________________
(२८८)
सिद्धान्तचन्द्रिका। [ समासप्र०] दक्षिणश्चासौ आग्निश्चेति दाक्षणाग्निः। सप्त च ते ऋषयश्च सप्तर्षयः । “दक्षिणाग्निर्हिपत्याहवनीयौ त्रयोऽग्नयः" इत्यमरः ॥
(तत्त्वदी०)-दिकसंख्ये संज्ञायामिति ॥ दिक् च संख्या च दिसंख्ये । दिग्वाचिसंख्यावाचिनावित्यर्थः। कर्मधारयस्तुल्यार्थ इत्यनेनैव सिद्ध नियमार्थमिदम् । संज्ञायामेव नान्यत्रेत्यर्थः ॥ दक्षिणाग्निरिति ॥ दक्षिणदिगवस्थिते वस्तुनि दक्षिणशब्दः । अतो दानादेावृत्ती दिगवस्थिते व्यवस्थाप्यते । अनिशब्दोऽपि चित्रकादेावृत्ती हुताशे व्यवस्थाप्यते । अतो विशेषण विशेष्यभावात्कर्मधारयः ॥ संज्ञायां किम् । पञ्च फलानि ॥ दिकसंख्ये किम् । शूर्पणखा ॥ दक्षिणोऽग्निरित्यादौ वाक्ये संज्ञानवगमान्नित्यसमासत्वम् । अविग्रहस्य नित्यसमासत्वात् । न विग्रहो यस्य लोके प्रयुज्यत इति शेषः। अन्यथा दक्षिणोऽग्निरुन्मत्ता गङ्गा यत्रेत्यादिविग्रहस्टर सर्वत्र दर्शनादविग्रहत्वासंभव एव स्यात् । अयमत्र संग्रहः ॥ कृत्तद्धितसमासैकशेषयङाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभिधानं वृत्तिः । वृत्त्यर्थावबोधकं वाक्यं विग्रहः । स द्विधा। लौकिकोऽलौकिकश्च । तल्लक्षणं चोक्तमेव । समासोऽपि द्विविधः । नित्योऽनित्यश्चेति । नित्योऽपि द्विविधः । अविग्रहोऽस्वपदविग्रहश्च । न स्वस्य समासस्य पदविग्रहो यत्र सः । समासः षड्विध इति प्रायोवादः । द्विग्वव्ययीभावतत्पुरुषद्वन्द्वबहुव्रीहिकर्मधारयभिन्नस्यापि नाम्नश्च कृतेति विधानात् । एतेन नाम्नश्च कृता समास इति सूत्र समासग्रहणं तत्पुरुषपरं समासस्य पूर्वेणैव विधानात् । अमादौ तत्पुरुष इत्यतो मण्डूकप्लुत्याऽनुवृत्तति वासुदेवोक्तिः परास्ता ॥ तथा पूर्वपदार्थप्रधानोऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । अन्यपदार्थप्रधानो बहुव्रीहिः । उभयपदार्थप्रधानो द्वन्द्वः । विशेष्यपूर्वः कर्मधारयः पूर्वपदार्थप्रधानः । विशेषणपूर्वस्तूत्तरपदार्थप्रधानः। द्विगुरन्यपदार्थप्रधान इत्यपि प्राचां प्रवादः प्रायोऽभिप्राय सूचयति ॥ उन्मत्तगङ्गमित्याद्यव्ययीभावे अतिमालादौ तत्पुरुषे द्वित्रा इत्यादिबहुव्रीहौ दन्तोष्ठमित्यादिद्वन्द्वे चाभावात् । अनेकपदत्वं द्वन्द्वबहुवीह्योरेव । ऐकपद्यमेकविभक्तिकत्वं च समासप्रयोजनं पूर्वनिपातः समासान्तप्रत्ययादिश्च प्रयोजनम् ॥
(द्वन्द्वतत्पुरुषयोः परपदस्यैव लिङ्गम् ) कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ । अर्द्धपिप्पलीयम् ॥
(सुबोधिनी)-द्वन्द्वतत्पुरुषयोः परपदस्यैव लिङ्गम् ॥ इतरेतरयोगद्वन्द्वोन गृह्यते न समाहारद्वन्दः॥ एकत्वे द्विगुद्वन्द्वावित्युक्तत्वात् । द्वन्द्वतत्पुरुषयोरिति संव. न्धे षष्ठी । एतयोः परपदतुल्यं लिङ्गं भवति ॥ कुक्कुटश्च मयूरी च कुक्कुटमयूयौँ । इमे इति स्त्रीलिङ्गनिर्देशः॥ मयूरी च कुक्कुटश्च मयूरीकुक्कुटौ । इमाविति पुंलिंगनिर्देशः ॥ पिप्पल्या अर्द्धमित्यर्धपिप्पली । इयमिति स्त्रीलिंगनिर्देशः।
(द्विगुप्राप्तापनालंपूर्वप्रादिसमासे न ) पश्चकपालः । प्राप्तो