यः॥ गङ्गाया अपत्यं गाङ्गः ॥ पक्षे गाङ्गेयः एयण ॥ शिव ककुत्स्थ वेतण्ड जरत्कारु विपाश् तक्षन् विश्रवण रवण ऋष्टिषेण विरूपाक्ष इति शिवादिः ॥ ( तत्त्वदी० )-शिवादेश्चेति ॥ अत इति योगविभागात शिवादेरकारान्तादप्यण् ॥
(अत इअनृपेः ) अकारान्तान्नानोऽनृषिशब्दादपत्येऽर्थे इञ् ॥ दैवदत्तिः । धरिः । दाशरथिः । पौरन्दरिः॥
(सुबोधिनी ) अत इञनृषेः॥ ऋषिवाचकाददन्तात्तु अणेव भवति । अनृषिवाचकमदन्तं यत्प्रातिपदिकं तत्प्रकृतिकात् षष्ठयन्तादिञ् स्यादपत्येऽर्थे ॥ देवदत्तस्यापत्यं दैवदत्तिः॥ श्रीधरस्यापत्यं त्रैधरिः।। दशरथस्यापत्यं दाशरथिः॥ पुरन्दरस्यापत्यं पौरन्दरिः॥
(तत्त्वदी)-अत इञनृषेरिति ॥ अत्रात इति योगविभागः। तेनाकारान्तादनृषिवाचकादप्यण । भैमसेन इत्यादि ॥
Page #313
--------------------------------------------------------------------------
________________
[ तद्धितप्र०] टीकाद्वयोपेता।
(२९७) (बाहादेश्च ) बाहोरपत्यं बाहविः। औडुलोमिः । गार्गिः । बैदिः। नाडिः। कौनिः॥ __ (सुबोधिनी) बाहादेश्च ॥ बाह्वादिभ्य इञ् स्यादपत्येऽर्थे ॥ बाह्वादिराकृतिगणोऽयम् । बाहोरपत्यं बाहविः ॥ उडूनीव लोमानि यस्य स उडुलोमा । " तारकाऽप्युड वाऽस्त्रियाम्” इत्यमरः ॥ उड्डलोम्नोऽपत्यं नो वेति टिलोपः । औडुलोमिः । बहुत्वे त्वस्मादणितो वेत्यणित्त्वान्न वृद्धिः । उडुलोमाः ॥ गर्गस्यापत्यं गागिः ॥ बिदस्यापत्यं बैदिः ॥ नडस्यापत्यं नाडिः ॥ कुञ्जस्यापत्यं कौञ्जिः ॥ बाहादिर्यथा । बिद उर्व कश्यप कुशिक भरद्वाज उपमन्यु विश्वानर परस्त्री परशु इत्यादिः ॥
(तत्त्वदी० )-बाहादेश्चेति ॥ इञ् इति द्वितीययोगविभागादनकारान्तादपीञ् सिध्यतीति भावः । तेन सावर्णिरित्यादिसिद्धिः॥
. (सुधातृव्यासवरुडनिषादचण्डालबिम्बानामकङ् च ) सुधातुरपत्यं सौधातकिः । वैयासकिः । वारुडकिः । नैषादकिः । चाण्डालकिः। बैम्बकिः ॥
(सुबोधिनी )-सुधातृव्यासवरुडनिषादचण्डालबिम्बानामकङ् च ॥ एषामकङादेशः स्यात् इजप्रत्ययश्चापत्येऽर्थे । ङित्त्वादन्त्यस्य स्थानेऽकङ् ॥ सुधातुरपत्यं सौधातकिः ॥ वेदान् व्यसतीति वेदव्यासः । कार्येऽणित्या । भीमो भीमसेन इतिवदेकदेशस्य ग्रहणम् । व्यासस्यापत्यमिति न संधिोयुट् चति वक्ष्यमाणेनेडागमः । ततो वृद्धिवैयासकिः॥ वरुडस्यापत्यं वारुडकिः । वरुडादया जातिविशेषाः ॥ निषादस्यापत्यं नैषादकिः चंडालस्यापत्यं चांडालकिः ॥ बिम्बस्यापत्य बैम्बाकः॥
( तत्त्वदी० )-अकङ् चेति ॥ ङित्त्वादन्तस्यायमादेशः ॥ सौधातकिरिति ॥ सुधातुरपत्यमिति विग्रहः ॥
(ण्यायनणेयण्णीया गर्गनडात्रिस्त्रीपितृष्वस्रादेः ) गर्गादेयों नडादेरायनण् अत्र्यादेः स्त्रीप्रत्ययान्ताच्च एयण पितृष्वस्रादेीयोऽपत्येऽर्थे । गार्ग्यः । वात्स्यः । कात्यः । वातण्ड्यः। आवटयः। माण्डूक्यः। पौतिमाष्यः ॥ नाडायनः । चारायणः । गाायणः । वात्स्यायनः। आमुप्यायणः ॥आत्रेयः । कापेयः । नैधेयः ॥ गांगेयः । माहेयः । गौधेयः । नाटयः ॥
Page #314
--------------------------------------------------------------------------
________________
(२९८) सिद्धान्तचन्द्रिका। [ तद्धितप्र०]
(सुबोधिनी )-ण्यायनणेयण्णीया गर्गनडात्रिस्त्रीपितृष्वस्रादेः ॥ ण्यश्च आयनण् च एयण च णीयश्च ते ण्यायनणेयण्णीयाः । गर्गश्च नडश्च अत्रिस्त्रियौ च पितृष्वसा च एषां समाहारो गर्गनडात्रिस्त्रीपितृष्वसृ। गर्गनडात्रिस्त्रीपितृष्वस आदिर्यस्य स गर्गनडात्रिस्त्रीपितृष्वस्त्रादिस्तस्मात् । द्वन्द्वान्ते श्रूयमाण आदिशब्दः प्रत्येकं सम्बध्यते । स्त्रीशब्देन स्त्रीप्रत्ययस्य ग्रहणान्नादिशब्दयोगः ॥ इह स्वरूपग्रहणं नेष्टम् । अत्र्यादिषु तस्य तु सुग्रहत्वात् ॥ यथाक्रमेण गर्गादिभ्यो ण्योऽपत्येऽर्थे ॥ नडादेरायनण अपत्येऽथै ॥ अध्यादेः स्त्रीप्रत्ययान्ताच्च एयण अपत्येऽर्थे । पितृष्वस्रादेीयोऽपत्येऽर्थे ॥ इह आयनणेयणोरणन्तत्वादीप् । अन्तणकारपाठसामर्थ्यादर्थवद्ग्रहणपरिभाषाया अनित्यत्वात् । अन्यथा ण्यणीयवत् णायनणेयावित्येव ब्रूयादिति ॥ गर्गादिर्यथा । गर्ग वत्स व्याघ्रपाद पुलस्ति बभ्र मण्डु वतण्ड शकल कण्व अगस्त्य (अगस्ति) कुण्डिनी याज्ञवल्क्य पराशर जमदग्नि इत्यादि ॥ नडादिर्यथा । कुञ्ज ब्रध्र शंख शकट हत्यादि ॥ अत्र्यादिर्यथा । अत्रि शुभ्र मृकंडु अश्वाद नातृ विधवा गोवा प्रवाहण पाण्डु इत्यादि । गर्गादिशब्दास्तदपत्ये लाक्षणिकाः । साक्षादपत्ये इव । अनन्तरापत्ये गागरित्युक्तत्वात् । गर्गस्यापत्यमितीजोऽर्थः । गागैरपत्यं गार्ग्यः। वत्सस्यापत्यं वात्स्यः। कतस्यापत्यं कात्यः। वतण्डस्यापत्यं वातण्डयः । अवटस्यापत्यमावत्यः । मण्डूकस्यापत्यं माण्डूक्यः। पूतिमाषस्यापत्यं पौतिमाष्यः । स्त्रियां तु नदादित्वादीप् । हसात्तद्धितयस्येपीति यलोपः। गार्गी । वात्सी । नडादित्वात् स्त्रियामायनणि गाायणी । कात्यायनी । वातण्डी । वातण्डयायनी । माण्डूक्यायनी ॥ अजादित्वादापूप्रत्यये आवट्या । पौतिमाष्या। नडस्यापत्यमितीजोऽर्थः । नाडेरपत्यं नाडायनः । चरस्यापत्यं चारायणः । ण्यान्तानामिअन्तानां च नडादित्वं बोध्यम् । गार्यस्यापत्यं गाायणः। वात्स्यस्याऽपत्यं वात्स्यायनः । दाक्षेरपत्यं दाक्षायणः । अमुष्यापत्यमामुष्यायणः। षष्ठया अलुगत्र । अत्रेरपत्यमात्रेयः । कपरपत्यं कापेयः॥ . ( तत्त्वदी० )-ण्यायनणयण्णीया इति ॥ ण्यश्च आयनण् च एयण च णीयश्च ते । गर्गश्च नडश्व अत्रिश्च स्त्री च पितृष्वसा च एतेषां समाहारस्तदादिर्यस्य स तथा तस्मात् । द्वन्द्वात्पर आदिशब्दः प्रत्येकमभिसंबध्यते । स्त्रीतिप्रत्ययग्रहणान्नादिशब्दयोगः । अत्र नव्याः । आदिशब्दोऽत्र प्रकारवाची न तु ज्यवस्थार्थः । एतदादिगणस्यात्रादर्शनादित्याहुः । तन्मते गर्गादेर्गणाद् ण्य इत्यादिर्वासुदेवोक्तिः प्रत्युत्ता । गर्गादिशब्दाश्च तदपत्ये लाक्षणिकाः तेन गर्गस्यापत्यं गार्गिः। गार्य इत्यत्र गागैरपत्यमित्यर्थों बोध्यः। साक्षादपत्ये तु गार्गिरित्येवेति ॥
( कल्याण्यादेरिनङ् च ) काल्याणिनयः । कौलटिनेयः ॥
Page #315
--------------------------------------------------------------------------
________________
[ तद्धितप्र०] टोकाद्वयोपेता।
(२९९) (सुबोधिनी)-कल्याण्यादेरिनङ् च ॥ एषामिनङादेशः ॥ स्त्रीप्रत्ययान्तत्वादेयणप्रत्ययः कल्याणी मुभगा दुर्भगा बन्धकी परस्त्री कुलटा इत्यादि ॥ कल्याण्या अपत्यं ङित्त्वादन्त्यस्थाने इनङ् । आदिस्वरवृद्धिः । यस्येतीलोपः । काल्याणिनेयः॥ कुलान्यटति भिक्षार्थ हलादेरीषादाविति टेलोपः । सा कुलटा । सती भिक्षुक्य।नङ्विधौ गृह्यते । या तु व्यभिचारार्थे कुलान्यटति तस्या एरणप्रत्यये कौलटेरः। एयणि तु कौलटेयः । सतीपक्षे तु इनङ्वा भवति कौलटिनेयः कौलटेयः ॥ "अथ बान्धकिनेयः स्याद्वन्धुलश्चासतीसुतः ॥” " कौलटेरः कौलटेयो भिक्षुकी तु सती याद । तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः" इत्यमरः ॥ सुभगाया अपत्यामिति क्वचिद्द्योरिति वक्ष्यमाणेनोभयत्र वृद्धिः । इनङ् । सौभागिनेयः ॥
( तत्त्वदी० )-इनङ्चेति डित्त्वादन्त्यादेशः ॥ काल्याणिनेय इति ॥ कल्याण्या अपत्यमिति विग्रहः ॥
(गोधादेरारणेरणौ ) गौधारः। नाटारः। पाण्डारः। गौधेरः । नाटेरः । पाण्डेरः । पैतृष्वस्त्रीयः । मातृष्वतीयः ॥
(सुबोधिनी )-गोधादेरारणेरणौ ॥ गोधादेरारणेरणौ प्रत्ययौ स्तः अपत्येऽथे।। गोधाया अपत्यं गौधारः॥ नट्या अपत्यं नाटारः। यस्येति लोपः॥ पण्डो नपुंसकस्तस्यापत्यं पाण्डारः । एरणि तु गौधेरः नाटेरः पाण्डेरः । पितृष्वस्रादेर्णीयः । पितृध्वसेति । मातृपितृभ्यां स्वसुरिति षत्वम् । पितृष्वसुरपत्यं पैतृष्वतीयः । मातृष्वसुरपत्यं मातृष्वस्त्रीयः॥
(तत्त्वदी० )-गौधार इति ।। गोधाया अपत्यमिति विग्रहः॥ पाण्डार इति ॥ पण्डस्यापत्यमिति विग्रहः ॥
(पितृष्वस्रादेरेयणि टिलोपः ) पैतृष्वसेयः। मातृष्वसेयः॥ (सुबोधिनी)-पितृष्वस्रादेरेयणि टिलोपः॥ पितृष्वस्रादष्टेलोपः स्यादेयणि ॥ अत्र्यादित्वादेयण । पैतृष्वसेयः॥
( तत्त्वदी० )-पैतृष्वसेय इति ॥ पितृष्वसुरपत्यमिति विग्रहः । पितृष्वस्रादेरित्यत्र कृतषत्वनिर्देशात्समासे क्वचित्पूर्वपदादुत्तरपदस्तस्य सस्य षः। तेन ज्योतिष्टोम इत्यादौ षत्वं च ॥
(पाण्डोडयण ) पाण्डयः। (सुबोधिनी )-पाण्डोडर्यण् ॥ पाण्डुशब्दात ड्यण स्यादपत्येऽर्थे । णित्करणं तु पाण्डया भार्या इत्यत्र वृद्धिहेतोस्तद्वितस्यारक्तविकारार्थस्येति पुंवद्भावप्रतिषेधार्थम् । पाण्डोरपत्यं पाण्डयः॥
Page #316
--------------------------------------------------------------------------
________________
(३००) सिद्धान्तचन्द्रिका। [तद्धितप्र०]
( चटकादरैरण ) चटकस्यापत्यं चाटकैरः ॥ ( सुबोधिनी )-चटकादेरैरण ॥ चटकशब्दादैरणू स्यादपत्येऽर्थे ॥ प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषया स्त्रिया अपि । चटकस्य चटकाया वाऽपत्यं चाटकरः॥ (तत्त्वदी०-चाटकर इति ॥ चटकस्य चटकाया वाऽपत्यमिति विग्रहः ॥
( ख्यपत्ये लुक् ) चटका ॥ • (सुबोधिनी)-ख्यपत्ये लुक् । चटकादरणो लुक् स्यात् ख्यपत्ये ॥ चटका ।
अजादित्वादाप् ॥ __ (तत्त्वदी०)-चटकेति ॥ चटकस्य चटकाया वाऽपत्यं स्त्रीति विग्रहः ॥
(लुम्बहुत्वे क्वचित ) प्रत्ययस्य ॥ गर्गाः । वसिष्ठाः । भृगवः । अङ्गिरसः । वत्साः । कुत्साः। गौतमाः। अत्रयः । बिदाः। अङ्गाः। वङ्गाः। कलिङ्गाः । विदेहाः ॥
(सुबोधिनी ) लुम्बहुत्वे क्वचित् ॥ क्वचिदपत्यप्रत्ययस्य लुक् स्यात् तत्कृते बहुत्वे ॥ ण्यस्य लुक् । गर्गाः । वत्ताः ॥ तत्कृते इति किम् । प्रियो गाग्र्यो येषां ते प्रियगााः । स्त्रियां तु न । गार्यः स्त्रियः॥ अणो लुक् वसिष्ठाः। भृगवः। आङ्गिरसः। कुत्साः। गौतमाः। विदाः। उाः॥ एयणो लुक् । अत्रयः॥ जनपदक्षत्रियवाचिनोऽपत्यप्रत्ययस्य लुक् स्यात् । बहुत्वे अणो लुक् अंगाः । वंगाः । कलिंगाः। विदेहाः । तद्राजन्यर्थेष्वपत्यप्रत्यया भवन्ति । इक्ष्वाकूणां राजति निपातनाहिलोपः। ऐक्ष्वाकः ॥ पञ्चालानां राजा पाञ्चालः ॥ बहुत्वे लुक् । इक्ष्वाकवः। पञ्चाला इत्यादि ॥ एवमङ्गानां राजा आंग इत्याद्यपि बोध्यम् ॥
( तत्त्वदी० )-लुग्बहुत्वे क्वचिदिति ॥ कचिद्ग्रहणाद्ग्रन्थान्तरोक्तलक्ष्यानुसारेण लुग्भवतीति बोध्यम् । ग्रन्थगौरवमयान्न तत्सर्वमुदाहृतम् ।
(स्त्रियामवन्तिकुन्तिकुरुशूरसेनादिभ्योऽबहुत्वेऽपि ) अवन्ती । कुन्ती । कुरूः। शूरसेनी ॥
( सुबोधिनी )-स्त्रियामवन्तिकुन्तिकुरुशूरसेनादिभ्योऽबहुत्वेऽपि ॥ एभ्योऽपत्यार्थप्रत्ययस्य लुक्स्यात् स्त्रीप्रत्यये ॥ अवन्तेरपत्य स्त्री अवन्ती । कुन्तर. त्पयं कौन्तेयः । स्त्री कुन्ती ॥ इतो मनुष्यजातेरितीप् । कुरोरपत्यं कौरव्यः। स्त्री कुरूः । उत ऊरित्यूप्रत्ययः ॥ शूरसेनस्यापत्यं शौरसेनः । स्त्री शूरसेनी ।। अवन्तीत्यादि किम् । मद्रस्यापत्यं माद्रः। स्त्री माद्री । जातिवादी ॥
Page #317
--------------------------------------------------------------------------
________________
[तद्धिता०] टीकाद्वयोपेता।
(३०१) (तत्त्वदी०)-अवन्तीति ॥ अवन्तेरपत्यमिति विग्रहः । पुमांस्त्वावन्त्यः॥ कुन्तीति ।। कुन्तेरपत्यमिति विग्रहः ॥ कुरूरिति ॥ कुरोरपत्यं स्त्री कुरूः । उत ऊरित्यूः । पुमांस्तु कौरव्यः । शूरसेनस्यापत्यं शूरसेनी। पुमान् शौरसेनः ॥
(देवतेदमर्थे ) देवतार्थे इदमर्थे चोक्ता वक्ष्यमाणाश्च प्रत्ययाः॥ इन्द्रो देवताऽस्य ऐन्द्रम् । सौम्यम् । आग्नेयम् । गृहमेधीयम् । वास्तोप्पतीयम् । अग्नीषोमीयम् । मरुत्वतीयम् ॥
(सुबोधिनी )-देवतेदमर्थ ॥ देवता च इदं च अनयोः समाहारो देवतेदं देवतेदं चासो अर्थश्च देवतेदमर्थस्तस्मिन् देवतेदमर्थे । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता। इन्द्वान्ते श्रूयमाणत्वात्प्रत्येकमर्थशब्दः संबध्यते । देवतार्थे इदमर्थे च उक्ता वक्ष्यमाणाश्च प्रत्ययाः स्युः। अण इञ् ण्यः आयनण एयण णीय आरण ऐरण ड्यण एते उक्तप्रत्ययाः। इन्द्रो देवता अस्येति ऐन्द्रं हविः॥ अत्र प्रथमान्तात्प्रत्ययो देवताऽस्येति षष्ठयर्थे । अन्योक्ते प्रथमति तद्धितेनोक्ते संबन्धे प्रथमा। स्त्रियां तु व्रण ईन् । ऐन्द्री दिक् । सोमो देवताऽस्योत सौम्यं ण्यः। नदादित्वादीप् । सौमी ऋक् । हसात्तद्धितयस्येपीति यलोपः ॥ अग्निदेवताऽस्येति आग्नेयम् । एयण् । अणन्तत्वादीप् । आग्नेयी ॥ गृहमेधशब्दोऽदन्तः । गृहमेधो देवताऽस्येति गृहमेधीयम् ॥ गृहमेध्यम् ॥ वास्तोष्पतिर्देवताऽस्येति वास्तोष्पतीयम् । वास्तोष्पत्यम् । “वास्तोष्पतिः सुरपतिः" इत्यमरः ॥ वास्तोः पतिः वास्तोष्पतिः । “वेश्मभूर्वास्तुरस्त्रियाम्" इत्यमरः ॥ अग्नीषोमी देवते अस्योत अग्नीषोमीयम् । अग्नीषोम्यम् ॥ मरुत्वान् देवताऽस्येति मरुत्वतीयम् । मरुत्वत्यम् । इन्द्रो मरुत्वान्मघवा" इत्यमरः ॥
( तत्त्वदी० )-देवतेदमर्थे इति ॥ देवता च इदं चानयोः समाहारः देवतेदम् । स चासावर्थश्च देवतेदमर्थस्तस्मिन् । द्वन्द्वान्ते श्रूयमाणत्वादर्थशब्दस्य प्रत्येकं योग इत्याशयेनाहदेवतार्थे इत्यादि । इन्द्रा देवताऽस्येति ॥ त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या च ॥ ननु देवतार्थस्यापि इदमर्थत्वाद्देवताग्रहण व्यर्थमिति चेत्सत्यम् । इदमर्थे इन्द्र संबन्धि हविरिति बोधः । देवतार्थे तु इन्द्रदेवतोद्देश्यक हविरिति विशेषबोधार्थ पृथक् ॥
(अपोनपादपानपातोरपोनप्तृअपानप्तृआदेशौ) इयेययोः परतः ॥ अपोनप्त्रियम्--अपोनप्वीयम् । अपान्नप्त्रियम्- अपानवीयम् ॥
(सुबोधिनी )-अपोनपादपान्नपातोरपोनप्तृअपान्नप्तृआदेशौ ॥ इयेययोः परतः एतयोः अपोनप्त अपानप्त आदेशौ स्तः ॥ अपोनपाद्देवताऽस्येति । अपानपादेवताऽस्येति ॥
Page #318
--------------------------------------------------------------------------
________________
(३०२)
सिद्धान्तचन्द्रिका। [तद्धितप्र० ] (तत्त्वदी० )-अपोनपादपानपातोरिति ॥ अत्रादेशे यथासंख्यं न तु प्रत्यये व्याख्यानात् ॥
(प्रावृष एण्यः ) प्रावृड् देवताऽस्य प्रावृषेण्यम् । कैः प्रजापतिर्देव ताऽस्य कायम्॥
(सुबोधिनी )-प्रावृष एण्यः॥अस्मादेण्यः प्रत्ययःस्यात् देवतार्थे ॥ प्रवर्षतीति प्रावृट् । नहिवृतीति दीर्घः। जातेऽर्थे तु इकः । प्रावृषि जातःप्रावृषिकः। प्रावृषेण्यः। "स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत् स्त्रियाम्" इत्यमरः ॥ कस्येकारान्तादेशोऽणि। को ब्रह्मा देवताऽस्यति। यस्येति लोपात्परत्वादादिवृद्धिः। आय । काय हविः॥
(तत्त्वदी०)-कायमिति ॥ अत्र यस्य लोपं बाधित्वा परत्वादृद्धिः ॥ - (क्वचिद् द्वयोः) पूर्वोत्तरपदायोः स्वरयोः क्वचिद्वृद्धिर्भवति णिति॥ आनिमारुतम् ॥
(सुबोधिनी)-क्वचिद् द्वयोः॥ द्वयोरिति षष्ठ्यन्तं पदविशेषणम् । अनामरुतौ देवते अस्येति अग्नेरिदिति वक्ष्यमाणेनेकारादेशः । उभयत्र वृद्धिः। आग्निमारुतम् । अण् । स्वाम्यर्थवाचकदेवताद्वन्दे एव पूर्वोत्तरपदादिस्वरवृद्धिविषयकमुदाहरणमेतत् । तेनेह न स्कन्दविशाखयोरयमिति स्कान्दविशाखः । अण् । “पार्वतीनन्दनः स्कन्दः" इत्यमरः ॥ नेन्द्रस्य परस्य ॥ उभयत्र प्राप्ती परस्येन्द्रशब्दस्य वृद्धिर्न भवति देवताद्वन्दे । सोमेन्द्रौ देवते अस्येति सौमेन्द्रः पशुः । अण ॥ परस्येति किम् । इन्द्राग्नी देवते अस्येति ऐन्द्रानोऽण् । यस्येतीकारलोपः ॥ दीर्घात्परस्य वरुणस्य वृद्धिर्न भवति देवताहन्दे । इन्द्रावरुणो देवते अस्यति । देवताद्वन्दे पूर्वस्येत्यात्वम् । ऐन्द्रावरुणम् । मित्रावरुणो देवते अस्येति मैत्रावरुणम् । अण् ॥ दीर्घात्किम् । “आग्निवारुणीमनड्डाहीमालभेत" इति ॥ • (तत्वदी० )-क्वचिद् द्वयोरिति ॥ अत्रादिस्वरस्येति संपूर्णसूत्रमनुवर्तते । द्वयोरिति षष्ठयन्तं पदविशेषणम् । यद्यपि समासेनैकपद्यं तथाप्यन्तर्वतिन्या विभक्त्या पदद्वयत्वं बोध्यम् । एदोतोऽत इति ज्ञापितमुत्तरस्यापदत्वं तु ज्ञापकसिद्धं न सर्वत्रेति वचनान्नेहाश्रयणीयम् ।। आनिमारुतमिति ॥ अमामरुतौ देवते अस्येति विग्रहः ।।
(अग्नेरिद्वद्धौ ) वृद्धिमत्युत्तरपदे अमेरिदादेशः स्यात् ॥ आमिवारुणम् । सौहार्दम् । सौभागिनेयः । सौभाग्यम् । साक्तुसैन्धवः। आनुशातिकम् । ऐहलौकिकम् । पारलौकिकम् । पौर्वाह्निकम् ॥
Page #319
--------------------------------------------------------------------------
________________
[तद्धिता०] टीकाद्वयोपेता।
(३०३) (सुबोधिनी)-अग्नेरिदृद्धौ । अग्निशब्दस्येत्स्यात् वृद्धिमत्युत्तरपदे देवताद्वन्द्वे ॥ अलौकिके वाक्ये आत्वमीत्वं च बाधित्वा इत् विष्णौ परे इत्वं न । विष्णुशब्दे परेऽग्निशब्दस्येन्न । आग्नावैष्णवम् । अण् प्रत्ययः ॥ आनिवारुणम् । उभयत्र वृद्धी । सुहृदो भावः सौहार्दम् । अण ॥ सुभगाया अपत्यं सौभागिनेयः। एयणनङी वृद्धी च ॥ सुभगस्य भावः सौभाग्यम् । ण्यः ॥ सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः। सक्तुसिन्धषु भवः साक्तुसैन्धवः । अण वृद्धी । शतेन क्रीतः शतिकः। शतिकमनुगतोऽनुशतिकः । अनुशतिकस्येदम् आनुशातिकम् । अण वृद्धी । इह लोके भवम् ऐहलौकिकम् । इकः ॥ परलोके भवं पारलौकिकम् ॥
(तत्त्वदी० )-अग्नेरिदिति ॥ वृद्धिमत्युत्तरपदे अमेरिदादेशः स्यादित्यर्थः ।। सौहार्दमिति ॥ सुहृदो भावः ॥ सौभागिनेय इति ॥ सुभगाया अपत्यमित्यर्थः ॥ साक्तसैन्धव इति ॥ सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवस्तेषु भवः ॥ शतेन क्रीतः शतिकः । तमनुगतोऽनुशतिकस्तस्येदमानुशाप्तिकम् ॥
(णितो वा ) उक्ता वक्ष्यमाणाश्च प्रत्यया णितो वा ॥ स्वस्रीयः ॥ श्वशुरस्यापत्यं श्वाशुर्यः । पित्र्यम् । गव्यम् । पयस्यम् । कुल्यम् । तदीयम् । त्वदीयम् । मदीयम् ॥
