________________
[ स्वरान्तस्त्रीलिंगाः] टीकाद्वयोपेता।
(१०५) धातोश्च इति सूत्राद्धातोरित्येवानुवर्तयन्ति न तु नाम्न इति । तन्मते झबे जवा इत्यनेन शस्य जकारेनिज्भ्यामिति । सुपिखसे चपा इति शस्य चः।स्तोः श्चुभिरिति शत्वम् । 'चपाच्छः शः' इति पक्षे शस्य छत्वमपि बोध्यम् । निच्शु ॥ चोः कुरिति कुत्वं न चपस्यासिद्धत्वात् ॥इत्यावन्ताः॥ गोपाशब्द आकारान्तः।।बुद्धिःप्रायेण हरिवत्। स्त्रीत्वात्सा नः पुंस इति न नत्वम् । बुद्धीः अस्त्रियामित्युक्तत्वाट्टा नेति नात्वं नोबुद्धया॥
(तत्त्वदी०)-षोड इति॥ ननु इदं सूत्रं किमर्थम् ‘झबेजबाः' 'वाऽवसाने' इति सूत्राभ्यां कार्यसिद्धेरव्याहतत्वात् । अथ कथं षडानन इत्यादाविति चेत्सत्यं वाऽवसान इत्यस्या प्रवृत्तेः । अत्रावसानत्वाभावात्कथमिति चेत् । शृणु । अवसीयत इत्यवसानपदेन नहवसीयतेऽतः पदान्ततैवावसानम अन्यथा पाण्मातुर इति न सिद्धयेत् । तथा हि षामातुर इति स्थिते षो ड इति डत्वे चपाभावाद् ञमत्वाभावः । अस्मन्मते तु 'वाऽवसाने' इत्यनेनैव रूपसिद्धिः। अथ त्वन्मदेकत्व इति निर्देशन जबस्यापि ञमत्वमिति न वाच्यम् । तत्र 'वाऽवसाने' इत्यनेनैव तत्त्वे तस्य जमत्वाद्रूपसिद्धर्ज्ञापकानुसरणक्लेशस्य व्यर्थत्वात् । षण्णामित्यपि ड्ण इत्यस्य षो णो नामीत्यर्थस्यैव वक्तुमुचितत्वेन षशब्दस्यैव प्रथमैकवचनम् ड् इति रूपत्वात् । द्वष्टीत्यादौ त्वष्टन इति निर्देशेन 'षो डः' 'खसे चपा' इत्युभयोरपि निवृत्तिरिति सूत्रं व्यर्थम् । वस्तुतस्तु 'झबे जबाः' इति सत्रेण विधास्यमानस्य षस्थाने डस्यव विधानानुवादार्थमिदं सूत्रमिति ध्येयम् ॥ अस्मिन् ग्रन्थे समानवर्गजस्यैव सावण्यस्योक्तत्वेन षडयोस्तदभावात्तुल्यास्यप्रयत्नं सवर्णमित्यस्याप्रणयनात्कथं षस्य डत्वमित्याशङ्कायां षो ड इत्यस्य विहितत्वादिति दिक ॥ निभ्यामिति ॥ प्रथमातिक्रमे कारणाभावात्प्रथम इति न्यायेन जकार इति भावः ॥ निशिवति ॥ खसे चपा इति शस्य चर्वे तद्योगे स्तोः श्चुभिः श्चुरिति सोः सस्य शत्वमित्यर्थः॥
(इदुद्याम् ) स्त्रियां वर्तमानास्यामिकारोकारात्यां परेषां ङितां वचनानां वाऽडागमो भवति ॥ बुद्ध्यै-बुद्धये । बुद्ध्याः-बुद्धेः । बुद्ध्याःबुद्धः। बुद्धीनाम् । स्त्रियां योः। बुद्ध्याम् । अडागमाभावे आमोऽप्यभावः । बुद्धौ ॥ एवं मतिभूतिधृतिरुच्यादयः॥ धेनुरज्जुदनुचञ्च्वादयोऽप्येवम् ॥
(सुबोधिनी )-इदुद्भयाम् ॥ इच्च उच्च इदुतौ ताभ्यामिदुद्भ्याम् । वेयुद इत्यतो वेत्यनुवर्तत । ङितामडिति च । स्रियां ङितां वाट् स्यात् ॥ ङितामडिति नित्ये प्राप्त विभाषेयम् ॥ स्त्रियामिति किम् । सख्ये । पत्ये ॥ तितामिति किम् । मतिभ्यः।। तपरत्व किम् । नये ॥ अट् । बुद्धये। अडभावे ङितीत्येत्वम् । बुद्धये । ङौ तु अडामोः सहैव प्रवृत्त्यप्रवृत्ती। सन्नियोगशिष्टानां सह वा प्रवृत्तिःसह वा निवृत्तिरित न्यायात्॥
(तत्त्वदी० )-इदुद्भयामिति ॥ इच्च उच्च इदुतौ ताभ्याम् । सन्नियोगशिष्टन्यायादडामोः सहैव प्रवृत्त्यप्रवृत्ती । यद्वा आमोऽभावे परत्वात् उरौ डिदित्यौकारः । न च नित्यत्वादट् ।