SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ( १४२ ) सिद्धान्तचन्द्रिका | [हसान्त पुंलिंगाः ] ( तत्त्वदी०) - अर्दीर्घश्चेति ॥ लुप्तनकारनिर्देशात्पूजार्थासंग्रह इत्याशयेनाह - नलोपिन इत्यादि ॥ अचेरिति पाठे तु ज्ञापनासंभवः इकः कित्त्वेन सर्वथैव नलोपात् । उच्चार - णार्थ इकार इत्याद्याश्रयणे तु भवत्येव ॥ पूर्वस्य चेति शसादाविति परसप्तम्या निमित्तत्वेन पूर्वलाभात् । न च चकारेण व्यवधानान्नेति वाच्यं येन नाव्यवधानं तेन व्यवहितेऽपि ' इतिवचनप्रामाण्यात् चकारैकवर्णव्यवधानेऽपि भवत्येव । अकृतव्यूहपरिभाषया पूर्वं न यत्वम् । ( तिरश्चादयः ) तिरश्वादयो निपात्यन्ते शसादौ स्वरे तद्वितयस्वरयोरीपीकारे च ॥ तिरश्वा । तिर्यग्भ्याम् । तिर्यक्षु ॥ उदीचः । उद्ग्भ्यामू । उदक्षु । पितरमञ्चतीति । पित्र, पित्रञ्च ॥ ( सुबोधिनी ) - तिरश्चादयः ॥ सिद्धरूपनिर्देशो निपातनम् । एते निपात्यन्ते ईपि ईकारे च ॥ तिरश्च । तद्धितस्य स्वरे यकारे च तिरचीनः उदीच्यः ॥ तिरश्चादिरिति सूत्रणीयम् | आदिशब्दादुदीच इति । बहुवचनं तु व्यर्थम् । तृतीयस्याभावात् । पदादयः षोडशादेशाः न तु पृथक्शब्दा इतेि पक्षाश्रयणे तु वचनस्य सार्थक्यं बोध्यम् ॥ उदञ्चतीति उदङ् ॥ ( तत्त्वदी ० ) - तिरश्चादय इति ॥ ननु मास्तु निपातनम् । अञ्चतौ सहादेः सादिरिति सूत्रेण तिर्यादेशः । स तु अल्लोपे निमित्ताभावे नैमित्तिकाभावादेव रूपसिद्धेरिति चेत्सत्यम् । अञ्चतेर्निमित्तत्वेन अल्लोपेऽप्येकदेश विकृतन्यायेन तत्सत्त्वान्निमित्ताभावत्वाभावात् । तिरश्चादिरिति तु युक्त तिरश्च उदीच इति शब्दद्वय प्रवृत्तिदर्शनात् । तृतीयस्यादर्शनात् बहुवचनं व्यर्थमिति वृद्धाः ॥ I ( ऋतो दीर्घो न ) पितृचः । पित्रग्भ्याम् । पित्रग्भिः । पित्रक्षु ॥ सध्यङ् । सध्रीचः ॥ सम्यङ् । समीचः || प्राङ् । प्राचः ॥ पूजायां तु प्रत्यञ्चः । प्रत्यञ्चा | प्रत्ययाम् । प्रत्यक्षु – प्रत्यङ्खषु – प्रत्यषु ॥ उदञ्चः । उदङ्ग्याम् ॥ तिर्यञ्चः । तिर्ययाम् ॥ सम्यञ्चः । सध्यञ्चः । प्राञ्चः । प्राञ्चा । सहादेः सादिः || अमुमञ्चतीति अमुमुयङ् । अमुमुईचः । अमुमुयग्भ्याम् । अदमुयङ् । अदद्रयङ् ॥ पूजायां तु अमुमुयञ्चः । अमु मुयद्भ्याम् । अदमुयञ्चः | अदद्रयञ्चः ॥ मरुतः । मरुद्भ्याम् || बितो नुम् । न्सम्महतोऽधौ दीर्घः शौ च । महानू, महान्तौ महान्तः । हे महन् ॥ (सुबोधिनी) - ऋतो दीर्घो न ॥ ऋकारस्य दीर्घो न भवति । लुप्ताकारनकारेsञ्चतौ परेsपि । पितृचः । सहाञ्चतीति सहादेरिति सहस्य सधिः । सध्यङ् ॥ समश्चतीति सहादेरिति समः समिः । सम्यङ् ॥ प्रकर्षेणाञ्चतीति प्राङ् । पूजार्थस्याञ्च
SR No.002369
Book TitleSiddhant Chandrika Purvarddham
Original Sutra AuthorN/A
AuthorRamsharma Pandit
PublisherKshemraj Krishnadas
Publication Year1800
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy