________________
[ स्वरान्तपुंल्लिंगाः ] टीकाद्वयोपेता।
(६७) आह हस्वादिति ॥ ननु सूत्रे ह्रस्वादित्येव किमिति नोक्तम्, किं समानादित्यनेनेति चेत् अम्शसोरस्येत्यत्रानुवृत्त्यर्थमेतस्यावश्यकत्वात् । न च समानादित्युक्त्या कथं ह्रस्वलाभ इति वाच्यम् । लक्षणयेति गृहाण ॥ अथैवमप्येदोतोः कुतो लब्धिरिति चेत् अधातुग्रहणात् । अधातुग्रहणात्कथमिति चेत् शृणु । अधातुग्रहण तावद्ध्यर्थम् । न च हे श्रीरित्यादावतिव्याप्तिः ह्रस्वग्रहणेनैव तद्वारणात् । न चाम्शसोरित्यत्रानुवृत्त्यर्थं श्रियमित्यादौ परत्वादियैव तद्बाधात् । न चाचिनवमित्यादिवारणार्थ स्यायधिकारेणैव तद्वारणसंभवात् । तस्माद्धातुप्रहणं व्यर्थत्वादेतज्ज्ञापनार्थमेवोपात्तम् । लोपग्रहणं तु व्यर्थमेव । रि लोपो दीर्घ इत्यतोऽनुवृत्त्यैव तल्लाभात् । चैकयोगनिर्दिष्टत्वेन दीर्घस्याप्यनुवृत्तिः स्यादिति वाच्यं सैषाद्धस इत्यत्र केवलस्याप्यानुवृत्तिदर्शनात् ॥ यद्वा लोपग्रहणस्यैवैतज्ज्ञापनमधातुग्रहणं तु वितो नुमित्यत्रोपयोगार्थमपि न्याय्यम् । जलधिरित्यादौ तु स्याद्यधिकारेण वारणम् । एवं च ग्रामणि कुलमित्यादौ एकदेशविकृतन्यायन धातुत्वेऽनेनाप्राप्तेऽपि नपुंसकात्स्यमोलकैव रूपसिद्धेः॥
सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर डतम सम सिम त्वत् त्व भवतु नेम एक पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व अन्तर त्यद् तद् यद् एतद् इदम् अदस् द्वि किम् युष्मद् अस्मद् ॥
(एते सर्वादयस्त्रिलिङ्गाः) (सुबोधिनी)-सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर डतम सम सिमत्वद् त्व भवतु नेम एक पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व अन्तर त्यद् तद् यद् एतद् इदम् अदस् द्वि किम् युष्मद् अस्मद् ॥ एते सर्वादयस्त्रिलिङ्गाः ॥ एते पञ्चत्रिंशच्छब्दाःत्रीणि लिङ्गानि येषांते त्रिलिङ्गाः सर्वादिसंज्ञका ज्ञेयाः॥गणसूत्रमिदम्।
आदिशब्दोऽत्रावयववाची।सर्वः आदिराद्यावयवो येषां ते सर्वादयः। तद्गुणसविज्ञानाऽयं बहुव्रीहिः। तस्यान्यपदार्थस्य गुणानां विशेषणानां वृत्तिपदार्थरूणां कार्यान्वपितया संविज्ञानं यस्मिन् स तद्गुणसंविज्ञान इत्यक्षगर्यः॥ आदिशब्दस्यावयववावि. स्वादुतावयवभेदः समुदायः समासार्थ इति बहुवचनम् । तस्य च युगपलक्ष्ये प्रयोगाभावादानर्थक्यात्तदंगेष्विति न्यायेन तदवयवेषु प्रवर्तमाना सर्वादिसंज्ञाऽविशेषात्सर्वशब्देऽपि प्रवर्तत इति युक्तम् । तद्गुणसंविज्ञानत्वं संयोगसमवायान्यतरसंबन्ध । लंबकर्णमानयेत्यादौ तद्गुणसंविज्ञानत्वमेव ॥ स्वस्वामिभावसंबन्धे तु चित्र गुमानयेत्यादा. वतद्गुणसंविज्ञानत्वम् ।। तदन्तस्यापीयं सर्वादिसंज्ञा भवति द्वन्द्वे सर्वादीनां सर्वकार्य न इति ज्ञापकात् । संज्ञोपसर्जनीभूतेषु सर्वादिषु सर्वादिसंज्ञा न प्रवर्तते । मुरूमुख्ययोमुख्य कार्यसंप्रत्ययो नामुख्ये इति न्यायात् । मुख्यो हि लोकपसिद्धोऽर्थः । तत्र सर्वविश्वशब्दो कृत्स्नपर्यायौ ॥ उभशब्दो द्वित्त्वविशिष्टस्य वाचकोऽो नित्यं द्विवचनान्तः। ननु उभस्य सर्वनामत्वे कोऽर्थ इति भाष्यकारप्रयोगो विरुध्येत । उच्यते ।