________________
[ हससंधिः ]
टीकाद्वयोपेता। (३५) ( तत्त्वदी०)-चपा अबे जवाः ॥ अत्र लघुभाष्यम् । झपा इति पाठ्यम् । समिदत्र ककुबत्र अग्निमदासनमित्यादावव्याप्तिर्यथा न स्यात् । यद्वा अबे जबा इत्येव कर्तव्यम् । पदान्त इत्यनुवर्तते । पदान्ते वर्तमानस्य जबा भवन्त्यबे परे इत्यर्थः ॥ स्वराणां पूर्व विधयो बाधकाः । हसानां तूत्तरविधय इति । अत्रोच्यते । तयागताः पटविहेत्यादौ अतिप्रसङ्गवारणाय तावत् अन्यतरद्वक्तव्यम् । तत्र व्यक्तिलाघवाच्चपग्रहणमेव कर्तव्यम् । न चोक्तदोषः 'वाऽवसाने' इतीष्टसिद्धेः । अवसानं किमिति चेत् अन्त एवेति गृहाण ॥ विद्यावसानमित्यादिप्रयोगदर्शनात् । अत्रार्थे चपग्रहणस्यापि मानत्वात् इति । अत्रेदमवधेयम् । 'वाऽवसाने' इत्यत्रावसानशब्दस्यान्तवाचकता नोचिता । 'विरामोऽवसानम्' इत्यनेन वर्णाभावस्यावसानसंज्ञां कुर्वता सूत्रकारेण विरुद्धत्वात् । किं चैवं भवत्पुत्रः बृहत्फणी महत्खण्डन इत्यादिषु 'वाऽवसाने' इत्यनेन पक्षे दकारश्रवणापत्तेः । न चेष्टापत्तिः तदसाधुत्वस्य सर्वत्र दर्शनात् । न च ककुबत्रेत्यादौ अव्याप्तिपरिहारः कथमिति चेत् । इत्थम् । 'नमे ञमा वा' इत्यत्र व्यवस्थितविभाषाश्रयणात् झपानामपि जबा नमाश्च भवन्तीति व्याख्यानात् । तन्मयमित्यादौ जमकरणार्थ प्रत्यये जमे जबस्यापीति भवद्भिरपि व्यवस्थितविभाषाश्रयणस्य स्वीकृतत्वात् । अथ भवत्पुत्र इत्यादौ 'खसे चपा झसानाम्' इति सूत्रेण पाक्षिकदकारस्यापि तत्वेन रूपसिद्धिरिति चत्सत्यम् । खसे चपा झसानाम्' इति सूत्रं प्रति तु 'वाऽवसाने' इत्यस्य बहिरङ्गत्वेनासिद्धत्वात्। किं च तच्छिव इत्यत्र तदो 'वाऽवसाने' इति चर्वे कृते पश्चाच्छिव इत्यनेन संबन्धे 'झलां जशोऽन्ते' इति जश्त्वे 'खरि च' इति चलमिति व्याकुर्वतां कृष्णपण्डितानां मते भाविन्यवसानभङ्गे अकृतव्यूहपरिभाषया कृतमभिशास्त्रं निवर्तयन्तीत्यनया वा 'वाऽवसाने' इत्यस्याप्रवृत्तेरित्युक्त्या दूषयता भट्टोजिदीक्षितानां मतेनातिविरोधात् इति दिक् ॥ अवग्रहणं किम् । जगत्सर्वमित्यादौ खसे मा भूत् । अथ तत्र ‘खसे चपा झसानाम्' इत्यस्यैव प्रवृत्तिरिति चेत्तर्हि उत्तरार्थमबग्रहणं स्पष्टार्थमिहैव कृतम् ॥ पदान्त इति किम् । त्वचौ ॥
(अमेञमा वा ) पदान्ते वर्तमानाश्चपा बमे परे जमा वा भवन्ति॥ पण्मम षड्मम । वाङ्मथुरा-वाग्मधुरा ॥
(सुबोधिनी)-अमेञमा वा॥ पदान्ते इत्यनुवर्तते । पदान्ते वर्गप्रथमाः पञ्चमा स्युः पञ्चमे परे॥पदान्ते किम्। वच्मि । पाप्मा। यत्नः। पक्षे तृतीयाश्चपा अबेजबा इत्यनेनैव॥
(तत्त्वदी० )-अमेञमा वेति ॥ अत्रापि पदान्त इत्यनुवर्तते । तेन वच्मीत्यादौ न। वाशब्दोऽत्र व्यवस्थावाची । तेन क्वचित् झपानामपि जमा भवन्ति । प्रत्यये च नित्यतालाभः। यत्तु कैश्चिन्मयटि नित्यमित्युक्तं तद्भाष्यविरोधादुपेक्ष्यम् ॥ चपा इति किम् । विष्णो मां रक्षेत्यादौ स्वरस्य मा भूत् ॥
(प्रत्यये जमे जबस्यापि नित्यम् ) तन्मयम् । चिन्मात्रम् ॥ (सुबोधिनी )-प्रत्यये अमेजबस्यापि नित्यम् ॥वर्गतृतीयानां पञ्चमा भवन्ति