________________
[ स्वरान्तनपुंसकलिङ्गाः ] टीकाद्वयोपेता।
(११३) अथ स्वरान्ता नपुंसकलिङ्गाः। (अतोऽम्) अकारान्तान्नपुंसकलिंगात्परयोः स्यमोरम् भवत्यधौ ॥कुलम्॥
(सुबोधिनी )-अतोऽम् अदन्तानपुंसकान्नाम्नः परयोः स्यमोरम् स्यात् ॥ नपुंसकात्स्यमाटुंगित्यस्यापवादोऽयम् ॥ अतः किम् । पयः ॥ तपरकरणं मुखसुखार्थम् । नपुंसकस्येति ह्रस्वे कृते दीर्घत्वाभावात् । केचित्तु म् इत्येव पदच्छेदं कुर्वन्ति लाघवात् । तत्र सेमें कृते कुलमिति सिद्धम् । द्वितीयैकवचने तु मस्यैव मे कृते अम्शसोरित्यल्लोपे सिद्धमिष्टम् । यत्त्वाहुः। अतिजरसमिति सिद्धयर्थमम् विधानं तन्न द्वितीयकवचने लुकोऽपवादे अतोऽमिति म्भावे कृते अम्शसोरित्यल्लोपं बाधित्वा जरसू ततः सन्निपातपरिभाषया लुकोऽप्रवृत्तौ रूपसिद्धिरिति ॥ हे कुलेत्यत्र धेरमि कृते अल्लोपे च समानाद्धेरिति मलोपः। यद्वाऽतोऽमिति सूत्रे न्सम्महत इत्यतो मण्डूकप्लुत्याऽधावित्यनुवर्त्य षष्ठया विपरिणम्यते । अमादेशनिषेधार्लोप एव विधेयः॥
(तत्त्वदी०)-अतोऽमिति ॥ अत्र अतः म् इति छेदः । तथा च सेमादश कुलमिति सिद्धम् । द्वितीयैकवचने मस्यैव मादशोऽस्य अम्शसोरिति लोपे रूपसिद्धेः । न चातिजरसमिति सिद्धयर्थ तदिति वाच्यम् । लुकोऽपवादमम्भावं बाधित्वा जरसि कृते ततः सन्निपातपरिभाषाविरोधादमोऽलुकि सिद्धत्वादिष्टस्य । सौतु सन्निपातपरिभाषयैव जरसादेशो नेति मूल एव स्फुटीकरिष्यति । यत्त्वाहुः । अत्राकारविधानं सन्निपातपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेनामि जरसादेशेऽतिजरसमिति । अत्रेद वक्तव्यम् । अमि अनित्यं सौ नेत्यत्र विनिगमनाविरहः। इष्टासिद्धेरेव विनिगमकत्वमिति चेत् अन्यथापीष्टसिद्धेव्याहतत्वात् । यदपि मत इति सूत्रणीये म् च अच्चेति समासे मान्ताददन्तात्स्यमो गित्यर्थः स्यात् । क्लीवे पूर्वेण सिद्धेऽक्लीवार्थमेतत्स्यात्। तथा च किम् इदम् शब्दयोर्दोषशङ्काव्यावृत्तये तत्तज्ज्ञापकानुसरणे लाघवाभावः। किंतु आत्मित्येव वक्तुमुचितमित्युक्तम् । अत्राप्यनिष्टशङ्काया अनिवार्यत्वात् । अच्च मचेति समासे क्लीबाद्यथाक्रमं स्यमोरामौ स्यातामिति । तस्मान्म इत्यत्र निष्कारणमुद्देश्यविधेयक्रमबाधस्यैव दुष्टत्वात्॥
(ईमौ) नपुंसकलिंगात्पर औरीकारमापद्यते ॥ कुले ॥ (सुबोधिनी )-ईमौ ॥ नपुंसकान्नाम्नः पर औरीत्वं प्रामोति ॥ दीर्घोच्चारणं तु मधुनी इत्यादौ श्रवणार्थम् । विपरीतनिर्देशो नित्यादपि नुमः पूर्वमीविधानार्थः ॥
(तत्त्वदी०)-ईमाविति ॥ अत इति नानुवर्तते। दीर्घोच्चारणं तु वारिणी इत्यादौ श्रवणार्थम् । विपरीतनिर्देशो नित्यादपि नुमः पूर्वमीविधानार्थः । सत्यपि च प्रथम नुम्प्रवृत्यभावात् ॥
(जशसोः शिः) नपुंसकलिंगात्परयोर्जश्शसोः शिर्भवति ॥ (सुबोधिनी)-जश्सोः शिः॥ नपुंसकानाम्नः परयोजश्शसोः शिः स्यात् ॥ नपुंसकात्किम् । देवाः ॥ जसा सहचरितस्य शसो ग्रहणान्नेह । शतशो ददाति । शकारः सर्वादेशार्थः॥