________________
(२१६)
सिद्धान्तचन्द्रिका। [विभक्त्यर्थाः] (सुबोधिनी )-विश्लेषावधौ पञ्चमी ॥ श्लेषणं श्लेषः संयोगः। विगतो विरुद्धो वा श्लेषो विश्लेषो विभागः। अवधीयते एकरूपतया ज्ञायते सोऽवधिः । विश्लेषस्यावधिविश्लेषावधिस्तस्मिन् विश्लेषावधौ॥अस्यापादानसंज्ञा।उक्तं च हरिणा। “अपाय यदुदासीनं चलं वा यदि वाऽचलम्। ध्रुवमेवातदावेशात्तदपादानमुच्यते।" अपाय विश्लष साध्ये सति ध्रुवमवधिभूतं कारकमतदावेशात विश्लेषजनकक्रियानावेशादपादानमुच्यते।कीहशम्।चलमचलमुदासीनं वेत्यर्थः। तत्रानुक्ते अपादानकारके पश्चमी स्यात्।अत्र प्रकृत्यर्थः पञ्चम्यर्थेऽवधावभेदेन संसर्गेण विशेषणं प्रत्ययार्थोऽवधिस्तु क्रियायां विशेषणं भवति कारकाणां क्रिययैव सम्बन्धात् । हिमवतः पर्वताद्गङ्गाऽवतरति । अत्रावतरणविशिष्टाया गङ्गाया विश्लेषावधिभूतो हिमवान् । हिमवदभिन्नावविकनिःसरणानुकूलो गंगाभिन्नाश्रयको वर्तमानो व्यापारः ॥ धावतोऽश्वाच्चैत्रः पतति । पतनक्रियाविशिष्टस्य चैत्रस्य विश्लेषावधिरश्वः । शीघ्रगत्यनुकूलव्यापाराश्रयोऽश्वस्तदभिन्नावधिकं चैत्रनिष्ठ पतनमित्यर्थः ॥ अनुक्ते किम् । उपाध्यायो विप्रः । उप समीपेऽधीतेऽस्मादित्यपादाने घज्ञ ॥ इति पञ्चमी॥
(तत्त्वदी० )विश्लेषेति ॥ श्लेषणं श्लेषः संयोगः विगतः श्लेषो विश्लेषः ॥ फलिता. र्थमाह-विभाग इति ॥ अवधाविति ॥ अवधीयते एकरूपतया ज्ञायते सोऽवधिः । प्रकृतधातूपात्तगत्याधनाश्रयत्वे सति तज्जन्यविभागाश्रयः ॥ हिमवत इति ॥ हिमवदभिन्नावधिकनिःसरणपूर्वकः अवतरणानुकूलगङ्गाऽभिन्नाश्रयको वर्तमानो व्यापारः ॥ धावत इति ।। शीघ्रगत्यनुकूलो यो व्यापारस्तदाश्रयो योऽश्वस्तदवधिकोऽधोदेशसंयोगानुकूल एकाश्रयकोऽतीतो व्यापारः । इह क्रियाविशिष्टस्याप्यश्वस्य प्रकृतधातूपात्तक्रियां प्रत्यवधित्वं न विरुध्यते । तथा परस्परात् मेषावपसरत इत्यत्र सृधातुना गतिद्वयस्याप्युपादानादेकमेषनिष्ठां गतिं प्रत्यपरस्य विश्लेषावधिस्वमस्त्येव । मेषावधिको यः उत्तरदेशसंयोगस्तदनुकूलो मेषाभिन्नाश्रयको वर्तमानो व्यापारः। पर्वतात्पततोऽश्वात्पतति चैत्रः । पर्वताभिन्नावधिकोऽधोदेशसंयोगानुकूलो यो व्यापारस्तदाश्रयो योऽश्वस्तदवधिकोऽधोदेशसंयोगानुकूल एकचैत्राभिन्नाश्रयको वर्तमानो व्या. पारः । विश्लेषश्च कचिन्मानसोऽपि क्वचिदध्याहृतक्रियापेक्षयाऽपि । अधर्माज्जुगुप्सते । स्वार्थाद्धीयत इत्यादौ मानसाधर्मविश्लेषाध्याहृतनिःसरण क्रियापेक्षया विश्लेषयोरवधित्वस्य सत्त्वात् ॥ इति पञ्चमी ॥
( संबन्धे षष्ठी) राज्ञः पुरुषः ॥ (सुबोधिनी)-संबन्धे षष्ठी ॥ विशेषणविश्लिष्टः संबन्धः । आह च । एतौ संबद्धौ इति प्रतीतिजनकः संवन्धः । समानार्थो न नियतज्ञानाभावात् । स संबन्धो द्विविधः । क्रियाकारकसंबन्धो द्रव्यगुणसंबन्धश्चति । क्रियाकारकसंबन्धोपि दिविधः। विशेषः सामान्यं चति । तत्र विशेष कर्मत्वादिरूपे संबन्धे विहिता अपवादभूता