________________
(११४)
सिद्धान्तचन्द्रिका। [स्वरान्तनपुंसकलिंगाः ] ( तत्त्वदी० )-जश्सोः शिरिति ॥ जस! सहचरितस्य शसो ग्रहणात् शतशो ददातीत्यादौ नातिप्रसङ्गः । शकारः सर्वादेशार्थों न तु श्रवणार्थः। पराणीत्यादिनिर्देशात । अत्राहुः । अत्रासेरित्येव वक्तुमुचितम् । पराणीत्यादिनिर्देशात् स्याद्यधिकाराच्च जश्शसोः शिरित्येव ग्रहणं न तु ङसिङसोः नपुंसकात् नपुंसकस्येति निर्देशात् । अर्थस्य नियामकत्वाद्वैपरीत्यशङ्काऽपि नेति । अत्रेदमवधेयम् । लाघवार्थमसेरिति सूत्रिते ज्ञापकानुसरणस्य वैपरीत्यशवानिवृत्त्यर्थम् अर्थनियामकत्वानुसरणस्य चातिगौरवेण ततोऽस्यैव लघुत्वात् ॥
(नुमयमः) नपुंसकस्य नुमागमो भवति शौ परे । यमप्रत्याहारान्तस्य न । मिदन्त्यात्स्वरात्परः ॥
(सुबोधिनी)-नुमयमः॥ अयमप्रत्याहारान्तस्य नपुंसकस्य नुम् स्यात् शौ परतः। नपुंसकादिति षष्ठया विपरिणम्यते शिरिति सप्तम्या च । अयम इति षष्ठी। मकारादकारस्योच्चारणार्थत्वात् । मित्त्वादन्त्यात्स्वरात्परो नुम् ॥ अयमः किम् । विमलदिवि । चत्वारि । वारि । फलि । सुगणि । ब्रह्माणि । प्रशामि॥
(तत्त्वदी०)-तुमयम इति ॥ पत्र नपुंसकादित्यनुवृत्तस्यार्थवशाद्विभक्तिविपरिणामः । एवं शिरित्यपि सप्तम्या विपरिणम्यते इत्यभिप्रेत्याह-नपुंसकस्य शाविति च ॥ अयम इति षष्ठी अकारस्योच्चारणार्थत्वात् । षष्ठयर्थे प्रथमा वा ॥ मिदन्त्यादिति ॥ अत्र च संध्यक्षराणीति ज्ञापकमिति भावः॥
(नोपधायाः) नान्तस्योपधाया दीर्घो भवति शौ पञ्चस्वधिषु । नामि च । ईति न । कुलानि । हे कुल । शेषं देववत् ॥ एवं मूलफलादयः ॥
( सुबोधिनी )-नोपधायाः ॥ नेत्यविभक्तिको निर्देशः । नाम्नो विशेषणम् । तेन नान्तस्य नाम्न उपधाया दीर्घः स्यात् शौ परे पञ्चस्वाधिषु । ईमाविति ईकारे तु न ब्रह्मणी इति । वाऽदीपोरित्यत ईकारस्य अनुक्तसमुच्चयार्थस्य निषेधार्थस्य वा वाशब्दस्य चानुवर्तनात् । नामीत्यस्यापकर्षणान्नाम्यपि उपधाया दीर्घः । विदो नवानामिति निर्देशात् । भवन्नित्यादौ संयोगान्तलोपस्यासिद्धत्वान्न दीर्घः ॥
(तत्त्वदी०)-नोपधाया इति ॥ न उपधायाः इति छेदः । नेति लुप्तषष्ठीकं तदन्तखं च बोध्यम् । विशेष्यस्य नाम्न उपस्थितत्वात् इत्यत आह-नान्तस्येति ॥ अत्र वाऽऽदीपोरित्यत ईकार इत्यनुवर्त्य नेति वेत्यत आह-ईति ॥ नेति ॥ तेन ब्रह्मणी इत्यादि च सिद्धम् । अत्र नामीत्यस्यापकर्षणमित्याह॥नामीति-यदि तु ज्ञापकसिद्धस्यासार्वत्रिकत्वात् पञ्चानामिति निर्देशाद्वा नलोपश्यपि दीर्घस्तदा नामीति नापकर्षणीयम् ॥ हे कुलेति ॥ अकारस्य लोपे मकारस्य समानाद्धेरिति लोपः। अधेरित्यनुवृत्तेर्वा ॥
(श्त्वन्यादेः) अन्यादेः क्लीवात्परयोः स्यमोः तुर्भवति ॥ अन्यत् ॥