________________
(३४)
सिद्धान्तचन्द्रिका। [हससंधिः] - (तत्त्वदी०)-सप्तम्यर्थे इति ॥ अर्थग्रहणं किम् । वाप्यामश्वो वाप्यश्वः । इह यथा न स्यात् । अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति जहत्स्वार्था वृत्तिरिति सप्तम्यर्थाभावात् । अथाजहत्स्वार्थायां वृत्तौ दोष एवेति चेन्न । समुदायार्थोऽभिधीयते ।
(इतौ वा उञ् ) उ इति-विति ॥ (सुबोधिनी)-इतौ वा उञ् ॥ उञ् निपातः सन्धि वा प्राप्नोति इतिशब्दे परे ॥ औ निपात इति नित्यं प्राप्ते विकल्पोऽयम् ॥ ( तत्त्वदी० )-इतौ वेति ॥ उभयत्र सानुबन्धक एव गृह्यते ॥ ( अप्लुतवदितौ ) देवदत्तेति ॥ (सुबोधिनी)-अप्लुतवदितौ ॥ प्लुतोऽप्लुतवद्भवति इतिशब्दे परे ॥ अप्लुतवत्कार्य यत्वादिकं करोतीत्यर्थः॥
( तत्त्वदी० )-अप्लुतवदिति ॥ अत्रापि अवैदिके इतौ बोध्यम् ॥ वत्किम् । अग्नी इति इत्यत्र यथा न स्यात् ॥
(गुरोरनृतोऽनन्त्यस्यापि वा पर्यायेण प्लुतः) दे ३ वदत्त-देवद ३ त्त ।अपिशब्दादन्त्यस्याप्यगुरोर्वा पर्यायेण प्लुतः। देवदत्त ३ ॥ गुरोः किम् । वकारादकारस्य मा भूत् ॥ अनृतः किम् । कृष्ण ३ गौश्चरति ॥ इति प्रकृतिभावः ॥
(सुबोधिनी)-गुरोरनृतोऽनन्त्यस्यापि वा पर्यायेण प्लुतः॥ दूगत्संबोधने यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा पर्यायेणानुक्रमण प्लुतः स्यात् ॥ एकत्र दे इत्येकारस्य प्लुतता। अन्यत्र द इत्यकारस्य प्लुतता । त इत्यकारस्य तु 'दूरादाबान टेः प्लुतः' इत्यनेन प्लुतसंज्ञा । प्रकृतर्मूलरूपस्य भवनं प्रकृतिभावः ॥ इति सुबोधिन्यां प्रकृतिभावः ॥
(तत्त्वदी० )-गुरोरनृत इति ॥ अपिशब्दो गुरोरगुरोश्च टेः प्लुतार्थः॥ श्रीविद्यानगरस्थायी क्षेमकरसुतोऽकरोत् । श्रीलोकेशकरो व्याख्यां संध्यभावस्य सत्तमाम् ।।
- इति तत्वदीपिकायां प्रकृतिभावः ॥
अथ हससन्धिः । -- (चपा अबे जबाः) पदान्ते वर्तमानाश्चपा जबा भवन्त्यबे परे ॥ षडत्र । वाग्यथा ॥
(सुबोधिनी)-चपा अबे जबाः॥ पदान्त इत्यनुवर्तते । पदान्ते वर्गप्रथमास्तृतीया भवन्त्यवे परे ॥ पदान्ते किम् । वाचौ । भवन्तौ । बहुवचनं सर्वव्यक्तिषु तात्पर्यवोधनार्थम् ॥