________________
[स्वरान्तपुंलिङ्गाः] टीकाद्वयोपेता।
(६९) इदमौ शब्दो प्रत्यक्षोपस्थितवाचकौ ॥ अदस्शब्दस्तु व्यवाहतवाचकः । उक्तं च । " इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपम् ॥ अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् "इति ॥ द्विशब्दो द्वित्वविशिष्टवाचकः ॥ किम्शब्दः प्रश्ने आक्षेप च ।। अलिङ्गः सम्बोधनकविषयश्च युष्मदर्थः ॥ अलिंगः उच्चारयित्रर्थोऽस्मच्छब्दः ॥
(तत्त्वदी० )-सर्वविश्वेत्यादि सर्वादयः पञ्चत्रिंशत् ॥ तत्र सर्वविश्वशब्दौ कृत्वपर्यायौ उभशब्दो द्वित्वविशिष्टस्य वाचकः । अत एव नित्यं द्विवचनान्तः । पाठस्तूभकावित्यकार्थः । अन्यथा क एव स्यात् । तस्मिन् द्विवचनपरत्वाभावादुभयकावित्येव रूपं स्यात् ॥ उभयशब्दस्तु अवयवद्वयारब्ध इत्यर्थः । तिरोहितावयवभेदत्वादेकवचनम् । अन्यो भिन्नार्थः॥अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद् द्विबहुविषये निर्धारणे वर्तेते। तत्रान्यतमशब्दस्य गणे पाठाभावान्नसंज्ञा ॥ इतरशब्दस्स्वन्यनीचयोः त्वत् त्व इत्यन्यपर्यायौ । आद्यस्तान्तः ।। नेम इत्यर्द्ध ॥ समः सर्वपर्यायः । तुल्यपर्यायस्तु नेह गृह्यते ॥ 'सिमः कृत्स्ने च शक्ते च स्यान्मर्यादावबद्धयोः ॥' पूर्वपरावरोत्तरापराः पञ्च दिक्कालयोस्तदवच्छिन्ने च ॥ दक्षिणाधरशब्दौ दिशि तदवच्छिन्ने च। न दक्षिणः प्रवीणः, अधरे ताम्बूलरागः, उत्तरे प्रत्युत्तरे वा शक्त इत्येते गृह्यन्ते । कथं परे शत्रवः, अपरे वादिन इति शत्रुप्रतिवादिवाचिनोः सर्वादित्वम् । उपचारादिति गृहाण । न चोपसर्जनत्वात्कथमिति वाच्यम् । नहि लाक्षणिकत्वमुपसर्जनत्वम् । किंतु स्वार्थविशिष्टार्थान्तरसंक्रमः । अथ दिग्वाचकत्वे संज्ञात्वात्सर्वादिकार्यनिषेध इति वाच्यम् । आधुनिकसंकेतो हि संज्ञा । न च सा दिक्षु । कुरुषु तु साऽस्त्येव । तेनोत्तराः कुरवः । केचित्तु दिक्षु चिरन्तनः कुरुषु तु आधुनिकः संकेत इयत्र प्रमाणाभावः। सुमेरुमवधिमपेक्ष्य कुरुघूत्तरशब्दप्रवृत्तेरित्याहुः। तत्र वृद्धव्यवहार एव प्रमाणमिति तु नव्याः॥ स्वशब्दस्य ज्ञातिरात्मा धनमात्मीयं चेति चत्वारोऽर्थाः। तत्र जातौ धने च न सर्वादित्वम् । “अन्तरमवकाशावधिपरिधानान्तद्धिभेदतादर्थे । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च" इति अन्तरशब्दस्यार्थेषु परिधानबहियोगयोरेव सर्वादित्वम् । बहिरित्यनावृतो देशो बाह्यं चोच्यते ॥ भवच्छब्दस्य पाठस्तु आ सर्वादेरित्यात्वार्थोऽकार्थश्च ॥ स्यद्तशब्दौ पूर्वोक्तपरामर्शकौ ॥ यदुद्देश्यसमर्थकः ॥ एतदिमौ प्रत्यक्षोपस्थिते ॥ अदस् व्यवहिते ॥ " एकोऽन्यार्थे प्रधानेऽल्पे प्रथमे केवले तथा । साधारणे समाने च संख्यायां च प्रवर्तते ॥" संख्यायामेकवचनान्त एव ॥अलिङ्गः संबोधनकविषयश्च युष्मदर्थः ॥ किंशब्दः प्रश्ने आक्षेपे च ॥
(जसी) सर्वादेरकारान्तात्परस्य जस ईर्भवति ॥ सर्वे ॥ ( सुबोधिनी )-जसी ॥ अदन्तात्सर्वादेर्जस ई: स्यात् ॥ षष्ठ्या अविधानानान्तस्यायमादेशो भवति । निर्दिश्यमानस्यादेशा भवन्ति इति न्यायेन जस् इत्यस्यं सर्वस्यैव स्थाने आदेशः ॥ यद्वा जसीत्यत्र ई इ इति प्रश्लेषण गुरुत्वात्सर्वादेशः। अन्यथा दीर्घग्रहणस्य प्रयोजनाभावात् ॥ यद्वा अस्त्यत्र दीर्घस्य प्रयोजनम् । द्वितीय इकारः प्रथमचरमादिभ्योऽपि विध्यर्थः ॥ ननु अकारमाश्रित्य जात ईकारः कथमे