________________
[संज्ञाप्रकरणम् ]
टीकाद्वयोपेता ।
(१३)
संयोगश्च ते विसर्गानुस्वारसंयोगाः विसर्गानुस्वारसंयोगाः परे यस्माद्धस्वात्स विसगनुस्वारसंयोगपरो गुरुसंज्ञः दीर्घश्व गुरुसंज्ञः ॥
( तत्त्वदी ० )- विसर्गेति ॥ विसर्गश्च अनुस्वारश्च संयोगश्च ते परे यस्य स तथा । वस्तुतस्तु विसर्गानुस्वारयोरत्रानुपयोगात्संयोगपर इत्येव वक्तुमुचितम् ॥
( मुखनासिकावचनोऽनुनासिकः )
(सुबोधिनी ) - मुखनासिकावचनोऽनुनासिकः ॥ मुखेन सहिता नासिका मुखनासिका । शाकपार्थिवादित्वान्मध्यम पदलोपः । उच्यतेऽसाविति वचनः । युट् । मुखनासिकया वचनः मुखनासिकावचनो वर्णोऽनुनासिकसंज्ञो भवति ॥
1
( तत्वदी ० ) - मुखनासिकेति ॥ मुखसहिता नासिका मुखनासिका । अन्यथा मुख च नासिका चेति विग्रहे प्राण्यंगत्वादेकवद्भावे मुखनासिकमिति स्यात् । वस्तुतस्तु एकवद्भावे - ऽपि न क्षतिः आङः प्रश्लेषेण तथा सिद्धेः । मुखनासिका वचनमस्यास्तीति सः तथा । 'अइकौ च मत्वर्थे' इति अप्रत्ययः ॥
(विभक्त्यन्तं पदम् )
( सुबोधिनी) - विभक्त्यन्तं पदम् ॥ विभक्तिरन्ते यस्य तद्विभक्त्यन्तं पदसंज्ञमस्ति ॥ पद्यतेऽनेनेति पदम् । विभक्त्यन्तमित्यन्तग्रहणात् ' संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ' इति ज्ञाप्यते ॥
( तत्त्वदी ० ) - विभक्त्यन्तमिति ॥ विभक्तिरन्ते यस्य तत् ॥
( तपरः ) स्वसमानकालस्य सवर्णस्य ग्राहकः ॥
( सुबोधिनी ) - तपरः ॥ स्वसमान कालस्य सवर्णस्य ग्राहकः । तकारः परो यस्मात्स तपरः । तकारात्परो यः स तपरश्वति ॥ तन्त्रादिनोभयं विवक्षितम् । अत्र उच्चार्यमाणस्तपरः स्वसमानकालस्य सवर्णस्यैव संज्ञा भवति । स्वेनात्मना सह समानस्तुल्यकाल उच्चारणकालो यस्य स स्वसमानकालस्तस्यति । तेनादित्यादयः षण्णां षण्णां संज्ञाः । ऌदिति द्वादशानां संज्ञा । ह्रस्वतपरस्तु हस्वभेदानेव गृह्णाति । दीर्घतपरस्तु दीर्घमदानेव गृह्णाति नान्यानित्यर्थः ॥
( तत्त्वदी ० ) - तपर इति ॥ तः परो यस्मात्तात्परश्च तपरः । यत्तु संध्युपयोगीति कैश्विदुक्तं तन्न संधिभिन्नोपयोगितया संकोचे मानाभावात् । अथवा संधिपदमुपलक्षकम् ॥ ( विरामोऽवसानम् ) वर्णानामभावोऽवसानसंज्ञः स्यात् ॥ संज्ञाप्रकरणम् ॥
(सुबोधिनी ) - (कादयो मावसानाः स्पर्शाः ॥ ) लोकप्रसिद्ध पाठापेक्षमिदं सूत्रे मावसानत्वायोगात् । कादयः पञ्चविंशतिर्वर्णाः स्पर्शसंज्ञकाः सन्ति ( ञमङणना अनुनासिकाः ॥ ) एते पञ्च वर्णा अनुनासिकसंज्ञकाः सन्ति । नासिकामनुगता