________________
( १२ )
सिद्धान्तचन्द्रिका |
[ संज्ञाप्रकरणम् ]
( तत्त्वदी ० ) - आरओ वृद्धिरिति ॥ ननु माऽस्तु वृद्धिसंज्ञा आदिस्वरस्य णित्यारैऔ इति सूत्र्यताम् । तदेवोत्तरत्राप्यनुवर्त्यतामिति चेन्न संज्ञापूर्वको विधिरनित्यो यथा स्यादित्येतदर्थ संज्ञाविधानम् । तत्फलं तु अभवीदित्यादौ पाक्षिको वृद्ध्यभाव इति ॥
( अन्त्यस्वरादिष्टिः ) अन्त्यो यः स्वरस्तदादिवर्णष्टिसंज्ञको भवति ॥ ( सुबोधिनी ) - अन्त्यस्वरादिष्टिः ॥ अन्ते भवोऽन्त्यः । ण्यः । अन्त्यश्चासौ स्वरश्चेत्यन्त्यस्वरः अन्त्यस्वर आदिर्यस्य सः अन्त्यस्वरादिः । स्वराणां मध्येऽन्त्यस्वर आदिर्यस्य समुदायस्य स टिसंज्ञो भवति ॥ यत्र तु तदादिरन्यो वर्णो नास्ति तत्र स्वरस्यैवान्त्यादित्वं व्यपदेशिवद्भावेन भवति । यत्र चैक एव स्वरस्तत्रापि व्यपदेशिवद्भावादन्त्यत्वमस्ति । यथा त्यदादिषु । व्यपदेशिवद्भावस्तु लौकिको न्यायः । तथा यस्य बहवः पुत्रास्तस्य तस्मिंस्तस्मिन् ज्येष्ठमध्य कनिष्ठव्यपदेशोऽस्ति । यस्य त्वेकः पुत्रस्तस्य ज्येष्ठादिव्यपदेशस्तस्मिन्नेवेति । टिसंज्ञाप्रदेशा यथा 'पथां टेः' इत्यादयः॥ सोऽन्त्यस्वर आदिवर्णो यस्य स तदादिवर्ण इति ॥
( तत्त्वदी ० ) - अन्त्यस्वरादिरिति || अन्त्यस्वर आदिर्यस्य स तथा । नन्वेवं हलीषेत्यादौ कथं टिसंज्ञाऽन्त्यस्वरस्यादित्वाभावादिति चेत्सत्यम् । व्यपदेशिवद्भावेनेति गृहाण || ( अन्त्यात्पूर्व उपधा) अन्त्याद्वर्णमात्रात्पूर्वो यो वर्णः स उपधासंज्ञो भवति ॥
( सुबोधिनी) - अन्त्यात्पूर्व उपधा || अन्ते भवोऽन्त्यस्तस्मात् अन्त्याद्वर्णात्पूर्वो वर्ण उपधासंज्ञोऽस्ति । वर्ण इति कस्मात् लब्धं न्यायात् । तद्यथा अवध्यवधिमद्भावः सजातीयानामेव भवतीत्युत्सर्गः । लोके हि अमीषां ब्राह्मणानामन्त्यात्पूर्वमानयेत्युक्ते एक एवान्त्यादव्यवहितपूर्व आनीयते न तु समुदायः तथेहापि वर्णादव्यवहितः पूर्वो वर्ण एव संज्ञी न तु समुदाय इति । उपधासंज्ञाप्रदेशाः 'नोपधायाः' इत्यादयः ॥
( तत्त्वदी ० ) - अन्त्यात्पूर्व उपधेति ॥ ननु वर्णादिति सूत्रे अनुक्तं कस्माल्लब्धमिति चेन्न पराण्यादिति ज्ञापकाद् गृहाण । अन्त्यादुपधेत्युक्तेऽपि पूर्वशब्दस्याक्षेपः संभवति । न च परशब्दस्याक्षेपः संभवति इति वाच्यम् अन्त्यत्वभंगप्रसंगात् । नहि परस्मिन्वर्णे सति पूर्वस्य अन्त्यत्वं संभवति । एवं सिद्धे यत्पूर्वग्रहणं तदव्यवहितपूर्वस्यैव ग्रहणार्थम् ॥
( ह्रस्वो लघुः )
( सुबोधिनी ) - स्वो लघुः ॥ ह्रस्वस्वगे लघुसंज्ञो भवति ॥ लघुसंज्ञाप्रदेशाः उपधाया लघोरित्यादयः ॥
(विसर्गानुस्वारसंयोगपरो गुरुर्दीर्घश्व )
(सुबोधिनी) - विसर्गानुस्वारसंयोगपरो गुरुदीर्घश्च ॥ विसर्गश्वानुस्वारश्च