(सुबोधिनी)-णितो वा ॥ अणादयः कादयश्चणितो वा भवन्ति ॥ अणादीनां णित्त्वे सिद्धे पक्षे निषेधार्थ वचनम् । कादीनामणित्त्वे सिद्धे पक्षे विधानार्थम् । स च क्वचिन्नित्यनिषेधः। क्वचिदैकल्पिकः । क्वचिदनिषेध एव ॥ स्वसुरपत्यं स्वस्त्रीयः । णीयः॥ श्वशुरस्यापत्यं यस्येत्यलोपः । श्वाशुर्यः ॥ पितुरिदमिति क्वचित्स्वरवद्यकार इति स्वरत्वात् रत्वम् । पित्र्यम् । ण्यः ॥ गोरिदं गव्यम् । ण्यः। स्वरत्वादव ॥ पयसि भवं पयस्यम् ॥ कुले भवं कुल्यम् । ण्यः ॥ तस्येदं तदीयम् । तवेदम् । ममेदम् । 'त्वन्मदेकत्वे' इति त्वद् मद् । त्वदीयम् । मदीयम् ॥
( तत्त्वदी०)-णितो वेति ॥ अत्र वेत्यस्य व्यवस्थितत्वात् क्वचिदणितोऽपि णित्त्वं क्वचित् णितोऽप्यणित्त्वं क्वचिद्विकल्प इति बोध्यम् ॥ णितो बहुत्वं णित इत्युक्तिर्ब्राह्मणग्राम इतिवस् । तेन जितोऽपि जित्त्वविकल्पो बोध्यः ॥ पित्र्यमिति ॥ पितुरिदमिति विग्रहे क्वचित्स्वरवद्य इति स्वरत्वाद्रत्वम् । एवं गव्यमित्यपि ॥
(अन्यस्य दक् ) अन्यदीयम् ॥ (सुबोधिनी )-अन्यस्य दक् ॥ अन्यशब्दस्य दगागमो भवति णीये । अषष्ठीतृतीयान्तस्यान्यशब्दस्य दगागमो वाच्यः आशीराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारक: रागणीयेषु परतः ॥ अन्यदाशीः ॥ अन्यदाशा ॥ अन्यदास्था ॥ अन्यदास्थितः ॥
Page #320
--------------------------------------------------------------------------
________________
(३०४) सिद्धान्तचन्द्रिका। [तद्धितप्र०] अन्यदुत्सुकः । अन्यदूतिः ॥ अन्यत्कारकः । अन्यद्रागः । अपष्ठीतृतीयान्तस्येति किम् । अन्यस्यान्येन वा आशीः अन्याशीः ॥ कारकणीययोरषष्ठीतृतीयान्तस्येति निषेधो न वाच्यः॥ अर्थे परे अन्यस्य वा दक् । अन्यदर्थः। अन्यार्थः। अन्यदीयम् ॥
(पितु(तरि व्यः) पितुर्धाता पितृव्यः ॥ ! (सुबोधिनी )-पितुर्धातरि व्यः ॥ पितृशब्दाव्यप्रत्ययो भवति भ्रात्रथै ॥
(मातुर्धातरि डुलः) मातुलः ॥ - (सुबोधिनी )-मातुर्धातरि डुलः ॥ मातृशब्दात् डुलप्रत्ययो भवति भ्रात्रर्थे । डित्त्वाहिलोपः॥
(मातृपितृभ्यां पितरि मातरि च डामहष् ) मातुः पिता मातामहः । पितामहः । मातुर्माता मातामही। पितामही ॥
( सुबोधिनी)-मातृपितृभ्यां पितरि मातरि च डामहरू ॥ आभ्यां डामहः प्रत्ययः स्यात् पित्रथै मात्रथै च ॥ डित्त्वाहिलोपः॥ पित्त्वात् स्त्रियाम् ब्रित इती॥ (तत्त्वदी० )-मातृपितृभ्यामिति ॥ पित्त्वादीप् ॥
(अवेर्दुग्धे सोढदूसमरीसाः) अवेदुग्धम् । अविसोढम् । अविदूसम् । अविमरीसम् ॥
(सुबोधिनी )-अवेर्दुग्धे सोढदूसमरीसाः ॥ अविशब्दादेते प्रत्यया भवन्ति दुग्धेऽर्थे । सकारपाठसामर्थ्यान्न पः ॥ अविसोढमिति ॥ (तिलानिष्फलात्पिञ्जपेजौ) निष्फलस्तिलस्तिलपिञ्जः। तिलपेजः॥
( सुबोधिनी)-तिलान्निष्फलात्पिञ्जपेजौ ॥ तिलशब्दादेतौ प्रत्ययौ स्तः निष्फलेऽर्थे ॥ तिलपिञ्जः । तिलपेजः । वन्ध्यस्तिल इत्यर्थः ॥
(कारकात् क्रियायुक्ते ) कारकादप्येते प्रत्ययाः क्रियायुक्ते कतरि कर्मणि च । कुङ्कुमेन रक्तं कौकुमम् । वस्त्रेण परिवृतो वास्त्री रथः। काम्बलः । द्वैपः । वैयाघ्रः॥
(सुबोधिनी)-कारकात् क्रियायुक्ते ॥ कारकादणादयः कादयश्च प्रत्ययाः स्युः॥ ननु "कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणे इत्याहुः कारकाणि षट् ॥" इत्यत्र कारकशब्दः सर्वस्मिन्नपि क्रियासाधने दृष्टः । स्वार्थिकः
Page #321
--------------------------------------------------------------------------
________________
[तद्धितप्र०] टीकाद्वयोपेता।
(३०५) कारकः सङ्गीत्यत्र तु कर्तृमात्रे दृष्टस्तस्य कस्मान्न ग्रहणम् । उच्यते । अत्राद्यस्यैव ग्रहः । अन्यथा कर्तुरित्येवावक्ष्यत् । अथ का क्रिया किं च तद्युक्तम् । उच्यते । व्यापारो भावना सैवोत्पादना सैव च क्रियेति । उक्तं च " गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्धया प्रकल्पितो भेदः क्रियेति व्यपदिश्यते ॥१॥” इति । स्वभावतो गुणीभूतैरवयवैरवान्तरलक्षणैर्युक्तः क्रमजन्मनां क्षणानां समूहः आचार्यः क्रिया व्यपदिश्यते । कीदृशः । संकलनात्मिकया बुद्धयाऽभेद एकत्वं प्रकल्पितं तद्युक्तमेतया क्रियया युक्तम् । क्रिया चोत्पत्त्युत्पादनरूपा। उत्पत्तिः फलम् । उत्पादना व्यापारः । व्यापारेण युक्तः कः । फलेन युक्तं कर्म । तस्मिन् क्रियायुक्त कर्तरि कर्मणि च ॥ तेन रक्तं रागात् । रज्यते अनेनति बाहुलकात् करणे घञ् । रागो रञ्जकद्रव्यम् । तृतीयान्ताद्रागवाचकात्प्रत्ययो रक्तमित्यर्थे । कुङ्कुमेन रक्तं वस्त्रं 'कौकुमम् । रञ्जनक्रियायाः करणकारकात् कुङ्कुमादणू । तद्युक्तमत्र वस्त्रं कर्मे. त्यादि ज्ञेयम् ॥ लाक्षया रक्तं लाक्षिकम् । रोचनया रक्तं रौचनिकम् । इकः॥ नील्या रक्तं नीलम् अण ॥ णितो वेति न वृद्धिः॥ पीतेन रक्तं पीतकम् । कः ॥ तेन परिवृतो रथः। समन्तादेष्टितः परिवृत उच्यते । तेनति तृतीयान्तादणादयः परिवतो रथ इत्यर्थ । वास्त्रो रथः। अश् ॥ कम्बलेन परिवृतो रथः काम्बलः ॥ अण् ।। दीपिनो विकारो द्वैपम् । द्वैपेन परिवृतो रथः द्वैपः ॥ व्याघ्रस्य विकारो वैयाघ्रम् । युड्वृद्धी। वैयाव्रण परिवृतो वैयाघ्रो रथः ॥
(तत्त्वदी०)-कारकात् क्रियायुक्ते इति ॥ कारकशब्दोयद्यपि द्वयर्थः कर्तृपरः सर्वकारकपरश्च तथाप्यत्र सर्वकारकार्थ एवं गृह्यते । अन्यथा कर्तुरित्येवावक्ष्यत् । क्रिया च धात्वर्थः । स च फलव्यापारात्मकः फलव्यापारयोर्द्धातुरित्युक्तत्वात् । ततश्च फलयुक्तं कर्म व्यापारयुक्तः कर्तेत्याशयेनाह-क्रियायुक्त कर्तरीत्यादि ॥ कुङ्कमेन रक्तमिति ॥ रञ्जनक्रियायाः करणकारकात् कुकुमादण् । तद्युक्तमत्र वस्त्रं कर्मेति ॥ माथुर इत्यत्रागमनक्रियाया अपादानकारकान्मथुराशब्दादण तद्युक्तोऽत्र कर्तेत्यादिकमूह्यम् ॥ कारकादिति किम् । फलानां सुहितः। क्रियायुक्ते किम् । काष्ठैः पाकः । नात्र पाकादिः क्रियायुक्तः किंतु क्रियैव ॥ क्रियेति किम् । गेहे घटः । अत्र घटत्वयुक्तो घटः न क्रियायुक्तः । क्रियायामित्युक्ते शब्दं करोति शाब्दिक इत्यादौ प्राधान्येन क्रियाया एव भानं स्यात्र तु कर्तुः । यदि कर्तृकार्यग्रहणं मण्डूकप्लुत्याऽनुवर्तते तदा कारकादित्येवास्तु ॥
(पाण्डुकम्बलादिनिः) पाण्डुकम्बलेन संवीतः पाण्डुकम्बली रथः। वसिष्ठेन दृष्टं वासिष्ठं साम । कालेयम् । वररुचिना कतो वाररुचो ग्रन्थः । मनुना प्रोक्ता मानवो धर्मः। मथुराया आगतो माथुरः । ग्रामादागतो ग्राम्यः । धुरं वहतीति धुर्यः-धौरेयः । सर्वधुरीणः एकधुरीणः ॥
Page #322
--------------------------------------------------------------------------
________________
(३०६) सिद्धान्तचन्द्रिका। [तद्धितप्र०]
(सुबोधिनी)-पाण्डुकम्बलादिनिः॥ पाण्डुकम्बलशब्दो राजास्तरणपाण्डुवर्णकम्बलस्य वाचकः। अस्त्यर्थेनैव सिद्ध वचनमणो निवृत्त्यर्थम् । इकार उच्चार• णार्थः॥ तेन दृष्टं साम ॥ तेनेति तृतीयान्तादणादयः दृष्टं सामेत्यर्थे । वासिष्ठं साम । अण् ॥ कलिना दृष्टं साम कालेयम् । एयण ॥ वामदेवेन दृष्टं साम वामदेव्यम् । ण्यः ॥ उशनसा दृष्टं साम निपातनाटिलोपो वा । औशनसम् । औशनम् । अण् ॥ तेन कृतो ग्रन्थः॥ तेनेति तृतीयान्तादणादयः कृतो ग्रन्थ इत्यर्थ । वररुचिना कृतो वाररुचो ग्रन्थः ॥ तेन प्रोक्तम् ॥ तेनेति तृतीयान्तादणादयः प्रोक्तमित्यर्थे । मनुना प्रोक्तो मानवो धर्मः । अण् ॥ तत आगतः ॥ तत इति पञ्चम्यन्तादणादयः आगत इत्यर्थ । माथुरः। अण ॥ ग्राम्यः ॥ तद्वहति ॥ तदिति द्वितीयान्तादणादया वहतीत्यर्थे । धुरं वहति धुर्यः । ण्यः । णितो वेति न वृद्धिः। ‘य्योर्वि हसे' इति दी? न संज्ञापूर्वकत्वेन तस्यानित्यत्वात् । धौरेयः । एयण ।। सर्वा चासौ धूश्चेति ऋपूरित्यप्रत्ययः । 'कर्मधारये' इति पुंवत् । सर्वधुरा तां वहति यस्येत्यालोपः । सर्वधुरीणः । ईनः ॥ एका चासौ धूश्चेति एकधुरा तां वहति एकधुरीणः । ईनः ॥ एकधुरः । अण ॥ शकटं वहति शाकटो गौः । अण ॥ हलं वहति हालिकः । इकः ॥ सीरं वहति सैरिकः । इकः ॥ रथं वहति रथ्यः ण्यः ॥ युगं वहति युग्यः । ण्यः॥
( तत्त्वदी)-धुर्य इति ॥ संज्ञापूर्वकविधेरनित्यत्वात्क्वचिन्न दीर्घः ॥ एकधुरीण इति ॥ णित्वविकल्पान्न वृद्धिः॥
(मुखपार्श्वतसोर्लोप ईये) मुखतो भवं मुखतीयम् । पार्वतीयम् ॥ (सुबोधिनी )-मुखपार्श्वतसोर्लोप ईये ॥ मुखं च पार्श्व च मुखपार्श्वे मुखपार्श्वयोस्तसौ मुखपार्श्वतसौ तयोः ॥ षष्ठीनिर्दिष्टत्वात्सलोपः। यस्येत्यलोपः । मुखतीयम् ॥ पार्श्वतो भवं पार्श्वतीयम् । णीयः॥
(तत्त्वदी)-मुखपार्थेति ॥ द्वन्द्वान्ते श्रूयमाणत्वात्तसः प्रत्येकं योगः ॥ मुखती. यमिति ॥ षष्ठीनिर्दिष्टस्येति सकारलोपे यस्येति लोपे च रूपसिद्धिः ॥
(देवस्वराजजनपराणां कुक् ईये ) देवकीयम् । स्वकीयम् । राजकीयम् । जनकीयम् । परकीयम् ॥
(सुबोधिनी)-देवस्वराजजनपराणां कुक् ईये ॥ एषां कुछ स्यात् ईये ॥ देवस्येदं देवकीयम् ॥ स्वस्यदं स्वकीयम् ॥ राज्ञ इदं राजकीयम् । नाम्नो नो लोपशिति नलोपे कृते पश्चात् कुक् बोध्यः ॥जनस्येदं जनकीयम् । परस्येदं परकीयम्॥
Page #323
--------------------------------------------------------------------------
________________
(३०७)
[तद्धितप्र०] टीकाद्वयोपेता।
(तत्त्वदी० )-देवस्वेति । देवकीयमिति ॥देवस्येदमिति वाक्यम् ॥राजकीयमिति॥ अत्र नलोपे यत्नः । नाम्नो नो लोपशित्यस्य नान्तस्य नाम्न इति व्याख्यानात् प्रकृते कुको राजान्त्यावयवत्वान्नान्तताभावात् । अतो नो वेत्यत्र वेत्यस्य व्यवस्थितत्वाश्रयणादत्र नलोपः ।।
(मध्यान्मः) मध्यमः ॥ ( मुबोधिनी)-मध्यान्मः ॥ अस्मान्मः प्रत्ययः स्यात् भवाद्यर्थे ।। मध्ये भवो मध्यमः॥
(हेमन्तस्य वा तलोपोऽणि.) हैमनम् हैमन्तम् ॥ ( सुबोधिनी ) हेमन्तस्य वा तलोपेऽणि ॥ हेमन्तादण् स्यात् तस्य लोपथ वा ॥ हेमन्ते भवं हैमनं हैमन्तं च ॥ (तत्त्वदी० ) हैमनमिति । हेमन्ते भवमिति विग्रहः ॥ टिलोपस्तूक्तयुक्तरेव न ॥ (चिरपरुत्परारिभ्यस्त्नः ) चिरत्नम् । परुत्नम् ! परारित्नम् । (सुबोधिनी )-चिरपरुत्परारिभ्यस्तनः ॥ एभ्यस्त्नप्रत्ययः स्यात् ॥ चिरशब्दोऽदन्तः ॥ परुदित्यव्ययं पूर्वस्मिन् वत्सरे ॥ परारि पूर्वतरे वत्सरेऽव्ययम् ॥
(अग्रादिपश्चादन्ताड्डिमः ) अग्रिमम् । आदिमम् । पश्चिमम् । अन्तिमम् ॥
(सुबोधिनी )-अनादिपश्चादन्ताड्डिमः ॥ एभ्यो डिमः प्रत्ययः स्यात् ॥ डिवाहिलोपः। अग्रे भवम् अग्रिमम् ॥ आदौ भवम् आदिमम् ॥ पश्चाद्भवं पश्चिमम् ॥ अन्ते भवम् अन्तिमम् ॥ (तत्त्वदी०)- पश्चिममिति ॥ पश्चाद्भवम् । डित्त्वादादित्यस्य लोपः ॥
(हेतुमनुष्येभ्यो वा रूप्यमयटौ) समादागतं समरूप्यम् । सममयम् । समीयम् । देवदत्तरूप्यम् । देवदत्तमयम् । देवदत्तीयम् ॥
(सुबोधिनी )-हेतुमनुष्येभ्यो वा रूप्यमयटौ ॥ हेतुवाचकेभ्यो मनुष्यवाचकेभ्यश्च रूप्यमयटौ वा स्तः॥ ट् ईबर्थः ॥ आगतमित्यर्थे समात् मार्गादागतं समरूप्यम् । सममयम् ॥ पक्षे णीयः। समीयम् ॥ देवदत्तादागतं देवदत्तरूप्यम् । देवदत्तमयम् । देवदत्तीयम् । णीयः ॥ देवदत्तः । अणू ॥ (तत्त्वदी० )-हेतुमनुष्येभ्य इति ॥ हेतुमनुष्यवाचिभ्य इत्यर्थः ॥
Page #324
--------------------------------------------------------------------------
________________
(३०८)
सिद्धान्तचन्द्रिका |
[ तद्धितप्र० ]
(छगलिनो णयिनः ) छगलिना प्रोक्तमधीयते ये छागलेबिनाः ॥
( सुबोधिनी ) - छगलिनो पेयिनः ॥ छगलिन्शब्दात् णेयिनः प्रत्ययः स्यात् प्रोक्तमधीते इत्यर्थे ॥ छगलिना प्रोक्तं शास्त्रमधीयते पठन्ति ये ते छागलेयिनाः ॥ नो वेति टिलोपः ॥
( तत्त्वदी ० ) - छागलेयिना इति ॥ णित्त्वाद्वृद्धिः ॥
( पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोणिनिः) पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः । शैलालिनो नटाः ॥
( सुबोधिनी ) - पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोर्णिनिः ॥ आभ्यां णिनिः स्यात् ॥ इकार उच्चारणार्थः ॥ पाराशर्यो व्यासः ॥ अनन्तरापत्येऽपि उपचारागर्गादिभ्यो ण्यः । यस्येत्यलोपे क्वचिद्यलोप इति वक्ष्यमाणेन यलोपः । पाराशरिणः ॥ शिलालिना प्रोक्तं नटसूत्रमधीयते ये ते शैलालिनः ॥
( तत्त्वदी ० ) - पाराशर्येति ॥ भिक्षुसूत्रे वाच्ये पाराशर्यशब्दात् नटसूत्रे शिलालि - शब्दाद् णिनिरित्यर्थः ॥ पाराशरिण इति ॥ कन्यादित्वाद्यलोपः ॥
( कर्मन्दकृशाश्वादिनिः ) उक्तविषये ॥ कर्मन्दिनः । कशाश्विनः ॥ ( सुबोधिनी ) - कर्मन्दकृशाश्वादिनिः ॥ उक्तविषये आभ्यामिनिः स्यात् ॥ कर्मन्देन प्रोक्तं भिक्षुत्रमधीयते ये ते कर्मन्दिनो भिक्षवः । कृशाश्वेन प्रोक्तं नटसूत्रमधीयते ये ते कृशाश्विनो नटाः ॥ भिक्षुनटसूत्रयोः किम् । पाराशर्यस्येदं पाराशरम् ॥ शिलालिन इदं शैलालम् || कार्मन्दम् || कार्शाश्वम् ॥ अण् ॥
( तत्त्वदी ० ) - उक्तविषये इति ॥ भिक्षुनटसूत्रयोरित्यर्थः ॥ (त्रपुजतुनोः षण् विकारे ) त्रापुषम् । जातुषम् ॥
1
( सुबोधिनी ) - पुजतुनोः षण विकारे । आभ्यां षण स्याद्विकारे ॥ त्रपुणो विकारः त्रापुषम् ॥ जतुनो विकारः जातुषम् ॥
( शम्याः ब्लञ् ) शामीली स्रुक् ॥
( सुबोधिनी ) - शम्याः प्लञ् ॥ शमीशब्दात् ष्लञ् स्यात् । षित्त्वादीपू ॥ शम्या विकारः शामीलं भस्म । ष्ट्रत्रित् इतीपू । शामीली ॥
( तत्वदी ० ) शामीलीति ॥ शम्या विकार इति विग्रहः । पित्वादीप् ॥
( शक्तियष्टयोरीकण प्रहरणे ) शाक्तीकः । याष्टीकः ॥
Page #325
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ] टीकाद्वयोपेता।
(३०९) (सुबोधिनी) शक्तियष्टयोरीका प्रहरणे ।। आभ्यामीकण स्यात् ॥ शक्तिः प्रहरणमस्य शाक्तीकः । यष्टिः प्रहरणमस्य याष्टीकः ॥ ( तत्त्वदी० )-शाक्तीक इति ॥ शक्तिः प्रहरणमस्येति विग्रहः ॥ (विंशतित्रिंशद्भ्यां डकको वा) ( सुबोधिनी)-विंशतित्रिंशद्भ्यां डकको वा ॥ तेन क्रीतमित्यर्थे आभ्यां डकको प्रत्ययौ स्तः ॥ असंज्ञायामर्थे डकः ॥
(विशतेस्तिलोपो डिति ) विंशकः । त्रिंशकः । विंशतिकः।
त्रिंशत्कः ॥
(सुबोधिनी)-विशतेस्तिलोपो डिति ॥ तिशब्दलोपः ॥ विंशकः । त्रिंशकः । संज्ञायां तु कः । विंशतिकः । त्रिंशत्कः॥
(कर्मण उकञ् ) कर्मणे प्रभवति कार्मुकम् ॥ ( सुबोधिनी)-कर्मण उकञ् ॥ कर्मन्शब्दादुकञ् स्यात् तस्मै प्रभवतीत्यर्थे । समर्थः शक्तः प्रभवतीत्युच्यते ॥ __ (मनोर्जातावपत्ये प्यषणौ) मनोरपत्यं मनुष्यः । मानुषः ॥ जातौ किम् । मानवः ।
(सुबोधिनी)-मनोर्जासावपत्ये प्यषणौ ॥ मनुशब्दादेतौ स्तः अपत्यत्वे जातो वाच्ये ॥ समुदायार्थो जातिः । मनुष्यः । मानुषः । जातिशब्दावेतौ ॥
(केनेयेकाः) कारकात्क ईन इय इक इत्येते प्रत्यया भवन्ति कर्तरि कमणि चोक्तवक्ष्यमाणेष्वर्थेषु च णितो वा ॥ क्रममधीते क्रमकः । पर्दकः ॥ ग्रामादागतस्तत्र जातो वा ग्रामीणः । सधीचीनः । समीचीनः। तिरश्चीनः । कुलस्यापत्यं कुलीनः । महाकुलीनः। आढयकुलीनः॥ __ (सुबोधिनी)-केनेयेकाः ॥ कश्च ईनश्च इयश्च इकश्च ते केनेयेकाः ॥ क्रममधीते क्रमकः ॥ क्रमपदशिक्षामीमांसाः क्रमादयः। एभ्यः कः। पूर्वस्य हस्वो निपातनात् । शिक्षकः । मीमांसामधीते मीमांसकः ॥ ग्राम भवः ग्रामीणः । ईनः। ग्राम्योऽपि ण्यः ॥ सध्यङ्डव सध्रीचीनः ॥ सम्यङ्ङव समीचीनः ॥ तिर्यवेव तिरश्चीनः । सहाश्वतीति सध्यङ्॥ अञ्चत्यन्तान्नाम्नः स्वार्थे ईनो वा ॥ दिशि न । प्राक् प्राचीनम् । प्रत्यक् प्रतीचीनम् । अवाक् अवाचीनम् । अर्वाक् अर्वाचीनम् ।
Page #326
--------------------------------------------------------------------------
________________
(३१०) सिद्धान्तचन्द्रिका। [तद्धितप्र०] अर्वन्तम् अञ्चतीति अर्वाक "निकृष्टप्रतिकृष्टाई रेफयाप्यावमाधमाः।" इत्यमरः ॥ दिशि तु प्राची दिक् ॥ अचेीर्घश्चेति अलोपे पूर्वकारदीर्घः ॥ उदीची दिक् । तिरश्चादयः इति उदीचादेशः ॥ कुलस्यापत्यमिति कुलीनः॥ तदन्तादपि । महच्च तत्कुलं चेति सहादेः सादिरिति महाकुलस्यापत्यं महाकुलीनः ॥ आढयं च तत्कुलं च आढयकुलम् । आढयकुलस्यापत्यमाढयकुलीनः॥
(तत्त्वदी०)-केनेयेका इति ॥ कश्च ईनश्च इयश्च इकञ्च ते । देवतेदमर्थ इत्यत्र देवतेदमोरिति वक्तव्येऽर्थग्रहणं स्पष्टार्थमिहानुवर्तते ॥ ततश्चोक्ता इत्याशयेनाह-उत्तेत्यादि । सध्रीचीन इति ॥ सध्यङ्डेवेति विग्रहे स्वार्थे ईनः । णित्त्वाभावान्न वृद्धिः। एवं सम्यङ्ङेव समीचीनः । अचर्दीर्घश्चेत्यकारलोपे पूर्वस्येकारस्य दीर्घः । तस्यापि तद्धिते विधानात् ॥
(क्वचिद्यलोपः ) कन्याया अपत्यं कानीनः । कात्यस्येमे कातीयाः छात्राः । गार्गीयाः । रेवत्या अपत्यं रैवतिकः । पुष्येण युक्ता पौर्णमासी पौषी । तैषी । क्षत्रस्यापमं क्षत्रियः । शुको देवताऽस्य शुक्रियम् । इन्द्रस्य लिंगमिन्द्रियम् । अक्षैर्दीव्यतीत्याक्षिकः । कुद्दालैः खनति कौदालिकः । हलं वहति हालिकः । शब्दं करोति शाब्दिकः । दाईरिकः । धर्म चरति धार्मिकः । आधर्मिकः । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । तैत्तिरिकः । मात्स्यिकः । मैनिकः । मार्गिकः । सारंगिकः । पुराणमधीते पौराणिकः । ऐतिहासिकः । वैदिकः॥
(सुबोधिनी)-क्वचिद्यलोपः । क्वचिद्धसात्परस्य यकारस्य लोपः स्यात् तद्धिते स्वरे न त्वाकार ॥ कन्याया अपत्यमिति एयणोऽपवाद ईनः । यस्येत्यालोपः। ततो यलोपः। णितो वेति णित्त्वाइद्धिः। कानीनो व्यासः कर्णश्च । अविवाहिताया अपत्यमित्यर्थः ॥ कात्यस्येमे गर्गादिण्यान्तात् णीये यलोपः । कातीयाः ॥ गार्यस्येमे गार्गीयाः । यलोपः ॥ न त्वाकारे इति किम् । गाायणः । इह न यलोपः॥ रैवतिकः । णितो वेति णित्त्वाइद्धिः। रेवती अश्वपाली मणिपाली द्वारपाली इत्यादिरेवत्यादयः ॥ नक्षत्रेण युक्तः कालः ॥ तृतीयान्तनक्षत्रशब्दात्प्रत्यया युक्तः काल इत्यर्थे । पुष्येण युक्तं पौषमहः । अण् । तिष्यपुष्ययोनक्षत्राणीति यलोपः। स्त्रियां तुव्रण ईप्' । पौषी ॥ तिष्येण युक्ता तैषी ॥ क्षत्रशब्दाजातावियः । क्षत्रियः। क्षात्रिरन्यः ॥ शुक्रियं हविः ॥ इयः ॥ इन्द्रस्यात्मनो लिङ्गं चिह्नमिति इन्द्रियम् ॥ तेन दीव्यति खनति जयति जितम् । तेनेति तृतीयान्तादिको दीव्यत्यादिष्वर्थेषु । णितो वेति णित्वादृद्धिः । अझैः पाशकैर्दीव्यत्याक्षिकः ॥ कुद्दालैः खनात कौदालि.
Page #327
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ]
टीकाद्वयोपेता |
( ३११ )
कः । " गोदारणं तु कुद्दालः" इति हैमः ॥ अक्षैर्जयत्याक्षिकः । अक्षैजितम् आक्षिकम् ॥ हलं सीरं वहति हालिकः । इकः ॥ तेनेति तृतीयान्तादिकः संस्कृतेऽर्थे । दना संस्कृत दाधिकम् ॥ मरीचैः संस्कृतं मारीचिकम् ॥ शब्दं करोति शाब्दिकः ॥ प्रकृतिप्रत्ययविभागेन शब्दं व्युत्पादयतीत्यर्थः ॥ दर्दुरं करोति दारिकः ॥ इह दर्दुरशब्दः वाद्यभाण्डवाची । कुलाल इत्यर्थः ॥ धर्मे चरति धार्मिकः । सद्वृत्त इत्यर्थः ॥ अधर्मं चरत्यधार्मिकः । असद्वृत्त इत्यर्थः ॥ पक्षिणो हन्ति नो वेति टिलोपः । इकः । पाक्षिकः ॥ शकुनं हन्ति शाकुनिकः ॥ तित्तिरिं हन्ति तैत्तिरिकः ॥ मत्स्यं हन्ति मात्स्यिकः ॥ मीनं हन्ति मौनिकः ॥ मृगं हन्ति मार्गिकः ॥ सारङ्गं हन्ति सारङ्गिकः ॥ मयूरं हन्ति मायूरिकः पुराणमधीते पौराणिकः । इतिहासमधीते वेत्ति वा ऐतिहासिकः ॥ वेदमधीते वेत्ति वा वैदिकः ॥ णितो वेति णित्वाद्वृद्धिः ॥
( तत्त्वदी ० ) - कानीन इति ॥ व्यासः कर्णश्च । णित्वाद्वृद्धिः || शाकुनिक इत्यादीनां शकुनीन् हन्तीत्यादि वाक्यम् । ऐतिहासिक इति ॥ इतिहासमधीते ॥
( पील्वादिकर्णादिभ्यः कुणजाहौ पाकमूलयोः) पीलूनां पाकः पीलुकुणः । कर्णस्य मूलं कर्णजाहम् ।
(सुबोधिनी) - पील्वादिकर्णादिभ्यः कुणजाहाँ पाकमूलयोः ॥ पील्वादिभ्यः कर्णादिभ्यश्च कुणजाहौ प्रत्ययौ स्तः पाकमूलयोरर्थयोः ॥ पाक: परिणामः । मूलमुपक्रमः । पीलु कर्कन्धु शमी करीर बकुल बदर खादर पील्वादयः । कर्ण आक्ष नख मुख केश पाद गुल्फ भ्रू शृङ्ग दन्त ओष्ठ पृष्ठ कर्णादयः ॥
( तत्वदी ० ) - पाकमूलयोरिति ॥ यथाक्रममनयोरन्वय इत्याशयेनाह - पीलूनां पाक इत्यादि ॥
( पक्षात्तिर्मूले ) पक्षस्य मूलं पक्षतिः ॥
( सुबोधिनी ) - पक्षात्तिर्मूले || पक्षशब्दात्तिप्रत्ययः स्यात् मूलेऽर्थे ॥ पक्षतिः प्रतिपत् ॥
( चञ्चणौ वित्ते ) विद्यया वित्तो विद्याचञ्चुः । विद्याचणः ॥
( सुबोधिनी ) - चञ्चणौ वित्ते ॥ चञ्चुचणौ प्रत्ययौ स्तो वित्तेऽर्थे ॥ वित्तो भोग्यप्रतीतयोरिति निपातनात् दस्तस्येति नत्वं न ॥
(वेः शालशङ्कटौ ) विस्तृतम् । विशालम् । विशङ्कटम् ॥
( सुबोधिनी ) - वेः शालशंकटौ । वेः स्वार्थे एतौ स्तः ॥ विस्तृतम् ॥ विशा
Page #328
--------------------------------------------------------------------------
________________
(३१२) सिद्धान्तचन्द्रिका। [तद्धितप्र० ] लम् । विशङ्कटम् । विननभ्यां नानानौ न सह ॥ असहाथै पृथग्भावे वर्तमानाभ्यां नानाजी स्तः। विना । नाना ।।
(विसम्प्रोदः कटः ) विकटम् । संकटम् । प्रकटम् । उत्कटम् ॥ (सुबोधिनी)-विसम्प्रोदः कटः ॥ एभ्यः कटप्रत्ययः स्यात् स्वार्थे ॥ विकटम् । विकृतम् ॥ संकटम् । संहतम् । संवाध इत्यर्थः ॥ प्रकटम् । प्रज्ञातम् । प्रकाशते इत्यर्थः ॥ उत्कटमुद्भूतम् ॥ रूढशब्दाश्चैते कथंचिद्वयत्पाद्यन्ते ॥ __ (अलाबूतिलोमाभङ्गाभ्यो रजसि ) अलाबूनां रजोऽलाबूकटम् । तिलकटम् । उमाकटम् । भङ्गाकटम् ॥
(सुबोधिनी )-अलावूतिलोमाभङ्गाभ्यो रजसि ॥ एभ्यो रजस्यभिधेये कटप्रत्ययः स्यात् ॥ रजसो विकारत्वात् विकारार्थे प्रत्ययानामपवादोऽयम् ॥ अलाबूनां रजः अलाबूकटम् ॥ तिलानां रजः तिलकटम् ॥ उमायाः रजः उमाकटम् ॥ भंगायाः रजः भंगाकटम् ।।
(गोष्ठादयः स्थानादिषु पशुनामभ्यः ) गवां स्थानं गोगोष्ठम् । अश्वगोष्ठम् ॥
(सुबोधिनी )-गोष्ठादयः स्थानादिषु पशुनामभ्यः ॥ पशुनामभ्यो गोष्ठादयः प्रत्ययाः स्युः स्थानादिष्वर्थेषु ॥
(संघाते कटः) अवीनां संघातोऽविकटः ॥ (सुबोधिनी)-संघाते कटः ।। अप्रमृतावयवसमूहः संघातस्तत्र कटप्रत्ययः ॥ सामूहिकानामपवादोऽयम् ॥
(विस्तारे पटः) अविपटः॥ (सुबोधिनी) विस्तारे पटः ॥ प्रसृतावयवः समूहो विस्तारस्तत्र पटःप्रत्ययः॥ सामूहिकानामपवादोऽयम् ॥
(द्वित्वे गोयुगः ) द्वावुष्ट्रौ उष्ट्रगोयुगम् ।। (सुबोधिनी)-द्वित्वे गोयुगः ॥ प्रकृत्यर्थस्य द्वित्वे द्योत्ये गोयुगप्रत्ययःस्यात् ॥ उष्ट्रगोयुगम् ॥ द्वयं युगमित्यादिवत् व्यवयवसंघातप्राधान्यादेकवचनामत्यर्थः ॥
(षट्त्वे षङ्गवः ) अश्वषड्गवम् ॥
Page #329
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ]
टीकाद्वयोपेता |
( ३१३)
(सुबोधिनी ) षट्त्वे षड्गवः ॥ षटूत्वे वाच्ये षड्गवप्रत्ययः स्यात् ॥ अश्वानां षट्त्वम् अश्वषङ्गवंम् । अवयवसंघातस्य प्राधान्यादेकवचनम् ॥ ( तत्त्वदी० ) - अश्वषङ्गवम्इति षट् ॥ अश्वा इत्यर्थः ॥
( स्नेहे तैलः ) तिलतैलम् । सर्पपतैलम् ॥
(सुबोधिनी ) -- स्नेहे तैलः ॥ स्नेहे वाच्ये तैलप्रत्ययः ॥ तिलानां स्नेहः तिलतैलम् ॥ सर्षपाणां स्नेहः सर्षपतैलम् ॥
( भवने क्षेत्रे शाकटशाकिनौ ) इक्षूणां भवनं क्षेत्रम् इक्षुशाकटम् । इक्षुशाकिनम् ॥
( सुबोधिनी ) - - भवने क्षेत्रे शाकटशाकिनौ ॥ भवने क्षेत्रे इत्यर्थे शाकटशाकिनौ प्रत्ययौ भवतः ॥
(अवात्कुटारकटौ ) अवाचीनोऽवकुटारः । अवकटः ||
( सुबोधिनी) - अवात कुटारकटौ ॥ अवशब्दात् कुटारकटौ प्रत्ययौ भवतः अवाचीने हीनेऽर्थे अवकुटारावकटशब्दौ वेदे प्रसिद्धौ ॥
( नासिकाया नते संज्ञायां टीटनारभ्रटा अवात् ) नासिकाया नतम् अवटीटम् । अवनाटम् | अवकटम् । तद्योगान्नासिकाऽप्यवटीटा | पुरुषोऽवटीः ॥
(सुबोधिनी ) - नासिकाया नते संज्ञायां टीटनाटनटा अवात् ॥ नासिकासाधनके नमने वर्तमानादवशब्दादते प्रत्ययाः स्वार्थे संज्ञायां वाच्यायाम् ॥ नतमिति नपुंसके भावे क्तः । नमनं नीचैस्त्वम् । कथं तर्हि नासिकायां पुरुषे चावटीशब्दप्रयोग इत्यत आह-तद्योगादिति ॥
(डिबिरीस) निबिडम् । निबिरीसम् ॥
( सुबोधिनी) - बिडबिरीसौ ॥ उक्तेऽर्थे निशब्दान्नासिकाया नतेऽभिधेये बिडबिसौ प्रत्ययौ स्तः ॥
( इनपिटकाः प्रत्यया नेश्चिकचिचिकादेशाः ) चिकिनम् । चिपिटम् । चिकम् ॥
(सुबोधिनी ) - इन पिटकाः प्रत्यया नेश्चिकचिचिकादेशाः ॥ उक्तेऽर्थे
Page #330
--------------------------------------------------------------------------
________________
(३१४) सिद्धान्तचन्द्रिका। [ तद्धितप्र.] नासिकाया नतेऽभिधेये इनपिटकाः प्रत्ययाः स्युः॥निशब्दस्य चिकचिचिका ययाक्रममादेशाश्च ॥ (तत्त्वदी० ) इनपिटका इति यथाक्रमं प्रत्ययत्रयम् आदेशत्रयं च बोध्यम् ॥
(किन्नस्य चिल्पिलचुलो लः प्रत्ययोऽस्य चक्षुषी इत्यर्थे ) क्लिन्ने चक्षुषी अस्य चिल्लः पिल्लः ।चुल्लः ॥
(सुबोधिनी )-क्लिनस्य चिपिल्चुलोलः प्रत्ययोऽस्य चक्षुषी इत्यर्थे। अस्य चक्षुषी एतस्मिन्नर्थे क्लिन्नशब्दालप्रत्ययः स्यात् क्लिन्नस्य चिल् पिल चल आदेशाश्च ॥ कथं तर्हि । “ स्युः क्लिन्नाक्षे चुल्लचिल्लापल्लाः क्लिन्नक्षिण चाप्यमी" इत्यमरः । इति चेत् अत्राहुः । पुरुषे व्युत्पादितानां तदवयवे लक्षणा बोध्याऽत्र ॥
( उपाधिभ्यामासन्नारूढयोस्त्यकः ) पर्वतस्यासन्ना भूमिरुपत्यका । आरूढा अधित्यका ॥
( सुबोधिनी )-उपाधिभ्यामासनारूढयारत्यकः ॥ उपाधिभ्यां त्यकः प्रत्ययः स्यात् ॥ आसन्नं समीपम् । आरूढमुच्चस्थानम् । तत्र संज्ञायाम् । पर्वतस्यासन्नं स्थलमुपत्यका । आरूढस्थलमधित्यका । क्षिपकादित्वात् काप्यत इतीत्वं न ॥
(कर्मणष्ठो घटते इत्यर्थे ) कर्मणि घटते कर्मठः ॥ (सुबोधिनी)-कर्मणष्ठो घटते इत्यर्थे ॥ सप्तम्यन्तात् कर्मन्शब्दात् ठप्रत्ययः स्यात् घटते चेष्टते इत्यर्थे । 'नो लोपः' इति नलोपः। “कर्मशूरस्तु कर्मठः” इत्यमरः।।
(साक्षादृष्टरि संज्ञायां डिनिः) साक्षाद्दष्टा साक्षी। (सुबोधिनी )-साक्षाद्रष्टरि संज्ञायां डिनिः ॥ द्रष्टर्यर्थे साक्षादित्यव्ययात् डिनिः स्यात् संज्ञायामर्थे ॥ डित्वाहिलोपः । इनामिति दीर्घः । साक्षी ॥
(इष्टादिभ्य इनिरनेनेत्यर्थे ) इष्टमनेन इष्टी । अधीती । हैयङ्गवीनं श्रोत्रियः क्षेत्रियोऽनुपदी इत्यादयो निपात्याः । ह्योगोदोहोद्भयं हैयङ्गवीनम् । छन्दोऽधीते श्रोत्रियः परक्षेत्र चिकित्स्यः क्षत्रियः । अनुपदमन्वेष्टाऽनुपदी ॥
(सुबोधिनी)-इष्टादिभ्य इनिरनेनेत्यर्थे ॥ एभ्य इनिप्रत्ययः स्यात् अनेनेत्यर्थे ॥ अधीतमनेनेति अधीती ॥ हैयङ्गवनिं श्रोत्रियः क्षेत्रियोऽनुपदी इत्यादयो
Page #331
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ] टीकाद्वयोपेता।
(३१५) निपात्याः ॥ दुह्यते इति दोहः क्षीरम् । ह्योगोदोहस्य विकार इति ह्योगोदोहस्य हियगुरादेशो विकारार्थे ईनप्रत्ययश्च निपात्यते । णितो वेति णित्वादृद्धिः । 'वोsव्यस्वरे' इत्यत् । हैयङ्गवीनं नवनीतम् ॥ छन्दसः श्रोत्रभावो निपात्यते 'तदधीते' इत्येतस्मिन्नर्थे इयप्रत्ययश्च । णितो वेति वृद्धयभावः । श्रोत्रियः ॥ परक्षेत्रशब्दात सप्तम्यन्तात् इयप्रत्ययः परशब्दलोपश्च निपात्यते । क्षत्रियो व्याधिः शरीरा. न्तरे चिकित्स्यः । अप्रतीकार्य इत्यर्थः॥ अनुपदशब्दादन्वेष्टरि इन् प्रत्ययो निपात्यते । पदस्य पश्चादनुपदम् ॥
( आख्याताव्ययसर्वादेष्टेः प्रागकः ) पचताक । उच्चकैः । नीचकैः । सर्वकः । अयकम् । असकौ । त्वकम् । अहकम् ॥
( सुबोधिनी )-आख्याताव्ययसर्वादेष्टेः प्रागकः ॥ एषां टेः प्राक् अकप्रत्ययः स्यात् स्वार्थे ॥ अन्त्योऽकार उच्चारणार्थः॥
(त्यतनौ) भवायर्थे त्यतनौ प्रत्ययौ स्तः अव्ययात् ॥ कुत्र भवः कुत्रत्यः । कुतस्त्यः। अमात्यः । इहत्यः ॥ अव्ययस्य तद्धितयस्वरयोष्टिलोपः ॥ बहिर्भवो बाह्यः । स्वः स्वर्गस्तत्र भवः सौवः । पौनःपुन्यम् । पौनःपुनिकः॥
( सुबोधिनी)-त्यतनौ ॥ भवाद्यर्थे एतौ स्तः ॥ अमेहक्कतस्त्रेभ्य एव त्यः। अमाऽन्तिकसहाथयो । अमाभवः अमात्यः ॥
( दक्षिणापश्चात्पुरसस्त्यण ) दाक्षिणात्यः। पाश्चात्त्यः। पौरस्त्यः। ऐषमस्त्यम् । ऐषमस्तनम् ॥
(सुबोधिनी)-दक्षिणापश्चात्पुरसस्त्यण ॥ एभ्यस्त्यण् स्यात् भवाद्यर्थे । दक्षिणेत्यादन्तमव्ययम् । दक्षिणा भवः दाक्षिणात्यः॥ ऐषमोह्यमश्वम्भ्यो वा त्यः । पक्षे तनः । अत्र वर्षे ऐषमः । अतीतेऽह्नि ह्यः । आगामिदिने श्वः ।।
(श्वसस्तिकण्वा) शौवस्तिकस् । अद्यतनः । यस्तनः। श्वस्तनः। सनातनः । सदातनः । पुरातनः । दोषातनः । सायंतनः । चिरंतनः। पाह्नतनः॥
(सुबोधिनी ) श्वसस्तिकण्वा ॥ इवसव्ययात्तिकणपि स्यात ॥ श्वो भवमिति द्वारादित्वात् युडागमवृद्धी । शौवस्तिकम्।। कालवाचिभ्योऽव्ययेभ्यः सायंचि.
Page #332
--------------------------------------------------------------------------
________________
सिद्धान्तचन्द्रिका। [तद्धितप्र०] रंपाढेगे इति चतुर्यश्च तनः स्यात् ॥ दोषेति रात्रौ । दोषा भवः दोषातनः। प्राहेतनः॥ प्रगे प्रातर्भवः प्रगेतनः । सप्तम्या अलुक् उभयत्र ॥ स्यतेपनि आतो युगिति युकि कृते सायशब्दोऽकारान्तो दिवसावसाने रूढः तस्य चिरशब्दोऽप्यदः न्तस्यापि प्रत्ययसंनियोगेन मान्तत्वं प्राहप्रगयोरदन्तत्वं च निपात्यते इति वार्तिककृन्मतम् । भाष्ये तु सायं चिरं च मान्तमव्ययं स्वीकृतम् ॥ __ (तत्त्वदी०)-शौवस्तिकमिति ॥ श्वो भवमिति विग्रहः । द्वारादित्वाद्वकारात्पूर्व युटि कृते पश्चाद्वृद्धिः ॥प्राहेतन इति ॥ एदन्तत्वं निपातनात् ॥ । (स्वार्थेऽपि) उक्ता वक्ष्यमाणाश्च प्रत्ययाः स्वार्थे स्युः ॥ देवदत्त एव दैवदत्तकः । चोर एव चौरः। वय एव वायसः । रक्ष एव राक्षसः । चत्वारो वर्णाश्चातुर्वर्ण्यम् । समीपमेव सामीप्यम् । चत्वारो वेदाश्चातुर्वैद्यम् । प्रज्ञ एव प्राज्ञः। चातुराश्रम्यम् । त्रैलोक्यम् । अनन्त एवानन्त्यम्। आवसथ एवावसथ्यम् । इतिह एवं ऐतिह्यम् । भेषजमेव भैषज्यम् ॥
(सुबोधिनी )-स्वार्थेऽपि॥ प्रकृत्यर्थेऽप्यणादयः स्युः ॥ देवदत्त एव दैवदत्तकः । णितो देति णित्त्वाद् वृद्धिः॥ चोर एव चौरः॥ वय एव वायसः ॥ रक्ष एव राक्षसः। अण ॥ चत्वारश्च ते वर्णाश्च चतुर्वर्णाः चतुर्वर्णा एव चातुर्वर्ण्यम् । ण्यः ॥ चतुरो वेदानधीते इति तद्धितार्थे द्विगुः । तमधीत इत्यर्थेऽण तस्य लुक च । चतुर्वेद एव चातुवैद्यः। ण्यः ॥ उभयत्र वृद्धिः॥ चत्वारश्च ते वेदाश्च चतुर्वेदाः चतुर्वेदा एव चातुवैद्यमिति वा ॥ प्रज्ञ एव प्राज्ञः ॥ अण ॥ चत्वार आश्रमा एव चातुराश्रम्यम् ण्यः ॥ त्रयश्च ते लोकाश्च त्रिलोकाः त्रिलोका एवं त्रैलोक्यम् ॥ अनन्त एद आनन्त्यः । ण्यः॥ आवसथ एवेति उपसर्गे वसेरथप्रत्ययः आवसथ्यं गृहम् । ण्यः ॥ इतिहति निपातसमुदायः । ऐतिह्यम् । ण्यः॥ भिषज्यतेः कण्ड्वादियगन्तात् कि । भिषक् । भिषजामिदं भेषजम् । अणि निपातनादेकारः ॥ भैषज्यम् । ण्यः॥
(तत्त्वदी०)-स्वार्थेऽपीति ॥ वय एव वायस इति । स्वार्थिकाः प्रकृतितो लिङ्गवचनानि न व्यभिचरन्तीत्यस्यौत्सर्गिकत्वाल्लिङ्गविपर्ययः॥
(भागरूपनामभ्यो धेयः) भाग. एव भागधेयम् । नामधेयम् । रूपधेयम् ॥
(सुबोधिनी)-भागरूपनामभ्यो धेयः॥ एभ्यो धेयप्रत्ययः स्यात्स्वार्थे ॥ "दैवं दिष्टं भागधेयं भाग्यं स्त्री नियातीवधिः” इति " आख्याढे अभिधानं च नामधेयं च नाम च" इति चामरः॥
Page #333
--------------------------------------------------------------------------
________________
टीकाद्वयोपेता ।
[ तद्धितप्र० ]
( देवात्तः ) देव एव देवता ||
( सुबोधिनी ) - देवात्तः ॥ देवशब्दात्तप्रत्ययः स्यात् स्वार्थे ॥ तान्तं स्त्रियाम् ॥ ( मृदस्तिकः ) मृदेव मृत्तिका ॥
(३१७)
(सुबोधिनी) - मृदस्तिकः ॥ मृद्शब्दात्तिकप्रत्ययः स्यात् स्वार्थे ॥
( सनौ प्रशंसायाम् ) प्रशस्ता मृत् मृत्सा | मृत्स्ना ॥
( सुबोधिनी )--सस्नौ प्रशंसायाम् ॥ रूपप्रत्ययस्यापवादौ । मृदः सस्त्रौ प्रत्ययौ स्तः प्रशंसायामर्थे || "मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका" इत्यमरः ॥ ( अणीनयोर्युष्मदस्मदोर्युष्माकास्माकौ ) युवयोर्युष्माकं वाऽयं यौष्माकः । यौष्माकीणः । आवयोरस्माकं वाऽयम् आस्माकः । आस्मा - कीनः ॥
1
(सुबोधिनी) - अणीनयोयुष्मदस्मदोर्युष्माकास्माको || एतयोद्वित्वे बहुत्वे च वर्तमानयोर्युष्माकास्माकावादेशौ स्तः अणीनयोः परतः ॥
( तत्त्वी० ) - अणीनयोरिति || आदेशे यथासंख्यं न तु प्रत्यये ॥
( एकत्वे तवकममको) तवायं तावकः । ममायं मामकः । तावकी - नः । मामकीनः ॥
( सुबोधिनी)- एकत्वे तवकममकौ ॥ एकत्वे वर्तमानयोर्युष्मदस्मदोस्तवकममकावादेशौ स्तः अणीनयोः परतः ॥
( वतुल्ये ) सादृश्येऽर्थे वत्प्रत्ययः ॥ चन्द्रेण तुल्यं चन्द्रवत् । ब्राह्मणवत् | क्षत्रियवत् । मथुरायामिव मथुरावत् । पाटलिपुत्रे इव प्राकारः पाटलिपुत्रवत् । चैत्रस्येव चैत्रवत् मैत्रस्य गृहम् ॥
( सुबोधिनी) - वतु ॥ तुल्यते सादृश्येनोन्मीयते ज्ञायते इति तुल उन्माने अस्मात् क्यप् तुल्यम् । यद्वा तोलनं तुला । जेरभावे भिदाघ ! तुलया संमितं तुल्यम् । कारकादिति ण्यः । णितो वेत्यणित्वम् । तृतीयान्तात् सप्तम्यन्तात् षष्ठयन्ताच्च वत्प्रत्ययः स्यात् तुल्ये सादृश्येऽर्थे ॥ ब्राह्मणेन तुल्यं ब्राह्मणवदधीते ॥ तृतीयान्तात् तु क्रियातुल्ये एव गुणतुल्ये माभूत् । पुत्रेण तुल्यः स्थूलः ॥ द्रव्यतुल्येऽपि न । गवा तुल्यो गवयः ॥ सप्तम्यन्तात् षष्ठयन्ताच्च क्रियातुल्येऽपि भवतीत्यर्थः । मथुरावत् पाटलिपुत्रे प्राकारः । मथुरायां यादृशः प्राकारस्तादृश पाटलिपुत्रेः इत्यर्थः ॥
Page #334
--------------------------------------------------------------------------
________________
(३१८ )
सिद्धान्तचन्द्रिका |
[ तद्धितप्र० ]
( तत्त्वदी० ) - वतुल्ये इति ॥ अत्र क्रियाग्रहणमनुवर्तते । तच्च तुल्येन संबध्यते । तेन तुल्यायां क्रियायामित्यर्थो लभ्यते । तोलनं तुला तया संमितमिति विग्रहे कारकादिति ण्यप्रत्यये णितो वेति णित्त्वाभावाद्वृद्ध्यभावः । चतुर्वदित्यादिनिर्देशात क्रियासादृश्याभावेऽपि षष्ठयन्तात्सप्तम्यन्ताच्च भवति इत्याशयेनाह - मथुरावदित्यादि ॥ योगविभागान्महानसवदित्यादावक्रियासाम्येऽपि भवति ॥
(अपि) विधिमर्हति विधिवत् ॥
( सुबोधिनी ) - अर्हेऽपि ॥ ऽर्थेऽपि द्वितीयान्ताद्वत् स्यात् क्रियातुल्ये ॥ विधिमर्हति विधिवत्पूज्यते । विधानं विधिः ॥ अर्हतीति अहः पचाद्यः ॥
( भावे तत्वयणः ) शब्दस्य प्रवृत्तिनिमित्तं भावस्तत्र वाच्ये एते स्युः ॥ तान्तं स्त्रियाम् । त्वान्तं क्लीवम् । ब्राह्मणता ब्राह्मत्वम् ब्राह्मण्यम्॥ शुक्लता । शुक्लत्वम् । शौक्लयम् ॥ वैदुष्यम् ॥
( सुबोधिनी) - भावे तत्वयणः ॥ तश्च त्वश्च यण च ते तत्वयणः । भावे तत्वयणः प्रत्यया अणादयश्च स्युः ॥ भावशब्दोऽनेकार्थवचनः । अभिप्राये यथा अयं भावः । पदार्थमात्रे यथा । विचित्रा भावशक्तयः । शृंगारादिषु यथा । स्यायिभावः संचारिभावः । प्रवृत्तिनिमित्ते धात्वर्थमात्रे च भावः । तेष्वत्र कस्य ग्रहणम् । उच्यते । प्रवृत्तिनिमित्तवचनस्य भावस्यात्र ग्रहणम् । भवन्ति शब्दा अनेनेति व्युत्पत्तेः । अभिप्रायादिवचनस्यात्र अग्रहोऽनभिधानात् । तथा च सिद्धान्तकौमुद्यां प्रकृतिजन्यबोधे प्रकारो भाव इति । उक्तं च हरिटीकायाम् । कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेति । तेन पाचकत्वमित्यत्र कर्तृत्वरूपः सम्बन्धः । औपगवत्यमित्यत्र जन्यत्वरूपः सम्बन्धः । राजपुरुषत्वमित्यत्र स्वत्वरूपसम्बन्धः ॥ तप्रत्ययान्तं स्त्रीलिंगम् । त्वप्रत्ययान्तं नपुंसकम् । यणन्तमुभयत्र । मैत्र्यं मैत्रीत्यादि । ब्राह्मणस्य भावः । यस्येत्यलोपः । ब्राह्मण्यम् । शुक्लाया भावः त्वतलोर्गुणवचनस्येति पुंवद्भावः। शुक्लत्वम् ॥
1
( तत्त्वदी ० ) - भावे तत्वयण इति ॥ तश्च त्वश्च यण् च ते ॥ भावशब्दोऽभिप्राया'द्यनेकार्थोऽप्यत्र प्रवृत्तिनिमित्तवचन एव गृह्यते न त्वभिप्रायाद्यर्थः । प्रवृत्तिनिमित्त भिन्नानामनभिधानादित्याशयेनाह - शब्दस्येत्यादि ॥ प्रवृत्तेर्निमित्तं प्रवृत्तिनिमित्तं तस्मिन् प्रत्यया इत्यर्थः। • अणन्तमुभयत्र । मैत्र्यम् । मैत्री ॥
( कर्मण्यपि ) ब्राह्मणस्य कर्म ब्राह्मण्यम् । राज्यम् । स्वैन्यम् ॥
Page #335
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ]
टीकाद्वयोपेता ।
( ३१९ )
( सुबोधिनी ) - कर्मण्यपि ॥ कर्मण्यर्थेऽपि तत्वयणः प्रत्यया अणादयश्च स्युः ॥ राज्ञो भावः कर्म वा नो वेति टिलोपः । राज्यम् । यण ॥ स्तेनस्य चोरस्य भावः कर्म वा स्तैन्यम् | यण् ॥
( तत्वदी ० ) - कर्मण्यपीति ॥ अत्र क्रियानुवृत्तेः क्रियायामित्यर्थः ॥
( लोहितादे डिमन भावे वा ) लोहितिमा । लोहितता । लोहितत्वम् । लौहित्यम् । अणिमा । लघिमा । महतो भावो महिमा |
( सुबोधिनी ) - लोहितादेर्डिमन् भावे वा ॥ लोहितादेर्गणात् डिमन् प्रत्ययस्वादयश्च भावे || लोहितस्य भावः । डित्त्वाट्टिलोपः । लोहितिमा ॥ अणोर्भावः अणिमा ॥ लघोर्भावः लघिमा || महतो भावः । टिलोपः । महिमा || (तत्त्वदी ० ) - लोहितिमेति ॥ लोहितस्य भाव इत्यर्थः ॥
