________________
[ स्वरान्तनपुंसकलिङ्गाः ] टीकाद्वयोपेता। (११५)
(सुबोधिनी)-श्त्वन्यादेः ॥ क्लीवादन्यादेर्नाम्नः परयोः स्यमोः इतुः स्यात् ॥ अतोऽमित्यस्यापवादः ॥ अन्य अन्यतर इतर डतर डतमेति पञ्चात्मकोऽन्यादिः। सर्वाद्यन्तर्गणः। डतरडतमौ प्रत्ययौ । ततस्तदन्ताः कतरकतमादयो ग्राह्याः ॥ क्लीवादिति किम् । अन्यः । अन्यम् ॥ शकारः सर्वादेशार्थः । उकार उच्चारणार्थः॥
(तत्त्वदी० )-श्त्वन्यादेरिति ॥ श्तु अन्यादेरिति छेदः । शः सर्वादेशार्थः। उकार उच्चारणार्थः । सेरेकवर्णत्वादेव सर्वादेशः सिद्धः । द्वितीयैकवचने तु मस्य तादेशे कृते एकदेशविकृतन्यायेनाम्शसोरस्येत्यलोपे कृते सिद्धमिष्टमिति शकारो व्यर्थ इति चेत्सत्यम् । स्वविपये प्राप्तस्य सर्वस्य स्थाने तुर्यथा स्यात् । सिलोपबाधनार्थ शकार इति फलितम् । इत्याशयेनाह-शन्यादेरिति॥
(वाऽवसाने ) अवसाने वर्तमानानां झसानां जबा भवन्ति चपा वा ॥ अन्यत्-अन्यद्, अन्ये, अन्यानि ॥
(सुबोधिनी )-वाऽवसाने ॥ अवसातिरवसानम् । षोऽन्तकर्माण । अस्माद्भावे युट् । समाप्तिरन्त इति यावत् । पदस्यान्ते वर्तमानानां झसानां जबाश्चपाश्च वा स्युः ॥ पदस्य किम् । मरुतौ ॥ अन्ते किम् । गतः ॥ झसानां किम् । राजन् ॥
(तत्त्वदी०)-वाऽवसान इति ॥ अत्रावसातिरवसानम् । षोऽन्तकर्मणि । भावे युट्। समाप्तिरन्त इति यावत् । अत्रावसानशब्दस्यान्तावयवार्थस्यावयविनि साकाङ्क्षस्य पदस्येत्यवयवी संबध्यते । यदि तु 'खसे चपा झसानाम्' 'झबे जबाः ' इति सूत्रद्वये पदान्त इत्यनुत्यै वाक्यभेदेन व्याख्यायते पदान्ते झसानां जबाश्चपाश्च भवन्तीति तदेदं सूत्रं व्यर्थमेव ॥
(अन्यादेधैर्लोपोन) हे अन्यत् । अन्यतरत् । इतरत् । कतरत् । कतमत् ॥
( सुबोधिनी)-अन्यादेधैर्लोपो न ॥ अन्यादेः परस्य धेोपो न ॥ समानाहेरिति प्राप्ते निषेधः ॥
( एकतरस्य श्तुन ) एकतरम् । शेषं सर्ववत् ॥ सेरमादेशे संनिपातपरिभाषया न जरस् । अजरम्, अजरसी-अजरे, अजराणि ॥
( सुबोधिनी)-एकतरस्य श्तुन ॥ एकतरात्परयोः स्यमोः इतुर्न स्यात् । डतरप्रत्ययान्तत्वात्प्राप्ते निषेधः । अविद्यमाना जरा यस्य तत् । अन्याथें इति हस्यें कृते अतोऽमित्यम् । अजरमित्यत्राजरशब्दमाश्रित्य सिस्थानेऽम् उत्पन्नः तेनाजरशब्दस्याविधिः सन्निपातः। अतः सन्निपातोऽविधिर्जरसादेशविधानेनाजरशब्दस्य विघातको नेति । अजरमित्येकमेव रूपं प्रथमैकवचने । अजर शि इति स्थिते परत्वाजरसि कृते नुमयम इति नुम् ॥