________________
(९४) सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः ] प्रादयस्तं प्रत्येवोपसर्गसंज्ञका इत्युक्तत्वात् । वृश्चिकसंबन्धिनी भीवृश्चिकभीरित्युत्तरपदलोपोऽत्र बोध्यः । भययोगाभावावृश्चिकस्य नापादानत्वमिति भावः ॥ सखायमिच्छतीति सखीयति । नाम्नो य इति यप्रत्ययः । य इति दीर्घः। ततः विपि यत इत्यल्लोपः। यवयोर्वसे इति यलोपः। अल्लोपस्यात्र स्थानिवत्त्वेन यत्वं न भवति । को लुप्तं न स्थानिवदिति निषेधात् । एकदेशविकृतस्यानन्यतया डात्वमैत्वं च भवति । शसादौ स्वरे य्वौ वेति यः॥ सह खेन वर्तते यः स सख इति बहुव्रीहिः । “कं शीर्षे च मुखे खं खः सदिवि व्योमनीन्द्रिये । शून्ये बिन्दौ सुखे खस्तु" इति हैमः ॥ सखमिच्छतीति सखीयति । नाम्नो य ई चास्यति यः ईत्वं च। ततः विपि सखी । लक्षणप्रतिपदोक्तयोरिति न्यायानात्र डात्वम् । स्वरादिविभक्तो वौ वेति यः॥ एवं सुतमिच्छतीति सुतीयति विपि सुतीः॥
( तत्त्वदी० )-निय इति । अत्र ‘णीञ् प्रापणे' इति धातुरेव गृह्यते न त्वन्यः लक्षणप्रतिपदोक्तपरिभाषयाऽतो लून्यि इत्यादौ नातिप्रसङ्गः । क्वचिन्नियश्चेति चकारःस चिन्त्यप्रयोजन इति वृद्धाः ॥ उन्न्याविति ॥ अत्र संयोगपूर्वकत्वेऽपि उपसर्गधात्ववयवसंयोगत्वाद् य्वौ॥ कुमारीमिच्छन्नित्यादि ॥ इ'छार्थयान्तादाचारविबन्ताद्वा कर्तरि किपि कुमारीति रूपम् । नेति पुरुष इत्यर्थः ॥ पुंस्त्वद्योतनायेदम् । कुमामिति ॥ अल्लोपे बाधित्वा । य्वौ वेति यः ।। सखेति ॥ अत्रापि सखायमिच्छतीति वाक्ये अल्लोपयलोपयोः सखीति दीर्घान्तः । सेर्डाऽधेरित्यत्र ऐ सख्युरित्यस्य हस्वान्तस्यानुवृत्तेरिह च ह्रस्वान्तस्य ग्रहणात् कथं दीर्घान्ते कार्यद्वयमित्यत आह-एकदेशेत्यादि । एकदेशेन एकावयवेन विकृतं विकारवत् विपरीताकृत्यपि नान्यवद्भवतीत्यर्थः। यथा छिन्नकर्णोऽपि श्वा श्वैव नाश्व इति भावः ॥ नन्वत्राल्लोपस्य स्थानिवद्भावेन यादेशोऽस्त्विति चेन क्वौ लुप्तं न स्थानिवदिति परिभाषोपस्थानात् । लुप्तेति नपुंसके भावे क्तः । क्वौ लोप इति यावत् ॥ सखायमिति ॥ अत्राम्शसोरिति बाधित्वा य्वौ वेति यः प्राप्तः ततोऽपि परत्वादै सख्युरित्यैत्वमेव तकारस्थानजादिति स्थानिवद्भावेनेति भावः ॥ (खीतीभ्यां कृतयादेशाभ्यां ङसिङसोरकारस्य उ) सख्युःसुत्युः॥
( सुबोधिनी )-खातीभ्यां कृतयादेशाभ्यां ङसिङसोरकारस्य उः ॥ वौ वेति कृतयाभ्यां खीतीवर्णाभ्यां परस्य ङसिङसोरस्य उः स्यात् ॥
(तकारस्थानजाद्वर्णादपि) लूनमिच्छतीति लूनीः । लून्युः । क्षामं प्रस्तीमं वेच्छतीति क्षामीः । क्षाम्युः। प्रस्तीमीः । प्रस्तीम्युः । शुष्कीः। पक्कीः। कृतयादेशत्वाभावान्नोत्वम् । शुष्क्रियः। पक्वियः॥ हूहूः, हूहौ, हूह्वः । हे हूहूः । हूहूम्, हूढौ, हूहून् । वातप्रमीवत् ॥ एवं दृम्भूः । अतिचमूः । बहुश्रेयसीवत् ॥ खलपूः, खलप्वौ, खलप्वः ।