( भावेऽपि ) लाघवम् । गौरवम् । यौवनम् । शैशवम् । मौनम् । हौत्रम् । औगात्रम् ॥
( सुबोधिनी ) - भावेऽपि ॥ अण प्रत्ययोऽपि स्यात् भावे ॥ गुरोर्भावो गौरम | 'वोsa यस्वरे' इत्यव ॥ यूनो भावः नो वेति टिलोपो न । यौवनम् ॥ शिशोर्भावः शैशवम् ॥ मुनर्भावः मौनम् ॥ होतुर्भावः हौत्रम् ॥ उद्गातुर्भावः औद्गात्रम् ॥
( तत्त्वदी ० ) - लाघवमिति ॥ लघोर्भाव इति विग्रहः ॥
(ऋ र इमनि) हसादेर्लघोर्ककारस्य रेफो भवति इमनि इष्ठेयसो श्व ॥ पृथोर्भावः प्रथिमा । प्रदिमा । ऋशिमा । द्रढिमा ॥ लघोः किम् । कृष्णमा || हसादेः किम् । ऋजिमा ॥
(सुबोधिनी) र इमनि ॥ ऋ इति षष्ठयन्तं सांकेतिकम् ॥ पृथोर्भावः ॥ टिलोपः रत्वम् प्रथिमा । अणपि । पार्थवम् । मृदोर्भावः म्रदिमा, मार्दवम् ॥ कृशस्य भावः ऋशिमा ॥ दृढस्य भावः द्रढिमा | कृष्णस्य भावः कृष्णिमा । लघोरभावान्न रत्वम् ॥ ऋजोर्भावः ऋजिमा । हसादित्वाभावान्न रत्वम् ॥
( तत्त्वदी० ) - ऋर इमनि ॥ प्रयोगानुसरणमेव हसादेर्लघोरिति व्याख्याने शरणम् ॥ ( बहोर्लोपो भू च बहोः ) बहोः परेषामिमनादीनामिवर्णस्य लोपो बहोर्भूरादेशश्व || बहोर्भावो भूमा ॥
(सुबोधिनी ) - बहोर्लोपो भू च बहोः ॥ बहुरुदन्तः । शेषं सुगमम् ॥
Page #336
--------------------------------------------------------------------------
________________
(३२०) सिद्धान्तचन्द्रिका। [तद्धितप्र० ]
(तत्त्वदी० )-बहोरिति ॥ बहोरिति पञ्चम्यन्तम् । ततश्च पञ्चमीनिर्दिष्टत्वालोप इवर्णस्यैवेत्याशयेनेवर्णस्येत्युक्तम् । पुनर्ग्रहणात् बहोभूस्थानित्वम् ॥
( स्तेनायो नलोपश्च ) स्तेनस्य कर्म भावो वा स्तेयम् ॥ (सुबोधिनी )-स्तेनाद्यो नलोपश्च ॥ स्तेनशब्दाद्यप्रत्ययः स्याद्भावे कर्मणि चार्थे नलोपश्च ॥ स्तेन चौर्ये । पचायः। स्तेयं चौर्यम् ॥
(समूहेऽर्थेऽपि ) मयूराणां समूहो मायूरम् । काकम् । क्षेत्रम् । कैदारिकम् । गाणिक्यम् । तद्धितयस्वरयोः पुंवत् । हास्तिकम् । गार्भिणम् । ग्रामता । जनता । बन्धुता । पाश्या । वात्या। खल्या । गव्या। वाद्धकम् । कैदार्यम् । कावचिकम् । ब्राह्मण्यम् । वाडव्यम् । माणव्यम् । गजता । सहायता॥
(सुबोधिनी)-समूहेऽर्थेपि ॥ समूहेऽथेपि अणादयः प्रत्ययाः स्युः ॥ मयूराणां समूहः अण । मायूरम् ॥ काकानां समूहः काकम् ॥ क्षेत्राणां समूहः क्षेत्रम् ॥ केदाराणां समूहः। इकः। णितो वेति णित्वावृद्धिः । कैदारिकम् । गणिकानां समूहः । यण गाणिक्यम् ॥ हस्तिनां समूहः । इकः । नो वेति टिलोपः।हास्तिकम् । गर्भिणीनां समूहोऽण । यस्य लोप इति लोपः । गाभिणम् नो वेति टिलोपाऽभावोऽत्र ।। ग्रामाणां समूहः । तः । ग्रामता ॥ जनानां समूहो जनता ॥ बन्धूनां समूहो बन्धुता ॥ पाशानां समूहः । यण् । पाश्या ॥ वातानां समूहो वात्या ॥ खलानां समूहः खल्या । णितो वेति न वृद्धिः ॥ गवां समूह गव्या । 'वोऽन् यस्वरे' इत्यत् ॥ वृद्धानां समूहः। कः ।णितो वेति णित्वावृद्धिः।वार्धकम्॥केदाराणां समूहः। यण । कैदार्यम् ॥ कवचिनां समूहः । इकः । कावचिकम् ॥ ब्राह्मणानां समूहः । यण । ब्राह्मण्यम् ॥ वाडवानां समूहो वाडव्यम् ॥ माणवानां समूहो माणव्यम् ॥ गजानां समूहः। तः। गजता ॥ सहायानां समूहः सहायता॥
(तत्त्वदी० )-पाश्येति ॥ पाशानां समूह इति विग्रहः । स्त्रीत्व लोकात् ॥ (पर्खा कण) पश्नां समूहः पार्श्वम् । साक्तुकम् । धैनुकम् । रथ्या ॥
( सुबोधिनी )--पर्वा ड्वण ॥ पशुशब्दात् ड्वण् प्रत्ययः स्यात् समूहे । डित्त्वाटिलोपः ॥ पशूनां समूहः पार्श्वम् ॥ सक्तूनां समूहः साक्तकम् ॥ धेनूनां समूहः धेनुकम् ॥ रथानां समूहः । यण् । णितो वेति न वृद्धिः । रथ्या॥ (तत्त्वदी० )-पार्थमिति ।। डित्त्वाहिलोपः ॥
Page #337
--------------------------------------------------------------------------
________________
[तद्धिता टीकाद्वयोपेता।
(३२१) (खलगोरथेभ्य इनित्रकट्याः) खलिनी । गोत्रा । रथकटया ॥ (सुबोधिनी)-खलगोरथेभ्य इनित्रकटयाः॥ खलादिभ्यः क्रमात् एते स्युः॥ खलानां समूहः। व्रण इतीप् । खलिनी॥ गवां समूहो गोत्रा।।रथानां समूहोरथकटया।
(तत्त्वदी० )- खलगोरथेभ्य इति ॥ यथासंख्यं प्रत्ययाः ॥ खलिनीति ॥ खलानां समूहः । एवमन्यत्रापि ॥
(हिते च ) सूर्याय हितः सूरीयः । आत्मनीनः । विश्वजनीनः॥ मातृभोगीणः । अपूपाय हितम् अपूप्यम्--अपूपीयम् । आमिक्ष्यम्आमिक्षीयम् । शङ्कव्यम् । गव्यम् । हविष्यम् । खल्यम् । यव्यम् ॥
( सुबोधिनी)--हिते च ॥ अणादयः प्रत्यया हितेऽर्थे च स्युः ।। सूर्याय हित इति सर्यागस्त्ययोरीये ईपि चेति यलोपः सूरीयः। णीयः॥ आत्मने हितः। नो वेत्यस्य टिलोपो न । आत्मनीनः । ईनः ॥ विश्वजनाय हितः विश्वजनीनः । कर्मधारयादेवेष्यते । विश्वस्य जनः सर्वसाधारणो वेश्यादिरिति तत्पुरुषे विश्वो जनोऽस्येति बहुव्रीहौ च विश्वजनाय हितं विश्वजनीयम् । णीय एव । मातुर्भोगः शरीर मातृभोगः। मातृमागाय हितः मातृभोगीणः । सम् । 'भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः' इत्यमरैण यद्यप्यहरित्युक्तं तथापि प्रयोगबाहुल्याभिप्रायम् । तच्छक्तिस्तु शरीरमात्रऽप्यस्ति इत्याकरः ॥ अपूपेभ्यो हितम् अपूप्यं चूर्णम् । ण्यः । णितो वेति न वृद्धिः। अपूपीयः । णीयः ॥ आमिक्षायै हितं ण्यणीयौ । आमिक्ष्यम्-आमिक्षीयम् । 'हविः सान्नाय्यमामिक्षा शतोष्णक्षीरज दधि' इति हैमः ॥ आमीयते क्षिप्यते दधि यत्र सा आमिक्षा ॥ शङ्कवे हितं शङ्कव्यम् । ण्यः। णितो वेति न वृद्धिः। वोऽपित्यव ॥ गवे हितं गव्यम ॥ हविषे हितं हविष्यम् ॥ खलाय हितं खल्यम्। यवेभ्यो हितं यव्यम् ॥ ( तत्त्वदी० ) --सूरीय इति ।। सूर्यागस्त्ययोरितीये यलोपः ॥ (शुनो वस्य उर्वा च दीर्घः) शुने हितं शून्यम् शुन्यम् ॥ . (सुबोधिनी)-शुनो वस्य उर्वा च दीर्घः ॥ श्वनशब्दस्य वकाराकारयोरुत्वं भवति उतश्च वा दीर्घः । नो वेति टिलोपो न भवति वाशब्दस्य व्यवस्थार्थत्वात् ॥ शून्यम् । शुन्यम् ॥
(उधसो नङ्) ऊधन्यः ॥ ( सुबोधिनी)-ऊधसो नङ्॥ उधस्शब्दस्य नङादेशो भवति ॥ ङित्त्वादन्तस्प स्थाने नङ । अकार उच्चारणार्थः॥ उधसे हितः। णितो वेति न वृद्धिः। उधन्यः।।
(तत्त्वदी०)-ऊधन्य इति ऊधसे हितः ॥
Page #338
--------------------------------------------------------------------------
________________
(३२२) सिद्धान्तचन्द्रिका।
[तद्धितप्र०] (अजाविभ्यां थ्यः) अजथ्या । अविथ्या ॥ (सुबोधिनी)-अजाविभ्यां थ्यः॥ आभ्यां थ्यप्रत्ययः स्याद्धितेऽर्थे ॥ अजेभ्यः अजाभ्यो वा हिता अजथ्या।थ्यप्रत्ययस्य तरादौ पाठात् पुंवद्भावे रूपं तुल्यम् । अविभ्यो हिता अविथ्या॥ सर्वस्मै हितं सार्वम् । अण् । सार्वीयम् । णीयः। वृद्धिः॥ (तत्त्वदी० )-अजथ्येति ॥ अजायै हिता।
(अस्त्यथै मतुः) नाम्नः ॥ गावोऽस्यास्मिन्वा सन्ति गोमान् । श्रीविद्यतेऽस्य श्रीमान् । विदुष्मान् । गोमती ॥
(सुबोधिनी)-अस्त्यर्थे मतुः॥ प्रथमान्तान्नाम्नो मतुप्रत्ययो भवति अस्यास्तीत्यर्थे अस्मिन्नस्तीत्यर्थे च ॥ उदित्वात्पुंसि ब्रितो नुमिात नुम् । स्त्रियां चवित इतीम् । क्लीवे शौ नुम् । “भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ सबन्धेऽस्तिविवक्षायां भवन्ति मत्विनादयः ॥१॥" अस्तीत्यस्य विवक्षायां ये मत्वादयः प्रत्यया विधीयन्ते ते भूमादिषु विषयेषु भवन्ति भूमा बहुत्वम् यथा गावोऽस्यास्मिन्वा सन्ति स गोमान् ॥ निन्दायां यथा । ककुदावर्तिनी कन्या ॥ प्रसंशायां यथा । रूपवान् ॥ नित्ययोगे यथा । क्षीरिणः वृक्षाः ॥ अतिशायने यथा । उदरिणी कन्या ॥ संबन्धः संसर्गः । संयोग इति यावत् ।तत्र यथा । दण्डी पुरुषः ॥ श्रीरस्ति अस्यास्मिन्वा श्रीमान् ॥ विद्वांसोऽस्यास्मिन्वा सन्ति वसोर्व उरित्युत्वे षत्वम् । विदुष्मान् देशः॥वित इतीप् । गोमती॥
(तत्त्वदी०)-अस्त्यर्थे मतुरिति ॥अस्तीत्यत्र लिङ्गवचने अविवक्षिते। कालस्तु विवक्षितः। तथा चास्तिकर्तृभूतादुक्तानाम्नः भूमादावार्थे मतुप्रत्ययः। अस्तीत्यनेन स्वाम्याधारयोराक्षेपः। एवंच प्रथमान्तानाम्नोऽस्तिकर्तुरस्यास्मिन्नित्यर्थे मतुरिति पर्यवसितोऽर्थः । उक्तं च । “ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां जायन्ते मत्विनादयः॥" अत्र दीक्षिताः । अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयेषु भवन्तीति वार्तिकार्थः ॥ भूमा बहुत्वम् । तच्चापेक्षा यस्य यावता तस्य तावता बोध्यम् । भूम्नि गोमान् ॥ निन्दायां ककुदावतिनी कन्या ॥ प्रशंसायां रूपवान् ॥ नित्ययोगे क्षीरिणो वृक्षाः ॥ अतिशायने उदरिणी कन्या ॥ संसर्गे दण्डी संसर्गः संयोगः तेन संयुक्त एव न तु गृहावस्थितोऽपि दण्डः एतेन एतदुदाहृत्य अस्त्यर्थोदाहरणं चोक्तमित्युक्तवन्तो वासुदेवादयो निरस्ताः । यद्यपि ययस्य तत्तस्मिन्नपि यद्यस्मिन् तत्तस्य भवत्येवेत्युभयनिर्देशो व्यर्थस्तथापि वृक्षवान्पर्वतः पुत्रवाश्चैत्र इत्यत्र पर्वते वृक्षसंबन्धस्य चैत्रे पुत्राधारत्वस्य चासत्त्वादुभयनिर्देशः । असन्निहितपुत्रस्यापि पुत्रवानिति प्रतीतेः सामीपिकाधारत्वस्य विवक्षणादिति ॥
Page #339
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ]
टीकाद्वयोपेता ।
(३२३)
( अइकौ च मत्वर्थे ) नाम्नः अः इकस्त्वदन्तात् ॥ अर्शसः ॥ वैजयन्तः । दण्डिकः । धनिकः ॥
( सुबोधिनी ) - - अइकौ च मत्वर्थे ॥ प्रत्ययभ्रमनिरासाय संधिरत्र न कृतः ॥ अइकाविति निर्देशन समासे संहिताया अनित्यत्वं ज्ञापितम् । तेन पदान्तानां समानानामृतीत्यनेन सप्तऋषीणामित्यत्र वा संहिता भवति ॥ अर्शोऽस्यास्मिन्वाऽस्ति अर्शसः ॥ वैजयन्ती पताकाऽस्यास्मिन्वाऽस्ति वैजयन्तः । अः ॥ इकप्रत्ययस्तु अकारान्तादेव | दण्डोऽस्यास्मिन्वाऽस्ति दण्डिकः ॥ धनमस्यास्मिन्वाऽस्ति धनिकः । इकः ॥
( तचदी ० ) - अइकाविति ॥ अश्व इकश्ध तौ । संध्यभावोऽसंदेहार्थः ॥ ( मान्तोपधाद्वत्विनौ ) मान्तान्मान्तोपधादवर्णान्तादवर्णोपधाच्च वतुरिनस्त्वदन्तात् || किम्वान् । लक्ष्मीवान् । धनवान् । विद्यावान् । यशस्वान् । भास्वान् | क्षेत्री । दण्डी ॥
(सुबोधिनी) --मान्तोपधाद्वत्विनौ ॥ मच अश्व मौ अन्तश्च उपधा च अन्तो मौ अन्तोष यस्य तत् मान्तोपधं तस्मान्मान्तोपधात् प्रथमान्ताद्वत्विनौ प्रत्ययौ भवतः । अस्त्यर्थे । इन् प्रत्ययस्तु अकारान्तादेव । मतोरपवादोऽयं विधिः ॥ यथासंख्यं तु न गुरुकरणात् । तथाहि । म् अन्ते यस्य तन्मन्तम् । अ उपधा यस्य तत् ओषधं मन्तं च ओषधं च अनयोः समाहारो मन्तौषधं तस्मान्मन्तोपधात् । इत्थं हि स्पष्टं यथासंख्यं लभ्यते । तदकरणाद्यथासंख्याभावः ॥ वतोरुकारो वितो नुमिति नुमर्थः ष्ट्रत्रित इतीर्थश्च । किमस्यास्मिन्वाऽस्ति किंवान् ॥ लक्ष्मीरस्यास्मिन्वाऽस्ति लक्ष्मीवान् ॥ धनमस्यास्मिन्वाऽस्ति धनवान् ॥ विद्याऽस्यास्मिन्वाऽस्ति विद्यावान् ॥ यशोऽस्यास्ति अस्मिन्वाऽस्ति यशस्वान् ॥ भाः अस्यास्मिन्वाऽस्ति भास्वान् ॥ क्षेत्रमस्यास्मिन् वाऽस्ति क्षेत्री ॥ दण्डोऽस्यास्मिन्वाऽस्ति दण्डी ||
( तत्त्वदी ० ) - मान्तोपधादिति || मश्व अश्व मौ अन्तश्च उपधा च अन्तोपधे मौ अन्तोपधे यस्य तन्मान्तोपधं तस्मात् । यथासंख्यं नाशङ्कनीयं लाघवमुत्सृज्य गौरवस्यात्राहतत्वात् । तथाहि । मन्तौपधादित्येवोच्येत । न् अन्तं यस्य तन्मन्तम् अ उपधा यस्य तत् ओषधं मन्तं च ओषधं च मन्तौपधं तस्मात् ओदौतोर्लाघवगौरक्योर्विशेषाभावात् । इत्याशयेनाह-मकारान्तादित्यादि ॥ यशस्वानिति ॥ तान्तसान्तयोर्हसादावस्त्यर्थे अपदान्तता बाच्या अतो न विसर्ग: । यस्वरयोस्तु सर्वेषाम् । भवदीय इत्यत्र तु सहादित्वाद्दत्वं बोध्यम् ॥ ( यवादेर्न ) यवमान् । भूमिमान् ॥
Page #340
--------------------------------------------------------------------------
________________
(३२४)
- सिद्धान्तचन्द्रिका। [तद्धितप्र० ] (सुबोधिनी)-यवादेन ॥ यवादेर्गणान्मतुरेव स्यात् वत्विनौ न॥ यवा अस्यास्मिन् वा सन्ति यवमान् ॥ भूमिरस्यास्मिन्वा स्ति भूमिमान् ॥ (तत्त्वदी० )-यवादेर्नेति ॥णितो वेत्यस्य व्यवस्थितस्य मण्डकप्लुत्याऽनुवर्तनान्नेत्यर्थः।।
(तडिदादिभ्यश्च ) तडित्वान् । विद्युत्वान् । मायी । मायिकः । वीही । बीहिकः ॥
(सुबोधिनी)-तडिदादिभ्यश्च ॥ एभ्यो वतुइकइन्प्रत्ययाः स्युः अस्त्यर्थे । तडिदस्यास्मिन् वास्ति तडित्वान् ॥ विद्युदस्यास्मिन् वाऽस्ति विद्युत्वान् ॥ मायाऽस्यास्मिन् वाऽस्ति मायी। इन् ॥ मायिकः इकः ॥ ब्रीहयोऽस्यास्मिन् वा सन्ति बीही । इन् व्रीहिकः । इकः ॥ - (तत्त्वदी०) तडित्वानिति ॥ अपदान्तत्वान्न दत्वम् ॥ । (लोमपामपिच्छादिभ्यः शनेलाः ) लोमशः । गिरिशः। पामनः । द्रुणः । अङ्गना । . (सुबोधिनी )--लोमपामपिच्छादिभ्यः शनेलाः ॥ लोमादिभ्यः शः, पामादिभ्यो नः, पिच्छादिभ्य इलः स्यादस्त्यर्थे ॥ लोमान्यस्यास्मिन्वा सन्ति लोमशः। लोमवान् । वतुः ॥ गिरिरस्याऽस्मिन् वाऽस्ति गिरिशः ॥ पामास्यास्मिन्वास्ति पामनः । नानो नो लोपशधाविति नलोपः शाकीपलालीदगुणां ह्रस्वत्वं च नप्रत्यये । एषां हस्वः। महच्छाकमिति शाकी । ईप् । तद्वत् शाकिनम् । महत्पलालं पलाली । तद्वत् पलालिनम् ॥ दद्रुस्त्वग्रोगविशेषः दुरस्यास्मिन्वास्ति दद्रुणः । णत्वम् ॥ अङ्गमस्या अस्यां वाऽस्ति अङ्गना ॥ (तत्त्वदी०)-लोमपामपिच्छादिभ्यः शनेला इति ॥ यथासंख्यं बोध्यम् । (लक्ष्म्या अच) लक्ष्मणः ॥ (सुबोधिनी)-लक्ष्म्या अच्च ॥ लक्ष्मीशब्दस्याकारान्तादेशः स्यान्नप्रत्यये ॥ लक्ष्मीरस्यास्मिन्वाऽस्ति लक्ष्मणः । णत्वम् ॥ (तत्त्वदी०)-लक्ष्मण इति ॥ लक्ष्मीरस्यास्तीति विग्रहः ॥
(विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः ) विषुणः । पिच्छिलः । तुन्दिलः । फेनिलः॥
(सुबोधिनी)-विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः ॥ विष्वक्शब्दस्योत्तरपदस्य लोपः स्यात् संधावकृते सति नप्रत्यये ॥ विषु साम्येऽव्ययम् । विषु अञ्चतीति
Page #341
--------------------------------------------------------------------------
________________
[तद्धितप्र० ] टीकाद्वयोपेता। विष्वक् । विष्वगस्यास्मिन्वाऽस्ति ॥ विषुणः । विषुवदाख्यः कालः । 'समरात्रिदिवे काले विषुवद्विपुणं (4) च तत्' इत्यमरः ॥ पिच्छं चिक्कणमस्यास्मिन् वास्ति पिच्छिलः ॥ तुन्दमस्यास्मिन्वा तुन्दिलः । फेनमस्यास्मिन्वा फेनिलः ॥ उरसिलः। उरस्वान् ॥ पिच्छवान् ॥ __ (तत्त्वदी० )-विषुणइति ॥ विषु नाना अञ्चन्तीति विष्वञ्चि तान्यस्य सन्तीति विषुणः विषुवदाख्यः कालः । तस्य हि नानागतानि दिनानि सन्ति दिनान्तराणांन्यूनाधिकभावस्य तन्मूलकत्वात् । यदि कृतसन्धेः स्यात्तदा वलोपे विष्ण इति स्यादित्यत आह--अकृतसन्धेरिति॥
(सिध्मादेर्लः ) सिध्मलः । चूडालः ॥ (सुबोधिनी)-सिध्मादेर्लः ॥ सिध्मादेर्गणालप्रत्ययः स्यादस्त्यर्थे ।। पक्षे वतुः॥ सिध्मवान् । वात दन्त बल ललाट वत्स अंस फेन धमनि क्षुद्रजन्तु उपताप गड्ड मणि विजय निष्पाप पांशु हनु पाणि चूडा सिध्मादयः॥ पाणिधमन्यादीर्घश्च । पाणीलः। धमनीलः॥ क्षुद्रजन्तुर्यथा । यूकालः । मक्षिकालः ॥ उपतापो रोगः। विषादिकाऽस्यास्ति विपादिकालः । 'पादस्फोटो विपादिका' इत्यमरः ॥ सिध्ममस्यास्मिन्वाऽस्ति सिध्मलः ॥ चूडाऽस्यास्मिन्वाऽस्ति चूडालः॥ वातदन्तबलललाटानामूङ् च वातूलः । इत्यादि ॥
(कुमुदनडवेतसेभ्यो वतुः ) कुमुद्दान् । नड्वान् । वेतस्वान् ॥ (सुबोधिनी )-कुमुदनडवेतसेभ्यो ड्वतुः ॥ एभ्यो वतुप्रत्ययः स्यादस्त्यर्थे । डित्त्वाहिलोपः ॥ कुमुदान्यस्यास्मिन्वा सन्ति कुमुद्दान् । नडा अस्यास्मिन् सन्ति । नड्वान् ॥ वेतसा अस्यास्मिन् वा सन्ति वेतस्वान् ॥
(महिषाङ्मतुः ) महिष्मान देशः॥ (सुबोधिनी )-महिषाङ्मतुः ॥ महिषशब्दात् ड्मतुः स्यादस्त्यर्थे ॥ महिषा अस्यास्मिन् वा सन्ति महिष्मान् । टिलोपः॥
(नडशादाद् डुलः) नड्वलः । शाहलः॥ (सुबोधिनी)-नडशादाद् ड्वलः ॥ आभ्यां ड्वलप्रत्ययः स्यादस्त्यर्थे । नडा अस्यास्मिन्वा मन्ति नड्वलः । डित्त्वाहिलोपः ॥ शादोऽस्यास्मिन् वाऽस्ति शादलः। 'शादो जम्बालघासयोः' इत्यमरः॥
(शिखाया वलः ) शिखावलः ॥ (सुबोधिनी)-शिखाया वलः ॥ शिखाशब्दादलप्रत्ययः स्यादस्त्यर्थे । शिखाऽस्यास्मिन्याऽस्ति शिखावलः ॥
Page #342
--------------------------------------------------------------------------
________________
(३२६)
सिद्धान्तचन्द्रिका। [तद्धितप्र० ] ( नडादीनामीये कुक्) नडकीयम् ॥ (सुबोधिनी )-नडादीनामीये कुकानडादीनां कुगागमो भवति णीयप्रत्यये॥ नड प्लक्ष बिल्व वेत्र वेतसञ्चा तक्षन् नडादयानडा अस्यास्मिन्या सन्ति नडकीयम्।।
(क्रुञ्चा ह्रस्वत्वं च) क्रुश्चकीयम् ॥ (सुबोधिनी )--क्रुञ्चा इस्वत्वं च ॥ क्रुश्चाशब्दस्य द्वस्वो भवति णीये ॥ क्रुश्चाऽस्यास्मिन्वास्ति क्रुञ्चकीयम् ॥ एवं तक्षकीयम् । निपातनान्नलोपः । विल्वकीयम् ॥ वेत्रकीयम् ॥
(शृङ्गवृन्दाभ्यामारकः ) शृङ्गारकः । वृन्दारकः ॥ (सुबोधिनी )-शृङ्गवृन्दाभ्यामारकः ॥ आभ्यामारकप्रत्ययः स्यादस्त्यर्थे । शृङ्गमस्यास्मिन्वाऽस्ति शृङ्गारकः । शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः ।। वृन्दमस्याऽस्मिन् वाऽस्ति वृन्दारकः । 'वृन्दारको रूपिमुख्यौ' इत्यमरः ॥
(फलबहाभ्यामिनः) फलिनः । बर्हिणः ॥ (सुबोधिनी )--फलबर्हाभ्यामिनः ॥ आभ्यामिनप्रत्ययः स्यादस्त्यर्थे ॥ फलमस्यास्मिन्वाऽस्ति फलिनः॥ बर्हमस्यास्मिन्वास्ति बहिणः । णत्वम् ॥
(मलादिनः ) मलिनः॥ (ईमसश्च ) मलीमसः॥ (हृदयादालुः) हृदयालुः॥ (सुबोधिनी)-हृदयादालुः ॥ हृदयशब्दादालुः प्रत्ययः स्यादस्त्यर्थे ॥ हृदयमस्यास्मिन्वाऽस्ति हृदयालुः । पक्षे हृदयी । हृदयिकः । हृदयवान् ।
( शीतोष्णतृप्रेभ्यस्तदसहने ) शीतं न सहते शीतालुः । उष्णालुः । तृपं दुःख न सहते तृपालुः ॥
(सुबोधिनी )-शीतोष्णतृप्रेभ्यस्तदसहने ॥ एभ्य आलप्रत्ययः स्यात् प्रकृत्यर्थासहनेऽर्थे । शीतं न सहते स शीतालुः ॥ उष्णं न सहते उष्णालुः ॥ तृप्रं दुःखं न सहते तृपालुः ॥ तृपः पुरोडाशः तृपं दुःखमित्यर्थः ॥
(हिमादेलुः ) हिमं न सहते हिमेलुः ॥ (सुबोधिनी)-हिमादेलुः ॥ हिमशब्दादेलूप्रत्ययः स्यात्तदसहनेऽर्थे ॥ (बलादूलः ) बलं न सहते बलूलः ॥
Page #343
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ] टीकाद्वयोपेता।
( ३२७) (सुबोधिनी )-बलादूल; ॥ बलशब्दादूलप्रत्ययः स्यात्तदसहनेऽर्थे । (वातात्समूहे च ) वातं न सहते वातानां समूहो वावातूलः ॥ (सुबोधिनी )-वातात्समूहे च ॥ वातशब्दादूलप्रत्ययः स्यात्तदसहनेऽर्थे समूहेऽर्थे च ॥ बलूलवातूलशब्दावस्त्यर्थे च व्युत्पादितौ ॥
