________________
[ स्वरान्तपुंल्लिंगाः] टीकाद्वयोपेता।
(९५) एवमुल्लूसुल्वादयः ॥ स्वयंभूः स्वयंभुवौ, स्वयंभुवः । एवं लूस्वभूकटधूम्भूकाराभूपरमल्वादयः ॥ वर्षाभूः, वर्षायौ, वर्षाश्वः । वर्षाश्वम् । एवं कारभूपुनर्भून्भूकरभूशब्दाः॥
(सुबोधिनी )-तकारस्थानजाद्वर्णादपि॥कृतयादेशात्तकारस्थानोत्पन्नावर्णात्परस्य ङसिङसोरस्य उः स्यात्॥लूनमिच्छतीति लनीयति विपि लूनीः। ल्वाद्यादितश्चेति क्तस्य नः । क्षाममिच्छतीति सामीयति क्विपि क्षामीः । क्षायो म इति क्तस्य मः॥ प्रस्तीममिच्छतीति प्रस्तीमीयति विपि प्रस्तीमीः । प्रस्त्यायतेः संप्रसारणं क्तस्य नत्वं च निपातनात् । 'क्षामं क्षीणं तु प्रस्तीमं विपरीतं निगद्यते' इति ॥ शुष्कं पक्वं वेच्छति शुष्कीयति । पक्वीयति। क्विपि शुष्कीः। पक्वीः । शुषेः क इति क्तस्य कः। पचो व इति क्तस्य वः। ङसिङसोः परतो वोर्धातोरितीयादेशे कृते वो वेति यादेशस्याभावात् खीतीभ्यामित्युत्वं न ॥ इतीदन्ताः॥ उदन्ता हरिवत् ॥ इत्युदन्ताः॥ गन्धर्वविशेषवाचकोऽव्युत्पन्नो हूहूशब्दः। अमि शसि च अम्शसोरित्यल्लोपः। अन्यत्र स्वरादौ विभक्तौ उ वमिति वत्वम् ॥ दृम्भतीति दृम्भूः । 'अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः' इत्युणादिसूत्रेण कूप्रत्ययो नुमागमश्च निपात्यते । अयमूकारो धातोन । तेन उ वमिति वत्वम् । भी ग्रन्थे । दृम्भूः। ग्रन्थकर्ता ॥ चमूं सेनामतिक्रान्तो यः सोऽतिचमूः। आतिचमूशब्दे तु स्वीकार्य विशेषः। धौ हे अतिचमु । डित अतिचम्वै। अतिचम्बा:आमि अतिचमूनाम्।।ङौ अतिचम्वाम् ॥ खलं पुनातीति खलपूः । पूजः क्विप् । स्वरादौ विभक्तौ य्वौ वेति वत्वम् । स्वयं भवतीति स्वयम्भूः । क्विवन्तः । अन्यभूशब्दस्यति निषधात् वत्वं न ॥लुनातीति लुः । अनेकस्वरत्वाभावात् वत्वं न ॥ स्वेन भवतीति स्वभूः । अन्यभूशब्दस्यति निषेधावत्वं न॥ कटं प्रवत इति कटप्रूः । धातोरवयवसंयोगपूर्वकत्वाद्वत्वं न ॥ दृन्भ्यां भवती ति दृम्भूः कारायां भवतीति काराभूः । अन्यभूशब्दस्यति वत्वं न ॥ परमश्चासौ लूश्च परमलूः । उपसर्गकारकेतरपूर्वत्वाद्वत्वं न ॥ वर्षासु भवतीति वर्षाभूः । य्वौ वेति वत्वं स्वरे । 'भक मण्डूकवर्षाभूशालूरप्लवदर्दुराः' इत्यमरः ॥ 'भेक्यां पुनर्नवायां स्त्री वर्षाभूर्ददुरे पुमान् ' इति यादवः ॥ कर एव कारः स्वार्थिकोऽण । कार भवतीति कारभूः वत्वम् । पुनर्भवतीति पुनर्भूरिति । क्रियाशब्दः। 'पुनर्भूदिधिषूरूढा दिः' इत्यमरः ॥ पुनर्भूशब्दस्तु नित्यस्त्रीलिङ्ग एव ॥ निति नान्ते हिंसाव्यिये पूर्वपदे भुवः क्विम् । दृन्भूः। तरुः सर्पजातिः कपिश्च ॥ करे भवतीति करभूः । वत्वम् ॥ इत्यूदन्ताः ॥
(तत्त्वदी० )-कृतयादेशेत्यादि ॥ धात्ववयवसंयोगपूर्वत्वान्न यत्वं तदभावानोत्वमित्यर्थः॥
(सेरा) कारान्तात्परस्य मेरा भवति स च डित् ॥ पिता ॥