________________
(६८) सिद्धान्तचन्द्रिका। [स्वरान्तपुंलिंगाः] अर्थपरस्यैव नित्यं द्विवचनान्तता न तु स्वरूपानुकरणस्योत । अथ सर्वादिषु उभशब्दपाठो व्यर्थः । सर्वादिकार्याणां स्मडादीनां द्विवचनेऽभावात् । उच्यते । सर्वादिगणे उभशब्दस्य पाठस्तु उभकाविति रूपसिद्धयर्थः । तथा हि । उभशब्दस्तावद् द्विवचनमात्रविषयः। जित्स्वरितेत उभे इति लिङ्गात् । समासतद्धितादौ तु द्विवचनलोपे नासौ प्रयुज्यतेऽनभिधानात् । द्विवचनलोपे तु उभशब्दाद्वृत्तिविषये स्वार्थे नित्यमयट् भवति । उभयोऽन्यत्रेति । अन्यत्र द्विवचनपरत्वाभावे इत्युक्तत्वात् । तेन उभयतः। उभयत्र । उभाभ्यां पक्षाभ्यां विनीता निद्रा यैस्ते इति विग्रहे 'उभयपक्षविनीतनिद्राः' इत्यादिप्रयोगवत् कप्रत्ययेऽप्ययट प्राप्तः । अयाट सति उभयकाविति रूपापत्तिः स्यात् । तन्निवारणार्थः सर्वादिषूभशब्दस्य पाठः । तेनाख्याताव्ययसर्वादेष्टेः प्रागक इत्यकप्रत्यये उभकाविति सिध्यति। तद्धितस्य मध्यपतितत्वेन द्विवचनपरत्वानपायात् ॥ उभयशब्दस्तु अवयवदयारब्धेऽवयविनि वर्तते । उभावयवौ यस्य स उभयः। संख्याया अवयवे तयडयटौ इत्ययः। ननु 'द्वयेषामपि मेदिनीभृताम्' इति माघप्रयोगः कथं संगच्छते तस्य सर्वादित्वाभावात्। उच्यते । द्वयं द्वैधामिच्छन्ति गच्छन्तीति द्वयेषस्तेषां येषामिति इषेः क्विवन्तस्य रूपम् ॥ अन्यशब्दो भिन्नार्थः॥ अन्यतरशब्दोऽव्युत्पन्नः स्वभावात् द्विविषये निर्धारणेस्त ॥ इतरस्त्वन्यनीचयोः॥ डतरडतमौ प्रत्ययौ । यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति विभक्त्यन्तं पदमिति ज्ञापकात् । तथापीह तदन्तग्रहणम् । येभ्यो डतरडतमौ विहिती तेषां तदन्तानां ग्रहणमित्यर्थः। केवलयोः संज्ञायाः प्रयोजनाभावात् ॥ कतरकतमयतरयतमादयस्तदन्ताः। द्वयोबहूनां चैकस्य निर्धारणे इति डतरडतमौ ॥ समशब्दः सर्वपर्यायः। तुल्यपर्यायस्तु नेह गृह्यते ॥ ' सिमः कृत्स्ने च शक्ते च स्यान्मर्यादाबद्धयोः ॥ त्वत्त्वशब्दावन्यपर्यायौ । आद्यस्तान्तः। एतस्य पाठोऽकार्थः ॥ भवतुशब्दस्तुभवदर्थः॥ उणादौ भातेर्डवतुरिति डवतुप्रत्ययान्तः उकारानुबन्धो व्युत्पादितः । आ सर्वादेः इत्यात्वमकप्रत्ययश्च प्रयोजनमस्य। भवाहक । भवकान् ॥नेमशब्दोऽर्द्धवाची ॥"एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा। साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते॥" संख्यायामेकवचनान्तः ॥ पूर्वपरावरशब्दा दिग्देशकालवाचकाः सर्वादिसंज्ञकाः॥ दक्षिणशब्दस्तु दिग्देशवाचक: सर्वादिः न तु प्रवीणवाची॥ उत्तरापरशब्दों दिग्देशकालवाचकौ सर्वादी ॥ अधरस्तु दिग्देशवाचकः सर्वादिः ॥ 'स्वो ज्ञातावात्मान स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने 'इत्यमरः ॥' स्वः स्यात्पुंस्यात्मविज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने।'इति मेदिनी ॥ इति चत्वारोऽर्थाः स्वशब्दस्य ।तत्रात्मात्मीययोरेव सर्वादित्वम् ॥ "अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थे । छिद्रात्मीयविनावहिरवसरमध्येऽन्तरात्मनि च ॥” इत्यन्तरशब्दस्यार्थाः तत्र परिधानबहिर्योगयोरेव सर्वादित्वम् ॥ त्यदूतदौ शब्दौ पूर्वोक्तपरामर्शकौ ॥ यद्शब्द उद्देश्यसमर्थकः ॥ एतदू.