(तः पर्वमरुद्भयाम् ) पर्वतः । मरुत्तः॥ (सुबोधिनी )-तः पर्वमरुद्भवाम् ॥ आभ्यां तः प्रत्ययोऽस्त्यथ ॥ पर्वास्यास्मिन्वाऽस्ति । नाम्नो न इति नलोपः पर्वतः । मरुदस्यास्मिन्वाऽस्ति मरुत्तः॥
( ऊर्णाहंशुभंभ्यो युः) ऊर्णायुः । अहंयुः । शुभंयुः॥ (सुबोधिनी )-ऊर्णाहंशुभंभ्यो युः॥ एभ्यो युः प्रत्ययः स्यादस्त्यर्थे ॥ ऊर्णाऽस्यास्मिन् वाऽस्ति ऊर्णायुः। अत्र निपातनाद्यस्येत्यालोपो न । अहमिति मान्तमव्ययमहंकारे । शुभमिति च शुभे । अहंयुरहंकारवान् । शुभंयुः शुभान्वितः ॥
( स्वादामिन्नैश्वर्यै ) स्वमैश्वर्यमस्यास्मिन्वाऽस्ति स्वामी ॥ (सुबोधिनी )-स्वादामिन्नैश्वर्ये॥ऐश्वर्य स्वशब्दादामिन् प्रत्ययः स्यादस्त्यर्थे । ईशिता हि ईश्वरस्तस्य भाव ऐश्वर्यम्॥ऐश्वर्ये किम्।स्ववान्।स्वंद्रव्यमस्यास्मिन्वास्ति॥ - ( वातातीसारपिशाचानामिनिः कुक् च ) वातकी । अतीसारकी। पिशाचकी ॥
(सुबोधिनी )-वातातीसारपिशाचानामिनिः कुक् च ॥ एभ्य इनिः प्रत्ययः स्यादस्त्यर्थे ॥ इकार उच्चारणार्थः ॥ एषां कुगागमश्च इनिप्रत्यये । वातोऽस्यास्मिन्वाऽस्ति वातकी । 'वातकी वातरोगी स्यात् ' इत्यमरः ॥ अतीसारोऽस्यास्मिन्वाऽस्ति अतीसारकी । रोगे चायमिनिरिष्यते नेह वातवती गुहा ॥ पिशाचोऽस्यास्मिन्वाऽस्ति पिशाचकी ॥
(ज्योत्स्नादिभ्योऽण् ) ज्योत्स्नः । तामिस्रः । तापसः । सैकतः । शार्करः॥
(सुबोधिनी )-ज्योत्स्नादिभ्योऽण् ॥ ज्योत्स्नादिभ्योऽण स्यादस्त्यर्थे ॥ किंच ज्योत्स्नातमिस्राङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसा अस्त्यर्थे निपात्यन्ते । ज्योतिरस्या अस्यां वाऽस्ति ज्योत्स्ना चन्द्रप्रभा । ज्योतिषशब्दस्य निपात
Page #344
--------------------------------------------------------------------------
________________
( ३२८ )
सिद्धान्तचन्द्रिका |
[ तद्धितप्र० ]
नादुपधालोपो नप्रत्ययश्च ॥ तमोऽस्यास्मिन्वा तमिस्रम् । तमशब्दस्योपधाया इत्वं रप्रत्ययश्च । शृङ्गमस्यास्मिन्वाऽस्ति शृङ्गिणः अत्र इनप्रत्ययो निपातनात् ॥ ऊर्जोऽस्यास्मिन्वाऽस्ति ऊर्जस्वी ऊर्जस्वल: । विन्वलप्रत्ययो निपातनात् ॥ गौरस्यास्मिन् वाऽस्ति गोमी । मिन् प्रत्ययो निपातनात् ॥ मलोऽस्यास्मिन्वाऽस्ति मलिनः मलीमसः । मलशब्दादिने मसप्रत्ययौ निपातनादिति || ज्योत्स्नाऽस्यास्मि - न्वाऽस्तीत्यणि ज्योत्स्नः शुक्लपक्षः ॥ तमिस्रमस्यास्मिन्वाऽस्ति तामित्रः कृष्णपक्षो 'नरकविशेषश्च ॥ ' तमिस्रा तामसी रात्रिज्योत्स्नी चन्द्रिकायाऽन्विता ' इत्यमरोक्तौ तु तमित्येतदादन्तं न त्वणन्तमिति न विरोधः ॥ तपोऽस्यास्मिन्वाऽस्ति तापसः । विन्प्रत्ययोऽपि ।' तपस्वी ॥ सिकताऽस्यास्मिन्वाऽस्ति सैकतः इलप्रत्यये सिकतिलः ॥ वतौ तु सिकतावान् ॥ शर्कराऽस्यास्मिन्वाऽस्ति शार्करः । अणू । शर्करिलः । इलाः । शर्करा । तुपक्षे प्रत्ययस्य लुक् च भवति । सिकता । शर्करा । स्त्री शर्करा शर्करिलः शार्करः शर्करावति । देश एवादिमविवमुन्नेयाः सिकतावति ” इत्यमरः ॥ ( तत्त्वदी ० ) - जौत्स्न इति शुक्लपक्ष । तामिस्रः कृष्णपक्षे नरकविशेषे च ॥
44
(
ऊपशुषिमुष्कमधुखमुखकुञ्जनगपांशुपाण्डुभ्यो रः ) ऊपरः । शुषिरम् । मुष्करः । मधुरः । खरः मुखरः । कुञ्जरः । नगरम् | पांशुरः । पाण्डुरः ॥
L
(सुबोधिनी) - ऊषशुषिमुष्कमधुख मुखकुञ्जनग पांशुपाण्डुभ्यो रः ॥ एभ्यो रप्रत्ययः स्यादस्त्यर्थे ॥ ऊषोऽस्यास्मिन्वाऽस्ति ऊषरः । स्यादूषः क्षारमृत्तिका ॥ ऊषवानूषरः' इत्यमरः । शुषिरस्यास्मिन्वाऽस्ति शुषिरः शुपिश्छिद्रम् | ' वंशादिकं तु शुषिरम्' इत्यमरः ॥ मुष्कोऽस्यास्मिन्वाऽस्ति मुष्करः । मुष्कोण्डः ॥ मधुमाधुर्यमस्यास्मिन्वाऽस्ति मधुरः ॥ खमस्यास्मिन्वाऽस्ति खरः । महत् कण्ठविवरं खम् । गई रूढोऽयम् ॥ मुखमस्यास्मिन्वाऽस्ति मुखरः वाचालः । कुञ्जो हस्तिहनुरस्यास्मिन्वाऽस्ति कुञ्जरः ॥ नगा वृक्षाः पर्वताश्च ते अस्यास्मिन्वा सन्ति नगरम् । जातिशब्दोऽयम् । तेन स्त्रियां जातिलक्षण ईपू । नगरी । पांशू रजोऽस्यास्मिन्वाऽस्ति पांशुरः ॥ पाण्डुरस्यास्मिन्वाऽस्ति पाण्डुरः । ' हरिणः पाण्डुरः पाण्डुः ' इत्यमरः ॥
( तत्त्वदी ० ) - ऊषशुषीति ॥ ऊषा हरिणाः । पांशवः रजांसि । शुषिश्छिद्रम् । कुञ्जो हस्तिहनुः ॥ नगरमिति ॥ नगाः वृक्षाः पर्वताश्च । जातिशब्दत्वान्नगरीत्यपि ॥ पाण्डुर इति ॥ पाण्डुः शुक्लो वर्णस्तद्वान् ॥
( कच्वा ह्रस्वत्वं च ) कच्छुरः ।
4
Page #345
--------------------------------------------------------------------------
________________
[तद्धितप्र०] टीकाद्वयोपेता।
(३२९) (सुबोधिनी )-कच्छा हस्वत्वं च ॥ कच्छूशब्दाद्रः स्यादत्यर्थे । कच्छू इत्यस्य हस्वश्च ॥ कच्छूरस्यास्मिन्वाऽस्ति कच्छुरः । कच्छूः रोगविशेषः॥ (तत्त्वदी० )-कच्छर इति ॥ कच्छूः रोगविशेषस्तद्वान् ॥ (घुद्रुभ्यां मः) द्युमः । द्रुमः ॥ (सुबोधिनी)-युद्रुभ्यां मः ॥ आभ्यां मप्रत्ययः स्यादस्त्यर्थे ॥ द्यौरस्यास्मिन्वाऽस्ति द्युमः । दिव 'ऊ रसे' इत्युत्वम् ॥ द्रुः शाखा वृक्षश्च। दूरस्यास्मिन्वाऽस्ति द्रुमः। 'पलाशी द्रुद्रुमागमाः' इत्यमरः ॥
( तत्त्वदी० )-शुद्भ्यां म इति ॥ द्यौरस्यास्तीति । दिव 'ऊ रसे' इत्युत्वम् । अव्युत्पन्नोऽपि धुशब्दो दिनवाच्यस्ति ॥ दुर्वृक्षः सोऽस्यास्तीति जनकतयेति द्रुमोऽपि वृक्ष एव ॥ . (केशादिभ्यो वः) केशवः । मणिवः । हिरण्यवः ॥
( सुबोधिनी ) केशादिभ्यो वः ॥ एभ्यो वः स्यादस्त्यर्थे ॥ केशा अस्यास्मिन्वा सन्ति केशवः। केशी । इन् । केशिकः । इकः । केशवान् । वतुः॥ मणिरस्याऽस्मिन्वाऽस्ति मणिवः । नागविशेषः ॥ हिरण्यमस्यास्मिन् वाऽस्ति हिरण्यवो निधिविशेषः॥ ( तत्त्वदी०)-केशव इति ॥ प्रशस्ताः केशाः सन्त्यस्येति विग्रहः ॥ (अर्णसोलोपश्च ) अर्णवः ॥ ( सुबोधिनी )-अर्णसो लोपश्च ॥ अर्णस्शब्दादः स्यादस्त्यर्थे । सस्य लोपश्च॥ अर्णो जलं तद्वानर्णवः । अणस्वान् । वतुः॥ ( तत्त्वदी०)-अर्णव इति ॥ अर्णीसि जलानि सन्त्यस्येति ॥ (रजःकृष्यासुतिपरिषद्भयो वलः) रजस्वला ॥ (सुबोधिनी)-रजःकृप्यासुतिपरिषड्यो वलः ॥ एभ्यो वलप्रत्ययः स्यादस्त्यर्थे ॥ रजोऽस्या अस्यां वाऽस्ति रजस्वला । रजःस्वीकुसुमेऽपि च' इत्यमरः ॥ .
(कृष्यादीनां वले दीर्घः) कृषीवलः । आसुतीवलः। परिषदलः॥ ( सुबोधिनी)-कृष्यादीनां वले दीर्घः ॥ वलप्रत्यये संज्ञायामेषां दीर्घः स्यात॥ कृषिरस्याऽस्मिन्वास्ति कृषीवलः ॥ आसुतिरभिषवः। 'मद्यसंधानमासुतिः' इति हैमः ॥ 'पुञ् अभिषवे' क्तिः॥ आसुतिरस्यास्मिन्वाऽस्ति आसुतीवलः शौण्डिकः॥
Page #346
--------------------------------------------------------------------------
________________
(३३०) सिद्धान्तचन्द्रिका। [ तद्धितप्र.] परितः सीदतीति परिषत् । क्किए । पदिति पाठान्तरम् । परिषदस्यास्मिन् वाऽस्ति परिषदलः । पर्षदलश्च । 'पर्षदलान्महाब्रह्मैराटनैकटिकाश्रमान्' इति भट्टिः ।। (तत्त्वदी० )-परिषद्वल इति ॥ परितः सीदतीति परिषत् ॥ (अन्येभ्योऽपि ) मातृवलः । पुत्रवलः । दन्तावलः। बन्धुवलः ॥ (सुबोधिनी)-अन्येभ्योऽपि ॥ वलप्रत्ययः स्यादस्त्यर्थे ॥ भ्रातास्यास्मिन्वास्ति भ्रातृवलः । पुत्रोऽस्यास्मिन्वास्ति पुत्रवलः । संज्ञाया अभावान्नेह दीर्घः ॥ दन्ता अस्यास्मिन्वा सन्ति दन्तावलो हस्ती । कृष्यादीनामिति दीर्घः ॥
(तुन्दिबलिवटेर्भः) तुन्दिभः । बलिभः । वटिभः । (सुबोधिनी )-तुन्धिबलिवटेभः ॥ एभ्यो भप्रत्ययः स्यादस्त्यर्थे. ॥ वृद्धा नाभिस्तुन्दिः । तुन्दिरस्यास्मिन्वाऽस्ति तुन्दिभः ॥ बलिरस्यास्मिन्वास्ति बलिभः ॥ वटिरस्यास्मिन्वाऽस्ति वटिभः । वल्मीकगृहमित्यर्थः । पामादित्वाइलिनोऽपि ॥
(एतत्किमिदंयत्तद्यः परिमाणे वतुः ) (सुबोधिनी)-एतत्किमिदंयत्तद्भयः परिमाणे वतुः ॥ एभ्यो वतुप्रत्ययः स्यात् परिमाणेऽर्थे ॥ परिमाणमिह परिच्छेदकमात्रम् ॥
(तत्त्वदी० )-एतत्किमिदंयत्तद्भयः परिमाणे वतुरिति ॥ मान्तोपधादित्यनेनैव सिद्धे परिमाणार्थे वचनम् ॥ ( यत्तदेतदामा वतौ) यावान् । तावान् । एतावान् ।
(सुबोधिनी)-यत्तदेतदामा वती॥वतुप्रत्यये परे एषामाकारान्तादेशः स्यात्॥ यत्परिमाणमस्य यावान् ॥ तत्परिमाणमस्य तावान् ॥ एतत्परिमाणमस्य एतावान्॥
(तत्त्वदी०)-यत्तदेतदामा वताविति ॥ यत्तदेतच्छब्दानां वतुप्रत्यये परे आकारोन्तादेश इत्यर्थः ॥ यावानिति ॥ यत् परिमाणमस्येति विग्रहः ॥
(किमः किर्वतोवस्य यः) कियान् । (सुबोधिनी)-किमः किर्वतोर्वस्य यः ॥ किम्शब्दस्य किरादेशः स्यात वतुप्रत्ययस्य यकारश्च ॥ किं परिमाणमस्य कियान् ॥
(इदम इश्वतोर्वस्य यः ) इयान् ॥ (सुबोधिनी)-इदम इश्वतोर्वस्य यः ॥ इदम्शब्दावतुः स्यात्परिमाणेऽर्थ
Page #347
--------------------------------------------------------------------------
________________
[तद्धितप्र० ] टीकाद्वयोपेता।
(३३१) इदमस्थाने इशादेशश्च ॥ शित्त्वात्सर्वादेशः । वतुप्रत्ययस्य यकारश्च । इदं परिमाणमस्य स इयान् ॥ ( तत्त्वदी० )-इदम इशिति ॥ शकारः सर्वादेशार्थः॥ (श्रद्धादेलुः ) श्रद्धालुः । कपालुः। दयालुः॥ (सुबोधिनी)-श्रद्धादेलः ॥ लुप्रत्ययः स्यादस्त्यर्थे ॥ श्रद्धाऽस्यास्मिन्वास्ति श्रद्धालुः ॥ कृपाऽस्यास्मिन्वाऽस्ति कृपालुः ॥ दयाऽस्यास्मिन्वाऽस्ति दयालुः । स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाशीभ्य इत्यालुप्रत्ययेनापीष्टसिद्धरिदं सूत्र चिन्त्यम् ॥
(औनत्ये दन्तादुरः) दन्तुरः ॥ (सुबोधिनी )-औनत्ये दन्तादुरः ॥ उन्नते वर्तमानादन्तशब्दादुरप्रत्ययः स्यादस्त्यर्थे । उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥ औन्नत्ये किम् । दन्तवान् ॥
(अस्मायामेधास्रग्भ्यो विनिः ) तपस्वी । ओजस्वी । वर्चस्वी । तेजस्वी । वचस्वी । मायावी । मेधावी । स्रग्वी ॥
(सुबोधिनी)-अस्मायामधास्त्रग्भ्यो विनिः ॥ एभ्यो विनिः स्यादस्त्यर्थे । पक्षे वतुरपि ॥ तपोऽस्यास्मिन्वास्ति तपस्वी ॥ ओजोऽस्यास्मिन्वाऽस्ति ओजस्वी ॥ वर्णोऽस्यास्मिन्यास्ति वर्चस्वी ॥ तेजोऽस्यास्मिन्वाऽस्ति तेजस्वी ॥ वचोऽस्यास्मिन्वास्ति वचस्वी। मनोऽस्यास्मिन्वास्ति मनस्वी ॥ मायाऽस्यास्मिन् वास्ति मायावी । मायी । मायिकः । इनिको । मेधाऽस्यास्मिन्वास्ति मेधावी ॥ स्रगस्यास्मिन्वाऽस्तीति चोः कुरित्यनेन सिद्धे परत्वात्प्राप्तं छशषेति षत्वं निराकृत्य दिशामिति कुत्वम् । स्रग्वी ॥
(तत्त्वदी०)-अस्मायेति ॥ अस्प्रत्ययग्रहणेन तदन्तस्य ग्रहणमिति अस्प्रत्ययान्तात् मायादेश्च विनिरित्यर्थः ॥
( आमयस्य दीर्घश्च ) आमयावी ॥ (सुबोधिनी )-आमयस्य दीर्घश्च ॥ आस्मादपि विनिः स्यादस्त्यर्थे विनिप्रत्ययेऽस्य दीर्घश्च ॥ आमयोऽस्यास्मिन्वाऽस्तिआमयावी ॥
(वाचो ग्मिनिः ) वाग्ग्मी ॥ (सुबोधिनी)-वाचो ग्मिनिः॥ वाचशब्दात् ग्मिन् प्रत्ययः स्यादस्त्यर्थे । वागस्यास्मिन्वाऽस्ति । चस्य कुत्वे झबे जवा इति गत्वे वाग्ग्मी । गकारद्वयमस्ति ।
Page #348
--------------------------------------------------------------------------
________________
(३३२) सिद्धान्तचन्द्रिका। [तद्धितप्र० ]
(तत्त्वदी० )-वाचो ग्मिनिरिति ॥ गकारो मादित्वव्यावृत्त्यर्थः । तेन गत्वमेव । यद्वा ग् मिनिः इति च्छेदः ग् आदेशो मिन् प्रत्ययः॥
(आलाटौ कुत्सितभाषिणि) वाचालः। वाचायः॥ (सुबोधिनी)-आलाटौ कुत्सितभाषिणि ॥ वाचशब्दादेतौ स्तः कुत्सितबहुभाषकेऽर्थे कुत्सितं बहु भाषते वाचालः । वाचाटः ॥ यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥
(तत्वदी० )-कुत्सितेति ॥ कुत्सितमनन्वित भाषितुं शीलमस्य स तथा तस्मिन्नित्यर्थः । प्रत्ययार्थे वाच्य इत्यर्थः ॥
(ईषदसमाप्तौ कल्पदेश्यदेशीयाः ) ईषदपरिसमाप्तः सर्वज्ञः सर्वज्ञकल्पः । पटुदेश्यः । पटुदेशीयः । विदद्देशीयः ॥ - (सुबोधिनी ) ईषदसमाप्तौ कल्पदेश्यदेशीयाः ॥ प्रथमान्तान्नाम्न आख्यातान्ताच्चैते स्युरीषदूनेऽर्थे ॥ ईषदसमाप्तौ ये प्रत्ययास्तेष्वभिधेयवदेव लिङ्गवचने स्तः। तेन गुडकल्पा द्राक्षा ॥ शर्कराकल्पो गुड इति ॥ ईषदूनः सर्वज्ञः सर्वज्ञकल्पः ॥ ईषदूनः पटुः पटुदेश्यः ॥ ईषदूनो विद्वान् ‘वसां रसे' इति दत्वं विद्वद्देशीयः ईषदूनं पचति पचतिकल्पम् ॥ क्रियाप्रधानमाख्यातभिति क्रियायामौत्सर्गिकमेकवचनं क्लीवत्वं च ॥ ( तत्त्वदी० )-ईषदिति ॥ ईषदसमाप्तौ किंचिन्यूनत्वे ॥ (बहुर्वा उक्तार्थे स च प्रागेव ) ईषदूनः पटुः बहुपटुः ॥ (सुबोधिनी)-बहर्वा उक्तार्थे स च प्रागेव ॥ ईषदसमाप्तिविशिष्टेऽर्थे प्रथमान्तानीनो बहुप्रत्ययः स्यात् स च प्रकृतेः प्रागेव न तु परतः। लिङ्गसंख्ये आप प्रकृतेरेव न तु तद्विपर्ययः । तेन बहुगुडो द्राक्षा ।' लघुबहुतृणं नरः' इत्यादौ न विशेष्यनिघ्नता॥
(तत्त्वदी० )-बहु उक्तार्थे स च प्रागवेति ॥ उक्तार्थे किंचिन्न्यूनत्वेऽर्थे बहुप्रत्ययो विकल्पेन भवति । स च बहुप्रत्ययः प्रकृतेः प्रागेव न तु परतः । लिङ्गसंख्ये अपि प्रकृतेरेव न तु तद्विपर्ययः । तेन बहुगुडो द्राक्षा — लघुर्बहुतृणं नरः' इत्यादौ न विशेष्यनिघ्नता ॥
(प्रकारे जातीयः) पटु प्रकारः पटुजातीयः ॥ (सुबोधिनी )-प्रकारे जातीयः ॥ प्रकारवति जातीयप्रत्ययः स्यात् ॥ सामान्यस्य भेदकः प्रकारः॥
Page #349
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ] टीकाद्वयोपेता।
(३३३) ( कुटीशमीशुण्डाभ्यो रो द्वस्वत्वे ) ह्रस्वा कुटी कुटीरः ।। शमीरः । शुण्डारः ॥
(सुबोधिनी)-कुटीशमीशुण्डाभ्यो रो द्वस्वत्वे ॥ एभ्यो रः प्रत्ययो भवति ह्रस्वेऽर्थे ॥ ह्रस्वा कुटीति स्वार्थिकाः प्रकृतिलिङ्गमतिवर्तन्ते इति पुंलिङ्गताऽत्र ।। कुटीरः ॥ ह्रस्वा शमी शमीरः ॥ ह्रस्वा शुण्डा शुण्डारः॥
(कुत्वा डुपः) ह्रस्वा कुतूः कुतुपः ॥ _ (सुबोधिनी)-कुत्वा डुपः ॥ कुतुशब्दात् डुपप्रत्ययः स्यात् ह्रस्वेऽर्थे । 'कुतः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ' इत्यमरः ।। (तत्त्वदी० ) कुतुप इति ॥ 'कुतूः कृत्तेः स्नेहपात्रं हस्वा सा कुतुपः पुमान् ॥' (कासूगोणीभ्यां ष्टरः ) ह्रस्वा कासूः कासूतरी । गोणीतरी ॥ (सुबोधिनी)-कासगोणीभ्यां ष्टरः॥आभ्यां ष्टरप्रत्ययः स्यात् हस्वेषित्त्वात वित इतीप् ॥ द्वस्वा कासूःकासूतरी । कासूः आयुधविशेषः॥ द्वस्वा गोणी गोणीतरा।। ( तत्त्वदी० )-कासूरिति ॥ आयुधविशेषः कासूः । सा ह्रस्वेत्यर्थः ॥
(वत्सोक्षाश्वर्षभेभ्यस्तनुत्वे) तनुवत्सः वत्सवरः । उक्षतरः । अश्वतरी। ऋषभतरः ॥
(सुबोधिनी )-वत्सोक्षाश्वर्षभेभ्यस्ननुत्वे ॥ एभ्यः ष्टरः स्यात् ॥ तनोर्भावस्तनुत्वम् न्यूनता । सा च प्रवृत्तिनिमित्तस्यैव प्रत्यासत्तेः । क्वचित्तु तत्सहचरिसधर्मान्तराणामपि न्यूनता । तत्र वत्सः प्रथमवयाः। प्रथमवयसो न्यूनत्वं नाम वयोऽन्तरप्राप्तिः । उक्षा तरुणवयाः। तारुण्यस्य तनुत्वं तृतीयवयःप्राप्तिः ॥ अश्वायामश्वादुत्पन्नोऽश्वः। अश्वत्वं च जातिः। तत्सहचरितस्याश्वायामश्वादुत्पन्नत्वधर्मस्य न्यूनत्वमन्यपितृकता । तथा च गर्दभेनाऽश्वायामुत्पादितोऽश्वतरः। तरतमेति पुंवद्भावः । अश्वतरो भारस्य वोढा ॥ ऋषभस्य तनुत्वं भारोदहने मन्दशक्तिता । तद्वांस्तु ऋषभतरः । प्रवृत्तिनिमित्ततनुत्वे एवायम् ॥ (तत्त्वदी० )-वत्सतर इति ॥ द्वितीयं वयः प्राप्तः । उक्षतरः ॥ (देवतान्तात्तादर्थ्यं यः ) अग्निदेवतायै इदमनिदेवत्यम् । (सुबोधिनी)-देवतान्तात्तादयें यः ॥ तदर्थ एव तादर्थ्यम् । स्वार्थे ण्यः । अग्निश्चासौ देवता च अग्निदेवता तस्यै ॥
Page #350
--------------------------------------------------------------------------
________________
सिद्धान्तचन्द्रिका |
(पादार्घाभ्यां च ) पादार्थमुदकं पायम् । अर्घ्यम् ॥
( तत्त्वदी ० ) -- पादार्घाभ्यां च ॥ आभ्यां यः स्यात्तादयें ॥ ' पाद्यं पादाय वारिणि' इति 'मूल्ये पूजाविधौ चार्घः' इति चामरः ॥ अर्घार्थमुदकमर्घ्यम् ॥ ( नवस्य नू आदेशस्त्नतनईनाः प्रत्ययाः स्वार्थे ) नूनम् । नूतनम् । नवीनम् ॥
( सुबोधिनी)- -नवस्य नू आदेशस्त्नतनईनाः प्रत्ययाः स्वार्थे ॥ नवाशब्दात्स्वार्थे ते स्युर्नवस्थाने नूश्च वा ॥ 'वोऽव्यस्वरे' इत्यव् । नवीनम् ॥
(३३४)
[ तद्धितप्र० ]
( तत्त्वदी ० ) - नवीनमिति ॥ नवशब्दात् ईनप्रत्ययः । ऊकारस्य वोऽव्यस्वर इत्यवादेशः । ( पुराणे प्रान्नश्च ) प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ॥ (सुबोधिनी) -- पुराणे प्रान्नश्च ॥ प्रात्पुराणेऽर्थे नप्रत्ययः स्यात् चादुक्ताः लतनईनाः। ( अतिथेः ) अतिथय इदमातिथ्यम् ॥
( सुबोधिनी )--अतिथेः ॥ अतिथिशब्दात्तादर्थे ञ्यः स्यात् ॥ ( प्रशंसायां रूपः ) प्रशस्तो वैयाकरणो वैयाकरणरूपः ॥
(सुबोधिनी ) - प्रशंसायां रूपः ॥ प्रथमान्तान्नाम्ना आख्यातान्ताच्च रूपप्रत्ययः स्यात् प्रशंसायामर्थे ॥ प्रकृत्यर्थस्य परिपूर्णतेह प्रशंसा । न तु स्तुतिः । तेनेहापि रूपप्रत्ययः । चोररूपोऽयं यदक्ष्णोरप्यञ्जनं हरति । गुप्तवस्तुनोऽपहरणेन चौर्य परिपूर्यते || प्रशस्तं पचति पचतिरूपम् ॥
( कुत्सायां पाशः ) कुत्सितो भिषक् भिषक्पाशः ॥
( सुबोधिनी ) - कुत्सायां पाशः ॥ प्रथमान्तान्नाम्नः पाशप्रत्ययः स्यात् कुत्सायामर्थं ॥
(भूतपूर्वे चर ) पूर्व दृष्टो दृष्टचरः । दृष्टचरी आढचचरी ॥
( सुबोधिनी) - भूतपूर्वे चरट् ॥ पूर्वं भूतो भूतपूर्वस्तत्र वर्तमानात्प्रथमान्ताचरटू स्यात् टित्त्वादी ॥ भूतपूर्वाऽऽढया आढचचरी । तरतमचरडिति पुंवत् ॥ ( तत्वदी ० ) -- भूतपूर्व इति ॥ पूर्वं भूतः प्राप्तः इति यावत् । टित्त्वादीपू ॥ (षष्टया रूप्य च )
(सुबोधिनी ) - षष्ठ्या रूप्य च ॥ षष्ठ्यन्ताद् भूतपूर्वेऽर्थे रूप्यप्रत्ययो वा । पक्षे चर ॥ कृष्णस्य भूतपूर्वी गौः कृष्णरूप्यः । कृष्णचरः ॥
1
Page #351
--------------------------------------------------------------------------
________________
[तद्धिता०] . टीकाद्वयोपेता। (३३५)
(प्राचुर्यविकारप्राधान्यादिषु मयट् ) अन्नं प्रचुरमत्रान्नमयो यज्ञः । मृन्मयो घटः । स्त्रीमयो जाल्मः । अमृतं स्वरूपमस्यामृतमयश्चन्द्रः । आम्रस्य विकारोऽवयवो वा आम्रमयम् । शरमयम् ॥
(सुबोधिनी )-प्राचुर्यविकारप्राधान्यादिषु मयट् ॥ नाम्न एष्वर्थेषु मयट् स्यात् ।। प्राचुर्ये अन्नमयो यज्ञः। विशेष्यनिघ्नताऽत्र ॥ विकारे मृदो विकारो मृन्मयः। मयट्प्रत्ययः । जमे जवस्यापीति नः ॥ प्राधान्ये स्त्री प्रधानमस्य स्त्रीमयः॥ आदिशब्दादन्येष्वप्यर्थेषु मयः । यथा । अमृतमयोऽत्र स्वरूपे मयः ॥ आम्रमयमत्र विकारावयवयोर्मयट् ॥ शराणां विकारोऽवयवो वा शरमयम् ॥
(तत्त्वदी० )-प्राचुर्येति ॥ प्रचुरस्य भावः प्राचुर्य बाहुल्यम् । प्राचुयै च विकारश्च प्राधान्यादिश्च ते तेषु ॥ जाल्मोऽसमीक्ष्यकारी ॥ अमृतमय इति ॥ आदिपदात्ताद्रूप्येऽपि ।
(गोः पुरीषे ) गोमयम् ॥ (सुबोधिनी )--गोः पुरीषे ॥ गोशब्दान्मयट् स्यात् पुरीषेऽर्थे ॥ गोः पुरीष गोमयम् ॥ पुरीषे किम् । गव्यम् । पयसि ण्यः ॥
( न सन्धिय्वोर्युट् च ) संधिजयोर्यकारवकारयोः संबन्धिन स्वरस्य न वृद्धिः । किंतु तयोर्युडागमो यस्येट् वस्योट् पश्चादृद्धिः ॥ व्याकरणमधीते वेद वा वैयाकरणः । स्वश्वं वेद सौवश्वः । व्यासस्यापत्यं वैयासकिः ॥
(सुबोधिनी)-न सन्धिय्वोर्युट च ॥ सन्धानं संधिः 'नङ्की' इति किप्रत्ययः। सन्धौ जातौ संधिजौ, य् च त् च खौ सन्धिजौ च तौ स्वौ च सन्धिय्वौ । शाकपार्थिवादित्वान्मध्यमपदलोपः ।माधवस्तु सन्धेविति षष्ठीतत्पुरुषमाह । इश्च उश्चानयोः समाहारो यु युसहितः टू युट् । द्वन्द्वान्ते श्रूयमाणत्वात् टकारः प्रत्येकं संबध्यते । उट् इट् इत्यर्थः॥ वैयाकरणः । अण् इट् वृद्धिः ॥ सुष्ठु अश्वः स्वश्वः। स्वश्वं वेत्तीति सौवश्वः । अण् । उड्वृद्धी ॥ वैयासकिः। अपत्ये इञ् । सुधातृव्यासेत्यकङ् । इड्वृद्धी ॥
(तत्त्वदी० )-न सन्धिय्वोर्युट चेति ॥ संधानं पूर्वपरयोरव्यवधानेनोच्चारणं संधिः॥ 'नङ्की' इति किः । संधौ जातौ संधिजौ। 'किम्वनिब्डाः' इति जनेर्डः ॥ य च व् च य्वौ संधिजौ च तौ य्वौ च संधिय्वौ शाकपार्थिवादिः । इश्च उश्चानयोः समाहारो युतेन सहितः टू युट् । द्वन्द्वान्ते श्रूयमाणत्वात् । प्रत्येकं संबन्धः । इट् उद इति । सौस्थितिरित्या
Page #352
--------------------------------------------------------------------------
________________
(३३६) सिद्धान्तचन्द्रिका। . [ तद्धिता० ] दिसिद्धये इदुतोरेव न संधिरिति नाशङ्कनीयम् । युट्करणसामर्थ्यात् । अन्यथा सवर्णदीर्पण तद्विधानं व्यथै स्यात् । न च युड्विधिसामर्थ्यात्सवर्णदीर्घ एव न भविष्यतीति वाच्यम् । नत्रो वैयर्थ्यप्रसङ्गात् । युटः षष्ठ्यभावान्न वृद्धिनिषेधः। उत्सर्गसमानदेशा अपवादा भवन्तीति न्यायात् दध्यश्व इत्यादौ न । दधिप्रियोऽश्वो दध्यश्वस्तस्यायमिति । चकारात्स्वगतस्वध्वरव्यङ्गव्यवहारव्यायामप्रभृतीनां न निषेधयुटौ ॥ वैयाकरण इति ॥ कारकादित्यण् । यकारात्पूर्वमिट् । तस्य पश्चादृद्धिः॥
(द्वारादीनां च ) द्वारादीनां संबन्धिनोः स्वरयोर्न वृद्धिः किंतु तयोगुंडागमः॥ द्वारे नियुक्तो दौवारिकः ॥ व्यल्कशस्येदं वैयल्कशम् । सौवरम् । शौवम् । सौवयामिकः । नैयग्रोधम् । सौवादुमृदवम् । शौवस्तिकम् ॥
(सुबोधिनी )-द्वारादीनां च ॥ द्वारादीनामसंधिजयोरपि यकारवकारयोः युट् स्यात् ॥ पश्चादृद्धिश्च । यस्य इट् वस्य उट् इत्यर्थः ॥ दौवारिकः । नियुक्तेऽर्थे इकः । उबृद्धी ॥ वैयल्कशम् । इदमर्थेऽण् । इबृद्धी ॥ स्वरस्येदं सौवरम् । उड्वृद्धी ॥ स्वग्रामे भवः सौवग्रामिकः । इकः उड्वृद्धी ॥ न्यग्रोधस्येदं नैयग्रोधम् । अण् । इइवृद्धी ॥ स्वादु च तत् मृदु च स्वादुमृदु स्वादुमृदुन इदं सौवादुमृदवम् । अण् ।'वोऽव्यस्वरे' इत्यत् । उवृद्धी ॥ श्वो भवं शौवस्तिकम् । तिकण् । उड्वृद्धी॥ श्वापदस्येदं निपातनात्पूर्वपदस्य दीर्घः। अण् । वा उड्वृद्धी ॥ श्वापदं-शौवापदम् ॥
(तत्त्वदी०)-द्वारादीनामिति ॥ संधिजत्वाभावेऽपि तौ । वस्तुतस्त्वन्तय्वोरित्येव सुवचम् । अन्तशब्दश्च पदान्तपरतया व्याख्येयः अनन्त इत्यादौ तथैव व्याख्यानात् । नुडादिवाडेव तु नागमः व्याख्यानतो विशेषप्रतिपत्तेः ॥ सौवरमिति ॥ स्वरस्येदम् ॥ शौवमिति।। शुन इदम् ॥ सौवग्रामिक इति ॥ स्वग्रामे भवः ॥ सौवादुमृदवमिति ॥ स्वादु च तत् मृदु च तस्येदम् ॥ शौवस्तिकमिति ॥ श्वो भवम् । श्वसस्तिकण ॥
(इतो जाताथै) लज्जा जाताऽस्य लज्जितः। फलितः। ताराकितम्॥ (सुबोधिनी)-इतो जातार्थे ॥ प्रथमान्तानाम्नोऽस्य जातमित्यर्थे इतः प्रत्यय: स्यात् ॥ यस्य लोप इत्यालोपः।लज्जितः ॥ फलानि जातान्यस्य फलितः॥ त्रपा जाताऽस्य त्रपितः ॥ तारका जाता अस्य तारकितं नमः ॥ एवं पुष्पितं पुलकितं रोमाञ्चितम् ॥ (तत्त्वदी०)-इतो जातार्थे इति ॥ अस्य जातमित्यर्थे इत इत्यर्थः ॥ (तरतमेयस्विष्ठाः प्रकर्षे) अतिशयेन शुक्लः शुक्लतरः। शुक्लतमः।।
Page #353
--------------------------------------------------------------------------
________________
[तद्धितप्र० ] टीकाद्वयोपेता।
(३३७) (सुबोधिनी )-तरतमेयस्विष्ठाः प्रकर्षे ॥ तरश्च तमश्च ईयसुश्च इष्ठश्च ते तरतमेयस्विष्ठाः । प्रकर्ष इति प्रकृत्यर्थे विशेषणम् । प्रकर्षणं प्रकर्षः । प्रकर्षश्च नाधिक्यं कित्वभिभवो मतः। यद्यपि कृषिः केवलो विलेखने तथापि प्रपूर्वोऽभिभवे. ऽर्थे । यद्यपि द्रव्यस्य स्वतः प्रकर्षों न तथापि गुणप्रकर्षात् प्रकर्षो भवति । उक्तं च। "द्रव्यस्याव्यपदेश्यस्य य उपादीयते गुणः । भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते ॥ १॥" धर्मयोगं विना व्यपदेष्टुमशक्यस्य द्रव्यस्य व्यपदेशाय यो भेदको गुण उपादीयते प्रत्ययेन तस्य प्रकर्षोऽभिधीयते । गुणक्रियाजातिसंज्ञाभेदेन चतुष्टयी शब्दानां प्रवृत्तिः । तत्र गुणक्रिययोः प्रवृत्तिनिमित्तयोस्तत्प्रकर्षे प्रत्ययः । जातिशब्देभ्यस्तु जातेः सर्वत्रैकरूपत्वेन प्रकर्षाभावात्तत्सहचरितादेवाह । दोहादयो धर्मास्तप्रकर्षे प्रत्ययः। संज्ञाशब्देषु प्रकर्षों नास्ति । शब्दस्वरूपस्यैव प्रवृत्तिनिमित्तत्वात् । तस्य च सर्वत्र तुल्यत्वात् । गुणशब्दो यथा । यस्य सामान्यतः श्वेतो गुणः स शुक्लः । यस्य तदपेक्षयाधिकः स शुक्लतरः। यस्य ताभ्यामप्यधिकः स शुक्लतमः।। यः किंचिजानाति स पटुः । ततोऽधिकं जानाति स पटुतरः । ततोऽप्यधिकं स पटुतमः ॥ क्रियाशब्दो यथा । यो विलम्बेन पचति स पाचकः। यस्तु ततः किंचि. च्छीघ्रं पचति म पाचकतरः ! यस्त्वतिशीघ्र पचति स पाचकतमः ॥ जातिशब्दो यथा। गौरयं हलं वहति । गोतरोऽयं हलं शकटं च वहति । गोतमोऽयं तौ गोणी च वहति ॥ इष्ठेयसुप्रत्ययौ गुणवचनादेव । संख्यापरिमाणप्रमाणोन्मानवाचिभ्यो न तरादयः । संख्या एकादि । परिमाणं कुडवद्रोणादि । प्रमाणं हस्तवितस्त्यादि । उन्मानं तुलादि । उक्तं च "ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः ॥१॥" __ (तत्त्वदी )-तरतमेयस्विष्ठा इति ॥ तरश्च तमश्च ईयसुश्च इष्ठश्च ते । प्रकर्षण प्रकर्षः । प्रकर्षश्चात्र नाधिक्यं किंत्वभिभको मतः । यद्यपि केवलः कृषिविलेखनार्थस्तथाप्युपसर्गवशादभिभवार्थोऽपि । प्रकर्षस्य सजातीयप्रतियोगिकत्वात्संज्ञाजातिवाचकयोस्तदभावान्न तरादयः । तथा संख्यापरिमाणप्रमाणोन्मानवाचिभ्यो न । उक्तं च । "ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः॥" ऊर्ध्वमानं तुलादिः॥ परिमाणं द्रोणादिः॥ प्रमाणं हस्तवितस्त्यादिः ॥ संख्या एको द्वावित्यादिः । यद्यपि सामान्येन तरादिविधानं तथापि एकस्य द्वयोश्च प्रकर्षे तरेयस । बहूनां तमेष्ठाविति विवेकः । पाचकादिभ्यस्तु ईयस्विष्ठौ नानभिधानात् ॥
(ईयस्विष्ठौ डितौ ) अतिशयन लघुर्लघीयान् । लघिष्ठः ॥ (सुबोधिनी )-ईयस्विष्ठौ डितौ ॥ एतौ डिसंज्ञको स्तः ॥ अतिशयन लघुः
२२
Page #354
--------------------------------------------------------------------------
________________
( ३३८ ) सिद्धान्तचन्द्रिका। [तद्धितप्र० ] ईयसौ टिलोपे उदित्त्वान्नुम् । 'न्सम्महतः' इति दीर्घः । सिलोपसंयोगान्तलोपौ । लघीयान् ॥ लघिष्ठः । इष्टः॥ - (गुर्वादेरिष्ठेमेयःसु गरादिष्टयलोपश्च ) गुरोर्भावो गरिमा । अतिशयेन गुरुर्गरिष्ठः गरीयान् ॥ प्रियस्य भावः प्रेमा । अतिशयेन प्रियः प्रेष्ठः प्रेयान् ॥ अतिशयेन स्थूलः स्थविष्ठः स्थवीयान् ॥ अतिशयेन प्रशस्यः श्रेष्ठः श्रेयान् ॥ दीर्घः द्राधिष्ठः द्राधीयान् ॥ स्थिरः स्थेष्ठः स्थेयान् ॥ स्फिरः स्फेष्ठः स्फेयान् ॥ उरुः वरिष्ठः वरीयान् ॥ बहुलः बहिष्ठः बहीयान् ॥ वृद्धः वर्षिष्ठः वर्षीयान् ॥ तृपः त्रपिष्ठः पीयान् ॥ वृन्दारकः वृन्दिष्ठः वृन्दीयान् ॥ दूरः दविष्ठः । दवीयान् ॥ युवा यविष्ठः यवीयान् ॥
(सुबोधिनी)-गुर्वादेरिष्ठेमेयःसु गरादिष्टयलोपश्च ॥ गुरु १ प्रिय २ स्थूल ३ प्रशस्य ४ दीर्घ ५ स्थिर ६ स्फिर ७ गुरु ८ बहुल ९ वृद्ध १० तृप ११ वृन्दारक १२ दूर १३ युवन् १४ अल्प १५ ह्रस्व १६ क्षिप्र १७ क्षुद्र१८ अन्तिक १९ बाढ २० गुर्वादयः। गर रान्तः । प्र अदन्तः । स्था ओदन्तः। श्र अदन्तः। द्राघ अदन्तः। स्थ अदन्तः। स्फ अदन्तः । वर् रान्तः । बंह अदन्तः। वर्ष षान्तः। त्र पान्तः। वृन्द अदन्तः।दो ओदन्तः । यो ओदन्तः । अल्प पान्तः। हम सान्तः। क्षेप पान्तः । क्षोद्दान्तः । नेद अदन्तः । साध अदन्तः। एते गरादयः ॥ एषामेकस्वराणां टिलोपो यस्य लोप इत्यलापश्च न । द्विस्वराणां तु यस्य लोप इत्यलोपो भवत्येव ॥ गरिमा । इमन् । गरिष्ठः । इष्ठः। गरीयान् । ईयसुः । स्त्रियां तुष्टवित इतीप् । गरीयसी ॥ प्रेमा । इमन् । प्रेष्ठः । इष्ठः । प्रेयान् । ईयसुः ॥ स्थविष्ठः। इष्ठः। स्थवीयान् । ईयसुः॥ श्रेष्ठः । इष्ठः । श्रेयान् । ईयसुः ॥ द्राविष्ठः । यस्य लोप इत्यलोपः । इष्ठः । द्राधीयान् । ईयसुः॥ स्थेष्ठः । इष्ठः । स्थेयान् । ईयसुः ॥ आतशयेन स्फिरः 'भूर्यदभ्रं पुरु स्फिग्म्' इति हैमः॥ स्फेष्ठः । इष्ठः । स्फेयान् । ईयसुः॥ अतिशयेन उरुः। वरिष्ठः । इष्ठः । वरीयान् । ईयसुः ॥ अतिशयन बहुलः। यस्येत्या लोपः । बंहिष्ठः । इष्ठः । बहीयान् । ईयसुः ॥ अतिशयेन वृद्धः वर्षिष्ठः । इष्ठः । वर्षोंयान् । ईयसुः। अतिशयेन तृपः पुरोडाशः तृपं दुःखं त्रपिष्ठः । इष्ठः । त्रपीयान् । ईयसुः॥ अतिशयेन वृन्दाकः। वृन्दारको रूापमुख्यो' इत्यमरः । यस्येत्यलोपः। वृन्दिष्ठः । इष्ठः । वृन्दीयान् । ईयः ॥ अतिशन दूरः दविष्ठः । इष्ठः । दवीयान्। ईयसुः ॥ अतिशयेन युवा यविष्ठः । इष्ठः । यवीयान् । ईयसुः ॥
Page #355
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ] . टीकाद्वयोपेता। (३३९) . (तत्त्वदी)-ट्यलोपश्चेति ॥टेरलोपष्टयलोपः ईयस्विष्ठयोर्डित्वाहिलोपे प्राप्ते निषेधः। गुर्वादिप्रपञ्च एवैतानीति बोध्यम् ॥
(युवाल्पयोः कन् वा ) कनिष्ठः । कनीयान् ॥ आल्पिष्ठः । अल्पीयान् । कनिष्ठः । कनीयान् । ह्रस्वः हसिष्ठ । हसीयान् ॥ क्षिपः क्षेपिष्ठः ।क्षेपीयान् ॥ क्षुद्रः क्षोदिष्ठः । क्षोदीयान् ॥ आन्तिकः नेदिष्ठः । नेदीयान् ॥ बाढः साधिष्ठः । साधीयान् ॥
(सुबोधिनी)-युवाल्पयोः कन्वा ॥ एतयोः कनादेशो वा स्यात् इष्ठेयस्वोः परतः ॥ कनिष्ठः ॥ कनीयान् । ईयसुः ॥ अतिशयेनाल्पः अल्पिष्ठः ॥ इष्ठः। अल्पीयान् । ईयसुः । कनिष्ठः । कनीयान् ॥ अतिशयेन ह्रस्वः । हसिष्ठः । इष्ठः । ह्रसीयान् । ईयसुः॥ अतिशयेन क्षिप्रः क्षोपिष्ठः । इष्ठः । क्षेपीयान् । ईयसुः।।अतिशयेन क्षुद्रः क्षोदिष्ठः । इष्ठः । क्षोदीयान् । ईयसुः ॥ अतिशयेनान्तिकः । यस्येत्यलोपः। नेदिष्ठः । इष्ठः। नेदीयान् । ईयसुः ॥ अतिशयेन बाढः यस्येत्यलोपः । साधिष्ठः । इष्ठः । साधीयान् । ईयसुः॥
(वृद्धप्रशस्ययोर्वा) ( सुबोधिनी )-वृद्धप्रशस्ययोर्वा ॥ ज्या स्यादिष्ठेयस्वोः परतः ॥ . ( ईलोपो ज्याशब्दादीयसः ) ज्याशब्दात्परस्येयस ईकारस्य लोपः ॥ आतिशयेन वृद्धः प्रशस्यो वा ज्यायान् । ज्येष्ठः ॥
(सुबोधिनी ) ईलोपो ज्याशब्दादीयसः ॥ ईयसः किम् ।ज्येष्ठः ॥ प्रियोरुबहुलगुरुदीर्घाणां लोहितादित्वादिमन् । प्रमेत्यादि । (तत्त्वदी०) ईलोपो ज्याशब्दादिति । आदेशादित्यर्थः प्रकरणात् ॥ (बहोरिष्ठेर्थिः ) बहोरुत्तरस्यष्ठस्यकारस्य यिरादेशो भवति ॥ (सुबोधिनी )--बहोरिष्ठेयिः ॥ इष्ठेति लुप्तषष्ठीकं पदम् । बहुशब्दादिष्टप्रत्ययेकारस्य यिः स्यात् । ईयमुप्रत्यये परे ईगरस्य लोपश्च ॥
(तत्त्वदी० )-बहोरिति ॥ इष्ठेति लुप्तषष्ठी कमित्याशयेनाह-बहोरुत्तरस्येष्ठस्यकारस्येति ॥
(बहोभूश्च ) भूयिष्ठः । भूयान् ॥
Page #356
--------------------------------------------------------------------------
________________
(३४०)
सिद्धान्तचन्द्रिका। . [तद्धितप्र० ] (सुबोधिनी )-बहोर्भूश्च ॥ बहोः स्थाने भूः स्यादिष्ठेयस्वोः परतः ॥ अतिशयेन बहुः भूयिष्ठः । इष्ठः । भूयान ईयसुः ॥
(विनमतोलक) (सुबोधिनी )-विन्मतोल्क् ॥ विनो मतोश्च लुक् स्यादिष्ठेयस्वोः परतः ॥ मतुग्रहणं वतोरप्युपलक्षणं बोध्यम् ॥ अतिशयेन स्रग्वी स्रजिष्ठः। स्रजीयान् ॥ अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥
(किमोऽव्ययादाख्याताच तरतमयोराम्वद्रव्यप्रकर्षे ) किंतराम् । किंतमाम् । कुतस्तराम् । कुतस्तमाम् । उच्चैस्तरां गायति । उच्चैस्तमाम् । पचतितराम् । पचतितमाम् । पठतितराम् । पठतितमाम् । द्रव्यप्रकर्षे तु । उच्चैस्तमस्तरुः ॥
(सुबोधिनी )-किमोऽव्ययादाख्याताच्च तरतमयोराम्वद्रव्यप्रकर्षे ॥ किमव्ययाख्यातेभ्यः परौ यौ तरतमौ तदन्तेभ्य आम् स्यात् न तु द्रव्यप्रकर्षे । उकार उच्चारणार्थः ॥ निरनुबन्धकग्रहणे न सानुबन्धकस्यति परिभाषया नुविधौनास्य ग्रहणम् । अन्यथा पचतितराणामिति स्यात् ॥
(तत्त्वदी)-किम इति ॥ आमन्तस्य क्त्वावन्तत्वादव्ययत्वं बोध्यम् । तेन पचतितरामित्यादौ विभक्त क् ॥
(प्रमाणे दनवयसट्मात्रटः ) जानुदघ्नम् । शिरोद्वयसम् । पुरुषमात्रम् ॥
(सुबोधिनी)-प्रमाणे दनवयसटमात्रटः ॥ प्रथमान्तान्नानः तत्प्रमाणमस्येत्यर्थे एते स्युः । 'आयामस्तु प्रमाणं स्यात्' इति नेह गृह्यते किंतु प्रमाणामह परिच्छेदकमात्रम् । तत्र मात्रट् । आद्यौ तूर्ध्वमान एव भवतः । तथैव वृद्धः स्वीकृतत्वात् । टित्वात् श्वित इति स्त्रियामीपू । जानु प्रमाणमस्य जानुदन्नम् । शिरः प्रमाणमस्य शिरोद्वयसम् । पुरुषः प्रमाणमस्य पुरुषमात्रं जलम् ॥
(तत्त्वदी०)-प्रमाणे इति॥ अत्र च प्रमाणशब्देन परिच्छेदकमानं तत्र मात्रट । द्वयस टुदनटौ तूर्ध्वमान एव न तु तिर्यङ्मानादाविति विवेकः ॥
(पुरुषहस्तिभ्यामण च ) पौरुषम् । हास्तिनम् ॥ (सुबोधिनी )-पुरुषहस्तिभ्यामण च ॥ आभ्यां प्रमाणेऽर्थेऽपि स्यात् ।।
Page #357
--------------------------------------------------------------------------
________________
[तद्धितप्र. ] टीकाद्वयोपेता।
(३४१) (तत्वदी०) हास्तिनमिति ॥ हस्ती प्रमाणमस्येति विग्रहः । नो वेत्यत्र वेत्यरस्य व्यवस्थितत्वाट्टिलोपादि न॥
( वत्वन्तात्स्वार्थे द्वयसमात्रटौ ) तावद्दयसम् । तावन्मात्रम् ॥ (सुबोधिनी )-वत्वन्तात्स्वार्थे ॥ द्वयसट्मात्रटौ ॥ वतुप्रत्ययान्तात्मकृत्यर्थे एतौ स्तः ॥ तावदेव तावद्दयसम् ॥
(द्वयोर्बहूनां चैकस्य निर्धारण किमादिभ्यो डतरडतमौ ) भवतोः काण्वः कतरः । भवतां तान्त्रिकः कतमः । भवतोर्यवरस्ताकिकस्ततर उद्गृह्णातु ॥
( सुबोधिनी)-द्वयोर्बहूनां चैकस्य निर्धारणे किमादिभ्यो डतरडतमौ ॥ किम्यत्तदेकेभ्यो द्वयोर्मध्ये एकस्य निर्धारणे डतरः। बहूनां मध्ये एकस्य निर्धारणे डतमश्च स्यात् ॥ द्वयोर्बहूनामिति निर्धारणे षष्ठी । निर्यिमाणवाचिभ्य एवैतावभिधानस्वभावात् ॥ कतरः काण्व इति जात्या निर्धारणम् ॥ तन्त्रमधीते वेत्ति वा तान्त्रिक कतम इति गुणेन निरिणम् ॥ तर्कमधीते वेत्ति वा तार्किको यतर इति गुणेन निर्दारणम् । ततरस्तकमुद्गृहातु ॥ कतरोऽध्यापक इति क्रियया निरिणम् ॥ कतरो देवदत्त इति संज्ञया निर्धारणम् ॥ एवं यतमः ततमः । अनयोरेकतरो मैत्रः । एषामेकतमः ॥ पक्षे किम्शब्दस्य कः । यच्छब्दस्य यः । तदशब्दस्य सः। आख्याताव्ययेत्यकप्रत्यये तु किमः कः । यकः। सकः । कक इति तु नोक्तमकसहितस्यापि किमो भाष्ये कादेशविधातात् ॥
(तत्त्वदी०)-द्वयोरित्यादि ॥ द्वयोर्मध्ये एकस्य निर्धारणे डतरः । बहूनां मध्ये एकस्य निर्धारणे डतम इत्यर्थः ॥ कतर इति ॥ डित्त्वाहिलोपः ॥
(संख्येयविशेषावधारणे देस्तीयः) द्वयोः पूरणो द्वितीयः ।। ( सुबोधिनी )-संख्येयविशेषावधारणे द्वेस्तीयः ॥ संख्यातुं योग्यः संख्येयः । विशेषेणावधारणं विशेषावधारणम् । संख्येयस्य विशेषावधारणं संख्येयविशेषावधारणं तस्मिन्नर्थे दिशब्दात्तीयप्रत्ययः स्यात् ॥ पूरणे इत्यधिकारोऽयम् ॥
(तत्त्वदी०)-संख्येयेति ॥ संख्यातुम, संख्येयम् । तस्य विशेषस्तत्पूरकस्तस्यावधारणे इत्यर्थः ॥
(वेस्तृ च) तृतीयः॥
Page #358
--------------------------------------------------------------------------
________________
( ३४२ )
सिद्धान्तचन्द्रिका |
[ तद्धितप्र० ]
(सुबोधिनी) स्तु च ॥ त्रिशब्दात्तीयः स्यात् त्रः स्थाने तु चादेशः ॥ त्रयाणां संख्यानां पूरणः तृतीयः ॥
( तत्वदी ० ) - स्तृ च ॥ संप्रसारणमिति विहाय तृ चेत्युक्तिस्तु लाघवाय । वस्तुतस्तु तृचेत्युक्तौ तृ इत्यस्य प्रत्ययान्तरत्वशङ्कानिराकरणाय तदुक्तिः ॥
( षट्कतिकतिपय चतुर्म्यस्थट् ) षष्ठः । कतिथः । कतिपयथः । चतुर्थः ॥
(सुबोधिनी ) - षट्कतिकतिपयचतुर्थ्यस्थद् ॥ एभ्यस्थद् स्यादुक्तेऽर्थे ॥ षण्णां पूरणः षष्ठः । कतीनां पूरणः कतिथः । कतिपयानां पूरणः कतिपयथः ॥ चतुर्णां पूरणः चतुर्थः !! टित्त्वात् स्त्रियामी ॥ युष्मदस्मदोः षष्ठीचतुर्थीति निर्देशात् षष्ठे षकारस्य जबत्वं चतुर्थे रेफस्य विसर्गश्च न ॥
( तत्त्वदी ० ) - षष्ठ इति ॥ कात्यादित्वाड्डत्वाभावः ॥ एवं चतुर्थ इत्यत्रापि विसर्गाप्रसङ्गः॥ ( चतुरो येयौ चस्य च लोपः ) तुर्यः । तुरीयः ॥
( सुबोधिनी ) - चतुरो येयो चस्य च लोपः ॥ चतुरशब्दात् य ईय एतौ स्तः। चकाराकारयोर्लोपश्च ॥ चतुर्णां पूरणः तुर्यः । तुरीयः ॥
( तत्त्वदी ० ) - तुर्य इति ॥ चतुर्णां पूरण इति विग्रहः ॥
( पञ्चोदेमंद ) पञ्चमः । सप्तमः ॥
( सुबोधिनी ) - पञ्चादेर्मट् ॥ पञ्चप्रभृतिभ्यो मट् स्यात् ॥ पञ्चानां पूरणः नाम्नो नो लोपशिति नलोपः । पञ्चमः ॥ सप्तानां पूरणः सप्तमः ॥ अष्टानां पूरणः अष्टमः ॥ नवानां पूरणः नवमः ॥ दशानां पूरणः दशमः । दित्त्वात् स्त्रियामीप् । दशमी ॥
( एकादशादेडेट् ) एकादशः ॥
( सुबोधिनी)- एकादशादेर्डट् ॥ एकादशशब्दप्रभृतिभ्यो डट् स्यात् ॥ डित्वाट्टिलोपः । टित्वादीपू || एकश्च दश चतेि सहादेरित्यात्वम् । एकादशानां पूरणः एकादशः ॥ द्वौ च दश चेति इयधिका दशति वा ॥
(इष्टनोरात्वं संख्यायामुत्तरपदे ) द्वादश: ॥ अष्टादशः ॥
(सुबोधिनी ) - ष्टनोरात्वं संख्यायामुत्तरपदे एतयोरात्वं स्यात् ॥ बहुव्रीहौ अशीतिपरे च न ॥ द्वादशः । बहुव्रीहौ तु द्विरावृत्ता दशति सुप्रत्ययार्थे बहु
Page #359
--------------------------------------------------------------------------
________________
[ तद्धितप्र० ] टीकाद्वयोपेता।
