SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [ तद्धितप्र० ] टीकाद्वयोपेता | ( ३११ ) कः । " गोदारणं तु कुद्दालः" इति हैमः ॥ अक्षैर्जयत्याक्षिकः । अक्षैजितम् आक्षिकम् ॥ हलं सीरं वहति हालिकः । इकः ॥ तेनेति तृतीयान्तादिकः संस्कृतेऽर्थे । दना संस्कृत दाधिकम् ॥ मरीचैः संस्कृतं मारीचिकम् ॥ शब्दं करोति शाब्दिकः ॥ प्रकृतिप्रत्ययविभागेन शब्दं व्युत्पादयतीत्यर्थः ॥ दर्दुरं करोति दारिकः ॥ इह दर्दुरशब्दः वाद्यभाण्डवाची । कुलाल इत्यर्थः ॥ धर्मे चरति धार्मिकः । सद्वृत्त इत्यर्थः ॥ अधर्मं चरत्यधार्मिकः । असद्वृत्त इत्यर्थः ॥ पक्षिणो हन्ति नो वेति टिलोपः । इकः । पाक्षिकः ॥ शकुनं हन्ति शाकुनिकः ॥ तित्तिरिं हन्ति तैत्तिरिकः ॥ मत्स्यं हन्ति मात्स्यिकः ॥ मीनं हन्ति मौनिकः ॥ मृगं हन्ति मार्गिकः ॥ सारङ्गं हन्ति सारङ्गिकः ॥ मयूरं हन्ति मायूरिकः पुराणमधीते पौराणिकः । इतिहासमधीते वेत्ति वा ऐतिहासिकः ॥ वेदमधीते वेत्ति वा वैदिकः ॥ णितो वेति णित्वाद्वृद्धिः ॥ ( तत्त्वदी ० ) - कानीन इति ॥ व्यासः कर्णश्च । णित्वाद्वृद्धिः || शाकुनिक इत्यादीनां शकुनीन् हन्तीत्यादि वाक्यम् । ऐतिहासिक इति ॥ इतिहासमधीते ॥ ( पील्वादिकर्णादिभ्यः कुणजाहौ पाकमूलयोः) पीलूनां पाकः पीलुकुणः । कर्णस्य मूलं कर्णजाहम् । (सुबोधिनी) - पील्वादिकर्णादिभ्यः कुणजाहाँ पाकमूलयोः ॥ पील्वादिभ्यः कर्णादिभ्यश्च कुणजाहौ प्रत्ययौ स्तः पाकमूलयोरर्थयोः ॥ पाक: परिणामः । मूलमुपक्रमः । पीलु कर्कन्धु शमी करीर बकुल बदर खादर पील्वादयः । कर्ण आक्ष नख मुख केश पाद गुल्फ भ्रू शृङ्ग दन्त ओष्ठ पृष्ठ कर्णादयः ॥ ( तत्वदी ० ) - पाकमूलयोरिति ॥ यथाक्रममनयोरन्वय इत्याशयेनाह - पीलूनां पाक इत्यादि ॥ ( पक्षात्तिर्मूले ) पक्षस्य मूलं पक्षतिः ॥ ( सुबोधिनी ) - पक्षात्तिर्मूले || पक्षशब्दात्तिप्रत्ययः स्यात् मूलेऽर्थे ॥ पक्षतिः प्रतिपत् ॥ ( चञ्चणौ वित्ते ) विद्यया वित्तो विद्याचञ्चुः । विद्याचणः ॥ ( सुबोधिनी ) - चञ्चणौ वित्ते ॥ चञ्चुचणौ प्रत्ययौ स्तो वित्तेऽर्थे ॥ वित्तो भोग्यप्रतीतयोरिति निपातनात् दस्तस्येति नत्वं न ॥ (वेः शालशङ्कटौ ) विस्तृतम् । विशालम् । विशङ्कटम् ॥ ( सुबोधिनी ) - वेः शालशंकटौ । वेः स्वार्थे एतौ स्तः ॥ विस्तृतम् ॥ विशा
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy