________________
[ समासप्र.] टीकाद्वयोपेता। - (२८७) योनिकृतः सम्बन्धोऽत्र ।। होता च पोता चेति होतापोतारौ। नेष्टा चोद्गाता च नेष्टोद्गातारौ । इह होमादिरूपविद्याकृतः सम्बन्ध एकस्मिन् यज्ञ आत्विज्यरूपो बोध्यः॥
(तत्त्वदी० )-ऋता द्वन्द्व इति ॥ विद्यायोनिसंबन्धवाचिनामेव ऋदन्तानामित्यर्थः । तेनेह न कर्तृभोक्तारौ ॥
(पुत्रे च ) पितापुत्रौ । गावश्च गावश्च गाव इमाः । शुक्लश्च शुक्ला च शुक्लं च शुक्लम् । स च यश्च यौ। तौ वा ॥
(सुबोधिनी )-पुत्रे च ॥ विद्यायोनिसंबन्धवाचिनाम ऋदन्दानामात्वं भवति पुत्रे। पिता च पुत्रश्च पितापुत्रौ । अनयोयोोनिकृतः सम्बन्धो जन्यजनकभावलक्षणोऽत्र ॥ ग्राम्यपशुसमूहेष्वतरुणेष्वनेकखुरेषु सहोक्ती स्त्रीलिङ्गोऽवशिष्यते । गावश्च गावश्चेति गावः । उभयत्र रूपस्य समानत्वात् स्त्रीलिङ्गशेषस्य फलमाह । इमा इति ॥ ग्रामे भवा ग्राम्याः यण ।। ग्राम्योत किम् । रुरव इमे । मृगविशेषा वनचारिण इत्यर्थः ॥ पशुग्रहणं किम् । ब्राह्मण्यश्च ब्राह्मणाश्च ब्राह्मणाः॥ समूहेषु किम् । एतो गावों ॥ अतरुणेषु किम् । वत्सा इमे ॥ अनेकखुरेषु किम् । अश्वा इमे । अश्वानामेक एव खुर इत्यर्थः ॥ अक्लीवेन सहोक्तौ क्लीवं शिष्यते। तच्च वा एकवत तल्लक्षण एव विशेषश्चत् । शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रम् । तानीमानि शुक्लानि ॥ त्यादीनां मिथः सहोक्तौ परं पूर्वं च शिष्यते । स च यश्च यौ तौ वा॥ स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसीच हंसश्च हंसौ । इह सर्वत्र एकशषे कृतेऽनेकाभात् इन्द्रसमासो न । तेन शिरसी शिरांसि इत्यादौ प्राण्यङ्गत्वादेकवद्भावो न । पन्थानौ पन्थान इत्यादौ समासान्तप्रत्ययो न भवति ।। इत्येकशेषः ॥
(तत्त्वदी०)-गाव इमा इति ॥ ग्राम्यपशुसोवतरुणेषु स्त्रिया एव एकशेष इत्यर्थः॥ शुक्लमिति ॥ अक्लीवैः सहोक्तौ क्लीबमेव शिष्यते इत्यर्थः । यो तो वेति ॥ त्यदादिषु परं विकल्पेनेत्यर्थः॥
(दिक्संख्ये संज्ञायाम् ) दिग्वाचिनः संख्यावाचिनश्च शब्दाः समानाधिकरणेन संज्ञायामेव समस्यन्ते स कर्मधारयः समासः॥ दक्षिणामिः। सप्तर्षयः ॥ संज्ञायां किम् । पञ्च फलानि ॥ दिसंख्ये किम् । शूर्पणखा।
(सुबोधिनी )-पुनः कर्मधारयमाह-दिक्संख्ये संज्ञायाम् ॥ दिक् च संख्या च दिसंख्ये । दिग्वाचिनः संख्यावाचिनश्च-शब्दास्तुल्यार्थेन सह समस्यन्ते स · कर्मधारयः ॥ कर्मधारयस्तुल्यार्थे इत्यनेनैव सिद्ध नियमार्थमिदम् । संज्ञायामेवेति ॥