________________
[विभक्त्याः ] टीकाद्वयोपेता।
(२१७) द्वितीयादयो विभक्तयः । सामान्यसंबन्धे तु षष्ठी । उक्तं च । “संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः । श्रुतायामश्रुतायां च क्रियायां सोऽभिधीयते ॥" नटस्य शृणोति । माषाणामश्नाति । नटसंबन्धिश्रवणानुकल एककर्तृको व्यापारः। माषसंबन्धिभोजनानुकूल एककर्तृको व्यापारः। विशेषविवक्षायां तु नटेन गीतं शृणोति। माषानश्नातीति ॥ द्रव्यगुणसंबन्धा यथा । राज्ञः पुरुषः । अत्र सेव्यसेवकरूपः ॥ राज्ञः पुत्रः । अत्र पितृपुत्ररूपः॥ तन्तूनां पटः । अवयवावयविरूपः ॥ पटस्य रूपम् । गुणगुणिरूपः ॥ माषाणां राशिः । समूहसमूहिरूपः ॥ कुरूणां राजा । पाल्यपालकरूपः ॥ चैत्रस्य वाहनम् । वाह्यवाहकरूपः ॥ शब्दस्यार्थः । अत्र वाच्यवाचकरूपः॥ चक्षुषा विषया रूपम् । अत्र बोध्यबोधकरूपः ।। अग्नधूमः । अत्र व्याप्यव्यापकरूपः॥ पटस्याभावः । अत्र प्रतियोग्यनुयागिरूपः ॥ उपगोर पत्यम् । अत्रापत्यापत्यवद्रपः॥ कुशूलस्यान्नम् । अत्राधाराधेयरूपः इत्यादिः॥ ननु सबन्धस्योभयनिष्ठत्वात् कस्माषष्ठी । उच्यते । विशेषणात्षष्ठी भवति । उक्तं च । “भेद्यभेदकयोः श्लिष्टः संबन्धो. ऽन्योन्यमीक्ष्यते । द्विष्ठो यद्यपि संबन्धः षष्ठयुत्पत्तिस्तु भेदकात् ॥" भेद्यभेदकयोः स्वरूपं यथा । “पराथें स्वार्थनिक्षेपादप्रधानं विशेषणम् । विशेष्यं तु प्रधानं स्यास्वार्थस्यैव प्रकाशनात् ॥" ननु शुक्लः पट इत्यत्रापि विशेषणे षष्ठी स्यात् । मैवं वद । विशेषणस्याभेदविवक्षातो न षष्ठी । विशेषणस्य भेदविवक्षायां तु षष्ठी भवत्येव । उक्तं च । "नाम्नो द्विधैव संबन्धः सर्ववाक्येष्यवस्थितः। सामानाधिकरण्येन षष्ठया वापि क्वचिद्भवेत् ॥" अत्र प्रकृत्यर्थः प्रत्ययाथै संबन्धे विशेषणम् । प्रत्ययार्थः संवन्धस्तु पुरुष विशेषणं भवति । राज्ञः पुरुषः । राजनिरूपितसेवकत्वसंबन्धवान्पुरुषः ॥ इति षष्ठी ॥ __ (तत्त्वदी०) संबन्धे षष्ठीति ॥ एतौ संबद्धाविति प्रतीतिजनकः संबन्धस्तत्र षष्ठीत्यर्थः । स च द्विविधः । क्रियाकारकसंबन्धद्रव्यगुणसंबन्धभेदात् । आद्यो द्विविधः । सामान्य विशेषश्च । विशेषः कर्मत्वादिरूपः । तत्र द्वितीयादिरपवादः। सामान्ये षष्ठी । तद्यथा । नटस्य शृणोति । नटसंबन्धिश्रवणानुकूलो वर्तमानो व्यापारः। विशेषे तु नटेन गीतं शृणोति । नटाभिन्नाश्रयको यो व्यापारस्तत्साध्यगीताभिन्नाश्रयं यत् गानतानादि तदनुकूल एकाभिन्नाश्रयो वर्तमानो व्यापारः । अन्त्यं दर्शयति-राज्ञ इति ॥ राजसंबन्धवान् पुरुष इत्यर्थः । संबन्धश्चात्र सेव्यसेवकरूपः । एवमन्यत्राप्यूह्यम् ॥ नन्वत्र संबन्धस्योभयनिष्ठत्वात्कथं षष्ठी । एकस्मात्कुतो वेति चेत्सत्यम् । विशेषणस्याप्रधानत्वेन ततः षष्ठी । राज्ञः पुरुष इत्यत्र प्रकृत्यर्थो विशेषणं पुरुषस्तु नामार्थमात्रनिष्ठ एव प्रतिपाद्यते न विशेषणत्वेन । यदा तु विशेषणत्वेन विवक्षितस्तदा षष्ठी भवत्येव । पुरुषस्य राजेति । यथा ''परार्थे स्वार्थनिक्षेपादप्रधानं विशेषणम् । विशेष्यं तु प्रधानं स्यात्स्वार्थस्यैव प्रकाशनात्" इति ॥ शुक्लः पट इत्यत्र तु अभेदविवक्षणान्न षष्ठी। भेदविवक्षायामेव षष्ठीति विधानात् । राहोः शिर इत्यत्र तु सतोऽप्यभेदस्याविवक्षा ।