(३४३) व्रीहिः। द्विदशः । डप्रत्ययः ॥ अशीतिपरे च यशीतिः॥ प्राक् शताद्वक्तव्यम् । नेह । द्विशतम् । द्विसहस्रम् । द्वादशानां पूरणः द्वादशः। अष्टादशानां पूरणः अष्टादशः॥
(त्रेस्त्रयस् ) त्रयोदशः । चतुर्दशः । पञ्चदशः । षोडशः । सप्तदशः। (मुबोधिनी )- त्रस्त्रयस् ॥ त्रिशब्दस्य त्रयम् स्यात् ॥ बहुव्रीही अशीतिपरे च न त्रयश्च दश चेति त्रयोदशः । बहुव्रीहौ तु त्रिर्दशति त्रिदशाः । सुप्रत्ययार्थे बहुव्रीहिः ॥ आशीतौ तु व्यशीतिः ॥ प्राक् शतादित्येव । त्रिशतम् । त्रिसहस्रम् ॥ त्रयोदशानां पूरणः त्रयोदशः । चतुर्दशानां पूरणः चतुर्दशः ॥ पञ्चदशानां पूरणः पञ्चदशः॥ षोडशानां पूरणः षोडशः ॥ सप्तदशानां पूरणः सप्तदशः ॥
(विंशत्यादेर्वा तमट् ) विंशतितमः । एकेन ऊना विंशतिः एकोनविंशतिः । एकोनविंशतेः संख्यापूरकः एकोनविंशतितमः ॥
(सुबोधिनी )-विंशत्यादेर्वा तमट् ॥ विंशतिप्रभृतिभ्यो वा तमट् स्यात् । पक्षे एकादशादेरिति डट् । टित्त्वादीप् ॥ डट्प्रत्यये तु एकोनविंशतेः पूरणः॥
(विंशस्तिलोपो डिति ) एकोनविंशः । विंशः । त्रिंशत्तमः । त्रिंशः । द्वाप्यामधिका अशीतियशीतिः । व्यशीतेः संख्यापूरको व्यशीतितमः । द्विचत्वारिंशत्तमः । पञ्चाशत्तमः । षष्टेः सङ्ख्यापूरणः षष्टितमः । सप्ततितमः । नवतितमः ॥
(सुबोधिनी )--विंशतेस्तिलोपो डिति ॥ विंशतिशब्दस्य ति इत्यस्य लोपः स्यात् डिति प्रत्यये ॥ एकोनविंशः। तमटि एकोनविंशतितमः । विंशतः पूरणः विंशतितमः । डति तु विंशः । एकविंशतः पूरणः एकविंशतितमः। एकविंशः ॥ एवं द्वाविंशतितमः। द्वाविंशः ॥ त्रयोविंशतितमः । त्रयोविंशः ॥ चतुर्विंशतितमः ॥ चतुर्विंशः ॥ पञ्चविंशतितमः पञ्चविंशः ॥ षड्विंशतितमः । षड्विंशः ॥ सप्तविंशतितमः । सप्तविंशः ॥ अष्टाविंशतितमः। अष्टाविंशः ॥ किंच पङ्किार्विशतित्रिशच्चत्वारिंशत्पञ्चाशत्पष्टिसप्तत्यशीतिनवतिशतमेते निपातेन सिद्धाः ॥ एकोनत्रिंशतः पूरणः एकोनत्रिंशत्तमः । एकोनत्रिंशः॥ त्रिंशतः पूरणः त्रिंशत्तमः । त्रिंशः ॥ एवम् एकत्रिंशत्तमः । एकत्रिंशः ॥ द्वात्रिंशत्तमः ॥ द्वात्रिंशः ॥ त्रयस्त्रिंशत्तमः । त्रयस्त्रिंशः ॥ चतुस्त्रिंशत्तमः । चतुत्रिंशः । पञ्चत्रिंशत्तमः । पञ्चत्रिंशः ॥ षट्त्रिंशत्तमः । षट्त्रिंशः ॥ सप्तत्रिंशत्तमः । सप्तत्रिंशः ॥ अष्टात्रिंशत्तमः। अष्टात्रिंशः ॥ एकोनचत्वारिंशत्तमः । एकोनचत्वारिंशः ॥ चत्वारिंशत्तमः ।
Page #360
--------------------------------------------------------------------------
________________
(३४४) सिद्धान्तचन्द्रिका। [तद्धितप्र० ] चत्वारिंशः॥ एकचत्वारिंशत्तमः। एकचत्वारिंशः ॥ एवं सर्वत्र डट्तमटौ ॥ व्यष्टनोरात्वं त्रेस्त्रयश्च वा चत्वारिंशत्प्रभृतौ परे ॥ द्विचत्वारिंशत् ॥ दाचत्वारिंशत् ॥ त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् ॥ चतुश्चत्वारिंशत् ॥ पञ्चचत्वारिंशत् ॥ षट्चत्वारिंशत् ॥ सप्तचत्वारिंशत् ॥ अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् ॥ एकोनपञ्चाशत् ॥ पञ्चाशत् ॥ एकपञ्चाशत् । द्विपञ्चाशत् । द्वापञ्चाशत् ॥ त्रिपञ्चाशत् । त्रयःपञ्चाशत् ॥ चतुष्पञ्चाशत् ॥ पञ्चपञ्चाशत् ॥ षट्पञ्चाशत् ॥ सप्तपञ्चाशत् । अष्टापञ्चाशत् ॥ अष्टपञ्चाशत् ॥ एकोनषष्टिः ॥ षष्टिः॥ एकषष्टिः ॥ द्विषष्टिः। द्वाषष्टिः॥ त्रिषष्टिः । त्रयःषष्टिः ॥ चतुःषष्टिः ॥ पञ्चषष्टिः। पक्षष्टिः ॥ सप्तषष्टिः ॥ अष्टषष्टिः । अष्टाषष्टिः ॥ एकोनसप्ततिः ॥ सप्ततिः॥ एकसप्ततिः ॥ द्विसप्ततिः । द्वासप्ततिः॥ त्रिसप्ततिः॥ त्रयःसप्ततिः ॥ चतुःसप्ततिः॥ पञ्चसप्ततिः ॥ षट्सप्ततिः ॥ सप्तसप्ततिः ॥ अष्टसप्ततिः। अष्टासप्ततिः ॥ एकोनन· पतिः॥ नवतिः॥ एकनवतिः॥ द्विनवतिः। दानवतिः॥ त्रिनवतिः। त्रयोनवतिः॥ चतुर्णवतिः ॥ पञ्चनवतिः ॥ षण्णवतिः ॥ सप्तनवतिः॥ अष्टनवतिः। अष्टानवतिः॥ एकोनशतम् ॥ शतम् ॥ शतस्य पूरणः शततमः॥
(शतादेनित्यम् ) शततमः। (सुबोधिनी)-शतादेनित्यम् ॥ शतप्रभृतिभ्यस्तमडेव स्यात् न डट् । असंख्यादेः षष्टिशब्दाच्च नित्यं तमट् । षष्टितमः । संख्यादेः षष्टेस्तु डट्तमौ । एकषष्टः । एकषष्टितमः॥
(संख्यायाः प्रकारे धा) द्विधा । त्रिधा । चतुर्धा । दशधा ॥ (सुबोधिनी )-संख्यायाः प्रकारे धा ॥ संख्यावाचिशब्दात्प्रकारेऽर्थे धाप्रत्ययः स्यात् ॥ द्वौ प्रकारौ द्विधा ॥ त्रयः प्रकारास्त्रिधा ॥ चत्वारः प्रकाराश्चतुर्धा ॥ दश प्रकाराः दशधा ॥ क्त्वाद्यन्तं चेत्यव्ययत्वाद्विभक्तेर्लक् ॥
(द्वित्रिभ्यामेधाधभुजौ वा ) द्वेधा । त्रेधा । वैधम् । वैधम् ॥ (सुबोधिनी )-द्वित्रिभ्यामेधाधमुनी वा ॥ आभ्यामेतौ स्तः प्रकारेऽर्थे पक्षे धा॥ द्वौ प्रकारौ यस्य लोप इतीकारलोपः । द्वधा । धमुञ उकार उच्चारणार्थः । द्वैधम् । द्विधा ॥ त्रयः प्रकाराः त्रेधा । त्रैधम् । त्रिधा ॥
(एकाध्यमुचा ) ऐकध्यम् । एकधा ॥ (सुबोधिनी)-एकाद्धयमुवा ॥ एकशब्दात ध्यमुञ् वा स्यात् ॥ उकार उच्चारणार्थः । पक्षे धा ॥ एकः प्रकारः ऐकध्यम् । एकधा ।
Page #361
--------------------------------------------------------------------------
________________
[तद्धितप्र०] टीकाद्वयोपेता। (३४५)
(एकादाकिनसहाये ) एकाकी ॥ (सुबोधिनी)-एकादाकिन्नसहाये ॥ असहायवाचिन एकशब्दादाकिन स्यात् ॥ 'यस्य लोपः' इत्यलोपः । एकाकी। कप्रत्ययोऽपि । एककः ॥
(क्रियाया आवृत्तौ कृत्वस् ) पञ्चकत्वः । सप्तकत्वः ॥ (सुबोधिनी )-क्रियाया आवृत्तौ कृत्वस् ॥ संख्यावाचिशब्दात् क्रियाया आवृत्तावर्थे कृत्वम् प्रत्ययः स्यात् ॥ पौनःपुन्येन गणनमावृत्तिः । पञ्च वारान् पञ्चकृत्वः । सप्तवारान सप्तकृत्वः। क्त्वाद्यन्तं चेत्यव्ययत्वाद्विभक्तेलृक् । वारशब्दस्य क्रियोत्पत्त्याधारकालवाचित्वात्कालाध्वनोरिति द्वितीया । संख्यायाः किम् । भूरि वारान् भुङ्क्ते। भूरिशब्दस्य लौकिकसंख्यावाचित्वेऽपि नेह ग्रहणम् ॥
(द्वित्रिचतुर्थ्यःमः) द्विः । त्रिः । चतुः॥ ' (सुबोधिनी)-द्वित्रिचतुर्यः सुः॥ एभ्यः सुप्रत्ययः स्यात् क्रियाया आवृत्ती गणने ॥ उकार उच्चारणार्थः। कृत्वसोऽपवादोऽयम् ॥ द्वौ वारों द्विः॥ त्रीन् वारान् त्रिः ॥ चतुरो वारानिति रात्सस्येति स्लोपः । चतुः । क्तवाद्यन्तं चत्यव्ययत्वाद्विभक्लृक् ॥ बहोर्वा धाऽऽसन्नकाले । पक्षे कृत्वस् । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते ॥ आसन्नकाले किम् । बहुकृत्वो मासस्य भुङ्क्ते ॥ दिवसस्यति संबन्धे षष्ठी॥
(एकस्य सकृदादेशश्च ) एकवारं सकत् ॥ (सुबोधिनी)-एकस्य सकृदादेशश्च ॥ एकशब्दस्य स्थाने सकृदित्यादेशः स्याञ्चात्सुप्रत्ययः संयोगान्तस्येति सुलोपः।गुरुत्वात्सर्वस्यादेशः एकवारमिति सकृत्॥
(बह्वल्पार्थात्कारकाच्छम्) बहुशः । अल्पशः ॥ (सुबोधिनी)-बबल्पार्थात्कारकाच्छम् ॥ बहु चाल्पं च बह्वल्पे बह्वल्पे अर्थों यस्य तद्भवल्पार्थं तस्माद्भवल्पार्थात् कारकात् शस् स्यात् ॥ बहुभ्य इति बहुशः । अल्पेभ्य इत्यल्पशः । दानपात्रे चतुर्थी ॥ बह्वल्पार्थात्किम् । गां ददाति ॥ अर्थग्रहणात्पर्यायेभ्यो विशेषेभ्यश्च शस् । भूरिशो ददाति । त्रिशः ॥ कारकात्किम् । बहूनां स्वामी । अल्पानां स्वामी ॥ (तत्त्वदी० )-कारकादिति ॥ तेन बहूनां स्वामीत्यत्र न ॥
( संख्यापरिमाणाभ्यां वीप्सायाम् ) द्वौ द्वौ इति द्विशो ददाति । प्रस्थशः । माषशः ॥
१ संख्यैकवचनाभ्याभिति पाठान्तरम् ।
Page #362
--------------------------------------------------------------------------
________________
(३४६) सिद्धान्तचन्द्रिका। [तद्धितप० ]
(सुबोधिनी)-संख्यापरिमाणाभ्यां वीप्सायाम् ॥ संख्यापरिमाणवाचककारकाभ्यां वीप्सायामर्थे शस् स्यात् ॥ दौराविति द्विशः॥ प्रस्थं प्रस्थामिति प्रस्थशः। मापं माषमिति माषशः॥ संख्यापरिमाणाभ्यां किम् । घटं घटं ददाति ॥ वीप्सायां किम् । द्वौ ददाति ॥ कारकात्किम् । द्वयोर्द्वयोः स्वामी ॥
(तत्त्वदी)-संख्यैकवचनाभ्या (परिमाणाभ्या ) मिति ॥ संख्या च एकवचनं च संख्यैकवचने ताभ्याम् । प्रस्थश इति ॥ प्रस्थं प्रस्थमित्यर्थः ॥ एकवचनग्रहणेन वृत्तावेकार्थता नियता । परिमाणशब्दा एव ग्राह्यास्तेनेह न । घटं घटमिति । घटादयो हि जातिशब्दा नैकार्था भवन्ति । जातियोगस्यैकानेकसाधारणत्वात् । केचित्तु कुण्डशो ददातीति प्रयुञ्जाना जातिशब्दभ्योऽपि मन्यन्ते । एकैकश इत्यादिप्रयोगास्तु प्रामादिका एव । शस्प्रत्ययेनैव वीप्सावगतः । स्वार्थिकशसा तु न क्षतिः । “ अवतानाममत्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥” इत्यत्र तु सहस्रं सहस्रं ये समवेतास्तेषामपि परिषत्त्वं नेत्यर्थः । इति समवायक्रियां प्रति सहस्रस्य कर्तृत्वं वीप्साऽस्त्येवेति ॥
(तयडयटौ संख्याया अवयवे ) द्वाववयवौ यस्य द्वितयम् । त्रितयम् । चतुष्टयम् । चतुष्टयी ।
(सुबोधिनी)-तयडयटौ संख्याया अवयवे ॥ अवयवे वर्तमाना या संख्या तदाचिनः प्रथमान्तात् षष्ठ्यर्थे तयडयटौ स्तः ॥ टकारःवित इतीवर्थः ॥ द्वितयम्॥ यस्येतीलोपः ॥ द्वयम् ॥ त्रयोऽवयवा यस्य त्रितयम् । त्रयम् ॥ उभावयवौ यस्य उभयम् । नित्यमत्रायट् ॥ चत्वारोऽवयवा यस्याः सा रेफस्य विसर्गे सत्वे षत्वे च ष्टुत्वम् । चतुष्टयी ॥
(तत्त्वदी०)-तयडयटाविति ॥ तयट् च अयट च तयडयटौ ॥ टित्त्वमीबर्थम्॥यत्तु प्राचा तयायटाविति पठितम् । यच्च तयाख्यातृभिर्वासुदेवादिभिरुक्तं द्वितयीत्यत्र नदादित्वा दीप । द्वयीत्यत्र तु टित्त्वादिति तत्रेपो द्विहेतुकत्वेन गौरवादुपेक्षितम् ॥ चतुष्टयमिति ॥ चत्वारोऽवयवा अस्येति विग्रहः । रेफस्य विसर्गे तस्य सत्वे षत्वे ष्टुत्वाद्रूपसिद्धिः ॥
(स्त्रीपुंसांभ्यां नानजी ) स्त्रियां भवः स्त्रैणः । पुंसि भवः पौंस्नः ।। ( सुबोधिनी)-स्त्रीपुंसाभ्यां ननौआभ्यामेतौ स्तः भवाद्यर्थे ॥ खैणः। संयोगान्तस्येति सलोपः । पौंस्नः। अथ विभक्तिनामकप्रत्यया उच्यन्ते । इह वक्ष्यमाणप्रत्ययानां विभक्तिसंज्ञा बोध्या ॥ इदम इश विभक्तौ । शित्त्वात्सर्वादेशः। इदम एतेती स्तो रथयोः । इशोऽपवादोऽयम् ॥ एतदः अश विभक्तो। एतद एतेती स्तो रथयोः । अशोऽपवादोऽयम् ॥ सर्वस्य सो वा दे॥ किमः कुः तहयोः॥
Page #363
--------------------------------------------------------------------------
________________
[तद्धितप्र० ] टीकाद्वयोपेता।
(३४७) पञ्चम्यर्थे किंसर्वादिबहुभ्यस्तस् वाव्यादिभ्यः । अयादिपर्युदासात् किमः पृथग्ग्रहणम् । कस्मादिति तसि कुः । कुतः ॥ यस्मादति तास त्यदादेरित्यर्थः । यतः ॥ तस्मादीत तास इश । इतः ॥ एतस्मादिति तसि अशादेशः । अतः ॥ अमुष्मादिति अदसस्तसि त्यदाद्यत्वे मत्वे उत्वे च अमुतः ॥ बहोरिति बहुतः ॥ यादेस्तु द्वाभ्यामित्यादि ॥ सर्वोभयार्थाभ्यां पर्यभिभ्यां तस् । परितः । सर्वत इत्यर्थः ॥ अभितः । उभयतः इत्यर्थः॥ सप्तम्यर्थे किंसर्वादिबहुभ्यस्त्रोऽव्यादिभ्यः। इदमः सप्तम्यर्थे हः ॥ त्रस्यापवादः । इशादेशः। अस्मिन्नितीह ॥ किमः सप्तम्यर्थे
। कस्मिन्निति कुत्र ॥ किमः क्वश्च । यस्येत्यलोपः । व ॥ छन्दसि किमो हः सप्तम्यर्थे । कुह ॥ एतस्मिन्निति एतदोऽश् । अत्र ॥ पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसादयो दृश्यन्त भवदादियोगे एव । सभवान् । ततोभवान् । तत्रभवान्तभवन्तम्। ततोभवन्तम् । तत्रभवन्तम् । इत्यादि ॥ एवं दीर्घायुः । देवानांप्रियः। आयुष्मान् । एतैर्योगऽपि ॥ सर्वैकान्यकियत्तद्भया कालार्थेभ्यः सप्तम्यर्थे दा । सर्वस्मिन् काले इति सादेशो वा । सदा सर्वदा । एकस्मिन्काले इति एकदा । अन्यस्मिन् काले इति अन्यदा । कस्मिन् काले इति । त्यदादेरित्यत्वम् । कदा । यस्मिन् काले इति यदा। तस्मिन् काल इति तदा ॥ कालार्थेभ्य इति किम् । सर्वत्र देशे । अस्मिन् काले इति कालवाचकादिदमःसप्तम्यर्थेस्प्रित्ययः। हप्रत्ययस्यापवादोऽयम्। एतादेशः। एतर्हि ॥ काले इति किम् । इह देशे ॥ कालवाचकादिदमः सप्तम्यर्थेऽधुनादानीप्रत्ययौ च । इशादेशः। यस्य लोप इति लोपः। अधुना । इशादेशः । इदानीम् । कालवाचकात्तदः सप्तम्यर्थे दानीप्रत्ययश्च । तस्मिन्काले त्यदादेरित्यत्वम् । तदानीम् ॥ किंयत्तदेतद्भयोऽनद्यतनकालवाचकेभ्यः सप्तम्यर्थे हिप्रत्ययो वा । कस्मिन् काले इति त्यदादेरित्यत्वम् । कर्हि । पक्षे दा । कदा । यस्मिन् काले यहि । यदा । तस्मिन् काले तर्हि । तदा । एतस्मिन्काले एतादेशः। एतर्हि ॥ समानेऽह्नि इति सहादरित्यनेन समानस्य सः। समानशब्दात् सप्तम्यन्तस्याहनशब्दस्यार्थे द्यस् निपात्यते । सद्यः॥ पूर्वस्मिन् वत्सरे इति पूर्वतरे वत्सरे इति च सहादरित्यनेन पूर्वपूर्वतरयोः पर इत्यादेशो निपात्यते संवत्सरेऽर्थे । पूर्वपूर्वतरशब्दाभ्यां उत्--आरि--प्रत्ययौ । यस्येत्यलोपः।परुत् । परारि॥अस्मिन् संवत्सरे इति संवत्सरेऽर्थे इदम्शब्दात् समसणप्रत्ययः । इशादेशः। आदिवृद्धिः। षत्वम् । ऐषमः॥परास्मन्नहनीति परशब्दादहनि इत्यर्थे एद्यविप्रत्ययो निपातनात् । परद्यवि ॥ आस्मिन्नहनीति इदम्शब्दाद् द्यप्रत्ययो निपातनादशादेशश्च । अद्य ॥ पूर्वअन्यअन्यतरइतरअपरअधरउभउत्तर इत्यष्टभ्योऽह
Page #364
--------------------------------------------------------------------------
________________
(३४८) सिद्धान्तचन्द्रिका। [तद्धितप्र०] नीत्यर्थे एद्युस्प्रत्ययो निपातनात् । यस्येत्यलोपः। पूर्वस्मिन्नहनीति पूर्वेयुः।अन्यस्मिनहनीति अन्येयुः । अन्यतरास्मिन्नहनीति अन्यतरेयुः । इतरास्मन्नहनीति इतरेयुः। अपरस्मिन्नहनीति अपरेयुः।अधरस्मिन्नहनीति अधेरेयुः।उभयोरहोरिति उभयेयुः।उभयाद् युः प्रत्ययः । उभयद्यः॥ अयादिभ्यः सर्वादिबहुभ्यः प्रकारेऽर्थे वर्तमानेभ्यः स्वार्थे थाप्रत्ययः । सामान्यस्य भेदको विशेषः प्रकारः । यथा ॥ किमिदमेतद्भयः प्रकारेऽर्थे वर्तमानेभ्यः स्वार्थे थम्प्रत्ययः । थाप्रत्ययस्यापवादोयम् । केन प्रकारेण त्यदादेरित्यः । कथम् । अनेन प्रकारेण एतेन प्रकारेण वा इदमेतदोरित् । इत्थम् । अव्ययत्वाद्विभक्तेलक् सर्वत्र ।। इति विभक्तिनामकाः प्रत्ययाः॥दिगदेशकालवृत्तिभ्यो दिशि रूढेभ्यः शब्दभ्यः सप्तमीपञ्चमीप्रथमाविभक्त्यर्थेऽस्तात्प्रत्ययः । पूर्वाधरावरेभ्योऽस्प्रत्ययोऽपि । पुरअधावादेशाश्च । अस्तादसोः परयोः। पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः। अम्प्रत्ययः। पुरस्तात् । अस्तात्प्रत्ययः । पूर्वशब्दादतस् प्रत्ययः पुरादेशश्च वा । पुरतः। ' स्यात्पुरः पुरतोऽग्रतः' इत्यमरः॥ 'पुरतः प्रथमें चाग्रे' इति विश्वश्च ॥ अधरस्याम् अधरस्या अधरा वा अधः। अस । अधस्तात । अस्तात् प्रत्ययः ॥ अवरस्याम् अवरस्याः अवरा वा अवः । अम् । अवस्तात् । अस्तात् । अवरस्यास्तात्परेऽव वा । अवस्तात् । अवरस्तात् ॥ एवं देशे काले च ॥ दिशि रूढेभ्यः किम् । ऐन्द्रयां वसति ॥ सप्तम्याद्यर्थे किम् । पूर्व ग्रामं गतः ॥ दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति ॥ दक्षिणोत्तराभ्यामतम् । अस्तात्प्रत्ययस्यापवादः । दक्षिणस्यां दक्षिणस्याः दक्षिणा वा दिक् दक्षिणतः । उत्तरस्याम् उत्तरस्याः उत्तरा वा उत्तरतः । अतम् ॥ पराऽवराभ्यामतस् वा । पक्षेऽस्तात् परस्यां परस्याः परा वा परतः। अवरस्याम् अवरस्याः अवरा वा अवरतः । अतम् । पक्षेऽस्तात् । परस्तात् । अवरस्तात् ॥ अञ्चत्यन्ताद् दिक्शब्दादस्तात्प्रत्ययस्य लुक । तद्धितलुकि स्त्रीप्रत्यययस्य लुग् वाच्यः। प्राच्यां प्राच्याः प्राची वा दिक प्राकू । उदक् ॥ एवं देशे काले च ॥ उर्ध्वशब्दाद् रिरिष्टात्प्रत्ययावस्ताद्विषये । ऊर्ध्वस्योपादेशश्च । ऊर्ध्वम् ऊवात् ऊों वेति उपरि । उपरिष्टाद्वा ॥ अपरशब्दात प्रत्ययोऽपरस्य पश्चादेशश्चास्ताद्विषये । अपरस्मिन् अपरस्मात् अपरो वेति पश्चात् ॥ उत्तराधरदक्षिणादात्प्रत्ययोऽस्ताद्विषये । उत्तरात् । अधरात्। दक्षिणात् । अदूरे वर्तमानेभ्यः उत्तराधरदक्षिणेभ्यः एनप्रत्ययो वा सप्तमीप्रथमाविभक्त्यर्थे । उत्तरस्मिन् उत्तरो वेति उत्तरेण । अधरस्मिन् अधरो वेति अधरेण । दक्षिणस्मिन् दक्षिणो वेति दक्षिणेन । पक्षे उत्तरात् अधरात् । दक्षिणात् । आत् प्रत्ययः ॥ उत्त
Page #365
--------------------------------------------------------------------------
________________
[ द्विरुक्तप्र० ] टीकाद्वयोपेता। ___(३४९) रतः । अधः। अधस्तात् । दक्षिणतः ॥ केचिद्दिकशब्दमात्रादेनप्रत्ययमाहुः । पूर्वेण ग्रामम् । अपरेण ग्रामम् । दक्षिणशब्दादाप्रत्ययः सप्तमीप्रथमाविभक्त्यर्थे । दक्षिस्यां दक्षिणा वेति दक्षिणा । दक्षिणोत्तराभ्यां दूरेऽर्थे आआहिप्रत्ययौ । दक्षिणस्यां दिशि दूरे इति दक्षिणाहि । दक्षिणा । उत्तरस्यां दिशि दूरे इति उत्तराहि । उत्तरा। अव्ययत्वाद्विभक्तेलृक् सर्वत्र ॥ इति सुबोधिन्यां तद्धिताः॥ (तत्त्वदी० )-पौंस्न इति ॥ संयोगान्तस्येति सलोपः ॥ इति तद्धितप्रकरणम् ॥
अथ द्विरुक्तप्रक्रिया। (वीप्सायां पदं द्विः) वृक्षं वृक्षं सिञ्चति। ग्रामो ग्रामो रमणीयः॥ . (सुबोधिनी )-अथ सर्व पदं द्विरुच्चारयेदित्यधिकारोऽयम् ॥ वीप्सायां पदं द्विः॥ व्याप्तुमिच्छा वीप्सा व्याप्तिप्रतिपिपादयिषेति यावत् । व्याप्तिः कात्न्य तच्चाधिकारकम् । सर्वे ब्राह्मणा आमन्त्रिता इत्यादौ यथा । नहि जगतीतले विद्यमाना ब्राह्मणाः सर्वेऽपि केनचिदामन्त्रयितुं शक्यन्ते इति स्वग्रामस्थस्वजातीयब्राह्मणानां संकोचो यद्यभ्युपेयते तमुत्रापि सकलवृक्षसेचनसामर्थ्य कस्यापि मनुष्यस्य नास्तीति यत्र वाटिकादौ वृक्षसेचनार्थमधिकारस्तद्वाटिकास्थवृक्षाणामेव कात्स्न्यं वृक्षं वृक्षं सिञ्चतीत्यादौ गम्यते इत्यभ्युपेयम् । यत्र तु संकोचे कारणं नास्ति तत्रासंकोच इष्ट एव । यथा जातो जातो निधनमुपैतीति ॥ तस्यां वीप्सायां वाच्यायामेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयते इत्यर्थः । वृक्षं वृक्षमित्यत्र प्रत्येकनिष्ठमेकत्वमेव हि प्रतिभासतेऽतो न बहुवचनप्रसङ्गः॥
(तत्त्वदी०)-वीप्सायामिति ॥ व्याप्तुमिच्छा वीप्सा व्याप्तिप्रतिपिपादायषेति यावत् । व्याप्तिश्च कात्य॑म् ॥ वृक्षं वृक्षं सिञ्चतीति ॥ सेकक्रियायाः सकलवृक्षे अन्वयः। बहुवचनप्रसंगस्तु बहूनां भानेऽपि बहुत्वसंख्याया अभानादेव न । प्रत्येकनिष्ठमेकत्वमेव हि तत्र भासते ॥
(परेर्वर्जने वा द्वित्वम् ) परि परि वङ्गेभ्यो वृष्टो देवः । परि वङ्गत्या दृष्टो देवः । वङ्गान्परिहत्येत्यर्थः ॥
(सुबोधिनी)-परेर्वर्जने वा द्वित्वम् ॥ वर्जनार्थवाचिनः परेर्वा द्वित्वं स्यात् ॥ परि परि वङ्गेभ्य इत्यत्र परियोगे पञ्चमी । वाग्रहणात्परि हरेः संसार इति ॥ .
Page #366
--------------------------------------------------------------------------
________________
(३५०) सिद्धान्तचन्द्रिका। [द्विरुक्तप० ]
( तत्त्वदी० )-परवर्जन इति ॥ अत्र वाशब्दस्य व्यवस्थितत्वात्समासे न । तेन परि त्रिगर्त वृष्टो देव इत्यादौ न ॥
(उपर्यध्यसः सामीप्ये द्विः ) उपर्युपरि ग्रामम् । ग्रामस्योपरिष्टात्समपिदेश इत्यर्थः । अध्यधि सुखम् । सुखस्योपरिष्टात्समीपदेश इत्यर्थः ॥
(सुबोधिनी )-उपर्यध्यधसः सामीप्ये द्विः॥ सामीप्यार्थवाचिन एते दिः स्युः ॥ सामीप्यं प्रत्यासत्तिस्तच्च कालकृतं देशकृतं वा । कालकृतस्य सामीप्यस्योदाहरणमध्यधि सुखमिति । अन्यद्वयं देशकृतस्य सामीप्यस्योदाहरणम् ॥
(तत्त्वदी०)-उपरीति ॥ उपरि शिरसो घटं धारयतीत्यत्र तु औत्तराधर्यमात्रविवक्षणेन सामीप्याभावान्न द्वित्वम् ॥
( वाक्यादेः संबोधनस्यासूयासंमतिकोपकुत्सनभर्त्सनेषु ) असूयायामुदाहरणम् । सुन्दर सुन्दर वृथा ते सौन्दर्यम् ॥ संमतौ । देवदेव बन्योऽसि ॥ कोपे दुर्विनीत दुर्विनीत इदानी ज्ञास्यसि ॥ कुत्सने । धानुष्क धानुष्क वृथा ते धनुः ॥ भर्त्सने । चोर चोर घातयिष्यामि त्वाम् ॥ __ (सुबोधिनी )-वाक्यादेः संबोधनस्याऽसूयासंमतिकोपकुत्सनभर्सनेषु ॥ एष्वर्थेषु विद्यमानस्य वाक्यादिस्थितस्य संबोधनस्य द्वित्वं स्यात् ॥ ननु कोपासूयाभ्यां पृथक् कुत्सनभर्सनग्रहणमपार्थकम् । नाऽसूयां विना कुत्सयते नाप्यकुपितो भर्त्सयति । इति चेदत्राहुः । गुरवो हि हितैषित्वादकुपिता अपि भर्त्सनं कुर्वन्ति । विनाप्यमूयया कुत्सां कुर्वन्त्यतः पृथक् तयोनिर्देशः ॥ संमतिः पूजा ॥
(तत्त्वदी० )-वाक्यादेरिति ॥ वाक्यादेः संबोधनस्यासूयाद्यर्थेषु द्विरित्यर्थः । गुणेषु दोषारोपोऽसूया ॥
(द्विरुक्त एकशब्हो बहुव्रीहिवत् ) तेन विभक्तिलोपपुंवद्भावौ । एकैकमक्षरम् । एकैकयाऽऽहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । पदविभागोऽवग्रहः । एकैकया इत्यादौ विशेषः । एकैकस्मै देहि ॥
( सुबोधिनी )-द्विरुक्त एकशब्दो बहुव्रीहिवत् ॥ बहुव्रीहौ यत्कार्यमुक्तं तद् द्विरुक्ते एकशब्दे भवतीत्यर्थः ॥ बहुव्रीहिसमासवत्त्वात् समासप्रत्यययोरिति विभक्तिलोपः। पुंवदति पुंवद्भावश्च । एकमेकमित्यत्र दयाराप विभक्त्यो कि कृते बहुव्रीहिसमासवद्भावादेव कृत्तद्धितसमासाश्चेत्यमेन समुदायात्स्यायुत्पत्तिः । अन्तर
Page #367
--------------------------------------------------------------------------
________________
[द्विरुक्तप० ] टीकाद्वयोपेता।
(३५१) हॅकसंख्यावरुद्धो द्विरुक्तार्थः संख्यान्तरे निराकाङ्क्ष एव इत्युक्तत्वादेकवचनमेव । एकैकयेत्यत्र सर्वादेः समासादाविति पूर्वभागे पुंवद्भावः। एकस्मै एकस्मै इत्येकैकस्मै।।
( तत्त्वदी० )-अवग्रहे इति ॥ वैदिकानां पदपाठे इत्यर्थः ॥
( पीडायां द्योत्यायां दे स्तो बहुव्रीहिवच ) गतगतः। विरहात्पीड्यमानस्येयमुक्तिः। गतगता ॥
(सुबोधिनी)-पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च ॥ पीडार्थद्योतकं पदं द्विः स्यात् ॥ गतः गत इति बहुव्रीहिवद्भावाद्विभक्तेढुंग् । गतगतः। गता गतेति पुर्ववति पुंवद्भावः। गतगता ॥ (तत्त्वदी०)-गतगतेति॥इह पुंवद्भावः पूर्वपदस्य बहुव्रीहिवद्भावान्नोत्तरपदस्येति भावः॥
(सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तो बहुव्रीहिवच ) पटुपट्टी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत् ॥ गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्वेह गृह्यन्ते । शुक्लशुक्लः पटः । शुक्लशुक्लं रूपम् ॥ __ (सुबोधिनी)-सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तो बहुव्रीहिवच्च ॥ तद्भिनत्वे सति तद्गतभूयोधर्मवत्वं सादृश्यम् । पट्टी पट्वीति पुंवद्वोत पुंवद्भावः । पटुः पटुरिति बहुव्रीहिवद्भावाद्विभक्तेलृक् । पटुपटुः 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इत्युक्तत्वात् यत्र शुक्लादयः शब्दा द्रव्यवाचकास्तत्र गुणा उपसर्जनीभूता एव सन्ति । अतोऽत्र द्रव्यवाचकशुक्लादिपदस्य गुणवाचकशुक्लादिपदस्य च ग्रहणम् । शुक्लः शुक्ल इति वहुव्रीहित्वाद्विभक्तेलृक् । शुक्लशुक्लः परः । गुणोपसर्जनद्रव्यवाचिन उदाहरणम् । शुक्लं शुक्लमिति समासक्त्त्वाद्विभक्तेर्लक् । शुक्लशुक्लं रूपम् । केवलगुणवाचि न उदाहरणम् ॥
(तत्त्वदी० )-पटुपट्वी इति ॥ बहुव्रीहिवद्भावात्पूर्वभागे सिलोपपुवद्भावौ । 'नवं नवं प्रीतिरहो करोति' इत्यत्र वीप्सायां द्वित्वम् । अनेन द्वित्वे सिलुक स्यात् । कथं 'भीतभीत इव शीतमयूखः' इति भारविः ॥ इवशब्देन सादृश्यस्योक्ततया सादृश्ये द्वित्वायोगात् । सत्यम्। भीतेभ्यो भीत इति व्याख्येयम् । तेनातिभीत इति फलितम् । “खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपमुज्य" इति मेघदूते एकस्यापि खेदस्यावस्थासु भेदं प्रकल्प्य वीप्सा बोध्या ॥ 'मन्दं मन्दं नुदति' इत्यत्र तु मन्दं स्वतो मन्दगामिनं मन्दं नुदतीत्यन्वयो बोध्यः ।।
( अनुक्रमे द्योत्ये द्वे ) मूले मूले स्थूलो वृक्षः ॥
Page #368
--------------------------------------------------------------------------
________________
(३५२)
सिद्धान्तचन्द्रिका |
[ द्विरुक्तप्र० ]
( सुबोधिनी) - अनुक्रमे द्योत्ये द्वे || अनुक्रमद्योतकं पदं द्विः स्यात् ॥ वीप्साभावादयमारम्भः । एकस्य वृक्षादेरेकमेव मुख्यं मूलमग्रं च भवति । इतरेषां भागानामापेक्षिकोऽग्रमूलव्यपदेशः । स्थौल्यसौक्ष्म्ये अपि नैकरूपे । यथा मूलं स्थूलं यथाऽग्रं सूक्ष्मं तथा नेतरे भागा इति वीप्साया असंभवः । मूले मूले स्थूलस्तथाऽग्रेऽग्रे सूक्ष्मः॥ ( संभ्रमेण प्रवृत्तावनेकधा प्रयोगः ) सर्पः सर्पः सर्पः बुध्यस्व बुध्यस्व बुध्यस्य ॥
(सुबोधिनी) - संभ्रमेण प्रवृत्तावनेकधा प्रयोगः ॥ संबोध्यो हि यावद्भिः शब्दैः प्रयोजनमति तावन्तः प्रयोगा वाच्या इत्यर्थः ॥
(क्रियासमभिहारे द्वे) लुनीहि लुनीहि इत्येवायं लुनाति ॥
(सुबोधिनी) - क्रियासमभिहारे द्वे ॥ पौनःपुन्यं भृशार्थश्च क्रियासमभिहारस्तत्र पदं द्विः स्यात् ॥ पौनःपुन्यम् । आख्यातकृदन्तयोरेव यथा । पचति पचति । भुक्त्वा भुक्त्वा ॥ भृशार्थे यथा लुनीहि लुनीहीति ॥
(तत्त्वदी ० ) - क्रियासमभिहारे इति ॥ पौनःपुन्ये भृशार्थे चेत्यर्थः ॥ ( कर्मव्यतिहारे सर्वादेर्द्वित्वं समासवच्च बहुलम् ) बहुलग्रहणादन्यपरयोर्न समासवत् । इतरशब्दस्य नित्यं समासवत् ॥
( सुबोधिनी ) - कर्मव्यतिहारे सर्वादेर्द्वित्वं समासवच्च बहुलम् ॥ क्रियाविनिमयेऽर्थे सर्वादिगणस्य द्वित्वं स्यात् । नित्यमेवेदं द्वित्वम् । बाहुलकं तु समासवद्भवस्यैव । तेनान्यपरशब्दयोः समासवद्भावो न । इतरशब्दस्य च नित्यमेव समासवद्भावो भवतीत्यर्थः ॥
( तत्त्वदी ० ) - कर्मव्यतिहारे इति ॥ क्रियाविनिमये इत्यर्थः ॥
(असमासवद्भावे पूर्वपदस्थाया विभक्तेः सिरादेशो वाच्यः ) अन्योऽन्यौ । अन्योऽन्यान् । अन्योऽन्येन कृतम् । अन्योऽन्यस्मै दत्तमित्यादि । ‘अन्योऽन्येषां पुष्करैरामृशन्तः' इति माघः ॥ एवं परस्परम् । वाचस्पत्यादित्वात्सः ॥ इतरेतरम् । इतरेतरेणेत्यादि ॥
1
(सुबोधिनी) - असमासवद्भावे पूर्वपदस्थाया विभक्तेः सिरादेशो वाच्यः॥ पूर्वपदस्य प्रथमादिविभक्तीनां स्थाने सिरेव भवत्यसमासवद्भावे ॥ अन्यः अन्य इति अन्योऽन्यः । अन्यौ अन्याविति अन्योऽन्यौ । अन्ये अन्ये इति अन्योऽन्ये ।
Page #369
--------------------------------------------------------------------------
________________
[द्विरुक्तप० ] टीकाद्वयोपेता।
(३५३) अन्यमन्यमिति अन्योऽन्यमित्यादिषु सर्वत्र पूर्वपदस्थविभक्तेः सौ कृते ततो विसर्गः। अतोऽत्युरित्युत्वे 'उ ओ' इत्योत्वे एदोतोऽत इत्यालोपे च रूपसिद्धिः । एवं परः पर इति परस्परः । परौ पराविति परस्परौ। परे परे इति परस्परे । परं परमिति परस्परमित्यादि । इतरशब्दस्य तु समासवद्भावात् समासप्रत्यययोरिति विभक्तेलृक् । इतर इतर इति इतरेतरः । इतरौ इतराविति इतरेतरौ । इतरे इतरे इति इतरेतरे। इतरमितरमिति इतरेतरमित्यादि ॥
(स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तराम्भावो वा) अन्योऽन्याम् अन्योऽन्यम् परस्पराम् परस्परम् इतरेतरामितरतरं वा इमे ब्राह्मण्यौ कुले वा भोजयतः । "दलयेऽप्यावभावः क्लीबे श्तुविरहः स्यमोः । समासे सेरलुक् चेति सिद्धं बाहुलकात्रयम् ॥" समासे सेरलुक् चेत्यस्योदाहरणं तु अन्योऽन्याश्रयः परस्पराक्षिसादृश्यमित्यादिकं बोध्यम् ॥
(सुबोधिनी)-स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा ॥ स्त्रियां कीचे चात्तरपदस्थविभक्तीनामामादशो वा भवति ॥ स्त्रियां यथा । अन्या अन्येति पूर्वपदस्थविभक्तेः सिः परपदस्थविभक्तेश्चाम् । अन्योऽन्याम् ।आमभावपक्षे अन्योऽन्यम् । बहुलग्रहणात् स्त्रियामित्या प्रत्ययाभावो दलद्वये । अन्ये अन्ये इति अन्योन्याम् अन्योन्यौ । अन्या अन्या इति अन्योन्याम् अन्योन्याः । अन्यामन्यामिति अन्योन्याम् अन्योन्यमित्यादि ॥ एवं परस्परां परस्परः । परस्परां परस्परौ । परस्परां परस्परे परस्परां परस्परमित्यादि॥एवामितरेतराम् इतरेतरः। इतरेतराम् इतरेतरौ।इतरेतराम् इतरेतरे । इतरेतराम इतरेतरमित्यादि । क्लीवे तु अन्यत् अन्यदिति अन्योन्याम्। अन्योन्यम् । स्यमोः प्रत्यययोः स्थाने स्त्वन्यादेरिति श्त्वादेशाभावो बाहुलकादेव । इमे कयौँ इमे कर्तृणी वा अन्यामन्यामन्यदन्यद्वा भोजनं कारयतः ॥ ननु अन्योन्यं परस्परमित्यादौ केवलपूर्वपदविभक्तीनां स्यादेशविधानस्य चरितार्थत्वमस्ति । 'अन्योऽन्यसंसक्तमहस्त्रियामम्' इति । अन्योन्याश्रय इति। परस्पराक्षिसादृश्यमिति। अदृष्टपरस्परैरित्यादौ समासप्रत्यययोरित्यनेन पूर्वपदविभक्तीनां स्यादेशस्य कथं लुग् न स्यादिति चेदत्राहुः । बाहुलकात्समासविषये पूर्वपदविभक्तीनां स्यादेशस्य लुग् न भवतीत्यर्थः॥ (तत्त्वदी०) दलद्वये इत्यादि । दलद्वये आबभावः आपः अभावः अन्योऽन्य परस्पर
Page #370
--------------------------------------------------------------------------
________________
(३५४)
सिद्धान्तचन्द्रिका |
[ द्विरुक्तप्र० ]
मित्यत्र दलद्वयेऽपि ं आपू प्राप्तः स नेत्यर्थः । अन्योऽन्यमित्यत्र इत्वन्यादेरिति तुः प्राप्तः स नेत्यर्थः । अन्योन्याश्रय इत्यत्र समासे सेलुक् नेत्यर्थः ॥
( अकृच्छे प्रियसुखयोर्वा द्वित्वम् ) प्रियप्रियेण ददाति प्रियेण वा । सुखसुखेन ददाति सुखेन वा । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ॥
(सुबोधिनी) - अकृच्छ्रे प्रियसुखयोर्वा द्वित्वम् | अनयोर्द्वित्वं समासवच्च वा स्यात् ॥ द्विवचने समासवद्भावात् स्यादिलुकि कृते पुनः कृत्तद्धितसमासाश्वेत्यनेन स्यादिः ॥
( यथास्वे यथायथम् ) यथाशब्दस्य द्वित्वं क्लीवत्वं च भवति ॥ यथास्वमिति वीप्सायामव्ययीभावः । यो य आत्मा यद्यच्चात्मीयं तद्यथास्वम् । यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ॥
(सुबोधिनी ) - यथास्वे यथायथम् ॥ यथास्वे इति स्वं स्वमिति यथास्वम् । सार्थेऽव्ययीभावः । यो य आत्मेत्यादि "स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोsस्त्रियां धने" इत्युक्तत्वादात्मात्मीययोरपि स्वशब्दवाच्यत्वमस्ति । आत्मात्मीयोरर्थयोर्विद्यमानस्य यथाशब्दस्य द्वित्वं नपुंसकत्वं च भवति । नपुंसकत्वान्नपुंसकस्येति ह्रस्वः । यथायथं ज्ञातेत्यत्र कर्तृकार्ययोरक्तादावित्यनेन कर्मणि षष्ठी न । तृन्मत्ययस्य क्तादिषु गणनात् । आत्मा यो धृतिर्बुद्धिः स्वभावो ब्रह्म व च इत्यमरोक्तत्वात् यथायथम् यथास्वभावमर्थः ॥
66
ܐܕ
(द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ) एष्वर्थेषु द्विशब्दस्य द्विर्वचनं पूर्वपदस्याम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते ॥ तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे तु विषयभूताः || द्वन्द्वं मन्त्रयते रहस्यमित्यर्थः ॥ मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापीति मर्यादार्थः ॥ व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्तः । द्विवर्गसंबन्धेन पृथगवस्थितः ॥ द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥ द्वन्द्वं संकर्ष
1
Page #371
--------------------------------------------------------------------------
________________
[द्विरुक्तप्र०] टीकाद्वयोपेता।
(३५५) णवासुदेवौ ॥ अभिव्यक्ती साहचर्येणेत्यर्थ ॥ चार्थे द्वन्द्व इति निपातनासुंस्त्वमपि ॥
(सुबोधिनी )-द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ॥ एष्पर्थेषु द्विशब्दस्य द्वित्वं समासत्वमेकवद्भावश्च भवति ॥ तथाहि । द्वि औ द्वि औ इति स्थिते समासवद्भावात् विभक्तिलुकि कृते पूर्वपदावयवेकारस्याम्भाव: उत्तरपदावयवेकारस्यात्वं क्लीवत्वैकवद्भावौ च निपातनात् । एकवद्भावादतोऽमित्यमादेशे द्वन्द्वमिति । रहसि निर्वृत्तमिति रहस्यम् । द्वन्द्वं मन्त्रयते । द्वौ छौ भूत्वा मन्त्रयते इत्यर्थः ॥ एतदेव द्विरहस्यम् ॥ मार्यादायां यथा । चतुरो मर्यादीकृत्येति आचतुरम् । अव्ययीभावे टप्रत्ययः। चतुरशब्दोऽत्र चतुणां पूरणेऽस्ति । आचतुर्थादित्यर्थः । 'स्त्रीपुंसौ मिथुनं इन्दं युग्मं तु युगलं युगम् ' इत्यमरः ॥ मिथुनमिवाचरन्तीति मिथुनायन्ते ॥ यज्ञपात्रप्रयोगे यथा । पात्राणि द्वन्दं प्रयुनक्ति । आसादयतीत्यर्थः॥ संकर्षणः सीरपाणिः' इति । वासुदेव स्त्रिविक्रमः' इति चामरः॥ अभिव्यक्तौ तु द्विशब्दस्य स्वार्थे द्वित्वमेकवद्भावादिकं तु पूर्ववदेव ॥ (शेषा निपात्याः कत्यादयः) का संख्या येषां ते कति । दाविकः । शांशपः । दात्यौहः । दार्यत्रसः । श्रायसः इति । द्विरुक्तप्रक्रिया ॥ इति श्रीरामाश्रमाचार्यविरचितायां सिद्धान्त
चन्द्रिकायां पूर्वार्द्ध संपूर्णम् ॥ (सुबोधिनी )--शेषा निपात्याः कत्यादयः॥ कत्यादयः शब्दा निपात्यन्ते संख्याप्रमाणे कर्तव्ये ॥ यः प्रश्नस्तत्र वर्तमानात् किम्शब्दादा डतिप्रत्ययः । पक्षे वतुः । का संख्या येषां ते डतेरिति जसो लुकू । कति । कियन्तः ॥ देविका शिशपादित्यवादीर्घसत्रश्रेयसां पञ्चानां वृद्धौ प्राप्तायामादेः स्वरस्यात्वं निपात्यते त्रिति णिति च ॥ देविकायां भवो दाविकः । देविकायां सरवा च भवेद् दाविकसारवौ' इत्यमरः ॥ अण ॥ शिंशपाया विकारः शांशपश्चमसः। अण् ॥ दित्यौहोऽयं दात्यौहः । वाहो वो इत्यौत्वम् । आत्वं निपातनात् । अण् ॥ दीर्घसत्रे भवः दार्घसत्रः । अण् ॥श्रेयसि भवः श्रायसः। अण् ॥ इति द्विरुक्तप्रक्रिया ॥
श्रीमत्पावकवर्यभक्तिविनया विख्यातकीर्तिप्रभा राजेन्द्रैः परिपूजिताः सुकृतिनः पुंभाववाग्देवताः।
Page #372
--------------------------------------------------------------------------
________________ सिद्धान्तचन्द्रिका। [द्विरुक्तप्र०] मन्तारो जगतां पति गुणगणैर्विभ्राजमानाः सनत् संवेगादियुजो जयन्तु सततं षट्शास्त्रविद्याविदः // 1 // तेषां शिष्यः सदानन्दस्तदनुग्रहभूषितः। सिद्धान्तचन्द्रिकावृत्तिं पूर्वाऽचर्करीदिमाम् // 2 // इति श्रीसिद्धान्तचन्द्रिकाव्याख्यायां सदानन्दकृतौ पूर्वार्द्ध समाप्तिमगात् // (तत्त्वदी० )-तद्धितप्रत्ययानामनन्तत्वात्कारन्येनाभिधातुमशक्यत्वादयुक्तसिद्धयर्थमाहशेषा इति // उक्तेभ्योऽन्ये शेषाः / निपातनात्साधवो निपात्याः॥ किमः संख्यापरिप्रश्ने डतिः // दाविक इति // देविकायां भव इति विग्रहः / कारकादित्यण् / एकारस्यात्वं निपात्यते // शांशप इति // शिंशपाया विकारः / अत्राप्यादेः स्वरस्यात्वं निपात्यते ॥दात्यौह इति // दित्यौहोऽयमिति विग्रहः / इदमर्थेऽण / अत्राप्यादेरात्वं निपात्यते / प्रकृतिस्तु दित्यवाह इति // तत्र वाहो वौ इति वा इत्यस्यौत्वम् // दीर्घसत्रे भवः दार्पसत्रः / अत्रापि कारकादित्यण / आदिस्वरस्यात्वं निपात्यते // श्रायस इति // श्रेयसि भव इति विग्रहः / अत्राप्यादिस्वरस्यात्वं निपात्यते // श्रीनाथकरपौत्रेण लोकेशकरशर्मणा / कृतायामिह टीकायां द्विरुक्तव्याकृतिर्गता // 1 // सिद्धान्तचन्द्रिकाव्याख्या या त्वियं तत्त्वदीपिका / तत्पूर्वार्धमभूत्पूर्णं तेन तुष्यतु पार्वती // 2 // इति श्रीलोकेशकरविरचितायां तत्त्वदीपिकायां सिद्धान्तचन्द्रिकाव्याख्यायां पूर्वाधं समाप्तम् / / इति सिद्धान्तचन्द्रिकायाः पूर्वार्ध समाप्तम् // पुस्तक मिलनेका ठिकानाखेमराज श्रीकृष्णदास, | गङ्गाविष्णु श्रीकृष्णदास, "श्रीवेंकटेश्वर" स्टीम्-प्रेस, | "लक्ष्मीवेंकटेश्वर" स्टीम्-प्रेस, खेतवाडी-बंबई. / कल्याण-बंबई.