________________
(९६)
सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः] (सुबोधिनी)-सेरा ॥ ऋतो ङ उरित्यत ऋत इत्यनुवृत्तम् । ऋदन्तान्नाम्नः सेरा स्यात् स च डिद्वत् ॥ पितृ सि इत्यत्र पञ्चसु इत्यर् प्राप्तः सेरा इत्यात्वं च प्राप्तम् । तत्र येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद इति न्यायेनार इत्यस्य बाधकोऽयमाकारः प्रथमं प्रवर्तते।ततस्तस्य स्थानिवत्त्वेन आ इत्यस्य सित्वात्तस्मिन् परे अर टिलोपश्चति द्वयं प्राप्तम् । तत्र परत्वान्नित्यत्वाच्च टिलोपः ॥ "पिता माता ननान्दा नप्तृत्वष्टभ्रातृयातरः । जामाता दुहिता देवा न हि त्रन्ता इमे दश ॥१॥" अव्युत्पत्तिपक्षमाश्रित्येदमुक्तम् ॥ _(तत्त्वदी०)-सरेति ॥ अत्र ऋतो ङ उरित्यत ऋत इत्यनुवर्तते ॥ सेः किम् ।पितृभ्याम्। ऋतः किम् । हूहूः॥ तपरत्वं किम् । तृः ॥ अत्र पितृ सि इति स्थिते पञ्चस्वित्यरिप्राप्तेऽप्यल्पविषयत्वात् सेरेत्यादौ प्रवर्तते । ततः स्थानिवद्भावाडिलोपेऽरि च प्राप्ते परत्वाट्टिलोप एव ।। अत्राहुः । अन् सावित्येव सूत्रयितुमुचितम् । तथा च अनि सति नोपधाया इति दीर्घ हसेप इति लोपे सिद्धयतीष्टमिति । अत्रेदमवधेयम् । अन् साविति कृतेऽईमात्रालाघवेऽपि सूत्रद्वयापेक्षत्वेन प्रक्रियागौरवमित्युपेक्षितम् ।
(:पञ्चसु) ऋकारस्यार भवति पञ्चसु ॥ पितरौ, पितरः ॥
(सुबोधिनी )-पञ्चसु ॥ नाम्न ऋतोऽर् स्यात् स्यादिषु पञ्चसु ॥ स्यादौ किम् । विभृतः ॥
(तत्त्वदी० )-पञ्चस्विति ॥ अरित्यनुवर्तते । तच्च ऋत एव न तु तदन्तस्य निर्दिश्यमानस्यादेशा भवन्तीति वचनात् ॥ ऋतः किम् । हूतौ ॥ तपरत्वं किम् । त्रौ॥ पञ्चसु किम् । पितृभ्याम् । अत्र लाघवात् ङिपञ्चस्वित्येकयोगः समुचितः। पृथग्योगकरणमरोऽनित्यत्वज्ञापनायेति कश्चित् । तेन प्रियतिस्रौ, प्रियतिस्रेत्यादौ नेति भावः।।
(धेरर् ) ऋकारान्तात्परस्य धरेर् भवति स च डित् ॥ हे पितः । पितरम्, पितरौ, पितॄन् ॥ __ (सुबोधिनी)-धेरर् ॥ पञ्चसु इत्यस्य स्तुरार इत्यस्य चापवादोऽयम् । ऋदन्ताद्धेरर स्यात् स च डिद्वत् ॥
(तत्त्वदी०)-धेररिति ॥ अत्र वृद्धाः। माऽस्त्विदं संत्रं पञ्चस्वित्यनेनारि कृते हसेप इति संयोगान्त इति वा सिलोपे रूपसिद्धेः । अथ सेरेत्यस्य प्रवृत्तौ रूपासिद्धिरिति न वाच्यम् । तत्राधेरिति योजनीयमतो न हानिः॥ अथ ङावित्यत्रानुवृत्त्यर्थमिति चेत् तत्र 'अौँ इत्यस्यैव सुवचत्वात् । लाघवे विशेषाभाव इति चेत् एकवाक्येनार्थलाघवसद्भावात् । न चैवं हे कर्तरित्यत्राप्यप्रसङ्ग इति वाच्यं तत्रापि सेराऽधेररित्यतोऽधेरित्यनुवर्त्य विभक्तिविपरिणामेनाधाविति व्याख्येयमित्यतो धावरः प्रतिषेधात् । अत्रोच्यते । सूत्रं विना हे कर्तरिति न सिद्धयेत् । तथा हि । प्रथमं पञ्चस्विति अर् प्राप्तः तदपवादः स्तुरारिति आर् प्राप्तः स चाधा